०४ सुवर्णस्य पार्थिवत्वसमर्थनम्

अन्यस्त्वाह– सुवर्णं द्रव्यान्तरमेव

अथ सुवर्णस्य पार्थिवत्वसमर्थनम् ।

तर्कताण्डवम्

अन्यस्त्वाह–

सुवर्णं द्रव्यान्तरमेव । तथा हि द्रवत्वाधिकरणं न तेजः पीतत्वात् । न च पीतत्वात्पार्थिवमेवास्त्विति वाच्यम् । पृथिव्याः शुक्लरूपवत्त्वेऽपि शुक्लरूपस्य जलस्य सांसिद्धिकद्रवत्वादिनेव सुवर्णस्य पीतत्वेऽप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पृथिवीतो वैलक्षण्य-सम्भवात् ।

न च पृथिवीजलान्यत्वे सति रूपवत्त्वात्तेजः । अप्रयोजकत्वात् । अन्यथा जलतेजोन्यत्वे सति स्पर्शवत्त्वेन वायुरपि पृथिवी स्यात् । न च पृथिव्येवास्तु धर्मिकल्पनातो धर्मकल्पनाया लघुत्वादिति वाच्यम् । द्रव्यान्तरत्वपक्षेऽपि धर्मिणः सुवर्णस्य सिद्धत्वे-नाति-रिक्तत्वमात्रस्य कल्पनादिति ॥

एतदपि प्रागेव निरस्तम् । द्रवत्वोच्छेदप्रतिबन्धस्य कर-कादाविवादृष्टविशेषादेवोपपत्त्या पीतस्य पृथिवीभेदायोगात् । अन्यथा करकोऽपि द्रव्यान्तरं स्यात् ॥

यदि च जलत्वव्याप्यधर्मदर्शनात्करको जलं, तर्हि स्वर्णमपि पृथिवीत्वव्याप्यपीतत्वदर्शनात्पृथिव्येवास्तु । अन्यथा पीतत्वान्न तेज इत्यपि न युक्तम् । पीतत्वस्य तेजोऽन्यत्वेनेव पृथिवीत्वेनापि व्याप्ति-ग्रहात् ॥

न्यायदीपः

॥ द्रव्यान्तरमेवेति ॥ नवद्रव्यातिरिक्तमित्यर्थः । पृथिव्या इत्यादे-रयमर्थः । यथा पृथिवीजलयोर् द्वयोः शुक्लरूपत्वेनाविशेषेपि नैमित्तिकसां-सिद्धिकद्रवत्ववत्त्वभेदेन वैलक्षिण्यं तथा पीतत्त्वाविशेषेऽपि द्रवत्वोच्छित्त्यनु-च्छित्तिभेदाद्वैलक्षण्यमिति प्रागुक्तमण्यादिमतं निराह ॥ नचेति ॥ तेज इति ॥ सुवर्णमित्यनुकर्षः । एवं पृथिव्येवास्तु इत्यत्रापि ॥ धर्मीति ॥ द्रव्यान्तररूपधर्मिकल्पनापेक्षया कप्तपृथिवीत्वमेवोपादाय तस्यैव द्रवत्वानु-च्छेदरूपधर्मकल्पनाया लघुत्वादित्यर्थः । इतिपदस्याहेति पूर्वेणान्वयः ।

॥ प्रागेवेति ॥ १उदयनाद्युक्तभङ्ग एवेत्यर्थः ॥ पृथिवीभेदेति ॥ पृथिवीतो भेदेत्यर्थः ॥ जलत्वव्याप्येति ॥ शुक्लरूपवद्द्रवत्वादिकमित्यर्थः ॥ अन्यथेति ॥ पीतत्वस्य पृथिवीत्वाव्यप्यत्व इत्यर्थः ।