अथ का योग्यता ? न तावत्सजातीयेऽन्वयदर्शनं योग्यता
अथ योग्यतानिरूपणम् ।
तर्कताण्डवम्
अथ का योग्यता ? न तावत्सजातीयेऽन्वयदर्शनं योग्यता । पयसा सिञ्चति इत्यनाप्तवाक्येऽतिव्याप्तेः । किञ्च यथाकथञ्चित् साजात्यमयोग्यसाधारणम् । पदार्थतावच्छेदकधर्मेण वा तात्पर्य-विषयीभूतान्वयप्रतियोगितावच्छेदकधर्मेण वा साजात्यं तु अद्यजातः पयः पिबतीत्यादावव्याप्तम् ॥
नापि समभिव्याहृतपदार्थसंसर्गाभावव्याप्यधर्मशून्यत्वं योग्यता । प्रमेयमभिधेयमित्यादौ संसर्गाभावस्याप्रसिद्ध्या न्यायमते तत्राव्याप्तेः । समभिव्याहृतपदार्थसंसर्गो योग्यता इत्येतावतैव पूर्णत्वेन शेष-वैयर्थ्याच्च । अनाप्तवाक्ये अतिव्याप्तेश्च ॥
एतेनैव समभिव्याहृतपदार्थसंसर्गव्याप्यधर्मवत्त्वं वा, अन्वय-प्रतियोगितावच्छेकधर्मवत्त्वं वा योग्यतेति निरस्तम् । उक्तरीत्या शेषवैयर्थ्यात् । अनाप्तवाक्येऽतिव्याप्तेश्च ।
न्यायदीपः
‘‘प्रतीतान्वयस्य प्रमाणविरोधाभावो योग्यता’’ इति प्रमाणपद्धत्युक्तिं समर्थयमानः प्रसक्तपक्षान्पूर्ववादिमुखेन प्रत्याख्याति ॥ अथेत्यादिना ॥ सजातीय इति ॥ दृष्टान्वयसजातीयत्वं योग्यतेत्यर्थः । मण्युक्तमपि दोषमाह ॥ किञ्चेति ॥ अयोग्यतेति ॥ अग्निना सिञ्चेदित्यादावपि शब्दार्थत्वादिना साजात्यस्य सत्त्वादिति भावः । मणिव्याख्यातृभिरुक्तमाह ॥ तात्पर्यविषयेति ॥ अद्यजात इति ॥ अद्यजातत्वेन रूपेण तदन्वय-स्येतः पूर्वं क्वाप्यदर्शनादिति भावः ।
॥ समभिव्याहृतेति ॥ समभिव्याहृतं यत्पदं तदर्थनिरूपितसंसर्गस्य योऽभावस्तद्व्याप्यधर्मशून्यत्वम् । यथा जलेन सिञ्चतीत्यादौ समभिव्याहृत-सेकरूपपदार्थसंसर्गाभावव्याप्यो धर्मोऽग्नित्वादिः, तथा समभिव्याहृतजल-पदार्थसंसर्गाभावव्याप्यो दाहत्वादिस्तादृशधर्मशून्यत्वमस्ति । अग्निना सिञ्चतीति जलेन दहतीत्यादौ तु तादृशधर्मवत्त्वादयोग्यतेत्यर्थः ॥
सिद्धान्ते धर्ममात्रस्य व्यतिरेकित्वाद्घटनिष्ठप्रमेयत्वादेः पटे तन्निष्ठ-प्रमेयत्वादेर्घटेऽसत्त्वेन प्रमेयत्वादिसंसर्गाभावस्यापि प्रसिद्धत्वादाह ॥ न्यायमत इति ॥ तन्मते तस्य केवलान्वयित्वादिति भावः । सिद्धान्ते तु कथमित्यतो दोषान्तरमाह ॥ समभिव्याहृतेति ॥ अनाप्तेति ॥ पयसा सिञ्चतीत्याद्यनाप्तवाक्य इत्यर्थः । क्रमेण पक्षद्वये दोषमाह ॥ उक्तरीत्येति ॥ समभिव्याहृतपदार्थसंसर्ग इत्येव पूर्तेरिति भावः ।
नापि मण्युक्तरीत्या ..
