अत्र मणावुदयनोक्तं मतमुक्तं– ‘‘अवश्यं भागान्तरं स्वीकार्यम्
॥ सुवर्णस्योदयनाद्युक्तार्थापत्तेः पञ्चधान्यथोपपत्तिसमर्थनम्
तर्कताण्डवम्
अत्र मणावुदयनोक्तं मतमुक्तं–
‘‘अवश्यं भागान्तरं स्वीकार्यम् । अत्यन्तानलसंयोगिरूपाधि-करणं पार्थिवं पूर्वरूपविजातीयरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तम् अत्यन्ता-नसंयुक्तत्वे सति पूर्वरूपविजातीयरूपानधिकरणपार्थिवत्वात् । १क्वाथ्यमानजलमध्यस्थपटवदित्यनुमानात् ।
न चाप्रयोजकम् । द्रवद्रव्यसम्बन्धं विना पार्थिवेऽप्यत्यन्ता-नसंयोगस्य पूर्वरूपविजातीयरूपजनकत्वनियमात् ।
तच्च द्रवद्रव्यं न जलं नैमित्तिकद्रवत्ववत्त्वात् स्नेहशून्यत्वाच्च, स्नेहवत्त्वे तदधीनसङ्ग्रहप्रसङ्गात्, नापि पार्थिवं दाहविरोधित्वात्, तद्द्रव्यं रूपवच्च द्रवत्ववत्त्वादेव, तैजसं च पृथिवीजलान्यत्वे सति रूपवत्त्वादिति धर्मिग्राहकमानसिद्धं तेजस्त्वम्’’ इति ॥
न्यायदीपः
एवं सुवर्णस्य पार्थिवत्वे प्रयुक्तहेतूनामसिद्धिसिद्धसाधनतयोर्निरासाय तत्र पराभिमतभागान्तरे अनुपलब्धिबाधमुक्त्वा तत्साधकतया पराभिमतानुमान- मप्यनूद्य निराह ॥ अत्रेत्यादिना ॥ मण्युक्तस्य निरासेन प्राचीनमतं च प्रत्युक्तमिति ज्ञापनायोक्तम् ॥ मणावुदयनोक्तमतमुक्तमिति ॥ प्रत्यक्ष-खण्डे सुवर्णतैजसवादे एतत्प्रयोगोक्त्यनन्तरमित्याचार्योक्तेरिति मणावुक्तेरिति भावः ॥ भागान्तरमिति ॥ सुवर्णे पार्थिवभागसम्पृक्तं भागान्तरमित्यर्थः । तथा च तत्र प्रागुक्तहेतवोऽसिद्धा इति भावः ।
॥ अत्यन्तेति ॥ पार्थिवमित्यन्तं पक्षः । पार्थिवमित्येवोक्ते घटादौ बाधः । तन्निरासायात्यन्तेत्यादिविशेषणम् । तादृशस्यामघटादौ बाधा-सिद्ध्योर्निरासाय पीतरूपाधिकरणमिति । आपादकदशायाम् अबाधायात्यन्ता-नसंयोगीति । पार्थिवमिति स्वरूपोक्तिः । जलपरमाण्वादिसंयुक्त-त्वेनार्थान्तरनिरासाय साध्ये प्रतिबन्धकान्तरोक्तिः । स्वावयवावयव एव पूर्वरूपपरावृत्तिप्रतिबन्धकोस्तु । तथा च तत्संयुक्तत्वेनार्थान्तरवारणाय द्रवद्रव्येत्युक्तिः । स्वावयवावयवस्तु न द्रवद्रव्यमित्याहुः ।
स्तम्भादावव्यभिचाराय हेतौ सत्यन्तम् । पच्यमानघटादावव्यभिचाराय पूर्वरूपविजातीयरूपानधिकरणेति विशेषणम् । जले व्यभिचारवारणाय पार्थिवत्वादित्युक्तिः । दृष्टान्तेऽत्यन्तानेत्यादिहेत्वंशोपपादनाय क्वथ्य-मानेत्युक्तिः । साध्योपपादनाय जलमध्यस्थेत्युक्तिः । जलमध्यस्थेत्युक्त्यैव पूर्वरूपविजातीयरूपानधिकरणस्य स्फुटत्वात्पार्थिवत्वलाभाय घटवदित्युक्तिः ॥ अप्रयोजकमिति ॥ अनुमानमित्यन्वयः ॥
