यच्चेदमुच्यते वेदस्यापौरुषेयत्वे ..
॥ श्रीः ॥
श्री व्यासतीर्थयतिविरचितं
तर्कताण्डवम्
द्वितीयपरिच्छेदः
अथाकाङ्क्षानिरूपणम् ।
यच्चेदमुच्यते वेदस्यापौरुषेयत्वे आप्तवाक्यत्वादिरूपस्य प्रमाण-शब्दलक्षणस्याभावात् प्रामाण्यं न स्यादिति । तन्न । पद्धतौ निर्दोष-शब्दत्वं निर्दोषवाक्यत्वं वा आगमलक्षणमित्युक्तत्वात् ।
अत्राद्यं निर्दोषः शब्द आगम इति प्रमाणलक्षणानुसारि । निष्प्रयोजनत्वादिदोषनिरासार्थमावश्यकेन निर्दोषत्वविशेषणेनैव निरभिधेये अनन्विते चाप्यतिव्याप्तिनिरासेन वाक्यग्रहणस्यानपेक्षित-त्वात् ॥
द्वितीयं तु ‘‘आगमोऽदुष्टवाक्यं च’’ इति ब्रह्मतर्कानुसारि । अत्र वाक्यग्रहणं शिष्याणां पदवाक्यादिस्वरूपज्ञापनार्थम् ।
अत एव पद्धतौ ‘‘द्वितीयपक्षे विभक्त्यन्ता वर्णाः पदं, आकाङ्क्षा-योग्यतासन्निधिमन्ति पदानि वा वाक्यम्’’ इत्यादिना पदादीनां लक्षणमुक्तम् । अत एव प्रमाणलक्षणटीकायां ‘‘मूलस्थं शब्दपदं वाक्यपरम्’’ इत्युक्तम् ॥
श्रीराघवेन्द्रयतिविरचितः
न्यायदीपः
यस्मिन् वेदस्य सर्वस्याप्याकाङ्क्षायोग्यतादयः ।
तं वन्दे परमानन्दमिन्दिरामन्दिरोरसम् ॥
ननु वेदापौरुषेयत्वसमर्थनं पूर्वपरिच्छेदे कृतमयुक्तम् । तथात्वे शब्द-प्रमाणलक्षणाभावेन प्रमाणशब्दत्वानापत्तेः । एवं च आदिवर्जितैः, आदरेणाख्यात इत्युक्ते हरौ शक्तितात्पर्ये न युक्ते इति चोद्यमनूद्य निराह ॥ यच्चेति ॥ आदिपदेन आप्तिपूर्वकशब्दत्वयथार्थवाक्यार्थज्ञानजन्य-वाक्यत्वादिग्रहः । प्रमाणभूतशब्दस्य यल्लक्षणं तस्येत्यर्थः ॥ प्रामाण्य-मिति ॥ प्रमाजनकत्वमित्यर्थः । दूरे तस्य स्वतस्त्वसाधनमिति भावः ॥ पद्धताविति ॥ ‘‘निर्दोषः शब्द आगमः, निर्दोषं वाक्यमिति वा’’ पद्धतावित्यर्थः । द्वयोरप्युक्तिस् तद्द्वयतात्पर्यव्यक्त्यर्था । तथा च लक्षणान्तरसम्भवात् प्रमाण्यं वेदस्य युक्तमिति भावः । एतेन एवमागम-लक्षणोक्तेरभिप्रायः स्फुटीकृतो भवति । द्वयोक्तेर्मूलं भावं च व्यनक्ति ॥ अत्रेति ॥
