किञ्च कालस्य स्वगतेन सङ्ख्यापरिमाणादिना ..
समवाये बाधकानि
तर्कताण्डवं
किञ्च कालस्य स्वगतेन सङ्ख्यापरिमाणादिना त्वयापि स्वरूप-सम्बन्धः स्वीकृत इति किं तत्र समवायेन ।
यदि च कालस्य तेन सह समवायस्य सत्त्वान्न स्वरूपसम्बन्धः । तर्हि कालस्य घटेन सह संयोगस्य सत्त्वात् स्वरूपसम्बन्धो न सिद्ध्येत् । साम्यात् ॥
न्यायदीपः
एवं समवायस्याप्रामाणिकत्वमुक्त्वानुव्याख्यानसुधयोरुक्तमन्यत्समवायोप-गमे बाधकजातमाह ॥ किञ्चेति ॥ यद्वा प्रागुक्तानुमानेषु गुणादि-विशिष्टबुद्धिनिमित्तसम्बन्धतया हि समवायसिद्धिरभिमता सा न युक्ता । तद्बुद्धेरन्यथोपपत्तेरिति । चतुर्थान्यथोपपत्तिमाह ॥ किञ्चेत्यादिना ॥
अथवा
‘‘समवायश्च सम्बन्धो नित्यः स्यादेक एव सः’’
इति नित्यत्वे सत्येकत्वे सति सम्बन्धत्वमिति यत्समवायलक्षणमुक्तं तत्र सम्बन्धत्वं तावदन्यथोपपत्तिचतुष्टयेन निराह ॥ किञ्चेत्यादिना ॥
तत्रादौ तावत्साम्यादनवस्थितेरिति सूत्रखण्डस्य स्वगतसङ्ख्यादिगुणेन कालस्य पदार्थान्तरेणेव स्वरूपसम्बन्धस्वीकारसाम्यात्समवायस्यानवस्थितेर-सत्त्वापातादित्यर्थमुपेत्याह ॥ कालस्येति ॥ कालपरिमाणं सदास्तीति कालस्यैकत्वसख्या सदास्तीत्यादिप्रतीत्या कालस्य जगदाधारताप्रयोजकत्वेन स्वगतधर्मैरन्यैश्च सर्वैः स्वरूपसम्बन्धः स्वीकृत इति तेनैव सम्बन्धेनैकः कालो परिच्छिन्नपरिमाणः काल इति विशिष्टबुद्ध्युपपत्तौ तत्र समवायस्या-वस्थित्यभावः स्यादित्यर्थः ।
स्वगतसङ्ख्यादिना समवायसत्त्वस्येव घटादिद्रव्येण संयोगसत्त्वस्यापि साम्यादिदानीं घट इत्यादिधीबलेन घटादिना स्वीकृतस्वरूपसम्बन्ध-स्यावस्थित्यभावापत्तेरित्यर्थान्तरं चोपेत्याह ॥ यदि चेति ॥ तेन ॥ स्वगतसङ्ख्यादिना ॥
अपि च गुणादेरपि त्वन्मते स्वाभावस्वज्ञानस्वकालैः ..
