०७ आधेयशक्तिः

एवमाधेयशक्तिरपि स्वीकार्या

आधेयशक्तिः

तर्कताण्डवम्

एवमाधेयशक्तिरपि स्वीकार्या । अन्यथा व्रीहीन् प्रोक्षतीत्यादौ प्रोक्षणजन्यस्य व्रीहिनिष्ठस्यातीन्द्रियस्येप्सितस्य अतिशयस्याभावेन व्रीहीनितीप्सितकर्मणि द्वितीया न स्यात् ।

न्यायदीपः

॥ एवमाधेयेति ॥ सहजशक्तिवत्कारणविशेषोत्पाद्याप्युपेयेत्यर्थः । यद्यपि सहजशक्तेरभावे विष्णावेव वेदस्य शक्तितात्पर्यरूपसमन्वयायोग-वदाधेयशक्त्यभावे काचिदपि हानिर्नास्ति,पदानि पदान्तरसन्निधानाहित-शक्त्यन्तराणि विशेषतोऽप्यन्वितान् स्वार्थनभिदधतीति पद्धतिवाक्यस्य अन्विताभिधानवादेऽग्रे गतेर्वक्ष्यमाणत्वेन विशेषान्वयतोऽप्याधेयशक्ते-रनपेक्षितत्वात् । तथाऽपि करणानां प्रमाजननस्वभावानामपि दोषेणाहित-शक्तिकानामप्रमाजनकत्वस्वीकारात्तथा प्रामाण्यग्रहणस्वभावस्यापि साक्षिणो विसंवादादिरूपपरीक्षाहितशक्तिकस्याप्रामाण्यग्राहकत्वस्वीकारात्संस्काराहित-शक्तिकस्य चक्षुरादेः प्रत्यभिज्ञाजनकत्वस्वीकारात् तदुपयोगितया तत्साधन-मित्यवधेयम् ॥

॥ व्रीहीनिति ॥ यदा हि ‘‘चतुरो मुष्टीर्निर्वपति’’ इति पुरोडाशार्थतया निरुप्तानां व्रीहीणां प्रोक्षणं विधीयते ‘‘व्रीहीन् प्रोक्षति’’ इति । आदिपदेन ‘‘अपः प्रणयति’’ इत्यादिग्रहः ॥ ईप्सितस्येति ॥ आप्तुमिष्टस्येत्यर्थः । आपव्याप्तावित्यस्य सन्प्रत्यये ‘‘आप्ज्ञप्यृधामीत्’’ इतीकारादेशे सति निष्ठायामीप्सितमिति रूपसम्पत्तेः ॥

॥ ईप्सितकर्मणीति ॥ कर्मकारकं तावद् द्विविधम् । ईप्सितमनीप्सितं च । ‘‘कर्तुरीप्सिततमं कर्म, तथायुक्तं चानीप्सितम्’’ इति पाणिन्युक्तेः । तत्राद्यं ग्रामं गच्छति व्रीहीन् प्रोक्षतीत्यादि । द्वितीयं तु विषं भुङ्क्त इत्यादि । अतस्तद्व्यावृत्त्यर्थमीप्सतकर्मणीत्युक्तम् ॥ द्वितीयेति ॥ ‘‘कर्मणि द्वितीया’’ इति सूत्रोक्ता द्वितीयाविभक्तिरित्यर्थः ॥


न च प्रोक्षणजन्यजलसंयोग एव व्रीहिनिष्ठोऽतिशयः

तर्कताण्डवं

न च प्रोक्षणजन्यजलसंयोग एव व्रीहिनिष्ठोऽतिशयः । क्षणिकस्य तस्य भाविकरणोत्पाद्यापूर्वानुपयोगित्वेन अनीप्सितत्वात् । संयोगा-वच्छिन्नक्रियायाः प्रोक्षणपदार्थत्वेन स्वस्यैव स्वजन्यत्वविरोधाच्च ।

न च धात्वर्थे संयोगादिरुपलक्षणमात्रमिति वाच्यम् । त्यजति-गच्छत्योः पर्यायत्वापत्तेः । ग्रामसंयोगविभागयोर् धात्वर्थाप्रवेशात् । १क्रियात्वमात्रस्य चोभयत्र साम्यात् ॥

न्यायदीपः

शशधरे मणौ चोक्तमाशङ्क्य निराह ॥ न चेति ॥ भाविकरणेति ॥ करणं यागः भावि च तत्करणोत्पत्त्यपूर्वं१ च तदनुपयोगित्वेनेत्यर्थः । प्रोक्षितव्रीहयो हि अवघातादिद्वारा पुरोडाशं निर्वर्त्य २तत्साधकयागक्रिया-जन्योत्पत्त्यपूर्वे उपयुज्यन्ते । सन्निपात्यङ्गत्वात्तच्च व्यवहितो तत्कालभावीति कथं तदुपयोगः । तदुपयोगाभावे ईप्सितं न स्यादिति भावः ।

॥ धात्वर्थ इति ॥ प्रोक्षणादिरूपधात्वर्थ इत्यर्थः ॥ संयोगादि-रेवेति ॥ विभाग आदिपदार्थः । ग्रामं त्यजतीत्यत्र ग्रामविभागस्त्यजधात्वर्थे उपलक्षणमित्यर्थः ॥ त्यजतीति ॥ त्यज विसर्गे गम गताविति धात्वो-रित्यर्थः । अवच्छेदकीभूतसंयोगविभागयोरुपलक्षणत्वे क्रियामात्रस्योभयत्र धात्वर्थे सत्त्वादिति भावेनाह ॥ ग्रामेति ॥ एवमित्यस्य व्याख्या व्रीहीणा-मित्यादि । ग्रामस्य यथा तथेति भावः ।