ननु तथाऽपि वर्णसमुदायरूपस्य वेदस्य न नित्यत्वम्
वर्णवादः
तर्कताण्डवम्
वर्णानित्यत्वस्य प्रत्यक्षत्वभङ्गः
ननु तथाऽपि वर्णसमुदायरूपस्य वेदस्य न नित्यत्वम् । शान्तः कोलाहलः श्रुतपूर्वो गकारो नास्तीत्यादिप्रत्यक्षेण, वर्णोऽनित्यः भावत्वे सति कृतकत्वादित्यनुमानेन च वर्णानामेवानित्यत्वादिति चेदुच्यते । शान्तः कोलाहल इति धीर् ध्वनिविषयैव । ध्वनिविशेष-स्यैव कोलाहलत्वात् । श्रुतपूर्वो गकारो नास्तीति धीस्तु नास्त्येव । श्रुत एव गकारः पुनः श्रूयते एक एव गकारोऽसकृदुच्चारित इत्यादि-प्रत्यभिज्ञाविरोधात् । किन्तूच्चारणेनोपलब्धवर्णस्यानुपलब्धिमात्रेण श्रुतपूर्वो गकारो न श्रूयत इत्येव धीः ।
उक्तं हि टीकाकारैः ‘‘प्रागुच्चारणादनुपलब्धा वर्णा उच्चारणे सत्युपलभ्यन्ते इत्येवानुभवसिद्धम् । न तु तेषामुत्पत्तिर्विनाशो वा’’ इति ।
न्यायदीपः
॥ तथापीति ॥ पौरुषेयवाक्ेयन धर्माद्यसिद्धावपि, पौरुषेयत्वे कल्पनागौरवदोषभावेऽपि, वेदपौरुषेयत्वे मानाभावेऽपीत्यर्थः ॥ न नित्यत्वमिति ॥ नानादिनित्यत्वमित्यर्थः ।
द्वितीयस्तबके कुसुमाञ्जलावुदयनोक्तमाह ॥ शान्त इति ॥ श्रुतेति ॥ पूर्वं श्रुतः श्रुतपूर्व इत्यर्थः । शब्दोऽनित्य उत्पत्तिधर्मत्वादित्युदयनानुमानस्य परिष्कारपूर्वं मणावुक्तस्यायमनुवादो ॥ वर्ण इत्यादि ॥ मणौ वर्णात्मकशब्द इत्युक्तावपि मणिकृन्मतेंऽशतस्सिद्धसाधनस्यादोषत्वाद् वर्णपदानर्थक्यम् । वर्ण इत्येव वा पूर्तौ शब्दपदानर्थक्यम् । रूपादिनार्थान्तरवारकं तदिति तु च्छलत्वात्तथाशङ्कैव न युक्तेति वर्णोऽनित्य इत्येवानुवादः कृतः ।
वर्णानामनित्यत्वेऽपि न वेदनित्यत्वक्षतिः । तथाप्यभ्युपेत्य तत्समाधत्ते ॥ उच्यत इत्यादिना ॥ व्यक्तं चैतद्वादान्ते ग्रन्थ एव ।१
॥ ध्वनिशेषस्यैवेति ॥ यत्तु वर्धमाने अनभिव्यक्तवर्णत्वव्याप्यजाति-विशेषो वर्णसमूह एव कोलाहल इत्युक्तम् । तन्न । वर्णशून्यध्वनिविशेषेऽपि कोलाहलपदप्रयोगात् ॥प्रत्यभिज्ञेति ॥ तदभ्रान्तित्वं त्वग्रे निरसिष्यत इति भावः ॥ उक्तं हीति ॥ ‘‘न चोच्चारणकाल एव वर्णानामुत्पत्तिरिति वाच्य’’मिति तत्त्वनिर्णयवाक्यसम्बन्धिटीकायां वर्णजन्मवर्णाभावबुध्यो-रुच्चारणक्रियाविषयत्वम् इत्येतदुक्तमित्यर्थः ।
अस्तु वा सा
तर्कताण्डवम्