तर्कताण्डवं
नापि मण्युक्तरीत्या एकपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभाव-प्रतियोगित्वप्रमाविशेष्यत्वाभावो वा, एकपदार्थसंसर्गेऽपरपदार्थ-निष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्यत्वं वा योग्यता ।
न्यायदीपः
एकेति पदस्य वा पदार्थस्य वा विशेषणम् । अपरेत्यप्येवं बोध्यम् । तन्निरूपितसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभावं प्रति यत्प्रतियोगित्वं तत्प्रकारिका या प्रमा तद्विशेष्यत्वाभाव इत्यर्थः । अग्निना सिञ्चतीत्यादावग्निकरणकान्वयः सेके नास्तीति वा, अग्निकरणान्वयः सेकनिष्ठात्यन्ताभावप्रतियोगीति वाऽनु-भवेन तद्वाक्यं त्वयोग्यम् । पयसा सिञ्चतीत्यादौ तु पयःकरणकत्वं सेके नास्तीत्यादिप्रतीतेः कदाप्यभावेन तत्र पयःपदार्थसंसर्गे सेकनिष्ठाभाव-प्रतियोगित्वप्रकारकप्रमाशेष्यत्वं नेति तद्योग्यमित्युच्यते । अत्र शब्दत्व-वदाकाशस्य शब्दनिष्ठात्यन्ताभावप्रतियोगित्वात्तत्राव्याप्तिनिरासाय ॥ संसर्गेति ॥ तादृशप्रमाविषयत्वाभाव इत्येवोक्तौ घटसंसर्गत्वं गेह-निष्ठात्यन्ताभावप्रतियोगीति प्रमाविषयो घटसंसर्गोपि भवतीति तत्राव्याप्तिः स्यात् । तन्निरासाय तादृशप्रमाविशेष्यत्वाभाव इत्युक्तिरिति पक्षधरः ।
रुचिदत्तस्तु यत्पदार्थसंसर्गो बोध्यस् तदंशे तादृशप्रमाविशेष्यत्वाभावो विवक्षितः । तेन सेकसंसर्ग आकाशश्च जलनिष्ठात्यन्ताभावप्रतियोगीति समूहालम्बनकृतप्रमाविशेष्यत्वकृतदोषोऽपास्तः । एवं चांशभेदप्राप्तये विशेष्यतोक्तिर् विषयत्वमात्रे तात्पर्यमित्यवोचत् ॥
यन्मते तादृशप्रमात्वपरिग्रहः प्रतिबन्धकस्तन्मतेनैतल्लक्षणकरणात्तादृशा-भावप्रतिोयगिताभाव इत्येवानुक्त्वा तादृशप्रमाविशेष्यत्वाभाव इत्युक्तमिति रुचिदत्तः ॥
नरहरिस्तु प्रमेत्याद्यनुक्त्वा तादृशप्रतियोगित्वाभावो योग्यतेत्येवोक्तौ योग्यताया वाक्यार्थमात्रपर्यवसन्नतया तद्धीर्वाक्यार्थबोधात्पूर्वं न भवतीति शाब्दबोधे योग्यताज्ञानस्याहेतुत्वापत्तेस् तादृशप्रमाविशेष्यत्वाभाव इत्युक्तमित्याह ॥
यन्मतेऽप्रामाण्यशङ्काशून्यविपरीतनिश्चयस्य प्रतिबन्धकत्वं तन्मतेनोक्तं लक्षणान्तरं चानुवदति ॥ एकपदार्थेति ॥ तादृशं हि अग्निना सिञ्चती-त्यत्राग्निसंसर्गत्वमतस्तदयोग्यम् । जलेन सिञ्चतीत्यादौ जलसंसर्गादिकं तथा न भवतीति तद्योग्यमित्युच्यत इत्येतदपि नेत्यर्थः ॥