ननु वर्णानां नित्यत्वे सर्वदोपलब्धिः स्यात्
वर्णानां प्रतिनियतव्यञ्चकव्यङ्ग्यत्वम्
तर्कताण्डवं
ननु वर्णानां नित्यत्वे सर्वदोपलब्धिः स्यात् । नचोच्चारणजन्यस्य ध्वनिरूपव्यञ्जकस्य कादाचित्कत्वान्न दोष इति वाच्यम् । तस्य हि व्यञ्जकत्वं न तावदावरणापसारणवदिन्द्रियसन्निधापकत्वेन१ । श्रोत्र-गुणत्वपक्षे विभुत्वपक्षे च वर्णानां सर्वदेन्द्रियसम्बन्धात् । नापि चक्षुरादावञ्जनादेरिव श्रोत्रे संस्काराधायकतया । संस्कृतेन श्रोत्रेण चक्षुषेव विविच्य स्वसम्बद्धसर्ववर्णसमूहालम्बनस्यैकस्य ज्ञान-स्योत्पत्त्यापातादिति चेन्न । त्वन्मते वर्णोत्पादकानामिव मन्मते तद्व्यञ्जकानामपि नियतत्वात् ॥
न्यायदीपः
‘‘अत आकाशगुणे शब्दे व्यज्यमाना वर्णादय’’ इति तत्त्वनिर्णय-वाक्यस्य टीकायां शङ्कितं वर्णनित्यत्वबाधकं मण्याद्युक्तमाशङ्कते ॥ नन्विति ॥ श्रोत्रगुणत्वपक्ष इति ॥ परिमाणवच्छब्देन सर्वदा श्रोत्रस्य सम्बन्धा-दित्यर्थः । बुभुत्साया नियामकत्वमाशङ्क्योक्तम् ॥ चक्षुषेवेति ॥
‘‘सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान्प्रकाशयेत् ।
घटायोन्मीलितं चक्षुः पटं न हि न बुध्यते ॥’’
इति प्राचीनोक्तेरिति भावः ॥ त्वन्मत इति ॥ यथैकवर्णोत्पादकेनैव न सर्ववर्णोत्पत्तिः, तथैकवर्णव्यञ्जकेनैव न सर्ववर्णव्यक्तिरिति न सर्वोपलम्भ इत्यर्थः ॥
ननु वर्णा नप्रतिनियतव्यञ्जकव्यङ्ग्याः
तर्कताण्डवं
ननु वर्णा नप्रतिनियतव्यञ्जकव्यङ्ग्याः, एकावच्छेदेन समानदेशत्वे सति समानेन्द्रियग्राह्यत्वाद् घटगतैकत्वपरिमाणवत् । अत्र च साध्ये व्यञ्जकशब्देन विषयसन्निकर्षातिरिक्तो ज्ञानहेतुर्विवक्षित इति न बाधः । हेतौ भिन्नेन्द्रियग्राह्यरूपरसादौ व्यभिचारनिरासाय समानेन्द्रि-येति विशेषणम् । एकेन श्येनचरणावच्छेदेन वर्तमानयोर्भिन्नसंयोगि-व्यङ्ग्ययोः श्येनस्य स्थाणुतदवयवाभ्यां संयोगयोर्व्यभिचारनिरासाय समानदेशत्वे सतीति विशेषणम् । इह च समानदेशत्वमनतिरिक्त-देशत्वं विवक्षितम् । तेनोक्तयोः संयोगयोरेकस्मिन् श्येने वृत्तावपि स्थाणुसंयोगस्य अवयवसंयोगानाश्रये स्थाणौ, अवयवसंयोगस्य च स्थाणुसंयोगानाश्रयेऽवयवे वृत्त्यातिरिक्तदेशत्वान्न व्यभिचारः ।
न्यायदीपः
वर्णानित्यत्ववादे पूर्वपक्षे मणिकृताशङ्क्य निरस्तमप्यनुमानं दोषान्तर-विवक्षया शङ्कते ॥ नन्विति ॥प्रतिनियतेति ॥ अत्रप्रतिनियतव्यञ्जक-व्यङ्ग्यत्वं परस्परव्यभिचारिव्यञ्जकव्यङ्ग्यत्वं दोषाभावे परस्पराविषयक-साक्षात्कारविषयत्वमिति यावत् । तेनैकत्र द्वित्वभ्रमजनकेन परिमाणग्राहिणा परिमाणभ्रमजनकेनैकत्वग्राहिणा च१ न व्यभिचार इति व्याचक्षते ॥ एकेति ॥ कवर्णाद्येकावच्छेदकश्रोत्ररूपसमानदेशत्वे सति श्रोत्रेन्द्रिय-ग्राह्यत्वाद्वर्णानां पक्षे हेतुसत्त्वं ध्येयम् । एकावच्छेदकत्वं देशतः कालतश्चे-त्यग्रे व्यक्तम् । अन्यूनानतिरिक्तदेशकालत्वे सतीति पदद्वयतात्पर्यमित्येके ॥ घटगतेति ॥ घटगतैकत्वपरिमाणयोरेकघटत्वावच्छेदेन समानदेशत्वं समानेन्द्रियचक्षुर्गाह्यत्वमिति हेत्वनुगमः । परिमाणव्यञ्जकालोक-व्यङ्ग्यत्वादेकत्वस्यप्रतिनियतव्यञ्जकत्वाभावरूपसाध्यानुगम इति भावः । ननु व्यञ्जकपदेन सन्निकर्षस्यापि ग्रहणे समवायस्यैकत्वेऽपि तत्तद्वर्णनिरूपित-श्रोत्रसमवायस्य नियतत्त्वात्तदभावसाधने बाधो दृष्टान्ते साध्यवैकल्यं चेत्यत अह ॥ अत्र च साध्य इति ॥ न बाध इत्युपलक्षणम् । दृष्टान्ते साध्यवैकल्यं च नेत्यपि ध्येयम् ॥
सत्यन्तमात्रं हेतुरस्त्वित्यत आह ॥ हेताविति ॥ रूपादेरालोक-लवणादिभिन्नव्यञ्जकव्यङ्ग्यत्वादिति भावः । समानदेशत्वे सतीत्यस्य कृत्यमभिमतं मण्युक्तं व्यनक्ति ॥ एकेनेति ॥ साध्याभावोपपादनायोक्तं भिन्नसंयोगिव्यङ्ग्ययोरिति । कारणाकारणसंयोगात्कर्याकार्यसंयोग इति संयोगजसंयोगपक्षे स्थाणुश्येनसंयोगस्थाने स्थाण्ववयवसंयोगस्यापि सत्त्वात् स्थाणुतदवयवाभ्यां संयोगयोरित्युक्तम् । तथाच कथं न व्यभिचार इत्यत आह ॥ इह चेति ॥