अस्तु वा सा । तथाऽपि घटो नास्तीतिवन्न विशेष्यमात्र-निषेधिका । श्रुतपूर्वत्वविशिष्टनिषेधस्त्वलंकृतपूर्वश्चैत्रो नास्तीतिव-त्पूर्वकालावच्छिन्नश्रवणरूपविशेषणनिषेधेनाप्युपपन्नः ।
अस्तु वा सा विशेष्यमात्रनिषेधिका । तथापि व्यञ्जक उच्चारणेऽ-व्यञ्जकत्वभ्रान्त्याऽलिङ्गेऽनुपलब्धिमात्रे योग्यानुपलब्धिरूपलिङ्गाभि-मानाद् भ्रान्तिरूपानुमितिरेव सा । न तुप्रत्यक्षा ।प्रत्यासत्त्यभावात् ।
न्यायदीपः
अनुभवे विप्रतिपन्नंप्रत्याह ॥ अस्तु वा सेति ॥ श्रुतपूर्वो गकारो नास्तीति धीरित्यर्थः ॥ न विशेष्यमात्रेति ॥ घटस्य केवलत्वादस्य च सविशेषणत्वादिति भावः ॥ अलमिति ॥ पूर्वमलङ्कृतोऽलङ्कृतपूर्व इत्यर्थः ॥ विशेषणनिषेधेनेति ॥ ‘‘सविशेषणे हि विधिनिषेधौ विशेष्ये बाधे विशेषणमुपसङ्क्रामत’’ इति न्यायादिह च विशेष्यबाधस्य प्रागुक्तप्रत्यभिज्ञा-विरोधेन व्यक्तत्वादिति भावः ।
विशेष्यबाधे विवादिनंप्रत्याह ॥ अस्तु वा सेति ॥ धीरित्यर्थः ॥ तथापीति ॥ भ्रान्तिरूपेत्यादिनान्वयः । भ्रान्तिरूपत्वे बीजमाह ॥ व्यञ्जक इति ॥ वर्णो नास्ति अनुपलब्धेः स्तम्भादिवदिति लिङ्गा-भासजन्यानुमितिरेव । नप्रत्यक्षरूपा । नापिप्रमितिरूपा । परमाण्वादा-वनुपलम्भे सत्यपि नास्तित्वाभावेन व्यभिचारितयाऽनुपलब्धिमात्रस्यालिङ्गत्वेन तल्लिङ्गत्वस्याभिमानिकत्वात् । अलिङ्गे च लिङ्गत्वाभिमानो योग्यानुप-लब्धित्वभ्रममूलः । सोपि भ्रम उच्चारणस्य न वर्णाभिव्यञ्जकत्वम् । किन्तूत्पादकत्वमेवेति भ्रान्तिमूल एवेत्यर्थः ।
एतेन श्रुतपूर्वो गकारो नास्तीतिप्रतीतिरनुमानादित्यसत् । शब्दस्यैव पक्षीकरणे हेतोरनाश्रयत्वम् । आकाशस्य पक्षत्वे तद्वत्तयानुपलभ्यमानत्व-हेतोरनैकान्तिकत्वम् । शब्दसद्भावकालेपि तस्य सत्वात् । एवं कालपक्षेऽपि दोषात् । अहमिदानी निःशब्दश्रोत्रवान् शब्दोपलब्धिरहितत्वाद् बधिरवदिति चेन्न । दृष्टान्तस्य साध्यविकलत्वाद् व्याहतत्वाच्चेत्यादिखण्डनं निरस्तं ध्येयम् ॥ अतीतघटादौ ज्ञानविषयत्वाभावप्रतियोगित्वादिधर्मवदनुप-लभ्यमानत्वधर्मस्यापि सम्भवेनासिद्ध्यादेरनापत्तेरिति ॥ न तुप्रत्यक्षेति ॥ तादृशबुद्धेःप्रत्यक्षत्वेपि शुक्तिरूप्यादिप्रत्यक्षवत्प्रत्यभिज्ञारूपप्रबलप्रत्यक्ष-बाधाद्भ्रान्तिरेवेति सुवचम् । तथाप्युदयनोक्तप्रत्यक्षत्वोपपादनखण्डनायैव-मुक्तिः ।