सुवर्णं तु न द्रव्यान्तरं, नापि तैजसं, किन्तु पार्थिवमेव
अथ परमते सुवर्णस्य योग्यानुपलब्धिबाधः ।
सुवर्णवादः
तर्कताण्डवं
सुवर्णं तु न द्रव्यान्तरं, नापि तैजसं, किन्तु पार्थिवमेव । पीत-त्वात् । २अजलत्वे सति गुरुत्वात् । नैमित्तिकद्रवत्वाधिकरणत्वाच्च । घृतादिवदित्याद्यनुमानात् ।
‘‘दिव्यं पार्थिवं ३वस्तु’’ इत्यादिश्रुतेश्च । जम्बूनदीरोधसो मृत्तिका जम्बूफलरसानुविध्यमाना वाय्वर्कसंयोगविपाकेन जाम्बूनदं नाम सुवर्णं भवतीति, तावती भूमिः काञ्चन्यादर्शतोपमेत्यादिभागवतादि-वचनाच्च ॥
‘‘अग्नेः प्रजातं प्रथमं हिरण्यम्’’ इति श्रुतिस्त्वग्नेराप इत्यादि-श्रुतिवदग्नेर्हिरण्यनिमित्तत्वमाह । न तु हिरण्यस्य अग्न्यात्मकताम् ॥
न्यायदीपः
तमोवत्सुवर्णमपि नवभ्यो द्रव्यान्तरं किमित्यत आह–॥ सुवर्णन्त्विति ॥ न्यायमत इव तेजस्यन्तर्भावः किन्नेत्याह ॥ नापीति ॥ १तैजसमिति ॥ पयस्यव्यभिचारायैव जलान्यत्वे सतीति नैमित्तिकेति चोक्तिः । अनुमानानुग्राहकश्रुत्याद्याह ॥ दिव्यमिति ॥
‘‘यत्सोमचित्रमुक्थ्यं दिव्यं पार्थिवं वसु । तन्नः पुनान आभर’’
इति बह्वृचशाखायां श्रवणादित्यर्थः ॥
पञ्चमस्कन्धवाक्यान्याह ॥ जाम्बूनदीति ॥ मेरुसमीपस्था । काचिन्नदी तत्तीरयोर्मृत्तिकेत्यर्थः । पूर्ववाक्योक्तस्यानुवादो जाम्बूनदीति । २अन्यसमं यावन्मानसोत्तरमेर्वोरन्तरं तावतीति षण्णवतिलक्षयोजनपरिमिता काञ्चनी सुवर्णमयी दर्पणतलवदतिश्लक्ष्णतमेति स्वादूदकसमुद्रात्परतो लोकालोकपर्वतादर्वाग्भागभूमिरित्यर्थः । परोक्तश्रुतिगतिमाह ॥ अग्नेरिति ॥
ननु पीतरूपगुरुत्वाश्रया३विनिर्भागवर्ति तैजसं भागान्तरमेव सुवर्णम्
तर्कताण्डवं
ननु पीतरूपगुरुत्वाश्रया३विनिर्भागवर्ति तैजसं भागान्तरमेव सुवर्णम् । तत्र च पीतत्वादिकमसिद्धमिति चेन्न । तादृशभागान्तर-स्याननुभवात् । तत्कल्पकस्य चाभावात् । न चानुद्भूत४स्पर्श-वत्त्वान्नानुभवः । त्वन्मते सुवर्णरूपस्योद्भूतत्वेन अपसिद्धान्तात् ॥
न च सोऽपि भागश्चक्षुषा सुवर्णत्वेनानुभूयते, तस्य शुक्लभास्वररूपं तूपष्टम्भकपीतरूपाभिभूतत्वान्नानुभूयत इति वाच्यम् । पार्थिवरूपेण तेजोरूपाभिभवे घटादिरूपेण तत्प्रकाशकालोकरूपाभिभवापातात् ॥
न्यायदीपः
सुवर्णं द्विभागम् । तत्र पार्थिवभागपक्षीकारे सिद्धसाधनम् । भागान्तर-पक्षीकारे हेतूनामसिद्धिरिति भावेन शङ्कते ॥ नन्विति ॥ नैमित्तिकद्रव्य-त्वाश्रयेत्यपि ज्ञेयम् ॥ अवनिभागवर्तीति ॥ संश्लिष्टतया वर्तमानेत्यर्थः ॥
शुक्लभास्वरोष्णस्पर्शवद्द्रव्याननुभवेऽप्यनुमीयत इत्यत आह ॥ तत्कल्पकस्येति ॥ तथाचैक एव भाग इति तस्यैव च पक्षत्वान्नासिद्धिः । अन्यथा घटादावपि भागान्तरकल्पनेन तैजसत्वादिकल्पनं तत्रापि स्यादिति भावः ।
अननुभवस्यान्यथासिद्धिमाशङ्क्य निराह ॥ नचेति ॥ किं रूपानुभवो नेत्युच्यते अथ द्रव्यानुभवः । आद्य आह ॥ त्वन्मत इति ॥ रूपं सुवर्णस्योद्भूतमेवेति मण्युक्तेरिति भावः ।