ननु– स्वरूपसहकार्यतिरिक्तशक्तौ मानं नेति चेन्न
अथ शक्तिवादः ।
अथ लीलावत्युक्तशक्त्यपलापप्रकारभङ्गः ।
तर्कताण्डवं
ननु– स्वरूपसहकार्यतिरिक्तशक्तौ मानं नेति चेन्न । यादृशात् करतलानलसंयोगाद्दाहो जायते तादृशादेव मण्यादिसमवधाने न जायत इति मण्यादिविघटनीयशक्तिसिद्धेः । तत्र दृष्टसामग््रयाः सत्त्वेन तद्विलम्बेन वा तत्सम्पादकादृष्टविलम्बेन वा दाहविलम्बायोगात् ॥
न्यायदीपः
विष्णावेव शक्तितात्पर्ये इत्ययुक्तम् । अतीन्द्रियशक्तावेव मानाभावादिति भावेन लिङ्गपादे ‘‘अत्ता चराचरग्रहणात्’’ इत्यधिकरणसुधायां ‘‘स्वरूप-सहकारिसमवधानातिरिक्तशक्तिरेव नास्तीति केचित्’’ इत्यादिना ‘‘आस्तां प्रपञ्च’’ इत्यन्तेन सङ्क्षेपेण शक्तिसमर्थनं कृतं, तत्स्पष्टं विवृण्वानः शक्ति-माक्षिप्य समाधत्ते ॥ स्वरूपेत्यादिना ॥ शब्दादिस्वरूपतत्सहकारिभ्या-मन्यशक्तावित्यर्थः ।
क्वचिदेव शक्तिसिद्धौ शब्दे सा सेत्स्यतीति भावेनोपपादनसौकर्याय प्रसिद्धवह्नौ तावत्साधयति ॥ यादृशेति ॥ दाहाभावस्य कारणवैकल्य-निमित्तकत्वशङ्काव्युदासायोक्तं यादृशात्तादृशादेवेति ॥ न जायत इति ॥ दाह इत्यनुषङ्गः ।
एतेन मण्यादेर्दाहादिप्रतिबन्धकत्वं प्राप्तं, ततः किमित्यत आह ॥ इति मण्यादीति ॥ इति शब्दो हेत्वर्थः । मण्यादेः प्रतिबन्धकत्वान्यथानु-पपत्तिरेव वह्न्यादिगतातीन्द्रियशक्तौ मानम् । कार्यानुकूलकिञ्चिद्धर्म-विघटकत्वरूपत्वात्प्रतिबन्धकत्वस्य कार्यानुकूलकिञ्चिद्धर्मश्च शक्तेरन्यो न युक्त इति भावः । एतच्चोपलक्षणम् । वक्ष्यमाणार्थापत्तिपञ्चकेनापीत्यपि ध्येयम् ॥
ननु– मण्यादेः प्रतिबन्धकत्वमेवासिद्धम् । मण्यादिसन्निधिस्थले दाहाभावस्य दाहसामग्र्यभावेन वा दाहसामग्रीसम्पादकादृष्टाभावेनोपपत्ते-रित्यतस्तादृशादेवेत्युक्तिकृत्यं व्यञ्जयन् प्रतिबन्धकत्वं तावद्द्रढयति ॥ तत्रेति ॥ मण्यादिसन्निधिस्थल इत्यर्थः ॥
न च दृष्टसामग्र्याः सत्त्वेपि मणिरेव..
