०४ वर्णानां नित्यत्वेऽनुमानानि

सत्प्रतिपक्षाणि च । तथा हि

वर्णानां नित्यत्वेऽनुमानानि

तर्कताण्डवं

सत्प्रतिपक्षाणि च । तथा हि–

(१) शब्दत्वं नित्यवृत्ति द्रव्यत्वव्याप्यजातिमदसमवेताद्विष्ठ-वृत्तित्वाद् आत्मत्ववत् ।

(२) घ्राणभिन्नबहिरिन्द्रियव्यवस्थापकतावच्छेदकत्वाद् रूपत्ववत् ।

(३) आत्मत्वमूर्तत्वासमानाधिकरणाद्विष्ठवृत्तित्वात् कालत्ववत् ।

(४) स्वाश्रयभिन्नविशेषगुणासमानाधिकरणप्रत्यक्षवृत्तित्वाद् आत्मत्ववत् ।

(५) पृथिवीवृत्त्यवृत्तित्वे आत्मवृत्त्यवृत्तित्वे च सति सत्तासाक्षाद्व्याप्यसाक्षा-द्व्याप्यत्वाज् जलत्ववत् ।

(६) व्योमेतरावृत्तिजातिमद्वृत्तित्वादात्मत्ववत् ।

(७) सकलशब्दवृत्तित्वात् सत्तावत् ।

(८) श्रोत्रं नित्यवृत्तिसत्ताव्याप्यव्याप्यजातिग्राहकम् अपार्थि-वेन्द्रियत्वाच्चक्षुर्वत् ।

(९) वर्णो नित्यो ध्वनिशब्दत्वव्याप्यभिन्नत्वे सति श्रावणत्वा-च्छब्दत्ववद् इत्याद्यनुमानैःप्रतिरोधात् ॥

न्यायदीपः

प्रतिज्ञादोषयोर्बाधप्रतिपक्षयोःप्रबलं बाधकं पूर्वमुक्त्वाप्रतिपक्षदोषं चाह ॥ सत्प्रतिपक्षाणि चेति ॥ शब्दानित्यत्वानुमानानीत्यनुषङ्गः । शब्दो नित्य इत्येवप्रतिज्ञोक्तौ द्वितीयादिकतिपयहेत्वसिद्धिः । ध्वन्यंशे बाधश्च । अतः शब्दत्वं नित्यवृत्तीतिप्रतिज्ञाय द्वितीयादिहेत्वनुगमाय तु वर्णत्वमित्येव न कृतम् । नित्यवृत्तित्त्वं च जगदाधारताप्रयोजक-सम्बन्धभिन्नसबन्धेनेति ज्ञेयम् । स च सम्बन्धो न्यायमते समवायः । सिद्धान्ते स्वरूपसम्बन्धः । तेन कालवृत्तित्वमादाय न सिद्धसाधनताव-काशः । ध्वन्यंशे बाधाद्वर्णवृत्तित्वेन साध्यपर्यवसानमिति भावः ।

॥ द्रव्यत्वेति ॥ द्रव्यत्वव्याप्यजातयः पृथिवीत्वजलत्वादयः । तद्वत्सु पृथिव्यादिष्वसमवेतं यदद्विष्ठम् अव्यासज्यवृत्तितद्वृत्तित्वादित्यर्थः । शब्दस्तु तादृशपृथिव्यप्तेजोवाय्वात्ममनस्स्वसमवेतोऽद्विष्ठश्चेति तद्वृत्तिशब्दत्वे हेतुसत्त्वमिति भावः । एते च हेतवः पररीत्यैव । परसिद्धैर्दूषणमित्या-चार्योक्तेः । अत एव सत्प्रतिपक्षाणीत्युपक्रमः । अन्यथा नित्यत्वे मानं त्विति ब्रूयात् । सिद्धान्तेऽनुगतजातेरभावात् पञ्चीकरणप्रक्रियायां शब्दस्य पृथिव्यादिष्वपि सत्त्वेन तादृशजातिमदसमवेतत्वाभावात् । अत एव सुधायांप्रकृतिनये ‘‘गगनादेश्च सत्यत्वं’’ इत्यत्र पृथिव्यादिगुणत्वेनापि शब्द-स्योत्पत्तिरुक्ता । पञ्चीकरणप्रक्रियामविवक्षित्वा जातिपदस्य सदृशधर्मपरत्व-मुपेत्य स्वरीत्याऽपि वा । तेन मन्मत इत्यग्रिमग्रन्थाविरोध इत्याहुः । विशेषणकृत्यमग्रे स्फुटम् ॥ आत्मत्ववदिति ॥ तच्च क्वाप्यसमवेताद्विष्ठात्म-वृत्तित्वाद्धेतुसाध्ययोः सत्त्वं स्पष्टम् । न्यायमते विभुत्वेन आत्मनोऽवृत्तित्वात् ।