ननु कथं तर्हि अबोधकविपरीतबोधकरूपवाक्याभासेऽतिव्याप्तिनिरासः । पद्धतावेव ‘‘आकाङ्क्षायोग्यतासन्निधिमन्ति पदानि वाक्यं’’ इत्युक्त्वा ‘‘पदत्वेनानभिधेयत्वस्य आकाङ्क्षासन्निधिभ्यामन्वयाभावस्य निरास’’ इत्याद्युक्तेरित्यतस्तद् द्वितीयलक्षणाभिप्रायमित्युपेत्य ‘‘निरभिधेयत्वेनान्वया-भवेन वा अबोधकत्वम्’’ इत्यादि निर्दोषपदकृत्योक्तिपरपद्धत्युक्तिं हृदि कृत्वा तात्पर्यमाह ॥ निष्प्रयोजनत्वेति ॥ ब्रह्मतर्केति ॥ तत्त्वनिर्णयोक्त-ब्रह्मतर्केत्यर्थः । नन्वेवमुक्तदिशा शब्द इत्येव पूर्तौ वाक्यमिति व्यर्थमत आह ॥ अत्र वाक्येति ॥ अस्मिन्पक्षे निर्दोषपदं पद्धत्युक्तवाक्यपद-व्यावर्त्यान्यदोषव्यावृत्त्यर्थमिति भावः ॥
॥ विभक्त्यन्ता इति ॥ सुप्तिङ्रूपविभक्त्यन्ता इत्यर्थः । ‘‘विभक्तिश्च’’ इति सूत्रे सुप्तिङोरुभयोरपि विभक्तिसञ्ज्ञोक्तेः । ‘‘सुप्तिङन्तं पदं’’ इति पाणिनीयसूत्रादिति भावः । अत्र बहुत्वं प्रायिकत्वाभिप्रायम् । विभक्त्यन्तो वर्णस् तादृशौ वर्णौ वा तादृशा वर्णा वेत्यर्थः । विभक्त्यन्तवर्णत्वं पदत्वमिति यावत् । विभक्त्यन्तत्वस्य वर्णत्वाव्यभिचारेऽपि वर्णा इत्याद्युक्तिः स्पष्टार्था । राजपुरुष इत्यादौ अनेकपदसमुदायस्य विभक्त्यन्तस्य पदत्व-निवृत्त्यर्थं विभक्त्यन्ता वर्णा इत्युक्तिः । तदर्थस्तु विभक्तिर् अन्त एव येषां ते विभक्त्यन्ता इति । राजपुरुष इत्यादौ तु मध्येऽपि विभक्तिर्लुप्ताऽ-स्तीत्येके । अन्ये तु तस्यापि पदत्वलाभायैवमुक्तिः । पदद्वयावयव-विभक्तिद्वयात् समुदाय उत्पन्नविभक्तेरन्यत्वेन पदद्वयस्थवर्णसमुदायस्यापि विभक्त्यन्तवर्णत्वादित्याहुः । वर्णान्यस्फोटनिरासाय वर्णोक्तिरित्यपरे ॥
॥ आकाङ्क्षेति ॥ प्रयुज्यमानपदेष्वेवान्योन्याकाङ्क्षावन्ति पदानीत्यर्थः । तेन निराकाङ्क्षपदानि वाक्यमिति भाष्यटीकया न विरोधः । स्वस्मिन्नेव पूर्णा-काङ्क्षावत्त्वेनान्यत्र निराकाङ्क्षपदसन्दर्भो वाक्यमिति चन्द्रिकायां तस्यार्थोक्तेः । पदानीति बहुत्वं प्रायिकाभिप्रायम् । अत्रापि पदशब्दप्रयोगकृत्यं पूर्वं वर्णपद-कृत्यवत् पदान्यवाक्यस्फोटनिरासायेति बोध्यम् । प्रकृतिप्रत्ययसमभि-व्याहारपदे अतिव्याप्तिनिरासाय पदानीत्युक्तिः । पदादीनामित्यादिपदेन वाक्यस्याकाङ्क्षासन्निध्यादेर्ग्रहः ॥ अत एवेति ॥ पदादिस्वरूपव्युत्पादनार्थ-त्वादेवेति ब्रह्मतर्कसंवादार्थत्वादेवेत्यर्थः ॥ मूलेति ॥ ‘‘निर्दोषः शब्द आगमः’’ इति मूलस्थमित्यर्थः ॥
ननु– केयमाकाङ्क्षा ?
तर्कताण्डवं
ननु– केयमाकाङ्क्षा ?
