यच्चोच्यते
समवायवादः
तर्कताण्डवम्
समवाये प्रमाणभङ्गः
यच्चोच्यते । आकाशात्मकश्रोत्रगुणा वर्णाः समवायेन सम्बन्धेन गृह्यन्त इति तन्न । वर्णानां नित्यविभुद्रव्यत्वात् समावाये माना-भावाच्च ॥
ननु यद्यपि समवायेप्रत्यक्षं नप्रमाणम् । इमौ संयुक्ता-वित्यादिवदिमौ समवेताविति वाऽनयोः समवाय इति वा अननु-भावात् । समवायं जानामीत्यननुव्यवसायाच्च । रूपी घट इत्यादेश्चा-भाववद्भूतलमित्यादिवदुपपत्तेः ॥
न्यायदीपः
ननु ‘‘आकाशगुणे शब्दे व्यज्यमाना वर्णादय’’ इति ध्वनेरेवाकाश-गुणत्वोक्तिरयुक्ता । वर्णानामप्याकाशगुणत्वात् । अन्यथा श्रोत्रेण सह सम्बन्धायोगेन वर्णग्रहणानुपपत्तेः । आकाशगुणत्वे त्वाकाशात्मकश्रोत्रेण तद्गुणस्य वर्णस्य समवायेन ग्रहणोपपत्तेरित्यतः संयोगसम्बन्धेनैव तद्ग्रह इति भावेन ‘‘समवायाभ्युपगमाच्चेति’’ सूत्रदूषितं समवायं निरसितुमाह ॥ यच्चेति ॥ नित्यविभुद्रव्यत्वादिति ॥ अन्यानुविधानाभावादिना घटादेरिव द्रव्यत्वस्य, पूर्वोक्तदिशा नित्यत्वस्य, काश्यां श्रुत एव गकारोत्रापि श्रूयत इतिप्रत्यभिज्ञानात्, ‘‘तावती वाक्’’ इति श्रुतेर्विभुत्वस्य, च सिद्धेर्गुणत्वे मानाभावाच्चेत्यर्थः ।
न च शब्दो गुणः सामान्यवत्त्वे सत्यस्मदादिबाह्यैकेन्द्रियग्राह्यत्वाद्रूप-वदित्यनुमानं गुणत्वे मानमिति वाच्यम् । ध्वनिशब्देन सिद्धसाधनत्वात् । वर्णात्मक इत्युक्तावपि हेतोरप्रयोजकत्वात् । घटादीनामेकेन्द्रियाग्राह्य-त्वेप्यात्मनस्तथात्ववद्द्रव्यस्यैव सतो बाह्यैकेन्द्रियग्राह्यत्वेपि विरोधाभावात् । निरवयवद्रव्यत्वे बाह्येन्द्रियग्राह्यत्वविरोध इति चेत् । निरवयवस्यात्मन इन्द्रियग्राह्यत्ववत् । बाह्यैकेन्द्रियग्राह्यत्वेपि बाधकाभावेन व्याप्त्यनिश्चयादिति सुधायामेव व्यक्तत्वादिति भावः । यद्यपीत्यस्य तथापीति वक्ष्यमाणेनान्वयो ध्येयः ॥
समवायवादे पूर्वपक्षे मण्युक्तदिशा निराह ॥ इमाविति ॥ अननु-भवोऽसिद्ध इत्यत आह ॥ समवायं जानामीति ॥
यद्वा समवायो हि विशेषणत्वेन वा विशेष्यत्वेन वा अयं घट इतिवदयं समवाय इति समवायत्वरूपस्वरूपेण वा संसर्गविधया वा भासेत । तत्राद्य आह ॥ इमाविति ॥ द्वितीय आह ॥ अनयोरिति ॥ तृतीय आह ॥ समवायमिति ॥ तथा च समवायत्वेन समवायप्रत्यक्षमसिद्धमिति भावः । चतुर्थ आह ॥ रूपीति ॥ संसर्गविधयैवप्रतीयमानसम्बन्धस्या-भावभूतलसम्बन्धवत् समवायभिन्नसम्बन्धत्वेनाप्युपपत्त्या समवायत्वासिद्धे-रित्यर्थः । ज्ञातमिष्टमित्यादिप्रत्यय आदिपदार्थः ।
एतेनायं तन्तुपटसम्बन्धप्रत्ययश्चाक्षुषः..
