अत्रोच्यते
ईश्वरवादसिद्धान्तः
तर्कताण्डवम्
अत्रोच्यते । अनुपलब्धप्राक्कोटिषु भूभूधरादिषु कार्यत्वमेव कुतः । सावयत्वादिति चेत् । सावयवत्वं सांशत्वं चेद् गगनादौ व्यभिचारि गगनादेः परमाणोश्च संयोगित्वेन सांशत्वसिद्धेः । विस्तृतं चैतदन्यत्र ।
न्यायदीपः
एवमनूदितमनुमानं दूषयितुंप्रतिजानीते ॥ अत्रोच्यत इति ॥ ‘‘हेतुविरोधो द्विविधो ऽसिद्धिरव्याप्तिश्चे’’ति भगवत्पादोक्त्या हेतुदोषयोर-सिद्धिव्याप्त्यभावयोर्मध्येऽसिद्धेरेव प्राथम्यात् परैरप्यसिद्धविरुद्धेत्यादिप्राचां निर्देशेनासिद्धेः प्राथम्योपगमाच्च । समवेतत्वे सतीत्यादिनाभिमतकार्यत्व-हेतोरसिद्धिं तावत् ‘‘किञ्चानुपलब्धप्राक्कोटिषु कार्यत्वं कुतः सिद्धम्’’ इत्यादिना तत्त्वनिर्णयटीकोक्तांप्रपञ्चयति ॥ अनुपलब्धेति ॥ प्राक्कोटिः प्रागभावः ।
ननु क्षित्यादिकं कार्यं सावयवत्वाद्घटवदित्यनुमानात्तत्सिद्धिः । न च सावयवत्वेनैव उक्तरूपकृतिमज्जन्यत्वं साध्यतां किं मध्ये कार्यत्वसाधनेनेति वाच्यम् । पूर्वोक्तरीत्या कृतिजन्यत्वे कार्यत्वस्येव सावयवत्वस्यानुकूल-तर्काभावात् कृतिजन्यत्वरूपसाध्येन हेतूच्छित्यादिरूपानुकूलतर्काभावादिति भावेनाशङ्कते ॥ सावयवत्वादिति चेदिति ॥
‘‘तर्ह्येवमाकाशादीनामपि कार्यत्वप्रसङ्गात्’’ इत्यादिशास्त्रयोनिसूत्र-सुधोक्तिं हृदि कृत्वाह ॥ गगनादौ व्यभिचारीति ॥ तदेव व्यनक्ति ॥ गगनेति ॥ गगनादिः सांशः संयोगित्वाद् घटवत् । न चाप्रयोजको हेतुः । तस्येह पक्षी नेह पक्षीत्यबाधितप्रतीत्या गगनादौ व्याप्यवृत्तित्वायोगेन स्वात्यन्ताभावसामानाधिकरण्यरूपाव्याप्यवृत्तित्वस्य चैकत्र विरोधेनैक-देशरूपांशवृत्तित्वस्यैव वाच्यत्वात् । न चांशस्यौपाधिकत्वेनोपपत्तिः । उपाधिसंयोगस्यापि गगनादौ सर्वत्र व्याप्यवृत्तित्वायोगेनैकदेशरूपांश-वृत्तित्वस्यैव वाच्यत्वात् । तस्याप्यौपाधिकत्वेऽनवस्थ•द्यापातेन स्वाभाविकांशव्यतिरेकेण संयोगित्वस्यैवानुपपत्तेरिति भावः ।
नन्वेवं गगनकालपरमाण्वादेरपि संयोगित्वेन सांशत्वे तुल्यन्याय-तयांशस्यापि संयोगित्वेन सांशत्वं तदंशस्याप्येवमिति परमाण्वंशस्याप्यानन्त्यं स्यात् । तथा च गगनपरमाण्वोस् तुल्यपरिमाणतापत्तिः । किञ्च परमाणोरपि न्यूनपरिमाणकांशस्य सत्त्वे यतः परमणुर्नास्ति स परमाणुरिति परमणुत्व-व्याघातः । अपि चोपादानादिरूपावयवातिरिक्तांशसत्त्वे मानाभावात् तद्रूपांशवत्त्वस्य गगनादावप्यभ्युपगमेऽनित्यत्वापत्तेश्चेत्यत आह ॥ विस्तृतं चैतदन्यत्रेति ॥
‘‘अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ।
सर्वदिक्ष्वभिसम्बन्धादविभागः पराणुता ॥
