०४ प्रतिबन्धकाभावस्य हेतुत्वे प्रकारचतुष्टयभङ्गः

किञ्च त्वन्मते विशिष्टं..

अथ प्रतिबन्धकाभावस्य हेतुत्वे प्रकारचतुष्टयभङ्गः ।

तर्कताण्डवं

किञ्च त्वन्मते विशिष्टं विशेषणविशेष्यतत्सम्बन्धातिरिक्तं नास्तीत्युत्तम्भकाभावविशिष्टप्रतिबन्धकाभावोऽपि क्वचिद्विशेषणा-भावरूपः क्वचिद्विशेष्याभावरूपः क्वचित् सम्बन्धाभावरूप इत्यननु-गमान्न हेतुः । अभावत्रयस्यैकशक्तिमत्त्वेनानुगमे च शक्तिसिद्धिः ॥

न च विशेषणविशेष्यतत्सम्बन्धाभावा विशिष्टविरोधित्वेनानु-गताः, यत्र विशेषणं वा विशेष्यं वा तत्सम्बन्धो वा नास्ति तत्र विशिष्टं नास्तीति प्रतीतेरिति वाच्यम् । विशिष्टविरोधित्वं हि विशिष्टविरहात्मकत्वं वा तद्व्याप्यत्वं वा वाच्यम् । तदुभयमपि प्रतियोगिनो विशिष्टस्याननुगमे तदभावस्याप्यननुगमादननुगतमेव । विशिष्टस्यैवानुगमे तु तदभावोऽपि स्वत एवानुगत इति किमनया कुसृष्ट्या ।

न्यायदीपः

एवमुत्तेजकाभावविशिष्टमण्याद्यभावरूपदृष्टकारणाभावादेव दाहानुत्पत्त्युप-पत्तेर्न शक्तिसिद्धिरित्यादिना कृतचोद्यस्य श्रुत्यादिविरोधार्थापत्तिपञ्चक-विरोधाभ्यां दूषणमुक्त्वाऽधुना तादृशाभावस्य कारणत्वमेव न युक्तं येन शक्त्यपलापो घटेतेति भावेनाह ॥ किं चेति ॥

मणौ हि उत्तेजकाभावसहकृतस्याभावो हेतुरिति प्राञ्च इत्युक्त्वा विशिष्टं नार्थान्तरं येन तदभावोऽनुगतः स्यादित्यादिना तद्दूषयित्वा स्वयं १तत्सर्वं निष्कृत्य वदन् दूषणमाह ॥ त्वन्मत इत्यादिना ॥ एकशक्तिमत्त्वे-नेति ॥ एककार्यानुकूलशक्तिमत्त्वेनेत्यर्थः ।

शशधरोक्तमेवानुगमकमाशङ्क्य निराह ॥ न चेति ॥ त्रयाणां विशिष्टविरोधित्वं व्यनक्ति ॥ यत्रेति ॥ अनुगम इति ॥ विशेषण-विशेष्यतत्सम्बन्धरूपत्रितयात्मकत्वे तदभावस्यापि त्रित्वापत्त्याऽननुगमात् । तद्विरहात्मत्वं वा तद्विरहव्याप्यत्वं वाऽननुगतमेवेत्यर्थः ॥ अनुगमे त्विति ॥ विशेषणादित्रितयानुगतं विशिष्टं पदार्थान्तरमित्युपगमे त्वित्यर्थः ॥ कुसृष्ट्येति ॥ विशिष्टविरोधित्वेन अनुगमः विरोधित्वं विरहात्मत्वादि-रिति कल्पनयेत्यर्थः ।


ननु तर्हि स्वरूपेण विद्यमानस्यैव ..

तर्कताण्डवं

ननु तर्हि स्वरूपेण विद्यमानस्यैव मणेरुत्तेजकसमये उत्तेजका-भावावच्छिन्नत्वेनाभावोऽस्ति । प्रतियोगिभेदेनेव प्रतियोगितावच्छेदक-भेदेनाप्यभावभेदात् । कथमन्यथा दण्डिनि पुरुषे सत्येव केवलपुरुषो नास्तीति कैवल्यावच्छिन्नत्वेन पुरुषाभावप्रमा । तथाचोत्तम्भके सत्यसति च मण्यभावकाले उत्तम्भकयुक्तमणिकाले चानुगतो मण्यभाव एव हेतुरिति चेन्न ।

मन्मते पदार्थन्तरस्य विशिष्टस्यैवावच्छिन्नाभावप्रतियोगित्वेन मणेस्तदप्रतियोगित्वात् । त्वन्मते च विशेष्ये सति विशिष्टाभावबुद्धेः सविशेषणे हीति न्यायेन विशेषणाभावविषयत्वेनाननुगमतादवस्थ्यात् । कथमन्यथा शिखैव नष्टा न तु पुरुष इत्यबाधितधीः । कथं च विशेष्यसत्त्वाविरोधिनस् तदभावत्वम् । विशेषणसत्त्वमात्रविरोधिनस् तदभावत्वाभावश्च ॥

न्यायदीपः

एवं शशधराभिमतमभावत्रयपक्षं मण्याद्युक्तदिशा निरस्येदानी-मुदयनाद्यभिमतमतिरिक्ताभावपक्षमाशङ्कते ॥ ननु तर्हीति ॥ प्रतियोगि-भेदेनेवेति ॥ यद्यपि प्रतियोगिभेदस्थे प्रतियोगितावच्छेदकभेद-स्यावश्यकत्वात्तद्भेदादेव भेदस्तथाऽपि यथा प्रतियोगिभेदोऽभावभेदव्याप्तस्तथा प्रतियोगितावच्छेदकभेदोऽपीत्यर्थः । स च प्रतियोगिनि सत्यपि वर्तमानोऽ-भावः प्रागभावादित्रितयान्य एव ध्वंस एव वा कप्तात्यन्ताभाव एव वा मण्युक्तदिशा ध्येय इति भावः ॥ अस्त्वेवं ततश्च किमित्यत आह ॥ तथा चेति ॥ उत्तम्भकदशायां मणिर्न चेत्तदोत्तम्भकाभावरूपावच्छेदकस्य तदवच्छेद्यविशेष्यस्य चोभयस्याभावात्तत्प्रयुक्तो मण्यभावः, उत्तम्भकेऽसति मणिर्न चेत्तदातु विशेष्याभाव उत्तम्भकयुक्तमणिदशायां चोत्तम्भकाभाव-रूपावच्छेदकाभावप्रयुक्तो विशेष्याभावोऽनुगत इत्यर्थः ।

॥ मणेस्तदप्रतियोगित्वादिति ॥ तथा च त्वदभिमताभाव एवाीक इति कस्य कारणतया शक्त्यपलापः स्यादिति भावः । मण्युक्तमेव दोषमाह ॥ त्वन्मते चेति ॥ उदयनमत इत्यर्थः ॥ कथमन्यथेति ॥ विशिष्टा-भावबुद्धेर्विशेष्याभावपरत्व इत्यर्थः । विशेषणाभावविषयत्वं विशिष्टा-भावबुद्धेर्व्यनक्ति ॥ कथं चेति ॥ विशेषणसत्त्वेति ॥ कथं चेत्यनुषङ्गः ।