किञ्च शक्त्यभावे तृणारणिमणीनां..
अथ तृणारणिमणीनामेकशक्तिमत्त्वसाधनम् ।
तर्कताण्डवं
किञ्च शक्त्यभावे तृणारणिमणीनां वह्निजातीयरूपकार्येऽननुगमेन हेतुत्वं न युक्तमिति तेषामेकशक्तिमत्त्वेन अनुगमार्थं शक्तिः स्वीकार्या ॥
न च तृणादिर्वह्निविशेष एव हेतुर् वह्निसामान्ये तु स्पर्शविशेष-वदवयवादिरिति वाच्यम् ।
न्यायदीपः
१यद्यप्यनुमानखण्डे मणौ तृणारणिमणीनां वह्नौ कारणत्वेनैकशक्तिमत्त्व-मुपेयमित्यादिना शक्तिसिद्धिं पूर्वपक्षयित्वा तन्निराकरणं सिद्धान्तितम् । तदपि निराकृत्य शक्तिं साधयति ॥ किं चेति ॥ एवं२ क्वचिच्छक्तिसिद्धौ पदेऽपि तदनुमानं भविष्यतीति पूर्ववदभिप्राय ऊह्यः ।
॥ एकशक्तिमत्त्वेनेति ॥ एकजातीयकार्यानुकूलशक्तिमत्त्वेनेत्यर्थः । अन्यस्याभावादनुकूलत्वं च कार्याभावप्रयोजकाभावप्रतियोगित्वं कारण-तदवच्छेदकोभयसाधारणम् । तेन शक्तेरवच्छेदकत्वेऽपि नानुकूलत्वहानिः । एवं च शक्तीनां प्रतिव्यक्ति नानात्वेन तन्निष्ठानुगतजात्यैवैकजातीयशक्ति-मत्त्वेनानुगतेरावश्यकत्वाच्छक्तौ जातेश्च तद्व्यञ्जकसंस्थानविशेषादेरभावेनायोग इत्यादिदूषणानवकाशः । सिद्धान्ते जातेरभावाच्च ॥
यद्वा संसर्गानुगतैकैवास्तु१ । न चैवमेकतृणव्यक्तिनाशे आश्रयनाश-प्रयुक्तशक्तिनाशात् तृणान्तरादितः कार्याभावदोष इति वाच्यम् । आधेयशक्तिवादे वक्ष्यमाणदिशा समाधानसम्भवादित्याशयादित्याहुः ॥
वस्तुतस्तु एकशक्तिमत्त्वमित्यस्यैकजातीयशक्तिमत्त्वमित्येवार्थः । अनुगतजातेरभावेऽपि शक्तिव्याप्त्यादिग्रहसमर्थनवादे वक्ष्यमाणदिशा सदृशशक्तिमत्त्वस्यैवैकजातीयशक्तिमत्त्वशब्दार्थत्वात् । २तद्व्यभिचाराय तृणादेर्वह्निविशेष एव हेतुत्वं तर्हि तत्कार्ये३ वह्नित्वमाकस्मिकं स्यादित्यत आह ॥ वह्निसामान्य इति ॥ स्पर्शविशेषवन्त उष्णस्पर्शवन्तोऽवयवा इत्यर्थः । आदिपदेन तादृशद्रव्यादिग्रहः ॥
तृणादिजन्यवह्नौ हि जातिविशेषः न तावत्प्रदीपे..
तर्कताण्डवं
तृणादिजन्यवह्नौ हि जातिविशेषः न तावत्प्रदीपे४ दारुदहनादाविव गोमयवृश्चिकजन्यवृश्चिकेष्विव च प्रत्यक्षः । अननुभवात् । नापि कारणवैजात्यात् कल्प्यः । शक्त्यैव अन्यथासिद्धेः ।
न च तृणादिषु तत्तद्भावजनितानन्तशक्तिकल्पनाद्वह्नौ जातित्रय-कल्पनं लघीय इति वाच्यम् । जातित्रयकल्पनस्य योग्यानुप-लब्धिबाधितत्वात् । मन्मते शक्तिवज्जातेरपि प्रतिव्यक्तिभिन्नत्वाच्च ॥
न्यायदीपः
स किं विशेषः प्रत्यक्ष उत कल्प्य इति विकल्पौ क्रमेण निराह ॥ तृणेति ॥ दारुदहनेति ॥ काष्ठजन्यवह्नीत्यर्थः । आदिपदेन करीषाग्न्यादिग्रहः ॥ गोमयेति ॥ गोमयजन्येषु वृश्चिकजन्येष्वित्यर्थः ॥ शक्त्यैवेति ॥ तृणादेर्वह्निजातीयं प्रत्येकशक्तिमत्त्वेनैव कारणत्वोपपत्तौ कार्ये तत्तज्जन्यता-वच्छेदकजातित्रयकल्पनानुपपत्तेर्गौरवदोषाच्चेति भावः ॥
ननु शक्त्या जात्यपलापोऽयुक्तः । किन्तु वैपरीत्यमेव युक्तमिति भावेन मणिकृता सिद्धान्ते अभिहितं गौरवमाशङ्क्य निराह ॥ न चेति ॥ तत्तद्भावेति ॥ तृणादिव्यक्तीनामानन्त्येन तोषां तृणादीनां यानि भावकारणानि तज्जनितेत्यर्थः । प्रतिव्यक्ति शक्तेर्भिन्नत्वादानन्त्यं वह्नित्वावान्तरजातित्रय-कल्पनेऽतिलाघवमिति भावः ॥ योग्यवृत्तिजातेर्योग्यत्वनियमादाह ॥ योग्या-नुपलब्धीति ॥ शक्तेस्त्वतीन्द्रियत्वान्नायं दोष इति भावः ।
यत्तु मणौ तृणजन्यवह्निष्वनुगतमतिरेव तादृशजातौ मानमित्युक्तम् । तन्न । तृणजन्यत्वोपाधिनोपपत्तेरिति भावः ॥ मन्मत इति ॥ तथा च जातित्रयकल्पनेऽपि न लाघवमिति भावः ॥