०२ अपौरुषेयत्वे अनुकूलतर्कः

नचोक्तहेतूनामप्रयोजकता

अपौरुषेयत्वे अनुकूलतर्कः

तर्कताण्डवं

नचोक्तहेतूनामप्रयोजकता । यदि वेदः पौरुषेयः स्यात् तर्हि

‘‘यतस्ता हरिणा दृष्टाः श्रुता एवाखिलैर्जनैः ।

श्रुतयो दृष्टयश्चेति तेनोच्यन्ते पुरातनैः ।’’

इत्यादिस्मृतिष्वीश्वरेणापि दृष्टत्वस्यैवोक्तिर्न स्यात् । वेदाध्येतॄणां तत्र कर्तृविशेषस्मृतिश्च स्यात् । मुक्तकश्लोकादौ तन्नियमाभावेऽप्य-नेककर्तृकाविच्छिन्नाध्ययनधारणादिमत्युरुतरप्रबन्धात्मके भारतादौ तन्नियमात् । एतेन कर्तृस्मरणस्याविध्यर्थत्वादिति निरस्तम् ।

वेदेप्रतिकल्पमनियतान्यनेकानुपूर्व्याणि तेषां यथावदध्ययनानि चाभ्युदयकारणानि, अन्यथाध्ययनानि च वाग्वज््रातयानर्थकारणानि, अभ्युदयादीनि च विजातीयकारणजन्यत्वात्तार्णाद्यग्निवद्विजातीयानीति कल्प्यत्वात् कल्पनागौरवं च स्यात् । अन्यथेश्वर एकस्मिन्नेव कल्प एकस्मा एकयानुपूर्व्या विशिष्टवेदमुपदिश्यान्यस्मा अन्ययानुपूर्व्या विशिष्टमुपदिशतीति स्यात् । एककल्पीयायाः पूर्वस्या आनुपूर्व्या अपि २स्मरणान्न तत्त्याग इति चेत्तत्किमीश्वरः कल्पान्तरीयां पूर्वा-मानुपूर्वीं व्यस्मार्षीत् ।

धर्मादिसिद्धिश्च न स्यात् ।प्रकारान्तरेण तदसिद्धेरुक्तत्वात् । वेदस्य पौरुषेयत्वे ईश्वरस्य बुद्धजिनादिना, वेदस्य च बुद्धाद्यागमा-दिना, तुल्यताया अपरिहार्यत्वेन, वेदप्रामाण्यं च न स्यात् ।

न्यायदीपः

पौरुषेयत्वरूपविपक्षे बाधकानि विवक्षुस्तत्त्वनिर्णयोदाहृतब्रह्माण्डस्मृतौ दृष्टत्वोक्तिविरोधं तावदाह ॥ यदीत्यादिना ॥ पौरुषेय इति ॥ स्वतन्त्रपुरुषेणेश्वरेणप्रणीतो यदीत्यर्थः । श्रुता एव न तु कृता इत्यर्थः । दृष्टा एवेत्यप्येवकारान्वयमुपेत्याह ॥ दृष्टत्वस्यैवेति ॥ ‘‘वेदकर्तुरप्रसिद्धेः’’ इति तत्त्वनिर्णयवाक्यसूचितं बाधकमाह ॥ वेदेति ॥ यदीत्याद्यापादकानु-वृत्तिः सर्वत्र ज्ञेया ।

मुक्तकश्लोका नाम तत्र तत्र नानाग्रन्थस्थास् ततस्तत उद्धृता इति वा,प्रबन्धेष्वनिबद्धा एव तेन तेन पुरुषेण कृताः सुभाषितश्लोका इत्याहुः ।

॥ अनेकेति ॥ अनेककर्तृकं यदविच्छिन्नमध्ययनं यच्च तादृशं धारणम् अविस्मरणेनानुसन्धानम् आदिपदोक्तप्रवचनादिकं तद्वतीत्यर्थः । तथाचाल्प-प्रबन्धे तदभावेऽपि भारतादाविवोक्तविशेषणवत्युरुतरप्रबन्धे वेदे स्यादेव कर्तृस्मृतिरध्यापकानाम् । न च साऽस्तीति भावः ।