॥ घ्राणेति ॥ घ्राणभिन्नं यद्बहिरिन्द्रियं श्रोत्ररूपं तदस्तित्वा-वधारकतानियामकत्वादित्यर्थः । शब्दज्ञानं हि कार्यं स्वकारणभूतं श्रोत्राख्य-मिन्द्रियस्वरूपमनुमापयति । अकारणकस्यानित्यज्ञानस्य अनुदयात् । अन्यस्य चक्षुरादेः शब्दज्ञाने करणत्वायोगात् । शब्दस्य तादृशेन्द्रिय-व्यवस्थापकतायां शब्दत्वस्यावच्छेदकत्वादिति भावः । चक्षुरिन्द्रियादि-व्यवस्थापके रूपत्वरसत्वादौ हेत्वनुगमाय ॥ बहिरिन्द्रियेति सामान्योक्तिः । न तु श्रोत्रेति विशिष्य ॥ रूपत्ववदिति ॥ रूपत्वरसत्वस्पर्शत्ववदित्यर्थः । बहिरिन्द्रियव्यवस्थापकतावच्छेदकानां रूपरसगन्धस्पर्शशब्दत्वानाम् एकस्य पक्षत्वेऽपि गन्धस्य पृथिवीमात्रगुणत्वेन पार्थिवपरमाणुषु गुणानां पाक-जत्वेनानित्यतायां गन्धत्वस्य नित्यवृत्तित्वरूपसाध्याभावेऽपि जल-परमाण्वादिगतरूपरसस्पर्शानामपाकजत्वेन रूपत्वादित्रयस्य नित्यवृत्ति-त्वात् । आधिक्यदोषनिरासाय रूपत्ववदित्येवोक्तम् ॥

॥ आत्मत्वेति ॥ आत्मत्वमूर्तत्वाभ्याम् असमानाधिकरणं यदद्विष्टं तन्निष्ठत्वादित्यर्थः । मूर्तत्वं नाम इयत्तावच्छिन्नपरिमाणयोगित्वम् । पृथिव्यप्तेजोवायुमनसां धर्मः । पक्षदृष्टान्तभूतयोः शब्दत्वकालत्वयोस्तादृश-शब्दकालनिष्ठत्वात् कालस्य नित्यत्वाच्च हेतुसाध्यानुगम इति भावः ।

॥ स्वेति ॥ स्वस्य शब्दत्वस्याश्रयः शब्दः, तद्भिन्नविशेषगुणो रूपादिः, तदसमानाधिकरणम्प्रत्यक्षं च यत्, शब्द एव, तद्वृत्तित्वा-दित्यर्थः । दृष्टान्ते स्वस्यात्मत्वस्य आश्रय आत्मा । तदतिरिक्तविशेष-गुणेनासमानाधिकरणंप्रत्यक्षं च अवृत्तिभूतमात्माख्यं वस्तु तद्वृत्तित्वादिति हेत्वनुगमो ध्येयः । स्वशब्दस्य समभिव्याहृतपरत्वात् । शब्दत्वमात्र-परत्वेऽप्यदोषात् ।

॥ पृथिवीति ॥ पृथिवीवृत्ती रूपादिः । अत्मवृत्तिर्ज्ञानादिः । तदुभयावृत्तित्वे सति सत्तासाक्षाद्वाप्यं पक्षे गुणत्वम् । दृष्टान्ते च द्रव्यत्वम् । तेन साक्षाद्व्याप्यं शब्दत्वं जलत्वं चेति पक्षदृष्टान्तयोर्हेत्वनुगमः । दृष्टान्ते साध्यानुगमश्च जलपरमाणुवृत्तित्वेन ज्ञेयः । साक्षाद्व्याप्यत्वं नाम व्याप्याव्याप्यत्वे सति व्याप्यत्वम् । गुणत्वद्रव्यत्वयोः सत्ताजातेश्च मध्ये तथा गुणत्वद्रव्यत्वयोः शब्दत्वजलत्वयोर्मध्ये च व्याप्यधर्मान्तरस्याभावात् ।

