ननु तर्हि योग्यानुपलब्धिरूपं..
वर्णानित्यत्वेऽनुमानभङ्गः
तर्कताण्डवं
ननु तर्हि योग्यानुपलब्धिरूपं लिङ्गं वर्णध्वंसादौ मानमस्त्विति चेन्न । व्यञ्जकाभावेनाप्यनुपलम्भसम्भवेन विशेषणासिद्धेः ।
एतेन वर्णःप्रयत्नोत्पाद्यस् तदनभिव्यङ्ग्यत्वे सति तदनन्तर-मुपलभ्यमानत्वाद् घटवद् इति निरस्तम् । विशेषणस्यापाततः सन्दिग्धासिद्धेः । विमर्शे वक्ष्यमाणरीत्या निश्चितासिद्धेश्च ।
न्यायदीपः
‘‘व्यञ्जकभावाभावाभ्यामेवोपलम्भानुपलम्भा’’विति तत्त्वनिर्णयटीकां हृदि कृत्वाऽऽह ॥ व्यञ्जकेति ॥ ध्वनिरूपव्यञ्जकेत्यर्थः ॥ विशेषणेति ॥प्रतियोग्युपलम्भकसहितानुपलब्धेरेव योग्यानुपलब्धित्वाद्व्यञ्जकाभावनिबन्ध-नानुपलब्ध्या अभावनिश्चयेऽन्धकारावृते घटवति गेहे घटाभावप्रमापातादिति भावः ।
मणिकृदाद्यभिमतहेतूनाशङ्क्य निराह ॥ एतेनेति ॥प्रयत्नाभिव्यङ्ग्येप्रयत्नानन्तरमुपलभ्यमाने व्यभिचारनिरासाय हेतौ तदित्यादि सत्यन्तम् । गगनादौ तन्निरासाय विशेष्यम् ॥ आपातत इति ॥ नित्यत्वसाधक-विशेषादर्शनदशायामित्यर्थः ॥ विमर्श इति ॥ उत्तरभङ्गे वक्ष्यमाणदिशाप्रत्यभिज्ञाविरोधादनित्यो न भवतीति विशेषदर्शने सतीत्यर्थः ।
एतेनैव वर्णोऽनित्य उत्पत्तिमत्त्वे सति भावत्वात्
तर्कताण्डवम्
१एतेनैव वर्णोऽनित्य उत्पत्तिमत्त्वे सति भावत्वात्, सामान्यवत्त्वे सति अस्मदादिबहिरिन्द्रयग्राह्यत्वाद् घटवत्,प्रत्यक्षविशेषगुणत्वाद् घटरूपवत्, उत्कर्षापकर्षवत्त्वान् मधुरादिरसवद् बहिरिन्द्रिय-व्यवस्थापकगुणत्वाद् घटरूपवदित्यादिमण्युक्तानुमानं तत्र मानम् । विपक्षे च शब्दध्वंसग्राहकप्रत्यक्षानुपपत्तिर्बाधिकेति निरस्तम् । विपक्षे बाधकस्यैव निरासात् ।
न्यायदीपः
॥ एतेनैवेति ॥ ध्वंसे व्यभिचारनिरासाय हेतौ भावत्वादिति विशेष्योक्तिः । गगनादौ तन्निरासाय सत्यन्तम् । द्वितीयहेताविन्द्रिय-प्रत्यक्षत्वादित्यस्येन्द्रियकरणकज्ञानविषयत्वादित्यर्थः । क्वचिदिन्द्रियग्राह्यत्वा-दित्येव पाठः । तत्रप्रत्यक्षत्वमात्रस्यात्मनि व्यभिचाराद् बहिरिन्द्रिये-त्युक्तिः । तथापि योगिबहिरिन्द्रियप्रत्यक्षत्वमादायोक्तदोषनिरासाय अस्म-दादीति ॥ घटत्वादौ तन्निरासाय सत्यन्तम् । तन्मात्रस्यात्मन्यपि सत्त्वा-द्विशेष्यम् । तृतीये च गुणत्वमात्रस्य गगनादि-परिमाणादौ, विशेषगुणत्वस्य जलपरमाण्वादिरूपादौ,प्रत्यक्षगुणत्वमात्रस्य चात्मैकत्वादौ, सत्त्वा-द्व्यभिचारनिरासायप्रत्यक्षविशेषगुणत्वादित्युक्तिः ॥ उत्कर्षेति ॥ उत्कर्षवत्त्वे सत्यपकर्षवत्त्वादित्यर्थः । एकैकस्य गगनादिपरिमाणे परमाण्वादिपरिमाणे च सत्त्वादुभयोक्तिः । तारमन्द्रत्वादिरूपोत्कर्षादिः पक्षे, दृष्टान्ते च माधुर्यातिशयादिः, तथापि जातिरूपोत्कर्षादिरुभयत्र सम इति भावः ॥ बहिरिन्द्रियेति ॥ शब्दज्ञानं करणसाध्यं कार्यत्वाद् इति करणसामान्यसिद्धौ चक्षुरादे रूपादिज्ञानकरणत्वादिना शब्दज्ञानाहेतुत्वा-त्परिशेषाच्चक्षुरादिबाह्येन्द्रियचतुष्टयादन्यच्छोत्रेन्द्रियं सिद्ध्यतीति श्रोत्ररूप-बहिरिन्द्रियव्यवस्थापकगुणत्वादित्यर्थः । गुणत्वमात्रस्य गगनादिपरिमाणादि-गुणे इन्द्रियव्यवस्थापकगुणत्वस्यात्मगतैकत्वादौ बहिरिन्द्रियव्यवस्थापकत्व-मात्रस्य रूपत्वरसत्वादौ सत्वेन व्यभिचारनिरासाय बहिरिन्द्रियव्यवस्थापक-गुणत्वादित्युक्तम् । ननु चैतद् ध्वनावप्यस्तीति चेत् किं तावता । यथोक्त-साध्यस्यापि तत्र सत्त्वात् ॥ तत्रेति ॥ वर्णानित्यत्व इत्यर्थः । एतेनेत्युक्तं व्यनक्ति ॥ विपक्ष इति ॥