किञ्च दण्डादेरन्वयव्यातिरेकाभ्यां घटादिकारणत्वं तावदनुमीयते
अथ शक्तावर्थापत्तिपञ्चकम् ।
तर्कताण्डवं
किञ्च दण्डादेरन्वयव्यातिरेकाभ्यां घटादिकारणत्वं तावदनुमीयते । तत्र न तावत्पूर्ववृत्तित्वमात्रं लिङ्गम् । रासभादावपि सत्त्वात् ॥
नापि नियमविशेषितम् । अन्यथासिद्धेऽपि सत्त्वात् । तस्मात् प्रत्यक्षसिद्धं कारणतात्वेन त्वदभिमतमनन्यासिद्धनियतपूर्ववृत्तित्वमेव लिङ्गं वाच्यम् । न च तदेव तेनानुमेयमिति तदनुमेयातीन्द्रिय-शक्तिसिद्धिः । न च तत्र स्वरूपयोग्यतारूपं दण्डत्वमनुमेयम् । तस्य प्रत्यक्षत्वात् ।
नापि– सहकारिसमवधानरूपं फलोपधानमनुमेयम् । दण्डे सहकार्यसमवधानेऽपि तद्व्यवहारात् । शिलादौ तत्समवधानेऽपि कारणत्वाव्यवहाराच्च ।
नापि– दण्डत्वस्यानन्यथासिद्धिविशिष्टनियमावच्छेदकत्वमनु-मेयम् । तस्य हेतुशरीर एव प्रवेशात् ।
एतदेवाभिप्ररोत्योक्तं सुधायाम्–
‘‘ततोन्वयव्यतिरेकसमधिगम्यमतीन्द्रियमेव किञ्चिन्मृदादीनां घटादिकारणत्वमभ्युपगमनीयम् । तदेव च शक्ति’’रिति ॥
व्याप्तिग्राहकप्रत्यक्षेण तु नियमरूपा रसरूपादिसाधारणी व्याप्तिरेव गृह्यते । न तु शक्तिरूपा कारणता । तस्या नित्यातीन्द्रियत्वात् ।
न्यायदीपः
श्रुत्याद्यनुग्राहकार्थापत्तीरपि शक्तौ मानत्वेन विवक्षुरादौ कारणत्व-स्यान्वयव्यतिरेकगम्यत्वान्यथानुपपत्तिरूपार्थापत्तिं सुधोक्तां तावद्व्यनक्ति ॥ किञ्च दण्डादेरिति ॥
॥ अनुमीयत इति ॥ तस्य प्रत्यक्षत्वे घटादिप्रत्यक्षस्येवान्वयाद्यपेक्षा न स्यात् । कारणत्वमेव शक्तिपदार्थ इति कारणतावादे मणिकृदुक्त्या-तीन्द्रियत्वावगतेश्चेति भावः । अन्वयव्यतिरेकौ नाम अनन्यथासिद्ध-नियतपूर्ववृत्तित्वरूपो यस्मिन् सति यन्नियतं यदभावे च यदभावो नियत इत्येवंरूपत्वादन्वयव्यतिरेकयोः । एवं च तत्र कारणत्वानुमापकं किं विशेष्यमात्रं नियमविशेषितं विशेष्यं वा कृत्स्नं विशिष्टं वा । आद्ययोः साध्याविशिष्टत्वदोषाभावेपि व्यभिचारान्न लिङ्गत्वमित्याह ॥ तत्र न तावदिति ॥ अन्यथासिद्धेऽपीति ॥ घटाकारणे तद्गतरूपकारणे मृत्पिण्ड-रूप इत्यर्थः ॥ कारणतात्वेनेति ॥ कारणतात्वरूपत्वेनेत्यर्थः ॥
कारणत्वस्योक्तरूपलिङ्गानुमेयान्यथानुपपत्तिरूपार्थापत्तेरन्यथोपपत्तिं त्रेधाऽऽशङ्क्य निराह ॥ न चेत्यादिना ॥ कारणतावच्छेदकस्यैव स्वरूप-योग्यतारूपत्वाद्दण्डत्वमित्युक्तम् ॥ तस्येति ॥ उक्तरूपावच्छेदकत्व-स्येत्यर्थः । अनन्यथासिद्धनियतपूर्ववृत्तित्वान्यूनानधिकवृत्तित्वस्य हेतुत्वेन वाच्यत्वात्तस्यैवोक्तरूपावच्छेदकत्वादिति भावः ॥ सुधायामिति ॥
‘‘अत्ता चराचरग्रहणा’’दित्यधिकरणे
‘‘इति पैङ्गिश्रुतिश्चाह शक्तिसद्भाव एव तु’’ ।
इत्यादिश्लोकव्याख्यानावसर इति ध्येयम् ॥
ननु– वह्न्यादौ सति दाहादिस्तदभावे तदभाव इति दाहादेर्वह्न्यादिना व्याप्तिग्राहकप्रत्यक्षेणैव दाहकारणत्वं वह्न्यादेर्गृह्यते । (यद्वा यत्र धूम-स्तत्राग्निरित्यादिव्याप्तिग्राहकप्रत्यक्षेण कारणता गृह्यत१) इति कथमनुमेय-तोक्तिः । येन तदन्यथाऽनुपपत्त्या शक्तिसिद्धिरित्यत आह ॥ व्याप्तीति ॥
न च व्यभिचरितं सहचारदर्शनं ..