नन्वेतावता द्रवद्रव्यं तैजसमिति कुत इत्यतः परिशेषादिति भावेनाह ॥ तच्चेति ॥ सङ्ग्रहेति ॥ यथा जलं पार्थिवरजांसि पिण्डीभूततया सङ्गृह्णाति, एवं द्रवीभूतं सुवर्णं न सङ्गृह्णाति किञ्चिदिति १न स्नेहरूप-चिक्कणतालक्षणजलासाधारणधर्माभावान्न जलमित्यर्थः ।
॥ नापीति ॥ तच्च द्रवद्रव्यं पार्थिवं न भवति । पार्थिवस्य स्वसंयुक्तोपष्टम्भकभागे यो भस्मीभावलक्षणो दाहस्तदविरोधित्वादस्य च द्रवद्रव्यस्य तद्विरोधित्वादित्यर्थः ॥
तर्हि तद्द्रव्यं वाय्वादिरूपं कुतो नेत्यत आह ॥ रूपवच्चेति ॥ तत्र हेतुमाह ॥ द्रवत्ववत्त्वादिति ॥ जलवदिति भावः ॥ तैजसं चेति ॥ द्रव्यमित्यनुषङ्गः ।
ननु तेजोन्तरे नैमित्तिकद्रवत्वविजातीयरूपे प्रतिबन्धकत्वयोरदृष्टेरत्र कथं तदधिकरणस्य तैजसत्वकल्पनमित्यत आह ॥ इति धर्मिग्राहकेति ॥ दाहविरोधित्वनैमित्तिकद्रवत्व२रूपत्वहेतुभिः सहकृतप्राचीनेन द्रवद्रव्य-संयुक्तत्वसाधकेनानुमानेन सिद्धमित्यर्थः ॥
तन्न
तर्कताण्डवं
तन्न । त्वदुक्तं रूपापरावृत्तिरूपं लिङ्गं हि रूपपरावृत्ति- प्रतिबन्धककिञ्चिद्वत्वेनैवोपपन्नं सन्न प्रतिबन्धकस्य द्रवत्वपर्यन्तं धावति । येन द्रवत्ववतो रूपित्वमित्यादित्वदुक्तरीत्या तेजस्त्वं सिध्येत् । सम्भवति चेह कप्तं प्रतिबन्धकान्तरम् । करकादौ सांसिद्धिकद्रवत्वस्येवात्यन्तानसंयुक्ते पार्थिवे वज्रे पूर्वरूपविजातीय-रूपस्येव३ सुवर्णेऽपि विजातीयरूपस्य भोजकादृष्टविशेषादेव प्रतिबन्धोपपत्तेः ।
अन्यथा करकादौ द्रवत्वप्रतिबन्धकं कठिनं भागान्तरं वज्रेऽपि रूपपरावृत्तिप्रतिबन्धकं द्रुतं भागान्तरं कल्प्यं स्यात् । तत्र वज्रा-द्यतिरिक्तं भागान्तरमनुपलब्धिबाधितं चेदिहापि पीतिमाश्रयातिरिक्तं द्रुतमनुपलब्धिबाधितमिति समम् । स्वीकृतं च त्वयाऽपि तेजोऽन्तरेऽ-दृष्टमप्यग्निसंयोगाद् द्रवत्वमदृष्टविशेषोपबन्धात्तेजोरूपे सुवर्णे ॥ (१)
न्यायदीपः
आद्यानुमाने हेतोरुक्तसाध्येन विनाऽन्यथोपपत्त्याऽप्रयोजकत्वेन धर्मि-ग्राहकमानं निराह ॥ त्वदुक्तमित्यादिना ॥ ननु द्रवत्वहीनमन्यत्तादृश-प्रतिबन्धकं वस्तु नास्त्येवेत्यत आह ॥ सम्भवति चेति ॥ किं तददृष्टं चेत्कथं च प्रतिबन्धकता क्वाप्यदृष्टेरित्यतो दृष्टान्तपूर्वं व्यनक्ति ॥ करकेति ॥ नन्वदृष्टं दृष्टसामग्रीसम्पत्तावेवोपयुक्तमुपलब्धं न तु किञ्चित्करमित्यत आह ॥ स्वीकृतं चेति ॥