॥ व्योमेति ॥ व्योमेतरस्मिन्नविद्यमानो यो जातिमान् शब्द आत्मा च तद्वृत्तित्वाच्छब्दत्वस्य आत्मत्वस्य चेति पक्षदृष्टान्तयोर्हेत्वनुगतिः ॥

॥ श्रोत्रमिति पक्षः । नित्यवृत्तिर्या सत्ताव्याप्यगुणत्वव्याप्य-शब्दत्वरूपा जातिस् तद्ग्राहकत्वेन पक्षे, दृष्टान्ते च तादृशरूपत्वग्राहकत्वेन साध्यानुगमः । रूपत्वस्यापि नित्यं यज्जलपरमाण्वादिरूपं तद्वृत्तित्वात् ॥ अपार्थिवेति ॥ परमते घ्राणस्यैव पार्थिवत्वेन तदन्येषामपार्थिवत्वान्ना-सिद्ध्यादिः ॥

॥ ध्वनीति ॥ ध्वनिश्च शब्दत्वव्याप्यं तारत्वादिकं च ताभ्यां भिन्नत्वे सतीत्यर्थः ॥प्रतीरोधादिति ॥ सत्प्रतिपक्षाणीत्यन्वयः ।


अत्राद्ये हेतौ..

तर्कताण्डवम्

अत्राद्ये हेतौ कालाकाशगतद्वित्वनिष्ठद्वित्वत्वेऽव्यभिचारायाद्विष्ठे-त्युक्तम् । गन्धत्वदुःखत्वादावव्यभिचाराय असमवेतेत्युक्तम् । असमवेतवृत्तित्वस्यप्रतिवादिनंप्रत्यसिद्धिनिरासाय द्रव्यत्वव्याप्य-जातिमदित्युक्तम् ।

द्वितीये गन्धत्वेऽव्यभिचाराय घ्राणभिन्नेति । दुःखत्वादाव-व्यभिचाराय बहिरिति चोक्तम् ।

तृतीयेऽप्यद्विष्ठपदस्याद्यहेताविवप्रयोजनं द्रष्टव्यम् । दुःखत्वादौ वेगत्वादौ चाव्यभिचारायात्मत्वमूर्तत्वासमानाधिकरणेत्युक्तम् ॥

चतुर्थे गन्धत्वे दुःखत्वादौ चाव्यभिचाराय विशेषगुणासमानाधि-करणेत्युक्तम् । विशेषगुणासमानाधिकरणमनोगतवेगवर्तिनि वेगत्वेऽ-व्यभिचारायप्रत्यक्षेत्युक्तम् । मनोगतवेगस्त्वप्रत्यक्षः । तावत्युक्ते गकारस्यापि ककाररूपविशेषगुणसमानाधिकरणत्वात् परंप्रत्यसिद्धिः । तदर्थं स्वाश्रयभिन्नेत्युक्तम् । एवं च ककारस्यापि शब्दत्वाश्रयत्वेन तद्भिन्नत्वाभावान्नासिद्धिः ॥

पञ्चमे गन्धत्वादावव्यभिचाराय पृथिवीवृत्त्यवृत्तित्वे सतीत्युक्तम् । दुःखत्वादावव्यभिचाराय आत्मवृत्त्यवृत्तित्वे सतीत्युक्तम् ।प्रभात्वा-दावव्यभिचाराय सत्तेत्याद्युक्तम् ॥

एवं च सत्तासाक्षद्व्याप्यं द्रव्यत्वंप्रति तेजस्त्वमेव साक्षाद्व्याप्यं न तुप्रभात्वादिकमिति न व्यभिचारः । शब्दत्वं तु मन्मते सत्ता-साक्षाद्व्याप्यं द्रव्यत्वंप्रति, परमते च गुणत्वंप्रति साक्षाद्व्याप्यमिति नासिद्धिः ॥

षष्ठे ध्वनिप्रागभावत्वेऽव्यभिचाराय जातिमदित्युक्तम् । गन्धत्वा-दावव्यभिचाराय व्योमेतरावृत्तीत्युक्तम् ॥