तर्कताण्डवम्
एतेनायं तन्तुपटसम्बन्धप्रत्ययश्चाक्षुषश् चक्षुरन्वयव्यतिरेकानु-विधायित्वाद् घटप्रत्ययवदिति समवायप्रत्यक्षत्वसाधनमप्यपास्तम् । उपादानोपादेयाभेदवादे आश्रयासिद्धेः । तद्भेदवादेपि घटाभावभूत-लयोरिवेहापि स्वरूपसम्बन्धस्य चाक्षुषत्वेनार्थान्तरात् ॥
(१) एतेन रूपी घट इति धीर्विशेषणविशेष्यसम्बन्धविषया विशिष्टधीत्वाद् दण्डीति धीवत्; (२) इह तन्तुषु पट इत्यादिरिहप्रत्यय आधाराधेयसम्बन्धनिमित्तको ऽबाधितेहप्रत्ययत्वात् । इह कुण्डे बदरमिति धीवत्; (३) जात्यादिगोचरो विशिष्टव्यवहारः सम्बन्धनियतः भावमात्रविषयाबाधितविशिष्टव्यवहारत्वात् सघटं भूतलमिति व्यवहारवत्; (४) एते तन्तव एतत्पटसम्बद्धा एतदाश्रयत्वाद् भूतलवत्; (५) भूतलरूपादयो भूतलसम्बद्धा भूतल-विशेषणत्वाद् घटवदित्याद्यनुमानमप्यपास्तम् । स्वरूपसम्बन्धे-नार्थान्तरात् । अयं संयोग एतदन्यसंयोगत्वरहितसम्बन्धान्यः मेयत्वादित्यादि तु स्वव्याहतम् । रूपादिरिन्द्रियसम्बद्धःप्रत्यक्षत्वाद् घटवदित्यत्र तु अभावादाविव संयुक्तविशेषणतादिरूपसम्बन्धे-नार्थान्तरम् ॥
न्यायदीपः
॥ सम्बन्धप्रत्यय इति ॥ तन्तुषु पट इति संसर्गविधया तन्तुपट-सम्बन्धविषयकःप्रत्यय इत्यर्थः । विशेषणत्वादिना तत्प्रत्ययस्यासिद्धे-रुक्तत्वाद्वक्ष्यमाणार्थान्तरानवकाशाच्च । स्वरीत्याह ॥ उपादानेति ॥ पररीत्याह ॥ तद्भेदेति ॥
समवायसाधकप्राचीनानुमानान्याशङ्क्य मण्युक्तदोषोक्त्या निराह ॥ एतेनेत्यादिना ॥ भूतले अभावप्रत्ययवदन्यथोपपत्तिकथनेनेत्यर्थः । अपास्तमित्यन्वयः । भ्रमे व्यभिचारनिरासायाबाधितेति हेतुविशेषणोक्तिः ॥ जात्यादीति ॥ ब्राह्मणोयं, शुक्लः पटः, चलति गौः, विशिष्टः परमाणु-रित्यादिजातिगुणक्रियाविशेषविशिष्टव्यवहार इत्यर्थः ॥ सम्बन्धनियत इति ॥ स्वविषयसम्बन्धव्याप्त इत्यर्थः । तेन श्रोत्रादिसम्बन्धनैयत्येन नार्थान्तरम् । जातिरित्याद्यविशिष्टव्यवहारे अव्यभिचाराय विशिष्टेति हेतुविशेषणम् । इदं रूप्यमित्यादिबाधितसम्बन्धकविशिष्टव्यवहारे अव्यभिचाराय अबाधितेति । अभाववद्भूतलमित्यादिभावाभावगोचरतादृश-व्यवहारेऽव्यभिचाराय ॥ भावमात्रेति ॥ सघटमिति ॥ संयोगस्तत्र सम्बन्ध इति भावः ।
