यथा शक्तिः पदार्थान्तरमेवं तमो द्रव्यान्तरम्
अथ तमसो द्रव्यत्वसाधनम् ।
तमो द्रव्यान्तरम्
तर्कताण्डवं
यथा शक्तिः पदार्थान्तरमेवं तमो द्रव्यान्तरम् । तमो द्रव्यं रूपि-त्वात् क्रियाऽऽश्रयत्वात् परिमाणादियुक्तत्वाच्च घटवदित्यनुमानात् ॥
न्यायदीपः
प्रसङ्गादाह ॥ यथेति ॥ पदार्थान्तरमिति ॥ १द्रव्यगुणकर्मसामान्य-समवायरूपपदार्थादन्यः पदार्थस्तथा २तदन्योऽपि पृथिव्यादिद्रव्यनवकादन्यद् द्रव्यमित्यर्थः ॥
एतेन तमसो द्रव्यत्वे पृथिव्यादिनवकान्तर्भावो वाच्यः । स च न युक्तः । गन्धरसभास्वररूपस्पर्शशब्दहीनत्वेन भूतपञ्चकान्तर्भावायोगात् । अनित्यत्वेन नित्यवस्त्वन्तर्भावायोगादिति निरस्तम् । अतिरिक्तद्रव्य-त्वोपपत्तेः ॥
अन्तर्भावः शक्यश्चेदित्याद्यग्रेतनवाक्यं त्वनास्थे३यमिति ध्येयम् । ४इत्यनुवादमहिम्नैव शक्तेरपि षट्पदार्थान्तर्भावानुपपत्तिबाधकं प्रत्युक्तं ध्येयम् । मणौ तमसो द्रव्यत्वाभावस्या५चिन्त्यत्वेऽपि शशधरादौ चिन्ति-तत्वात् । तत्खण्डनेन नविलक्षणत्वाधिकरणे प्राकृतेन्द्रियमनोभेदा-दित्येतद्व्याख्यानसुधायां मनो नित्यं स्पर्शरहितद्रव्यत्वादित्यत्र तमसा-स्माकमनैकान्त्यादित्युक्तहेतुसमर्थनार्थोयं प्रयत्नः ।
क्रियाऽश्रयत्वादित्ययं च हेतुर्द्रव्यत्वसाधकः पररीत्यैव बोध्यः । तेन मिथ्यात्वानुमानटीकाभावप्रकाशिकायां, ‘‘गुणाद्वालोकवत्’’ इत्यत्र चन्द्रिकायां च गुणादावपि क्रियावत्त्वसाधनान्न व्यभिचारः शङ्क्यः । परिमाणा-दीत्यादिपदेन गृह्यमाणत्वपङ्कभूतत्वपाट्यमानत्वादिग्रहः ।
न चासिद्धिः
तर्कताण्डवं
न चासिद्धिः । नीलं तमश् छाया गच्छतीत्य१बाधितप्रत्ययात् । रामायणे हनूमच्छायायां ‘‘वायुपुत्रानुगामिनी’’ इत्यनेन क्रियायाः, ‘‘दशयोजनविस्तीर्णा’’ इत्यादिना परिमाणस्य ‘‘छायायां सङ्गृहीतायां’’ इत्यादिना ग्रहणस्य चोक्तेश्च ॥
त्वन्मते आलोकाभावत्वमेव तमस्त्वमिति तमस्त्वेन प्रतीते २नैल्यारोपायोगाच्च । दोषाभावेनारोपायोगाच्च ।
न्यायदीपः
॥ छायेति ॥ तस्यास्तमस्त्वस्य सर्वसम्मतेस् तत्र क्रिया प्रत्यक्षसिद्धा । च्छाया हस्तचतुष्टयपरिमितेत्यादिपरिमाणप्रतीतिरादिपदार्थः ॥ अबाधि-तेति ॥ कदाऽपि न नीलं तम इत्यादिविपरीतप्रत्ययाभावाद् यौक्तिकबाधस्य प्रत्यक्षप्रतीतितो दुर्बलत्वान्निरसिष्यमाणत्वाच्चेति भावः ॥
वचनेननापि क्रियावत्त्वादिकं व्यनक्ति ॥ रामायण इति ॥ वाय-पुत्रपदेन भीमभ्रान्तिनिरासायोक्तं हनुमच्छायायामिति । सुन्दरकाण्डे प्रथमसर्गे
‘‘श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी।
तस्य सा शुशुभे छाया वितता लवणाम्भसि’’इति ॥
तथा
‘‘छायायां सङ्गृहीतायां चिन्तयामास मारुतिः’’ ॥
इति वाल्मीक्युक्तेश्चेत्यर्थः । सङ्गृहीतायां छायाग्रहेणेति योज्यम् ॥
न केवलं नैल्यादिधियोऽबाधादेव प्रमात्वं विशेषदर्शनेन कारणाभावेन च भ्रमत्वायोगाच्च इत्याशयेनाह ॥ त्वन्मत इति ॥ न हि शुक्तित्वेन ज्ञाते रजतारोपो युक्त इति भावः ॥