न्यायदीपः

॥ द्वित्वत्व इति ॥ अनुमानोपनीतकालाकाशाद्य१गोचरमानसापेक्षा-बुद्धिजन्यस्य कालाकाशोभयगतद्वित्वस्य द्रव्यत्वव्याप्यजातिमत्सु पृथिव्यप्तेजोवाय्वात्ममनस्स्वसमवेतत्वेन द्वित्वत्वे तादृशद्वित्ववृत्तित्व-हेतुसत्त्वेऽपि नित्यवृत्तित्वाभावाद्व्यभिचारनिरासायाद्विष्ठेत्युक्तमित्यर्थः । तर्ह्यद्विष्ठवृत्तित्वादित्येवास्त्वित्यत आह ॥ गन्धत्वेति ॥ गन्धत्वादेः पृथिव्यात्मादिसमवेतगन्धादिवृत्तित्वादव्यभिचार इत्यर्थः । रूपत्वादिकं तु नित्यवृत्तीति गन्धत्वेत्युक्तम् । पार्थिवगुणानां पाकजत्वेन गन्धो न नित्य इति भावः ॥

तर्ह्यसमेवताद्विष्ठेत्येवास्त्वित्यत आह ॥ असमवेतेपि ।प्रतिवादिनंप्रतीति ॥ तार्किकंप्रतीत्यर्थः । सत्प्रतिपक्षानुमानप्रयोक्तृदशायां सिद्धान्तिनः स्थापनावादित्वेन परस्यैवप्रतिवादित्वात् ॥ असिद्धिनिरासायेति ॥ न चासिद्धिनिरासकं व्यर्थम् । व्याप्तिवत् पक्षधर्मताया अप्यनुमित्यङ्गत्वेन तत्सम्पादकस्यापि सार्थक्यात् । ‘‘यन्निष्ठा यन्निरूपिता व्याप्तिर्येन विशेषणेन विना न परिच्छिद्यते तद्विशेषणमर्थवत्’’ इति न्यायेन विशिष्टहेतुनिष्ठ-व्याप्तेरुक्तविशेषणेन विना गृहीतुमशक्यत्वेन व्याप्तिग्रहौैपयिकत्वाच्चेति भावः ॥

॥ गन्धत्व इति ॥ पृथिवीगुणस्य पाकजत्वेन गन्धत्वे नित्यवृत्तित्व-रूपसाध्याभावेऽपि घ्राणरूपबहिरिन्द्रियव्यवस्थापकतावच्छेदकत्वाद्घ्राण-भिन्नेत्युक्त्या न दोष इत्यर्थः ॥ दुःखत्वेति ॥ तस्यान्तरिन्द्रिय-व्यवस्थापकतावच्छेदकत्वादिति भावः ।

आत्मत्वमूर्तत्वान्यतरासमानाधिकरणाद्विष्ठवृत्तित्वादित्युक्तावाह ॥ दुःखत्वादाविति ॥ मूर्तत्वासमानाधिकरणदुःखादिनिष्ठदुःखत्वादौ नित्यवृत्तित्वाभावेन तत्राव्यभिचाराय आत्मत्वासमानाधिकरणेत्यद्विष्ठ-विशेषणम् । आत्मत्वासमानाधिकरणं यदद्विष्ठं तद्वृत्तित्वादित्येवोक्तौ पृथिव्यप्तेजोवायुमनोधर्मवेगरूपगुणस्यात्मत्वासमानाधिकरणत्वेन वेगत्वे यथोक्तहेतुसत्वेऽपि नित्यत्वाभावान् मर्तत्वासमानाधिकरणेति अद्विष्ठविशेषण-मित्यर्थः ॥

प्रत्यक्षवृत्तित्वादित्येवोक्तौ दोषमाह ॥ दुःखत्वादौ चेति ॥ तर्हिप्रत्यक्षेत्यस्य बाह्यप्रत्यक्षेत्यर्थं मत्वोक्तम् ॥ गन्धत्वेति ॥ परंप्रतीति ॥ तार्किकंप्रतीत्यर्थः ॥ नासिद्धिरिति ॥ असिद्धिवारकस्यापि सार्थक्यं पूर्ववत् ।

आत्मेत्याद्युक्तौ दोषमाह ॥ गन्धत्वादाविति ॥ व्योमेतरावृत्तिवस्तु-वृत्तित्वादित्येवोक्तौ दोषमाह ॥ ध्वनिप्रागभावत्व इति ॥