अत्र नैयायिकाः..
अथ शक्तौ श्रुत्यादिनिरूपणम् ।
तर्कताण्डवम्
अत्र नैयायिका उत्तेजकाभावविशिष्टमण्याद्यभावरूपदृष्ट-कारणविरहादेव दाहानुत्पत्त्युपपत्तेर्न शक्तिसिद्धिः ॥
ननु मण्याद्यभावानां न तावन्मण्याद्यभावत्वेन कारणत्वमननु-गमात् । नापि प्रतिबन्धकाभावत्वेन अन्योन्याश्रयात् । कारणीभूता-भावप्रतियोगिन एव प्रतिबन्धकत्वात् । मन्त्रसत्त्वेपि मण्यभावमात्रेण दाहापत्तेश्च । तस्यापि प्रतिबन्धकाभावत्वात् । न हि यावत्कारण-समवधान एव कार्यम् । एकदण्डसमवधानेपि घटोत्पत्तेरिति चेन्मैवम् । दण्डचक्रादिकूटवत्सकलानां मण्यादीनां संसर्गाभावकूटस्य दाहजनकत्वेनाननुगमान्योन्याश्रययोरभावात् ॥
एतेन दाहकाले सकलानां मण्यादिसंसर्गाभावानां कूटोऽसम्भवी, मणिध्वंसकाले तत्प्रागभावस्यासम्भवादिति निरस्तम् । साकल्यस्य प्रतियोगिविशेषणत्वेनोक्ततया सर्वेषां मण्यादीनामेकैकस्य संसर्गा-भावस्य दाहकाले सत्त्वेन तादृशाभावकूटस्यापि तत्काले सत्त्वात् ॥
न्यायदीपः
यत्त्वुनमानखण्डे मणावीश्वरवादानन्तरं लीलावत्याद्यभिमतशक्त्यपलाप-प्रकारं निरस्य स्वयं प्रकारान्तरेणापलापप्रदर्शनं कृतं तदप्युच्यत इत्यादिना न युक्तमिति वक्तुमनुवदति ‘‘अत्र नैय्यायिका’’ इत्यादिना ‘‘तस्मान्न शक्ति’’रित्यन्तेन । उत्तेजकं प्रतिबन्धकप्रतिबन्धकं, तदभावविशिष्टो यो मण्यादिस्तदभावेत्यर्थः । मण्याद्युक्तं मणिमन्त्रौषधाद्यभावानां कूटस्य कारणत्वं शङ्कोत्तराभ्यां व्यनक्ति ॥ नन्वित्यादिना ॥ अन्योन्याभावव्यावृत्त्यर्थं प्रागभावादिसाधारणाभावलाभं चाह ॥ संसर्गाभावकूटस्येति ॥ सकलपदस्य मण्यादेर्विशेषणत्वेनोक्तौ कृत्यं व्यनक्ति ॥ एतेनेति ॥ एतच्छब्दार्थं स्फुटीकरोति ॥ साकल्यस्येति ॥ अभावविशेषणत्वे हि स्यात् त्वदुक्तदोषः । न चैवमित्यर्थः । प्रतिबन्धकाभावेनोक्तौ कृत्यं व्यनक्ति ॥ एतेनेति ॥१
किञ्च कार्यानुत्पत्तिव्याप्यत्वं प्रतिबन्धकत्वमिति पक्षे ..
तर्कताण्डवं
किञ्च कार्यानुत्पत्तिव्याप्यत्वं प्रतिबन्धकत्वमिति पक्षे प्रतिबन्ध-कत्वावच्छिन्नाभावः कारणम् । स च यत्किञ्चित्प्रतिबन्धक-सत्त्वदशायां नास्तीति न तदा दाहप्रसङ्गः । नाप्यन्योन्याश्रयाननुगमौ । प्रहरं मा दहेति सावधिमन्त्रपाठे मन्त्रस्य झडिति नाशेपि मन्त्रप्रयोक्तृ-पुरुषाभिप्रायविषयः कालविशेष एव प्रतिबन्धक इति न कोपि दोषः । तस्मान्न शक्तिसिद्धिरिति ।
न्यायदीपः
प्रतिबन्धकाभावत्वेन कारणत्वेपि न प्रागुक्तदोष इति भावेन ‘‘यद्वा प्रतिबन्धकत्वावाच्छिन्नप्रतियोगिकोऽभावः कारण’’मित्यादिना मण्युक्तमेवाह ॥ किञ्चेति ॥ कार्यानुत्पत्तिः कार्यप्रागभावो । व्याप्तिश्च कालिकीति भावः ॥ प्रतिबन्धकत्वेति ॥ मणिमन्त्राद्यनुगतप्रतिबन्धकत्वावच्छिन्नप्रति-योगिताकाभावत्वेन मण्याद्यभावस्य कारणत्वमित्यर्थः ॥
मन्त्रसत्त्वेपि मण्याद्यभावमात्रेण दाहापत्तिरूपप्रागुक्तदोषो नेत्याह ॥ स चेति ॥ मन्त्रसत्त्वस्थले मणित्वाद्यवच्छिन्नाभावसत्त्वेपि एकप्रति-बन्धकसत्त्वे प्रतिबन्धकत्वावच्छिन्नाभावो नेति न दाहप्रसङ्गदोष इति भावः ॥ नाप्यन्योन्याश्रयेति ॥ कारणीभूताभावप्रतियोगित्वपक्ष एवास्य दोष-स्योक्तेरिति भावः ॥
ननु व्यभिचारात्कथं मन्त्राद्यभावः कारणमित्यतो व्यभिचारं निराह ॥ प्रहरमिति ॥ निषेधार्थकमाशब्दोयम् । न माङ् । तेन ‘‘माडि लुङिति’’ लुङा भाव्यमिति न शङ्क्यम् ।