०६ वर्णानां नित्यत्वेऽपि क्रमोपपादनम्

नच नित्यत्वे कालादिकृतक्रमाभावादुच्चारणक्रमस्य..

वर्णानां नित्यत्वेऽपि क्रमोपपादनम्

तर्कताण्डवं

नच नित्यत्वे कालादिकृतक्रमाभावादुच्चारणक्रमस्य च मौनि-श्लोकादावभावादभिव्यक्तिक्रमस्य च लिप्यादिदर्शनजनितसमूहालम्बन-स्मृतिविषयवर्णेष्वभावात् क्रमहीनवर्णमात्रस्य च राजाजारेत्यादौ भिन्नार्थबोधकत्वायोगाद् घसमानकालीनप्रागभावप्रतियोगित्वं टस्य टसमानकालीनध्वंसप्रतियोगित्वं च घस्य क्रमो वाच्य इति वर्ण-नित्यत्वे क्रमानुभवो बाधक इति वाच्यम् ।

यत्र मौनिश्लोकादौ वर्णोत्पत्तिरेव न यत्र च घटेति वक्तव्ये टघेति विपरीत एवोत्पत्तिक्रमस् तत्र त्वदुक्तस्यापि क्रमस्य अभावात् । दृश्यते च टघेत्युक्तेः प्रामादिकत्वं जानतो व्युत्पन्नस्यार्थधीः ।

यदि कालान्तरीयोत्पत्तिक्रमानुसन्धानात्तत्रार्थधीस्तर्हि समूहा-लम्बनस्मृतिस्थलेऽपि कालन्तरीयाभिव्यक्तिक्रमानुसन्धानादर्थधीरिति समम् ॥

न्यायदीपः

तार्किकैकदेशमतं वर्णोत्पत्तिसाधनमाशङ्क्य निराह ॥ न चेत्यादिना ॥ यद्यपीदं मणावेव ‘‘यत्तु श्रोत्रानुविधानात्पदं श्रुणोमीत्यबाधितानुव्यवसाया’’ दित्यादिनाशङ्क्य निरस्तम् । तथापि दोषान्तरविवक्षया शिष्यव्युत्पादनाय च पुनरत्रोपन्यास इत्यदोषः । नित्यत्वे विभुत्वे च वर्णानामिति योज्यम् ।प्रतिपदादितिथ्यादीनामिव कालकृतपौर्वापर्यस्य, मालाभूतबलाकानामिव देशकृतपौर्वापर्यस्य चाभावादित्यर्थः ॥ समूहालम्बनेति ॥ तत्रापि घटाद्यर्थधीदर्शनेन घटाद्यानुपूर्व्या वाच्यत्वादिति भावः ॥

मास्तु क्रमः वर्णानामेवास्तु पदत्वमित्यत आह ॥ क्रमहीनेति ॥ अभिव्यक्तिक्रम एव वर्णानां पदे क्रम इति भावेन तत्रोक्तदोषंप्रतिबन्द्या परिजिहीर्षुः परोक्तक्रमदोषं तावदाह ॥ यत्रेति ॥ उत्पत्तिरेव नेति ॥ वर्णानामुच्चारणजन्यत्वात्तत्र च तदभावादिति भावः । तथाच तत्र प्राग-भावादिप्रतियोगित्वमप्रामाणिकमिति न क्रमः । विपरीतक्रमस्थले तु व्यक्तम् ।

ननु विपरीतक्रमस्थले घटानुपूर्व्येव नास्ति कथमव्याप्तिरित्यतस्तत्र घटार्थबोधरूपकार्यबलेन घटानुपूर्व्यस्तीति वाच्यमिति भावेनाह ॥ दृश्यते चेति ॥ इति सममिति ॥ तथा च घकाराभिव्यक्तिसमानकालीन-प्रागभावप्रतियोग्यभिव्यक्तित्वं टस्य टकाराभिव्यक्तिसमानकालीनध्वंस-प्रतियोग्यभिव्यक्तिकत्वं घकारस्येत्यादिरूपेण घटाद्यानुपूर्वी सम्भवत्येव ॥

न च समूहालम्बनस्थले घटाद्यर्थधीदर्शनेन तत्र घटाद्यानुपूर्व्या-मव्याप्तिरिति वाच्यम् । तत्रापि स्मृतकालान्तरीयोक्तरूपानुपूर्व्या एवार्थधी-जनकत्वेनादोषत्वादिति भावः ॥