०३ वर्णानित्यत्वे प्रत्यभिज्ञाविरोधः

किञ्च स एवायं गकार इतिप्रत्यभिज्ञाबाधः

वर्णानित्यत्वेप्रत्यभिज्ञाविरोधः

तर्कताण्डवं

किञ्च स एवायं गकार इतिप्रत्यभिज्ञाबाधः । नच तानेव शालीनुपभुञ्ज्मह इत्यादिवत्सोऽयं गकार इति व्यपदेशो गौण इति वाच्यम् ।प्रत्यभिज्ञाबाध उक्ते व्यपदेशगौणत्वशङ्काया व्यधिकरण-त्वात् ।प्रत्यभिज्ञायाश्च स्थायिपदार्थान्तर इवाऽत्राप्यनुभवसिद्धत्वात् । ते शालय इमे शालयो न भवन्तीतिवत् स गकारोऽयं गकारो न भवतीति भेदप्रत्ययाभावाच्च ।

न्यायदीपः

‘‘तदेवेदं वचनमितिप्रत्यभिज्ञाविरोधात् । न च सादृश्यात्प्रत्यभिज्ञा भ्रान्तिरिति वाच्यम् । सोऽयं देवदत्त इत्यादेरपि तथात्वप्राप्तेः’’ इति तत्त्व-निर्णयतट्टीकयोरुक्तं व्यक्तीकुर्वन् उक्तहेतूनां बाधितविषयत्वं चाह ॥ किञ्चेति ॥ यद्यपिप्रत्यभिज्ञा न वर्णनित्यत्वं विषयीकरोति । तथापि पूर्वं गकारं श्रुतवतः पुनस्तच्छ्रवणे स एवायं गकार इति जायमानाप्रत्यभिज्ञा प्राक्तनस्येदानीन्तनेनैक्यं गोचरयन्ती तावत्कालस्थिरत्वमवगाहत इति ‘‘तावत्कालं स्थिरं चैनं कः पश्चान्नाशयिष्यति’’ इति न्यायेन पराभि-मताशुतरविनाशस्य व्यतिरेकान्नित्यत्व एव पर्यवस्यतीति १मण्युक्तदिशा वा टीकोक्तदिशा पूर्वं पूर्वतरं पूर्वतममप्येवमित्यनादिनित्यतैव सिद्ध्यतीति भावेनप्रत्यभिज्ञाबाध इत्युक्तम् ॥

अत्र चत्वारः पक्षाः सम्भवन्ति । ज्ञानमेवेदं नेति वा, ज्ञानत्वेऽ-प्यभिज्ञैव नप्रत्यभिज्ञेति वा,प्रत्यभिज्ञात्वेऽपि जात्यभेदविषयेति वा, व्यक्त्यभेदविषयत्वेऽपि भ्रान्तिरिति वा । तत्राद्यं कुसुमाञ्जल्याद्युक्तमाशङ्क्य निराह ॥ न चेति ॥ शालीन् सूक्ष्मव्रीहिविशेषान् । ज्ञानमेवेदं नेत्युच्यत इत्यत आह ॥प्रत्यभिज्ञाया इति ॥ स्थायीति ॥ सोऽयं देवदत्त इत्यादाविव स एवायं गकार इतिप्रत्यभिजानामीत्यनुभवसिद्धत्वादित्यर्थः । तत्राप्येवमनुभवोऽस्तीत्यतस्तत्र विपरीतदर्शनान्नप्रत्यभिज्ञानुभवस्य भावोऽस्ति । अस्ति चेदपि भ्रम एव ।प्रकृते तु न तथेति भावेनाह ॥ ते शालय इति ॥


नचेयंप्रत्यभिज्ञा पुरोवर्तिनि गकारे गत्वेनोपस्थितगकारा-भेदविषया..