॥ भूतलवदिति ॥ संयोगसम्बन्धेन पटाश्रयभूतलवदित्यर्थः । पक्षे च संयोगस्य बाधात् समवाय एव सिध्यतीति भावः । रूपवद्भूतलमितिप्रतीतिमनुरुध्याह ॥ भूतलविशेषणत्वादिति ॥ यद्वा भूतलविशेषणत्वा-दित्यस्य भूतलाश्रितत्वादित्यर्थः । अत एव घटवदित्युक्तिः । अन्यथा घटवद्भूतलमितिप्रतीयमानघटवदिति व्याख्येयम् ।
॥ स्वरूपसम्बन्धेनार्थान्तरादिति ॥ न च स्वरूपाणामनेकत्वेन गौरवापत्तेर् ईश्वरानुमाने कर्त्रैकत्ववल्लाघवादेकः समवाय एव सिध्यतीति वाच्यम् । तथात्वे अभाववद्भूतलं ज्ञातो घट इष्टो घट इत्यादावपि तादृशसम्बन्धाङ्गीकारापत्तेः । तत्र तादृशसम्बन्धस्य बाधात्स्वरूपा-णामनेकत्वेपि कप्तत्वेन गौरवस्यादोषत्वात् स्वरूपम्बन्धेनैव विशिष्ट-प्रत्ययाद्युपपत्तेर्नैकसम्बन्धकल्पनेति चेत् । समंप्रकृतेपि । विवरिष्यते चैतदग्रे नापि गुणक्रियेत्यादिमण्युक्तानुमानान्तरखण्डनप्रस्ताव इति भावः ॥ अयं संयोग इति ॥ बुद्धिस्थः कश्चिद्घटपटसंयोगः पक्षः ॥ एतदिति ॥ पक्षभूतसंयोगपरामर्शः । एतदन्यो यः संयोग एतदन्यसंयोगः स्तम्भकुम्भादि-संयोगस्तस्य भाव एतदन्यसंयोगत्वम् । तद्रहितो यः सम्बन्धः पक्षीकृत-संयोगस्तदन्यः कश्चित्सम्बन्धश्च भवति । तथा च पक्षे पक्षीकृतसंयोगा-न्यत्वस्य बाधाद् अपूर्वसम्बन्धान्तरादन्यत्वमादाय साध्यपर्यवसानमिति समवायसिद्धिः । दृष्टान्ते च घटादौ पक्षभूतसंयोगरूपसम्बन्धान्यत्वेन साध्यानुगमो बोध्य इत्यादि तु विशिष्टव्यतिरेक्यनुमानमित्यर्थः ॥ स्व-व्याहतमिति ॥ अद्यापि समवायरूपसम्बन्धान्तरस्यासिद्ध्या तदादाय साध्यपर्यवसाने बाधात्स्वान्यत्वेनैव साध्यपर्यवसानं वाच्यम् । तद्व्याहत-मित्यर्थः ॥
यद्वा एवमेव संयोगसमवायविशेषावपि पक्षीकृत्य एतदन्यसंयोग-समवायत्वरहितसम्बन्धान्यः मेयत्वाद्घटवत्, अयं घट एतदन्यघटत्वरहित-घटान्यः मेयत्वात्पटवदित्यादिप्रयोगस्यापि सम्भवेन संयोगसमवायान्यसम्बन्धो ऽपूर्वघटादिश्च सिध्येदिति स्वव्याहतमित्यर्थः ॥
अन्ये त्वित्यादिना मण्युक्तमेवाशङ्क्य निराह ॥ रूपादिरिति ॥ क्रियाजात्यादिरादिशब्दार्थः ।प्रत्यक्षत्वात्प्रत्यक्षविषयत्वादित्यर्थः । अत्र संयोगबाधे इन्द्रियसम्बन्धघटकतया समवायसिद्धेरिति भावः ॥ अभावादा-विति ॥ यथा अभाववद्भूतलमिति गृह्यमाणो घटाभावादिश् चक्षुःसंयुक्त-भूतलविशेषणतया त्वन्मते गृह्यते यथा च घटादौ रूपादिसमवायश् चक्षुः-
संयुक्तघटादिविशेषणतया गृह्यते अभावसमवायाभ्यां चक्षुषः समवायादेरभावात् । एवमेव रूपादिरप्यस्तु । तथा च समवायासिद्ध्या अर्थान्तरमित्यर्थः ।