तर्कताण्डवम्
अपि च गुणादेरपि त्वन्मते स्वाभावस्वज्ञानस्वकालैः सह स्वरूपसम्बन्धत्वं तावदस्ति । तच्च गुणादेरभावज्ञानादीन्प््राति स्वरूप-सम्बन्धत्वं नप्रतियोगित्वविषयत्वादिना । अननुगमात् । गौरवाच्च । किन्तु विशेषत्वेनानुगमाल्लाघवाच्च । विशेषणत्वं च गुणादेर्गुण्यादावपि सममिति गुण्यादावपि गुणादेः स्वरूपसम्बन्धत्वं कप्तमेवेति क्व समवायस्य अवकाशः ।
अपि च घटरूपसमवाया इति समूहालम्बनज्ञानाद् रूपी घट इत्यादिबुद्धेर्वैलक्षण्यायावश्यमङ्गीकार्येण रूपस्य घटेन सह विशेषण-ताविशेषेणैव विशिष्टबुद्ध्युपपत्तौ किं समवायेन । एवं रसादावपीति न समवायस्यावकाशः ।
किञ्च समवायस्यापि स्वसम्बन्धिना सह सम्बन्धाङ्गीकारे अनवस्था । तत्र स्वरूपसम्बन्धाङ्गीकारे च गुणादेरेव गुण्यादिना स्वरूपसम्बन्धोस्तु । साम्यात् । किं दूरगमनेन । कालस्य स्वगत-सङ्ख्यादिना समवायानुपपत्तिः, गुणादेः, स्वाभावादिनेव गुण्यादिनापि स्वरूपसम्बन्धेनैवोपपत्तिः, समूहालम्बनाद्वैलक्षण्यानुपपत्तिः, अनवस्था चेति बाधकचतुष्टयं दुष्परिहरम् ॥
न्यायदीपः
नन्वस्त्वेवं तथापीदानीं घटरूपमित्यादिधीबलाद्घटरूपादिनैव स्वरूप-सम्बन्धः कालस्य नान्येनेत्यत आह ॥ अपि चेति ॥ यद्वा काले गुणविशिष्टबुद्ध्युपपादकसम्बन्धत्वेन समवायासिद्धावप्यन्यत्र तथात्वेन सिद्धिरस्त्वित्यत आह ॥ अपि चेति ॥ तच्च स्वरूपसम्बन्धत्व-मित्यन्वयः । विषयत्वादिनेत्यादिपदेन विशेषणविशेष्यभावग्रहः ॥ अननु-गमादिति ॥ स्वाभावेनप्रतियोगित्वरूपः, ज्ञानादिना विषयत्वरूपः, कालेन विशेषणत्वादिरित्यननुगमाद् अनेककल्पने गौरवाच्चेत्यर्थः ॥
॥ सममिति ॥ एतेन गुणादेर्विशेषणत्वसाम्यात्समवायस्यावस्थित्य-भावाद् इत्यर्थ उक्तो भवति ॥ वैलक्षण्यायेति ॥ समूहालम्बनेपि घट-तद्रूपतत्समवायानांप्रतीतिवद्रूपी घट इतिप्रतीतावपि रूपादित्रयस्यैव भानेऽनुभवसिद्धस्य ततो वैलक्षण्यस्यायोगेन रूपादौ विशेषणत्वादिरेव समूहालम्बने अप्रतीतोत्रप्रतीयत इति वाच्यमिति तेनैवोपपत्तौ किं समवायेनेत्यर्थः । एतेन अभावविशिष्टबुद्धिसाम्याद् रूपी घट इत्यादावपि समवायस्य अवस्थित्यभाव इत्यर्थः सूत्रांशस्य सूचितः ।
‘‘भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद्ध्रुवम्’’
इत्यनुव्याख्यानसुधयोरुक्तमाह ॥ किञ्चेति ॥ सम्बन्धिना गुणगुण्यादि-रूपेणेत्यर्थः । समवायस्य अवस्थित्यभाव इत्यर्थः । समवायविशिष्टबुद्धि-साम्यात्समवायस्यावस्थित्यभावो गुणादावपीत्यर्थमुपेत्याह ॥ तत्रेति ॥ समवेतः पट इत्यादिसमवायविशिष्टबुद्धौप्रतीतसमवायसमवायिनोरित्यर्थः ॥ दूरेति ॥ गुणादिविशिष्टबुद्धौ समवायः, समवायविशिष्टद्धौ स्वरूपसम्बन्ध, इत्यभ्युपगमेन किमित्यर्थः । उपपादितबाधकानि बुद्ध्यारोहाय संगृह्याह ॥ कालस्येति ॥