किञ्चातीन्द्रियज्ञानोपगमे योग्यानुलब्धेरभावेन..
निर्विकल्पके बाधकम्
तर्कताण्डवं
किञ्चातीन्द्रियज्ञानोपगमे योग्यानुलब्धेरभावेन ज्ञानाभावस्य निश्चेतुमशक्यतया अनुपलब्धिलिङ्गजन्या घटाद्यभावधीर्न स्यात् ॥
न्यायदीपः
निर्विकल्पके साधकाभावमात्रं न बाधकं चास्तीत्याह ॥ किञ्चेति ॥ योग्येति ॥ यद्यत्र मयि ज्ञानं स्यादुपलभ्येतेतिप्रतियोगिसत्त्वप्रसञ्जित-प्रतियोगित्वरूपमण्युक्तयोग्यानुपलब्धेरित्यर्थः ॥ लिङ्गजन्येति ॥ यद्यपि घटाद्यभावो योग्यानुपलब्धिसहकृतप्रत्यक्षवेद्यस्तथापि क्वचिदन्धकाराद्या-वृतस्थले परामर्शेन गृह्यमाणो घटाद्यभावोत्र घटो नास्ति योग्यत्वे सत्य-नुपलभ्यमानत्वादिति लिङ्गगम्य इत्यभ्युपगमात् । ज्ञानाभावज्ञान-स्यावश्यकत्वद्योतनाय लिङ्गजन्या घटाद्यभावधीरित्युक्तम् ।
न च सविकल्पकाभाव एव घटाभावबुद्धौ लिङ्गमस्तु सविकल्पकस्य योग्यतया तदभावज्ञानसम्भवादिति वाच्यम् । उपलब्धिसामान्या-भावस्यैवार्थाभावे लिङ्गत्वादन्यथातिप्रसङ्गादिति भावः ।
न च सविकल्पकाभाव एव निर्विकल्पकाभावे लिङ्गम्
तर्कताण्डवं
न च सविकल्पकाभाव एव निर्विकल्पकाभावे लिङ्गम् । निर्विकल्पके सति सविकल्पकावश्यम्भावाभावेन निर्विकल्पकंप्रति सविकल्पकस्याव्यापकत्वात् ॥
अपि च निर्विकल्पकजन्यसविकल्पकोत्पत्तिदशायामतीन्द्रिय-निर्विकल्पकसामग्रीसत्त्वेन सत्प्रतिपक्षवत् सामग्रीद्वयस्य परस्पर-प्रतिबन्धादेकमपि ज्ञानं नोत्पद्येत ॥
न च पूर्वनिर्विकल्पकमेवोत्तरनिर्विकल्पकप्रतिबन्धकम् । धारा-वाहिकसाक्षात्कारदर्शनेन त्वत्पक्षेपिप्रत्यक्षस्थले सिद्धेः सिद्ध्यन्तरा-प्रतिबन्धकत्वात् ।
न च समूहालम्बनवत् सामग्रीद्वयादार्थसमाजादेकं ज्ञानमस्त्विति वाच्यम् । तद्वदिह फलाविरोधाभावात् । न हि सम्भवत्येकमेव ज्ञान-मेकस्मिन्नेव घटे घटत्वप्रकारकं तदप्रकारकं चेति ॥
अपि च दण्डपुरुषोभयसन्निकर्षे सति दण्डदण्डत्वोभय-निर्विकल्पकानन्तरं दण्डे दण्डत्ववैशिष्ट्यज्ञानात्पूर्वं मुण्डितदण्डविशिष्ट-पुरुषधीः स्यात् । सामग्र्याः सत्त्वात् । न चेष्टापत्तिः । तादृशज्ञानाननु-भवात् ॥
न हि दण्डपुरुषसन्निकर्षानन्तरं दण्डे दण्डत्ववैशिष्ट्यज्ञानात्पूर्वं मुण्डितदण्डविशिष्टपुरुषज्ञानमनुभूयते । न चेदमपि ज्ञानमतीन्द्रियम् । सविकल्पकत्वात् । मम तु इन्द्रियसन्निकर्षादादावेव विशिष्टवैशिष्ट्य-ज्ञानोत्पत्तेर्नायंप्रसङ्गः ॥
न्यायदीपः
ननु निर्विकल्पकस्यातीन्द्रियत्वेन तदभावस्याप्रत्यक्षत्वेपि तज्ज्ञान-मनुमितिरूपमस्तु । सविकल्पकस्य निर्विकल्पव्यापकतया सविकल्पका-भावस्यैव तत्र लिङ्गत्वात्तस्य चप्रत्यक्षत्वादित्याशङ्क्य निराह ॥ न चेति ॥ सविकल्पकावश्यम्भावाभावेनेति ॥ निर्विकल्पकमात्रस्य सविकल्पकंप्रत्यसामग्रीत्वात्कारणान्तराभावादिना तदभावसम्भवादिति भावः ।
बाधकान्तरमाह ॥ अपि चेति ॥ सविकल्पकदशायां निर्विकल्पक-सामग्र्येव नास्ति निर्विकल्पकाभावसहकृतेन्द्रियसंयोगादेरेव निर्विकल्पक-सामग्रीत्वादेवं च नोक्तदोष इति भावेनाशङ्क्य निराह ॥ न च पूर्वेति ॥ सामग्रीद्वयसत्त्वेप्यविरोधमाशङ्क्य निराह ॥ न च समूहेति ॥ तत्तदिन्द्रिय-सन्निकर्षरूपानेकसामग्रीसत्त्वेपि अनेकगोचरमेकं ज्ञानं जायते न तुप्रतबिन्ध एवमस्त्वित्यर्थः । विरोधं व्यनक्ति ॥ न हीति ॥
ननु स्मृतिसामग्रीतोनुभवसामग्र्या इवानुमितिसामग्रीतःप्रत्यक्षसामग्र्या इव च निर्विकल्पकसामग्रीतः सविकल्पकसामग्र्या बलवत्त्वात् सविकल्पक-स्यैवोत्पत्तिरित्यस्त्वित्यतो दोषान्तरमाह ॥ अपिचेति ॥ मुण्डितदण्डेति ॥ दण्डत्वानुल्लेखिदण्डविशिष्टपुरुषधीरित्यर्थः ॥ सामग्र्या इति ॥ विशेषण-ज्ञानविशेष्येन्द्रियसन्निकर्षतदुभयाससंर्गाग्रहरूपविशिष्टज्ञानसामग्र्या इत्यर्थः ।