०६ सहजशक्तिवादः

किञ्च, (१) संसार्यात्मा …

अथ सहजशक्तिवादः ।

तर्कताण्डवं

किञ्च,

(१) संसार्यात्मा अदृष्टात्मत्वेतरसकलस्वजन्यानुकूल-धर्मवान् आत्मत्वात् सत्त्वाज् ज्ञेयत्वाद्वा ईश्वरवत्,

(२) विमतो वह्निर्दाहानुकूलवह्नीतरानिरूप्यातीन्द्रिय१धर्मवान् दाहकारणत्वाद् आत्मवत् ॥

(३) करवह्निसंयोगो वा कार्यानुकूलभावभूतधर्मवान् कारणत्वाज् ज्ञेयत्वाच्च आत्मवदित्याद्यनुमानैरतीन्द्रियशक्तिसिद्धिः ॥

न्यायदीपः

यदपि मणौ‘‘मा भूदर्थापत्तिः शक्तौ मानम् । अनुमानं तु स्यात्’’ इत्यादिना कानिचिदनुमानान्याशङ्क्याप्रयोजकत्वादिना निरस्यानुमानमपि शक्तौ न मानमित्युक्तम् । तन्न । प्रकारान्तरेण शक्तावनवद्यानुमानसम्भवादनुकूल-तर्कसम्भवाच्चेति भावेनाह ॥ किञ्चेति ॥ इत्याद्यनुमानैरपि शक्तिसिद्धि-रित्यन्वयः । ईश्वरांशे सिद्धत्ववारणाय संसारीत्युक्तिः । तस्यादृष्टात्मत्वेतर-सकलस्वजन्यानुकूलज्ञानेच्छाकृतिरूपधर्मवत्त्वात् ॥ अदृष्टेति ॥ अदृष्टं चात्मात्वं च ताभ्यामितरः सकलानि यानि स्वजन्यात्मकार्याणि तदनुकूलश्च यो धर्मस्तद्वानित्यर्थः । अदृष्टस्यात्मत्वस्य च सकलस्वजन्यानुकूलधर्मत्वा-त्तदादाय अर्थान्तरवारणायादृष्टात्मत्वेतरेत्युक्तम् ॥

न चानुकूलत्वं जनकत्वं तच्चादृष्टस्यैव नात्मत्वस्य तस्य जनकता-वच्छेदकत्वादिति वाच्यम् । कार्याभावप्रयोजकाभावप्रतियोगित्वस्यैव तदानु-कूल्यस्याभिप्ररोतत्वात् तस्य च कारणतावच्छेदकोभयसाधारण्यात् । अत एव शक्तेरवच्छेदकत्वेऽपि न बाधशङ्का ॥

नचैवमप्यदृष्टस्य स्वमते मनोधर्मतयाऽऽत्मधर्मत्वाभावान्नार्थान्तरमिति वाच्यम् । स्वस्वामिसम्बन्धेन धनवत्त्ववददृष्टधर्मकत्वस्याप्यात्मनि सम्भवात् । पररीत्या परस्य साधनमित्यप्याहुः ॥

आत्मजन्येच्छादियत्किञ्चिदनुकूलज्ञानादिधर्मवत्त्वेनार्थान्तरवारणाय सकलेति स्वजन्यविशेषणम् । ज्ञानादेर्यावदात्मजन्याननुकूलत्वात् । सिद्धान्ते शक्तिशक्तिमतोरभेदेऽपि विशेषबलेन धर्मधर्मिभावस्यापि सत्त्वान्न बाधः । हेतुपक्षतावच्छेदकैक्यनिमित्तकसिद्धसाधनतानिरासाय हेत्वन्तरोक्तिः सत्त्वा-दिति ज्ञेयत्वादिति ॥ ईश्वरवदिति ॥ तत्र सकलस्वजन्यानुकूलधर्मो ज्ञानमिच्छा प्रयत्नश्च तस्य कार्यमात्रं प्रति हेतुत्वात्तद्वत्त्वेन दृष्टान्ते साध्यानु-गम इति भावः ॥

