यच्चोच्यते समवायसम्बन्धेन पूर्वं..
निर्विकल्पकवादः
तर्कताण्डवम्
निर्विकल्पकेप्रमाणभङ्गः
यच्चोच्यते समवायसम्बन्धेन पूर्वं गत्वादिजातिविषयकं निर्वि-कल्पकम् अनन्तरं जातिविशिष्टगकारविषयकं सविकल्पकमिति । तन्न । निर्विकल्पके मानाभावात् ॥
ननु यद्यपि निर्विकल्पके नप्रत्यक्षंप्रमाणम् । तस्यातीन्द्रिय-त्वाभ्युपगमात् । नापि व्यवहारः । तस्य च सविकल्पकसाध्यत्वात् । नापीदं पूर्वं मया संमुग्धेन ज्ञातमित्यनुभवः । तस्याल्पविशेषण-ज्ञानेनैवोपपत्तेः । नापि ज्ञानत्वं निष्प्रकारकत्वसमानाधिकरणं सकलज्ञानवृत्तित्वात् सत्तावत्, चक्षुश् चाक्षुषसविकल्पकातिरिक्त-ज्ञानकरणं ज्ञानकरणत्वाद् घ्राणवदित्यनुमानम् । अप्रयोजकत्वात् । अतिप्रसङ्गाच्च । नापि जागराद्यं गौरिति ज्ञानं जन्यविशेषणज्ञानजन्यं जन्यविशिष्टज्ञानत्वाद् दण्डी पुरुष इति ज्ञानवदित्यनुमानम् । दृष्टान्तस्य साध्यवैकल्यात् । दण्डपुरुषयो रुभयोर्युगपदिन्द्रियसन्निकर्षे असंसर्गाग्रहे च सति विनैव दण्डज्ञानं दण्डीति ज्ञानोत्पादानुभवात् ॥
न्यायदीपः
ननु समवायाभावे निर्विकल्पकादिभेदेनप्रत्यक्षप्रमाद्वैविध्यानुपपत्तिः । तस्य समवायरूपवैशिष्ट्यावगाहित्वानवगाहित्वाभ्युपगमेनैव द्वैविध्यस्य वाच्यत्वादित्यतः द्रव्यादिविकल्पानांप्रथममेवोत्पत्तौ बाधकाभावेन निर्विकल्पकानुपपत्तेरिति पद्घतिवाक्यं विवृण्वानो नास्त्येव निर्विकल्पकं विशिष्टज्ञानं च स्वरूपसम्बन्धावगाहीति भावेनाह ॥ यच्चेति ॥ समवायेति ॥ वस्तुगत्या समवायसम्बन्धेन स्थिता या गत्वादिजातिस् तद्विषयमित्यर्थः । यद्वा श्रोत्रसन्निकर्षरूपेण समवायसम्बन्धेन जायमानं गत्वादिजातिविषयकं वैशिष्ट्याविषयकं ज्ञाननिर्विकल्पकं, तेनैव सन्निकर्षेण पश्चाज्जायमानं जातिविशिष्टज्ञानं सविकल्पकमित्यर्थः ।
सम्भावितपक्षान्मण्युक्तखण्डनरीत्या निराकुर्वन्नेव पूर्वपक्षयति ॥ यद्यपीत्यादिना ॥ तथापीति वक्ष्यमाणेनान्वयः । व्यवहारो गौरित्या-द्यभिलपनरूपः ॥ तस्येति ॥ तादृशानुव्यवसायस्येत्यर्थः । सविकल्पक-ज्ञानत्वे अव्यभिचाराय सकलेति हेतुविशेषणम् । निष्प्रकारकघटादिवृत्तित्वे बाधात् तादृशज्ञानवृत्तित्वेनैव साध्यपर्यवसानमिति भावः ॥ अतिप्रसङ्गा-च्चेति ॥ ज्ञानत्वं घटत्वसमानाधिकरणमिति, तथा चक्षुश् चाक्षुष-निर्विकल्पकसविकल्पकातिरिक्तं ज्ञानजनकमित्यपि त्वदक्तप्रयोगाभ्यां साधयितुं शक्यत्वादिति भावः ॥ गौरिति ॥ ज्ञानमात्रपक्षत्वे द्वितीयादि-
सविकल्पके प्राथमिकसविकल्पकजन्यत्वेनार्थान्तरनिरासाय जागराद्यमित्युक्तिः । साध्ये ईश्वरज्ञानजन्यत्वेन अर्थान्तरवारणाय जन्येति ज्ञानविशेषणम् ॥
तथापि ‘‘एतज्जन्मनि प्राथमिकं गौरितिप्रत्यक्षं..
तर्कताण्डवं
तथापि ‘‘एतज्जन्मनि प्राथमिकं गौरितिप्रत्यक्षं जन्यविशेषण-ज्ञानजन्यं जन्यविशिष्टज्ञानत्वादनुमितिवत्’’ इति मण्युक्तमनुमानं मानम् । नच तत्र विशेषणज्ञानं स्मृतिरूपम् । एतज्जन्मनि तेन गोत्वस्याननुभवात् । न चाद्यस्तनपानादाविवात्रा दृष्टमेव जन्मान्तरिय- संस्कारोद्बोधकम् । तद्वदनन्यगतिकत्वाभावात् । अन्यथातिप्रसङ्गात् । तद्वदेव सन्निकर्षेपिप्रथमं गोत्वस्मृत्यापाताच्च । गोत्वसन्निकर्ष-स्याप्यपेक्षायां तु सन्निकर्षाद्गोत्वानुभव एवोचितः । तस्यानुभव एव हेतुत्वस्य कऌप्तत्वात् । स्मृतिसामग्रीतोनुभवसामग्र्या बलवत्त्वात् । अन्यथा जन्मान्तरानुभूतानाम् एतज्जन्मनि इन्द्रियसन्निकृष्टानां नित्यानां वैदिकानां चार्थानां स्मृतिरेव स्यान्न त्वनुभवः । न च गोत्वरूप-विशेषणानुभवः सविकल्पकः । तथात्वे तस्यापि विशेषणज्ञानजन्य-त्वावश्यम्भावेनानवस्थानात् ।
न्यायदीपः
मणिकृता सिद्धन्तितमनुमानमाह ॥ तथाप्येतज्जन्मनीति ॥ एतज्जन्मनीत्यस्य कृत्यमग्रे व्यक्तम् । द्वितीयादिज्ञाने प्राथमिकसविकल्पक-जन्यत्वेनार्थान्तरनिरासाय प्राथमिकमित्युक्तिः । साध्ये जन्येति विशेषण-मीश्चरज्ञानेनार्थान्तरनिरासाय । हेतौ चाव्यभिचारायेति भावः ।
मण्युक्तदिशैव परिष्करोति ॥ न च तत्रेति ॥ तद्विदिति ॥ इह निर्विकल्पकेनाप्युपपत्त्या जन्मान्तरीयसंस्कारोब्दोधकादृष्टकल्पनानुपपत्तेरिति भावः ॥ अतिप्रसङ्गादिति ॥ सविकल्पकप्रत्यक्षादेरप्येवमपलापप्रसङ्गा-दित्यर्थः ॥ तद्वदेवेति ॥ स्तनपानादिवदेवेत्यर्थः ।
नन्वस्तु सन्निकर्षाद्गोत्वानुभवः । स च विशिष्टज्ञानरूप एव सविकल्पकहेतुरस्त्वित्याशङ्क्याह ॥ न च गोत्वरूपेति ॥