तर्कताण्डवं

नचेयंप्रत्यभिज्ञा पुरोवर्तिनि गकारे गत्वेनोपस्थितगकारा-भेदविषया, सा च पुरोवृत्तिगकारस्य स्वाभेदेनाप्युपपन्ना, न तु तत्कालाद्यवच्छेदेनोपस्थितगकाराभेदविषयेति वाच्यम् ।प्रत्यभिज्ञा-न्तरवत् सोऽयमिति तत्तेदन्ताधिकरणाभेदप्रतीतेः ।

नन्वियं गत्वादिजात्यभेदविषया । नच तथात्वे तज्जातीयोऽय-मित्याकारः स्यादिति वाच्यम् । जात्यभेदादधिकस्य जातिगतस्य जातित्वस्यप्रतीतावेव तदाकारादिह च जातित्वस्य अप्रतीतेरिति चेन्न । तारत्वादिना सांकर्यस्य वक्ष्यमाणत्वेन गत्वादिजातेरेवा-भावात् । स एवायं घट इत्यादेरपि तथात्वापातेन व्यक्त्यभेदस्य क्वाप्यसिद्ध्यापत्तेश्च । क्वापिप्रत्यभिज्ञाया भ्रान्तित्वाभावापत्तेश्च । घटान्तराद्गृहीतभेदेऽपि घटे स एवायं घट इतिप्रत्यभिज्ञाप्रसङ्गाच्च ॥

किञ्चप्रत्यभिज्ञाजनके स एवायं गकार इति वाक्ये स इत्यस्य जातिपरत्वेऽयमित्यस्य च व्यक्तिपरत्वे जत्या सह व्यक्तेरेवाभेदःप्रतीयेत न तु जात्या सह जातेः । तथा च निरसिष्यमाणभ्रान्तित्व-पक्ष एवान्तर्भावः स्यात् ॥

न्यायदीपः

द्वितीयं पक्षमाशङ्क्य निराह ॥ न चेयमिति ॥प्रत्यभिज्ञेति ॥ तवप्रत्यभिज्ञात्वेनाभिमतेत्यर्थः ॥ उपपन्नेति ॥ तथा चाभिज्ञैव जाता न तुप्रत्यभिज्ञेति भावः ॥ तत्कालेति ॥ अतीतकालेत्यर्थः ।

तृतीयं पक्षमाशङ्कते ॥ नन्विति ॥ १तथा सति तज्जातीयोऽयमिति स्यादिति मणिग्रन्थोक्तं निराह ॥ न च तथात्व इति ॥ तज्जातीयोऽय-मित्यस्य तन्निष्ठजातिमानयमिति ह्यर्थः । स चाकारो जातित्वभान एव युक्तो नान्यथेति भावः । सामान्यनित्यतायाःप्रमाणविरुद्धत्वादिति स्वमतावष्टम्भेन वास्तवमुपेत्य टीकायां परिहारोक्तावपि पररीतिमनुसृत्य स्वयं परिहारमाह ॥ तारत्वादिनेति ॥ क्वापीति ॥ सोऽयं देवदत्त इत्यादावपि जातिविषय-त्वस्य वक्तुं शक्यत्वादिति भावः ॥ घटान्तरादिति ॥ तत्राप्यनुगतजातेः सत्त्वादिति भावः । जात्यभिप्रायेण तादृशप्रत्यभिज्ञापादनमिष्टमिति मन्वानंप्रत्याह ॥ किञ्चेति ॥ शाब्दप्रत्यभिज्ञायां या विषयव्यवस्था सैवप्रत्यक्षप्रत्यभिज्ञायामपि भविष्यति । तथा च तत्र सोऽयमिति तदिदंशब्दाभ्यां किं जातिव्यक्त्योरुक्तिरथ जातेरेव उत व्यक्तेरेवेति वाच्यम् । पक्षान्तरा-सम्भवात् । आद्येऽपि व्यक्तेर्जात्यभेदोऽपि किं साक्षादथ परम्परया वा । तत्राद्यं निराह ॥प्रत्यभिज्ञाजनक इति ॥ भ्रान्तित्वपक्ष एवेति ॥ तथा च तन्निरासेनायं पक्षो निरस्तो भविष्यतीति भावः ।