न तावदविनाभावः । घटमानयेत्यादावभावात् । न हि घट आनयनाविनाभूतः । अहो विमलं जलं नद्याः कच्छे महिषश् चरतीत्यत्र जले साकाङ्क्षस्य नदीपदस्य नद्यविनाभूते कच्छे साकाङ्क्षत्वप्रसङ्गाच्च ॥
नाप्युदयनाद्युक्तरीत्या श्रोतरि तदुच्चारणजन्यसंसर्गावगमप्रागभाव आकाङ्क्षा । अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यत्र पुत्रे साकाङ्क्षस्य राजपदस्य तात्पर्यभ्रमेण पुरुषान्वयबोधे ततः प्राक्तदन्वयावगम-प्रागभावस्य सत्त्वेनातिव्याप्तिः ।
नापि तात्पर्यविषयीभूतसंसर्गावगमप्रागभाव आकाङ्क्षा । प्राग-भावस्य कार्यमात्रहेतुत्वेन शाब्दासाधारण्यायोगात् । वक्ष्यते चैतत् ॥
न्यायदीपः
तत्र पद्धतौ वाक्यलक्षणे प्रथमोद्दिष्टाकाङ्क्षास्वरूपं निरूपयितुं पूर्वपक्षमाह ॥ नन्विति ॥ पदानां या आकाङ्क्षा सेयं केत्यर्थः ॥ अभावादिति ॥ कुतः परस्परव्यभिचारादिति भावेनाह ॥ न हीति ॥ आनयनं वा घटाऽविनाभूतमित्यप्युपलक्ष्यते । एतेन कारकस्य क्रियाऽविनाभावः क्रियायाः कारकाऽविनाभावोस्तीति निरस्तम् । क्रियाविशेषकारकविशेषयोस् तदभावेन घटमानयेत्यनयोर् निराकाङ्क्षताऽऽपत्तेरिति । मणौ नीलं सरोजमित्यादौ व्यभिचारोक्तिस्त्वयुक्ता । तत्र तात्पर्यविषययोर् नीलसरोजयोरविनाभाव-सत्त्वादिति भावः ॥
ननु पदार्थतावच्छेदकरूपेण क्रियाकारकभावेन विवक्षितोऽविनाभावः प्रकृतेप्यस्तीत्यत आह ॥ अहो विमलमिति ॥ पूर्वत्रोक्तातिव्याप्तेर्निरासकं पक्षमाशङ्क्य निराह ॥ नापीति ॥ श्रोतरि विद्यमान उक्तरूपप्रागभाव अकाङ्क्षेत्यर्थः । अत्र घटः कर्मत्वम् आनयनं कृतिरिति वाक्याभासे घट-मानयेत्येतत्समानार्थकेऽतिव्याप्तिनिरासाय तदुच्चारणजन्येत्यवगमविशेषणम् । वक्त्रपेक्षयाऽसम्भववारणाय श्रोतरीत्येके । स्वरूपकथनं तदित्यन्ये ॥
अहो विमलमिति पूर्वोक्तवाक्ये च तात्पर्यवशात् कदाचित् कच्छनद्योः संसर्गावगमेन तत्प्रागभावसत्त्वेऽपि तदुच्चारणे तात्पर्यवशाज् जलान्वितनद्याः कच्छसंसर्गावगमो नेति न तत्प्रागभाव इति नातिव्याप्तिरिति भावः । इत्यत्रे-त्युपलक्षणम् । पूर्ववाक्ये चेत्यपि ज्ञेयम् । कस्यचित् तात्पर्यवशाज् जलान्वयावगमेन नद्याः कच्छान्वयानवगमेऽपि प्रयोगान्तरे पुनरन्यस्य कच्छान्वयतात्पर्यभ्रमेण तदन्वयावगमसम्भवात् ।
॥ तात्पर्यविषयेति ॥ पुरुषान्वयबोधस्तु न तात्पर्यविषय इति न पूर्वोक्तदोष इति भावः । शब्दासाधारण्यायोगादित्युपलक्षणम् । संसर्गावगमान्तरप्रागभावस्य सत्त्वाज् जनितान्वयबोधस्यापि वाक्यस्य साकाङ्क्षत्वापत्तिरित्यपि बोध्यम् ॥ वक्ष्यत इति ॥ मण्युक्ताकाङ्क्षास्वरूप-खण्डनप्रस्तावे ‘‘किञ्च प्रागभावस्य’’ इत्यादिग्रन्थे ।