०३ सुवर्णस्य तैजसत्वे मण्याद्युक्तप्रकारद्वयभङ्गः

यदपि मणौ लीलावत्युक्तं मतम्

अथ सुवर्णस्य तैजसत्वे मण्याद्युक्तप्रकारद्वयभङ्गः ।

तर्कताण्डवं

यदपि मणौ लीलावत्युक्तं मतम् । अत्यन्ताग्निसंयोगे१-नानुच्छिद्यमानद्रवत्वाधिकरणं रूपवद् बहिरिन्द्रियप्रत्यक्षद्रव्यत्वात्, पृथिव्यादित्रयान्तर्गतं च १रूपत्वात्, तत्रापि न जलम् पूर्वोक्त-हेतुद्वयात्, नापि पार्थिवम् असति द्रवद्रव्यसम्बन्धेऽत्यन्ताग्नि-संयोगेऽप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात्, जलवदिति परिशेषा-त्तेजस्त्वसिद्धिरिति ।

तन्न । सुवर्णे द्रुतद्रुततरत्वादेः क्रमशः प्रतीत्या द्रवत्वानुच्छेदस्य असिद्धेः । न च द्रवत्वप्रागभावासमानाधिकरणध्वंसाप्रतियोगि-द्रवत्वाधिकरणत्वं हेतुः, स च नासिद्ध इति वाच्यम् । प्रबला-नसंयोगेन द्रव्यस्य नष्टतया द्रवत्वध्वंसस्य द्रवत्वप्रागभावा-समानाधिकरणत्वेन हेत्वसिद्धेः ॥

न्यायदीपः

॥ मतमुक्तमिति ॥ नवीनास्त्वित्यादिनोक्तमित्यर्थः । तदर्थं निष्कृष्यानुवदति ॥ अत्यन्तेति ॥ अधिकरणमित्यन्तं पक्षः । सुवर्ण-रजतताम्रादिकं विशेष्यं ध्येयम् । रूपवदिति साध्यम् । आश्रयासिद्धि-निरासाय सत्यन्तम् । जीवात्मनि गगने रूपादौ चाव्यभिचाराय बहि-रिन्द्रियेति प्रत्येक्षेति द्रव्यत्वादिति च हेतावुक्तिः । अस्मिन्नेव पक्षनिर्देशे साध्यहेत्वन्तरे आह ॥ पृथिव्यादीति ॥ रूपित्वहेतोरसिद्धिनिरासाय पूर्वप्रयोगः ॥ तत्रापीति ॥ पृथिव्यादित्रयान्तर्गतत्वेऽपीत्यर्थः ॥ पूर्वो-क्तेति ॥ नैमित्तिकद्रवत्ववत्त्वात्, स्नेहशून्यत्वाच्च, स्नेहवत्त्वे तदधीन-सङ्ग्रहप्रसङ्गादिति पूर्वभङ्गोक्तहेतुद्वयादित्यर्थः । लाक्षावदिति भावः ॥

॥ नापि पार्थिवमिति ॥ उक्तरूपद्रवत्वाधिकरणं वस्त्वित्यनुषङ्गः । अत्रासति द्रवद्रव्यसम्बन्ध इति पक्षो विशेषणीयः । तेन क्वथ्यमानजल-मध्यस्थघृतादौनबाधः । १घटादावव्यभिचाराय हेतावसति द्रवद्रव्यसम्बन्ध इत्युक्तिः । असिद्धिनिरासायात्यन्ताग्निसंयोगेऽपीत्युक्तिः । अप्रयोजकत्व-निरासायानुच्छिद्यमानेति । यद्वा लाक्षाघृतादावव्यभिचारायानुच्छिद्य-मानेत्युक्तिः ॥

असिद्ध्युद्धारं मण्युक्तमाशङ्क्य निराह ॥ न च द्रवत्वेति ॥ एकस्य द्रवत्वस्य नाशे पूर्वपूर्वस्मादुत्कृष्टोत्कृष्टतरोत्कृष्टतमद्रवत्वानामुत्तरोत्तरेषां तत्र जायमानत्वेन पूर्वपूर्वद्रव्यत्वध्वंसस्योत्तरोत्तरद्रवत्वप्रागभावसमानाधिकरणत्वेन तदसमानाधिकरणध्वंसाप्रतियोगित्वाद्द्रवत्वानां तादृशद्रवत्वाधिकरणत्वं नासिद्धमित्यर्थः ॥ नष्टतयेति ॥ २पीलुपाकप्रक्रियावयवक्रियया तत्संयोगनाशेन परमाणुद्रव्यनाशे सति पुनर्भोजकादृष्टेन परमाणुक्रियया तत्संयोगद्वारा द्रव्यान्तराणामुत्पत्तेस्तत्रोपगमादिति भावः ॥


अथ सुवर्णद्रवत्वमाश्रयनाशान्नश्यति न त्वग्निसंयोगात्

तर्कताण्डवम्

अथ सुवर्णद्रवत्वमाश्रयनाशान्नश्यति न त्वग्निसंयोगात् । तथात्वे घृत इव द्रवत्वान्तरं नोत्पद्येत । एवं चाग्निसंयोगे सत्यपि तद्धेतुक-नाशाप्रतियोगिद्रवत्वाधिकरणत्वं हेतुः स च नासिद्ध इति चेन्न । तथाप्युपष्टम्भके पीते पार्थिवे उक्तरूपस्य द्रवत्वानुच्छेदस्य दर्शनेन व्यभिचारात् ॥

न्यायदीपः

मण्युक्तमेवासिद्धिशून्यहेत्वन्तरमाशङ्कते ॥ अथेत्यादिना ॥ अग्नि-संयोग इति ॥ आश्रयानाशाद्यत्र घृते द्रवत्वानाशस्तत्राव्यभिचाराय सत्यन्तम् ॥ तथापीति ॥ असिद्ध्यभावेऽपीत्यर्थः । पार्थिवत्वोपपादनाय पीतेत्युक्तिः । साध्याभावोपपादनाय पार्थिव इत्युक्तिः ।