ननु यदुक्तमीश्वरस्य सार्वज्ञ्यादिकमप्रामाणिकमेव बहु कल्प्यमिति तन्न
ईश्वरवादः
तर्कताण्डवं
ननु यदुक्तमीश्वरस्य सार्वज्ञ्यादिकमप्रामाणिकमेव बहु कल्प्यमिति तन्न । तस्य धर्मिग्राहकमानसिद्धत्वात् ।
तथाहि । अदृष्टाद्वारकस्वोपादानगोचरजन्यकृतिजन्यभिन्नानि समवेतानि जन्यानि, समवेतपदस्थाने भावपदं वाप्रयोज्यम् १. स्वजन्यादृष्टप्रागभावव्याप्यप्रागभावप्रतियोगिभिन्नोपादानगोचरापरोक्ष-ज्ञानचिकीर्षाकृतिमज्जन्यानि २. स्वजनकादृष्टोत्तरोपादानगोचर-परोक्षान्यज्ञानचिकीर्षाकृतिमज्जन्यानि वा । ३. अपरोक्षज्ञानचिकीर्षा-प्रयत्नविषयीभवदुपादानानि वा । समवेतत्वे सति प्रागभावप्रतियोगि-त्वाद् भावकार्यत्वाद्वा । घटवत् ।
न्यायदीपः
शास्त्रयोनित्वादिति ब्रह्मसूत्राभिमतमीश्वरस्यानानुमानिकत्वं साधयितुमाह ॥ यदुक्तमिति ॥ वेदापौरुषेयत्वानुमानोक्तिप्रस्ताव इत्यर्थः ॥ तस्येति ॥ सार्वज्ञ्यादेरीश्वररूपधर्मिग्राहकमानेन सिद्धेरित्यर्थः । तेन सार्वज्ञ्यमात्र-सिद्धावपि तेनैव विप्रलम्भाद्यभावसिद्धेरग्रे व्यक्तत्वादेवमुक्तिरिति ज्ञेयम् । तत्र कुसुमाञ्जलौ पञ्चमे परिच्छेदे
‘‘कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः ।
वाक्यात्सङ्ख्याविशेषाच्च साध्यो विश्वकृदव्ययः’’ ॥
इतीश्वरे धर्मिण्यनेकमानान्युक्तानि । तत्र कार्यत्वरूपं मानमेकं मणौप्रपञ्चितम् । तत्तावदनुवदति ॥ अदृष्टेति ॥ अत्र जन्यानीत्यन्तं पक्षः । स्वजन्येत्यादीनि त्रीणि साध्यानीति विवेकः । पक्षे स्वपदं जन्येति निर्दिष्टवस्तुपरम् । अदृष्टाद्वारिका या स्वोपादानगोचरा साक्षादेव स्वोपादान-गोचरा या जन्या कृतिस् तज्जन्यानि घटादीनि तद्भिन्नानि समवेतानि समवायवृत्त्या स्थितानि पृथिव्यादीनीत्यर्थः ॥
अत्र मणौ ‘‘अदृष्टाद्वारकोपादानगोचरजन्यकृत्यजन्यानी’’ इत्युक्तावपि यथाश्रुत उपादानपदस्य यत्किञ्चिदुपदानपरत्वे रूपाद्युपादानमृदङ्गगोचरा-स्मदादिकृतिजन्यानां शब्दादीनां पक्षतानापत्तेः, क्षित्याद्युपादानपरत्वे तद्गोचरजन्यकृत्यप्रसिध्या तदजन्यत्वाप्रसिद्धेस्तदीयव्याख्यासूक्तपरिष्कार-पूर्वकोऽयं स्वेत्यनुवादः । तथा जन्यकृत्यजन्यत्वं हि जन्यकृतिजन्यान्यत्व-मिति मणावेवोत्तरत्रोक्तेर्जन्यकृतिजन्यभिन्नेत्यप्यनुवाद इत्यदोषः ॥
॥ भावेति ॥ समवेतानि जन्यानीत्यत्र भावकार्याणीति वाप्रयोज्य-मित्यर्थः । अदृष्टप्रागभावव्याप्यप्रागभावप्रतियोगीति साध्यांशस्य परिष्कारपूर्वकमनुवादः स्वजन्येत्यादि ॥ स्वपदेनोपादानगोचरज्ञानादिक-मुच्यते । स्वजन्यं यददृष्टं तत्प्रागभावव्याप्यो यः प्रागभावो ऽदृष्टकारणीभूत-ज्ञानादिप्रागभावस् तत्प्रतियोगि च यत्किञ्चिदुपादानभूतहविरादिगोचरज्ञानादि तद्भिन्नाः स्वजन्यादृष्टजनकभिन्ना इति फलितार्थः । या उपादानगोचरा-परोक्षज्ञानचिकीर्षाकृतयस् तद्वता जन्यानीत्यर्थः । अत्रापरोक्षज्ञानपदं परोक्षान्यज्ञानार्थकं न त्वपरोक्षत्वजात्याक्रान्तज्ञानपरमित्यग्रे व्यक्तम् ॥
॥ स्वजनकेति ॥ स्वस्य कार्यस्य जनकं यददृष्टं तत उत्तराः पक्षधरोक्तदिशाऽदृष्टाधिकरणक्षणोत्तरक्षणवर्तिन्यः न तु तदुत्तरक्षणोत्पत्ति-मत्यः । तेन न बाधः शङ्क्यः । तादृश्य उपादानगोचरपरोक्षान्यज्ञानचिकीर्षा-कृतयस्तद्वता जन्यानीत्यर्थः । ईश्वरज्ञानादेर्नित्यतया क्षित्यादिकार्यजनका-दृष्टोत्तरत्वात् कुलालज्ञानादेरपि घटादिजनकादृष्टोत्तरत्वादिति न दृष्टान्ता-सिद्धिः । अपरोक्षेति बहुव्रीहिः । परोक्षान्यज्ञानचिकीर्षाप्रयत्नविषयोपादान-समवेतानीत्यर्थः । च्व्यर्थलडर्थौ तु न विवक्षितौ ज्ञेयौ ॥ घटवदिति ॥ स्वपदस्य समभिव्याहृतपरत्वात्तत्र साध्यहेतुसत्त्वं व्यक्तमिति भावः ।
अत्र पक्षे जन्यानीत्येवोक्ते ध्वंसस्यापि पक्षत्वेनांशे बाधः स्यात्..