इत्याद्यनुव्याख्यानसुधयोर्वैशेषिकाधिकरणे विस्तृतमित्यर्थः । सर्षपो यावन्तं देशमवष्टभ्य वर्तमानो दृश्यते तावत्येवानधिकतदवयवपरम्परा गगनेऽप्येवमित्यङ्गीकारे तुल्यपरिमाणतानापत्तेः । यतः स्वावयवं विना स्वतन्त्रमनवयवरूपमपकृष्टपरिमाणं नास्ति स परमाणुरित्युक्तेर्व्याघाता-भावादित्याद्युक्तेरिति भावः । तथोपादानातिरिक्तांशसत्त्वादिकं चोपाधि-खण्डनटीकाभावप्रकाशिकायां विस्तृतमित्यर्थः ।
द्रव्यारब्धद्रव्यत्वं चेद् अकार्यत्ववादिनंप्रत्यसिद्धम्
तर्कताण्डवं
द्रव्यारब्धद्रव्यत्वं चेद् अकार्यत्ववादिनंप्रत्यसिद्धम् । द्रव्य-समवेतद्रव्यत्वं चेज् जात्यादेरिवाकार्यत्वेनाप्युपपत्त्या अप्रयोजकता । मध्यमपरिमाणत्वं चेत्तदाप्यप्रयोजकतैव गगनप्रदेशस्येव सांशत्वेनैव तदुपपत्तेः । अवयवनैरपेक्ष्येणैव मध्यमीभूतपरिमाणाश्रयत्वमात्रेण द्रव्यस्य मध्यमपरिमाणत्वोपपत्तेश्च । भूम्यादेरुपलभ्यमाना भागास्तु नारम्भकरूपा अवयवाः किन्तु गगनस्यप्रदेशभेदा इव कालस्य क्षणादय इव चांशा एव सन्तु ।
न्यायदीपः
॥ जात्यादेरिवेति ॥ अद्रव्यस्य जातेरेकत्वसङ्ख्यापरिमाणादेर्द्रव्य-समवेतत्वेऽप्यकार्यत्वं यथा तथा द्रव्यसमवेतद्रव्यस्याप्यकार्यत्वमस्तु । विपक्षे बाधकाभावादिति भावः ॥ गगनप्रदेशस्येवेति ॥ यथा इह पक्षीत्यादि-प्रतीत्या पक्ष्याद्याधारप्रेदशस्य मध्यमपरिमाणत्वेऽपि तस्यप्रदेशस्याप्युक्तदिशा अनेकांशयुतत्वं तथा क्षित्यादेरवयवारब्धत्वरूपकार्यत्वाभावेऽपि गगनवत् पूर्वोत्तरावधिशून्यानन्तांशयुतत्वाभावेनानेकांशयुतपरमाणुतोऽनेकांशयुतत्वेन च तदुभयपरिमाणान्यपरिमाणरूपमध्यमपरिमाणत्वस्योपपत्तेरित्यर्थः ।
परिमाणस्यावयवोपचयहेतुकत्वमुपेत्योक्तम् । वस्तुतस्तदेव मास्त्वित्याह ॥ अवयवेति ॥ यथा परमाण्वादाववयवनैरपेक्ष्येणैवाणुपरिमाणं महत्परिमाणं च तथा मध्यमपरिमाणमस्तु ।प्रदीपगुणेप्रभायां दर्शनात् । न चप्रभा न गुणोऽपि तु द्रव्यमिति युक्तम् । गुणाद्वाऽऽलोकवदिति सूत्रभाष्यटीका-चन्द्रिकासु तदनुविधानादिना गुणत्वसमर्थनादिति भावः ।
अवयवनैरपेक्ष्येणेत्याद्युक्तप्रमेयेप्रत्यक्षबाधमाशङ्क्य निराह ॥ भूम्यादे-रिति ॥ नन्वाकाशप्रदेशानां विनाशादृष्टेर्भूम्यवयवानां तद्दृष्टेर्वैषम्यमित्यत आह ॥ कालस्येति ॥प्रदेशभेदक्षणलवादीनाम् औपाधिकत्वे भूम्य-वयवानामपि तथात्वमस्त्विति भावः ॥ पूर्वावयवीति ॥ नोदनाभि-घातादिना अवयवक्रियाद्वारा परमाणुपर्यन्तमसमवायिकारणसंयोगनाशेन पूर्वद्रव्यनाशे सति पुनरदृष्टाधीनपरमाणुसंयोगद्वारा खण्डक्षित्यादिकार्योत्पत्तेः पीलुपाकप्रक्रियासिद्धत्वात्कार्यत्वं सिद्धमित्यर्थः । न चैवं खण्डक्षित्यादौ कार्यत्वसिद्धावप्यखण्डक्षित्यादौ न सिद्धमिति भागासिद्धिरिति वाच्यम् । नाशेन तत्रापि तदनुमानादिति भावः ।