०२ आसत्तिनिरूपणम्

ननु सन्निधानापरपर्यायासत्तिर्न तावन्मण्युक्तरीत्या ..

आसत्तिनिरूपणम्

तर्कताण्डवं

ननु सन्निधानापरपर्यायासत्तिर्न तावन्मण्युक्तरीत्या अव्यवधानेन पदार्थस्मृतिः । वाक्ये पदार्थस्मृतिरेव नेति वक्ष्यमाणत्वात् । अनासन्ने आसत्तिभ्रमेणान्वयबोधस्थे त्वत्पक्षे पदार्थोपस्थितेर्विशेषणज्ञानत्वेन शाब्दबोधहेतुत्वात् हेतोश्चाव्यवहितत्वनियमेनासत्तेरेव सत्त्वेनासत्ति-भ्रमानुपपत्तेश्च । पदार्थस्मृतौ सत्यां स्मृतिविषयकज्ञानविलम्बेन शाब्दबोधविलम्बादर्शनेनासत्तिज्ञानस्य हेतुत्वानुपपत्तेश्च । न चेयं स्वरूपसत्येव हेतुः । तद्भ्रमेण शाब्दभ्रमायोगात् ।

न्यायदीपः

प्रमाणपद्घतौ ‘‘आकाङ्क्षायोग्यतासन्निधिमन्ति पदानि वाक्यम्’’ इत्युक्तेः सन्निधिनिरूपणं विनाऽसत्तिनिरूपणमयुक्तमित्यत आह ॥ सन्निधानापर-पर्यायेति ॥ यद्यपि साक्षादाकाङ्क्षायोग्यतेति निर्देशक्रमेण योग्यतैवाकाङ्क्षो-क्त्यनन्तरं निरूपणीया । तथाऽप्यासत्तिनिरूपणस्याल्पत्वात् सूचीकटाह-न्यायेनासत्तेः पूर्वमुक्तिरित्येके ॥

वस्तुतस्तु शाब्दप्रमायामाकाङ्क्षासत्ती एव हेतू न पुनर्योग्यताऽपीति तयोरेव पूर्वमुक्तिर्युक्ता । अत एव पद्घतावासत्तिस्वरूपोक्त्यनन्तरमेव योग्यतोक्तिः । अतस्तत्क्रममनुसृत्यात्र निरूपणमिति । क्वचिदाकाङ्क्षा-सन्निधियोग्यतावतां पदानां समूहो वाक्यमिति पद्घत्यनुरोधे पूर्वनिर्देशा-त्तथैवास्त्विति यथान्यास एव क्रमः ॥

आसत्तिश्चाव्यवधानेनान्वयप्रतियोग्युपस्थितिः । सा च स्मृतिर्नानुभव इति मण्युक्तं निष्कृष्यानुवदति ॥ अव्यवधानेन पदार्थस्मृतिरिति ॥ अन्वयविरोधिव्यवधानाभावेनेत्यर्थः ॥ पदार्थेति ॥ सङ्केतस्मरणवाक्यार्थ-बोधयोर्मध्ये पदार्थस्मृतिरेव नास्ति, कुतोऽव्यवधानत्वं तस्या इत्यर्थः ॥ वक्ष्यमाणत्वात् ॥ अन्विताभिधानोक्तिवाद इत्यर्थः ॥

पक्षधराद्यूहितदोषमाह ॥ अनासन्नेति ॥ सप्तम्यन्तानामासत्तेरेव सत्त्वेनेत्यन्वयः ॥ आसत्तिभ्रमेणेति ॥ अन्वयविरोधिव्यवधानेपि तदभावभ्रमेणेत्यर्थः । गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यादौ व्यवहितपदोपेततया आसत्तिहीनवाक्ये पदानामव्यवहितत्वभ्रान्त्या पदार्थानामुपस्थितौ गिरिरग्निमान् देवदत्तेन भुक्तमित्यन्वयबोधदर्शनात्तत्र स्थे पदार्थे स्मृते-र्व्यवहितत्वस्यावश्यकत्त्वात्तत्रातिव्याप्तिरिति भावः ।

विशेषणज्ञानत्वेनेत्युपलक्षणम् । पदार्थस्मृतित्वेन हेतुत्वेप्येष दोषः सम एव । असम्भवं चास्य लक्षणस्याह ॥ पदार्थस्मृताविति ॥ न चेयमिति ॥ आसत्तिरित्यर्थः । अपसिद्धान्ते सत्यपि दोषान्तरमाह ॥ तद्भ्रमेणेति ॥


किञ्च नानाविशेषणकैकविशेष्यकबोधस्थे ..

तर्कताण्डवं

किञ्च नानाविशेषणकैकविशेष्यकबोधस्थे विशेषणानामन्योन्य-मन्वाययोग्यतयाऽन्वितान्वयासम्भवेन समूहालम्बना एकैव पदार्थ-स्मृतिर्वक्तव्या । तथाच तत्र वाक्ये किञ्चित् केनचिदासन्नमनासन्नं च केनचिदिति कथं विभागः ॥ किञ्च पद्ये कुलकादौ चाति-व्यवहितत्वात्कथमासत्तिः ।

न्यायदीपः

यत्त्वन्वयप्रतियोग्युपस्थितिरासत्तिरन्वयबोधाङ्गं, सा च स्वरूपसती भानाभावात्१ । अनुमितौ पक्षसाध्यप्रत्ययवत्तद् भ्रमेण शाब्दभ्रमोऽसिद्ध एव । तात्पर्यभ्रमेण योग्यताभ्रमेण वा तदुपपत्तेरिति तन्न । विशेषणज्ञानत्वेन हेतुत्वोक्तौ शाब्दसाधारण्याभावात्पदार्थस्मृतित्वेन हेतुत्वे च वाक्ये पदार्थ-स्मृतिरेव नेत्यसम्भवदोषाद् अतिव्याप्त्यसम्भवावुक्त्वाऽव्याप्तिं चाह– किञ्चेति ।

नानाविशेषणकेति । दण्डी कुण्डली चैत्र इत्यादौ चैत्रपदेन कुण्डली-पदमासन्नं दण्डीपदमनासन्नमिति विभागोस्ति । स न स्यात् । पदार्थस्मृते-रेवासत्तित्वे तावत्पदार्थगोचरैकस्मृतेरेव तत्र वाच्यत्वात् क्रमेणोपस्थितौ हि पूर्वस्मृतविशेषणान्वयानन्तरं चरमं स्मृतविशेषणान्वयःस्यात् । नचैवं युक्तम् । विशेषणविशिष्टे विशेषणान्तरान्वये विशेषणयोरप्यन्वयापत्त्या तदसम्भवात् । विशेष्येणासन्नं विशेषणं स्वासन्नेन विशेषणेन स्वयमन्वितं सत्पश्चाद्विशेष्येणान्वेतीत्यस्यापि विशेषणयोरप्यन्वयायोगेनासम्भवादित्यर्थः ॥

स्थान्तरेप्यव्याप्तिमाह ॥ किञ्च पद्य इति ॥

‘‘श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।

वसन् ददर्शावतरन्तमम्बरात्’’

इत्यादिश्लोके क्रियाकारकपदानामतिव्यवहितत्वात्तत्र त्वदुक्ताव्यवहित-पदार्थस्मृतेरयोगात् ॥

‘‘ततः सपत्नापनयस्मरणानुशय(नुदय)स्फुरा ।’’

इत्यादि माघस्थेष्वष्टसु श्लोकेष्वतिव्यवहितत्वात्तत्राव्याप्तिरिति भावः ।