तर्कताण्डवं
न च व्यभिचरितं सहचारदर्शनं नियमरूपव्याप्तेरपि कथं ग्राहकम्, ग्राहककोटौ नियमप्रवेशे चात्माश्रय इति वाच्यम् । तस्याञ्जनादि-वद्व्याप्तिग्राहकप्रत्यक्षसहकारित्वेनाव्यभिचारानपेक्षणात् ॥
किञ्च जलस्य जलत्वेन पिपासोपशामकत्वं तावदनुमीयते । तत्र च न तावत्फलोपधानमनुमेयम् । बाधाद् व्यभिचाराच्च । किं तु पिपासोपशमनकारणत्वमात्रम् । तच्च न तावदनन्यथासिद्धनियत-पूर्ववृत्तित्वरूपम् । तस्य पूर्वमेव ज्ञातत्वात् । कथमन्यथा जलत्वस्य व्याप्तिग्रहः ॥
नापि सहकारिविरहप्रयुक्तकार्याभाववत्त्वरूपम् । सहकारिशब्देन स्वेतरकारणस्यैव विवक्षणीयत्वेनात्माऽश्रयात् । भाविसहकारि-विरहशङ्कया फलार्थिनो निष्कम्पप्रवृत्त्ययोगात् ।
तावता त्वदुक्तनिर्वचनस्य सहकारिविरहः कार्यप्रागभाव-स्योत्तरकालसम्बन्ध२कारणमित्येतदर्थकतया कारणत्वमज्ञात्वा कार्या-भावस्य सहकारिविरहप्रयुक्तत्वस्य ज्ञातुमशक्यतयाऽत्माश्रयाच्च । प्रागभावेऽव्याप्तेश्च । सहकारिसाकल्यसमवधानदशायां दण्डादेरहेतुत्वा-पाताच्च । तस्माद् अतीन्द्रियं शक्तिरूपं कारणत्वमेवानुमेयमिति शक्तिसिद्धिः ॥
एतदप्युक्तं सुधायाम्– ‘‘ततोऽतीन्द्रियमेवे’’त्यादिना ॥
न्यायदीपः
ननु व्याप्तिरेव गृह्यत इत्ययुक्तम् । सहचारदर्शनस्य वा नियतसहचार-दर्शनस्य वा तदनिर्णायकत्वादित्याशङ्क्य समाधत्ते ॥ न चेति ॥ तस्य सहचारदर्शनस्येत्यर्थः ।
जलस्य पिपासोपशामकत्वानुमित्यन्यथानुपपत्तिश्च शक्तौ मानमिति भावेनाह ॥ किञ्चेति ॥ अर्थापत्तेरन्यथोपपत्तिं निराह ॥ तत्र चेति ॥ किं त्वित्यादिना वक्ष्यमाणपक्षापेक्षया तावच्छब्दः ॥ बाधादिति ॥ तत्रानुमित्यनन्तरं प्रवृत्तस्य जलपानान्तरमेवोदन्यानिवृत्तिरूपफलोपलम्भात् क्वचिदप्रवृत्तिपानाभावायोरपि सम्भवाच्चेति भावः ॥ व्यभिचारादिति ॥ जलत्वोपेतस्य सर्वस्याप्युक्तफलोपधाने मानाभावात्प्रत्यग्रोत्पन्नविनष्टजले फलोपधानाभावाच्च व्यभिचार इति भावः ॥
प्रकारान्तरेण पिपासोपशमकारणत्वस्वरूपमाशङ्क्य निराह ॥ नापीति ॥ सहकारिविरहप्रयुक्तः सहकारिविरहेणोत्तरसमयसम्बन्धविशिष्टतया जन्यो यस्तृप्तिरूपकार्यस्य प्रागभावस्तद्वत्त्वं पिपासोपशमनकारणत्वमित्यर्थः ॥ तावता त्वदुक्तनिर्वचनस्येति ॥ इत्येतदर्थकतयेत्यन्वयः ॥ आत्मा-श्रयेति ॥ कारणत्वरूपनिर्वचने कारणपदप्रवेशादित्यर्थः ॥ प्रागभाव इति ॥ घटादिकारणीभूतप्रागभावस्य प्रागभावान्तराभावात्तत्र सहकारिविरह- प्रयुक्तघटप्रागभावरूपकार्याभाववत्त्वरूपत्वदुक्तकारणत्वाभावाद्घटादिप्रागभावेऽ-व्याप्तेरित्यर्थः ॥ दण्डादेरहेतुत्वेति ॥ तदा प्रागभावसत्त्वेपि तस्य सहकारि-विरहप्रयुक्तत्वाभावात् । न चेष्टापत्तिः । सर्वदा तत्र हेतुत्वव्यवहारादिति भावः ॥ तस्मादिति ॥ पिपासोपशमनकारणत्वस्य शक्तितोऽन्यस्या-योगादित्यर्थः ॥