तर्कताण्डवं
न च दृष्टसामग्र्याः सत्त्वेपि मणिरेव साक्षाद्दाहजनकमदृष्टं नाशयतीति वाच्यम् । तादृशादृष्टे मानाभावात् । अन्यथा अन्त्यतन्तु-संयोगादौ सत्यपि कदाचित्पटाद्यनुत्पत्तिः स्यात् । वन्ध्यापुंसंपर्योगा-दावपि साक्षाज्जनकादृष्टविलम्बान्न विलम्बः । किं तु नापुत्रस्य लोकोस्तीति श्रुत्याऽपुत्रस्य नरकोक्त्या तज्जनकस्य दुरितस्यावश्य-कत्वेन दाहं प्रति मणेरिव दुरितस्यैव पुत्रोत्पत्तिप्रतिबन्धकत्वात् ॥
न चैवमदृष्टस्य कुत्रचिदपि साक्षाज्जनकत्वाभावे परम्परया जनकत्वमपि न स्यादिति वाच्यम् । दृष्टसामग्रीरहिते सर्गाद्यकालीने कार्येऽदृष्टस्य साक्षाज्जनकत्वस्वीकारात् ॥
अस्तु वा दाहादावपि साक्षाज्जनकमदृष्टं, तथापि न तन्मण्यादि-विनाश्यम् । अदृष्टस्यादृष्टनाशकत्वेन विहितेतरफलमात्रनाश्यत्वात् । अन्यथा मण्यादिनाऽदृष्टनाशशङ्कया वैदिके कर्मणि निष्कम्पप्रवृत्तिर्न स्यात् ॥
न्यायदीपः
नन्वत्स्त्वेवं मण्यादेः प्रतिबन्धकत्वं तथापि साक्षाद्दाहजनकादृष्ट-नाशकत्वेन वा दाहप्रतिकूलदुरदृष्टजनकत्वेन वा स्वाभावरूपदाहकारण-विघटकत्वेन वा मण्यादेः प्रतिबन्धकत्वोपपत्तौ न तदन्यथानुपपत्त्याऽ-तीन्द्रियशक्तिसिद्धिरित्यत आद्यं तावदाशङ्क्य निराह ॥ न च दृष्टेति ॥ तादृशेति ॥ साक्षाज्जनके प्रतिबन्धकनाश्यादृष्ट इत्यर्थः ॥ पटादीति ॥ तत्रापि कदाचित्त्वदुक्तादृष्टाभावसम्भवादिति भावः । एतच्चोपलक्षणम् । मणिकृदुक्तदिशा मण्यपसरणानन्तरं दाहाभावप्रसङ्गादन्वयव्यतिरेकाभ्यां कप्तत्वेन मण्याद्यभावरूपदाहकारणाभावेनैव दाहाभावोपपत्तेश्चेत्यपि ध्येयम् ।
ननु वन्ध्यासम्प््रायोगादौ दृष्टाव्यभिचाराददृष्टविलम्बो वाच्य इत्यत आह ॥ वन्ध्येति ॥ नन्वदृष्टं क्वचित्साक्षाज्जनकम् । अन्यथा दृष्टसामग्री-रहितस्थले साक्षादहेतुत्वे दृष्टसमग््रयामप्यहेतुत्वापत्त्या परम्परया हेतुरपि न स्यादतः कथं तादृशादृष्टं नेत्युच्यत इत्यत आह ॥ न चैवमिति ॥ न तन्मण्यादिविनाश्यमिति ॥ येन मण्यादेः प्रतिबन्धकत्वं शक्तिं विना-प्युपपन्नं स्यादिति दोषः कुतो नेत्यत आह ॥ अदृष्टस्येति ॥ प्रबल-दुरितादृष्टस्य पुण्यादृष्टनाशकत्वेन प्रबलपुण्यादृष्टस्य दुरितादृष्टनाशकत्वेन मण्यादेरनाशकत्वादित्यर्थः । अदृष्टस्य विहितादिजन्यत्वाद्विहितेतरनाश्यत्वेपि फलमात्रनाश्यत्वेन मण्यादिरूपेण विहितेतरेणानाश्यत्वादित्यर्थः । कीर्तनादेरप्युपलक्षणम् । ‘‘धर्मः क्षरति कीर्तनात्’’ इत्यादेः । यद्वाऽदृष्टस्य नाश्यत्वादित्यन्वयः । अदृष्टनाशकत्वेन यद्विहितं प्रायश्चित्तादि तदितरेण फलमात्रेण नाश्यत्वादित्यर्थः । मण्यादि त्वदृष्टनाशकतया विहितेतरदपि न फलरूपमिति न तन्नाशकमिति भावः ।