चेतने तत्सिद्धावप्यचेतने तु नेत्यतोऽचेतनेऽपि शक्तिं साधयति ॥ विमत इति ॥ दाह इति ॥ दाहानुकूलो वह्नीतराऽनिरूप्यातीन्द्रियो भावभूतो यो धर्मस्तद्वानित्यर्थः । तादृशो धर्मः शक्तिरेवेति भावः । दाहानु-कूलत्वं च दाहाभावप्रयोजकाभावप्रतियोगित्वं पूर्ववद्ध्येयम् । अतीन्द्रियत्वं च अस्मदादिप्रत्यक्षाविषयत्वं ध्येयम् । विशेषणानां कृत्यमग्रे व्यक्तम् ॥ आत्मवदिति ॥ तत्र तादृशादृष्टरूपधर्मवत्त्वेन साध्यानुगतिर्ध्येया ॥

गुणेऽपि तां साधयति ॥ करेति ॥ यद्वा वह्नीतरानिरूप्येति विशेष-णोपादनाद्गौरवं मन्वान आह ॥ करेति ॥ कार्येति ॥ स्वकार्येत्यर्थः । अतीन्द्रियेत्यपि ग्राह्यम् । तेनोक्तरूपसंयोगत्वे नार्थान्तरम् । आदिपदेन प्रतिबन्धदशाऽऽपन्नो वह्निर्दाहजनकदशावृत्तिकार्यानुकूलभावधर्मशून्यः दाहाजनकत्वात् तीक्ष्णकुठारात्१ कुण्ठकुठारवदित्यादिमण्युक्तग्रहः ॥


द्वितीयानुमाने दाहानुकूलपदं..

तर्कताण्डवं

द्वितीयानुमाने दाहानुकूलपदम् अननुकूलतादृशधर्मेण अर्थान्तरतां, वह्नीतरानिरूप्यपदमदृष्टवदात्मसंयोगप्रतिबन्धकाभावाभ्यामर्थान्तरतां, अतीन्द्रियपदं प्रत्यक्षोष्णस्पर्शेनार्थान्तरतां वारयितुम् ॥

हेतौ च दाहपदं घटादावव्यभिचाराय । न चात्रात्मत्वमुपाधिः । अदृष्टत्वस्य दाहानुकूलत्वेनादृष्टे साध्याव्यापकत्वात् ॥

नचादृष्टात्मान्यान्यत्वमुपाधिः । तादृशधर्मवत्त्वे साध्ये उक्तान्या-न्यत्वस्याप्रयोजकत्वेन साध्याव्यापकत्वात् ।

न्यायदीपः

प्रथमसाध्ये वक्तव्याभावादाह ॥ द्वितीय इति ॥ साध्य इति योज्यम् ॥ तादृशेति ॥ वह्नीतरानिरूप्येत्यादिरूपेत्यर्थः । दाहानुकूलेत्यनुक्तौ यत्किञ्चिदनभिमतधर्मसिद्ध्याऽप्युपपत्तेर् उद्देश्यसिद्ध्यर्थं तदिति भावः । यद्वा कर्मानुकूलस्थितस्थापकसंस्काररूपवह्निगतधर्ममादाय अर्थान्तरवारणाय दाहानुकूलपदमित्यर्थः । स्थितस्थापकगुणस्तु वह्निगतक्रियानुकूल एवेति भावः ॥ न चेति ॥ द्वितीयानुमान इत्यनुषङ्गः । जीवात्मन्यदृष्टवत्त्व-मादायेश्वरात्मनि च तादृशज्ञानादिधर्मवत्वमादाय साध्यव्यापकत्वात्साधनवति पक्षेऽभावेन साधनाव्यापकत्वादिति भावः ॥ अदृष्टत्वस्येति ॥ तस्य कारणतावच्छेदकत्वेन प्रागुक्तस्य कारणतावच्छेदकसाधारणानुकूलत्वस्य सत्त्वात्तादृशादृष्टत्वरूपधर्मवत्यदृष्टे आत्मत्वं नेति साध्याव्यापकत्वादित्यर्थः । स्वमते शक्तेरेव कारणतावच्छेदकत्वेऽपि अदृष्टत्वस्य नियामकत्वात् । न्यायमते तस्यैव कारणतावच्छेदकत्वाच्च ।

उक्तरूपसाध्यवत्यदृष्टेऽप्युपाधिसत्त्वलाभाय प्रकारान्तरेणोपाधिमाशङ्क्य निराह ॥ न चेति ॥ एवं चात्मन्यदृष्टे चोपाधेरपि सत्त्वान्न सध्या-व्यापकत्वमिति भावः ॥ अप्रयोजकत्वेनेति ॥ अस्तूक्तरूपं साध्यं माऽस्तूक्तरूपोपाधिरित्युक्ते विपक्षे बाधकाभावादिति भावः ॥