तर्कताण्डवम्
अत्र पक्षे जन्यानीत्येवोक्ते ध्वंसस्यापि पक्षत्वेनांशे बाधः स्यात् । तस्योपादानाभावात् । तन्निवृत्यर्थं समवेतानीति । तावत्युक्ते घटादेरपि पक्षत्वेनांशे सिद्धसाधनं स्यात् । तन्निवृत्त्यर्थं जन्यभिन्ना-नीति । तावत्युक्तेऽङ्कुरादेरपि जन्यत्वाद् आश्रयासिद्धिः । तन्निवृत्यर्थं जन्यकृतीति ॥
नचानीश्वरवादिनंप्रति व्यावर्त्याभावेन जन्यपदं व्यर्थम् । तन्मतेप्रमेयो घट इतिवत् तदुपरक्तबुद्धेरुद्देश्यत्वात् । उभयसिद्धप्रयोजनवत्त्वं तन्त्रम् । न त्वेकस्यैवप्रयोजनस्योभयसिद्धिः । तावत्युक्ते शब्द-फूत्कारादेः पक्षता न स्यात् । तस्य शब्दादिनिमित्तभूतमृदङ्गताल्वादि-गोचरास्मदादिनिष्ठजन्यकृतिजन्यत्वात् । तदर्थं स्वोपादानगोचरेति । तज्जनकास्मदादिनिष्ठकृतेर्निमित्तभूतमृदङ्गादिगोचरत्वेप्युपादानी-भूताकाशादिगोचरत्वाभावात् । तावत्युक्ते कालीरूपादेः पक्षता न स्यात् । तस्य स्वोपादानभूतशरीरगोचर१तयोक्तरूपकृतिजन्यत्वेन तद्भिन्नत्वाभावात् । भाव्यं च तस्य पक्षतया । अन्यथा पक्षातिरिक्ते तत्र साध्यसन्देहेन सन्दिग्धानैकान्तिकतापत्तेः । तदर्थमदृष्टाद्वरकेति । कालीकृतिस्त्वदृष्टद्वारैव रूपजनिकेति न दोषः ।
न्यायदीपः
हेत्वोर्ध्वंसे गगनपरिमाणादौ च व्यभिचारवारकं विशेषणद्वयं विशेष्यद्वयं चेति व्यक्तमित्युपेत्य पक्षसाध्यगतपदकृत्यानि दूषणोक्तिसौकर्याय तदीय-व्याख्यानाद्युक्तानि व्यनक्ति ॥ अत्रेति ॥प्रयोग इत्यर्थः । अंशे बाध इत्युक्तं साध्याभावोपपादनेन व्यनक्ति ॥ तस्योपादानाभावादिति ॥ येन तद्गोचरज्ञानादिजन्यत्वं स्यादिति भावः ॥ अंशे सिद्धसाधनमिति ॥ अदृष्टजनकभिन्नोपादानगोचरकुलालादिनिष्ठज्ञानादिजन्यत्वात् स्वजनका-दृष्टोत्तरत्वात् कुलालज्ञानचिकीर्षादेरिति भावः ।
मण्युक्तमेवाह ॥ तन्मत इति ॥ तदुपरक्तेति ॥ तद्विषयकेत्यर्थः । पक्षधराद्युक्तमाह ॥ उभयसिद्धेति ॥ न्यायमते जन्यमात्रस्येश्वरकृतिजन्य-तयाऽऽश्रयासिद्धिवारणरूपप्रयोजनवत्त्वम् अनीश्वरमते च उद्देश्यसिद्ध्यादि-रूपप्रयोजनवत्त्वमित्युभयसिद्धप्रयोजनवत्त्वमित्यर्थः ।
‘‘एवं च शब्दफूत्कारादीनां पक्षतैव’’ इति मण्युक्तं हृदि कृत्वाह ॥ तावत्युक्त इति ॥ जन्यकृतीत्यादावेवोक्त इत्यर्थः । फूत्कारो मुख-वायुविशेषः । न स्यादित्युक्तं व्यनक्ति ॥ तस्येति ॥ तदर्थमिति ॥ शब्दादेः पक्षतासिद्ध्यर्थमित्यर्थः । तां व्यनक्ति ॥ तज्जनकेति ॥ मृदङ्गः शब्दस्य निमित्तं ताल्वादि च फूत्कारादेः ।
पक्षधराद्युक्तमाह ॥ कालीति ॥ काली नाम काचित्तपस्विनी तपसा स्वशरीरे गौरं रूपमुत्पादितवतीति तद्रूपादेरित्यर्थः ॥ तस्येति ॥ काली-शरीरोत्पन्नगौररूपस्येत्यर्थः ॥ सन्दिग्धेति ॥ प्राचीनमतेनेदं दूषणं बोध्यम् । मणिकृन्मते उक्तरूपसन्दिग्धानैकान्त्यं न दोषायेत्यग्रे व्यक्तत्वात् ।