एतेन गूढकर्तृकवाक्ये सत्यपि पौरुषेयत्वे कर्तृस्मृतिर्नेति व्यभिचार इतिप्रत्युक्तम् । उक्तविशेषणवत्युत्तरप्रबन्धे तस्यावश्यकत्वादिति ।

एतेन ‘‘कपिलकणादगौतमैस्तच्छिष्यैश्चाद्यपर्यन्तं वेदे सकर्तृकत्व-स्मृतिरस्ति’’ इति मणिकुसुमाञ्जल्यादावुक्तं निरस्तम् । अध्यापकानां स्मृतेरसिद्धेः ।

यत्तु सुधायां ‘‘किञ्चेश्वरः सर्गादौ यं वेदं निर्मायैकस्मै शिष्यायोपदिशति तमेवान्यस्मा उपदिशति वेदान्तरं वा’’ इत्यादिनोक्तं तदपि बाधकं स्पष्टं विवृण्वन्नाह ॥ वेद इत्यादिना ॥ आनुपूर्व्याणीत्यस्य, कारणान्यनर्थ-कारणानीत्यनयोश्च, ‘‘इति कल्प्यत्वात्’’ इत्यनेनप्रत्येकमन्वयः ॥ यथावदिति ॥ तस्मिंस्तस्मिन्कल्प इत्यर्थः ॥ वाग्वज्रतयेति ॥ वाग्रूपवज्रतयेत्यर्थः ।

‘‘मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।

स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात्’’ ।

इत्यादेरिति भावः ।

॥ अभ्युदयादीनि चेति ॥प्रतिकल्पं जायमानानि स्वर्गादीनीत्यर्थः ॥ विजातीयेति ॥ भिन्नभिन्नानुपूर्वीरूपत्वाद्विजातीयकारणेत्यर्थः ॥ तार्णेति ॥ तृणजन्याग्नावरणिजन्याग्नितो वैजात्यम् आरणेयाग्नौ च तार्णाद्यग्नितो वैजात्यं यथा त्वन्मते तथेत्यर्थः । एतच्चाग्रे तृणादीनामेक-शक्तिसाधनवादे द्वितीयपरिच्छेदे व्यक्तम् ।

ननूक्तकल्पनाचतुष्टयमपि न दोषायेत्यतः प्रागुक्तापाद्यस्यानिष्टत्वद्योतनाय विपक्षे बाधकमाह ॥ अन्यथेति ॥ उक्तकल्पनाचतुष्टयस्य गौरवतया दोषत्वानभ्युपगम इत्यर्थः ॥ इति स्यादिति ॥ गौरवस्य तवादोषत्वादिति भावः । वैलक्षण्यमाशङ्क्य समंप्रकृतेऽपीति भावेनाह ॥ एकेत्यादिना ॥

‘‘न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित् ।’’

इत्यनुभाष्याद्युक्तबाधकञ्चाह ॥ धर्मादीति ॥ यदि वेदः पौरुषेयः स्यादित्यनुवृत्तिः ॥ उक्तत्वादिति ॥ न च हेतुत्रयेऽपि विशेषणासिद्धि-रित्यादिग्रन्थेनेत्यर्थः । अन्यत्रादृष्टस्य सर्वज्ञत्वस्य कल्पनमित्यत्र तत्त्वनिर्णयटीकायां तर्हि जिनादावपि तत् स्यादित्यापादितं साम्यमीश्वर-वादेऽपि सममिति भावेनाह ॥ वेदस्य पौरुषेयत्व इति ॥ ईश्वरकृतत्व इत्यर्थः ॥ बुद्धजिनादिनेति ॥ ईश्वरसार्वज्ञ्यवद् बुद्धादावपि तद्भावस्या-पादनसम्भवादिति भावः ।


न च बौद्धागमाद्वेदे महाजनपरिग्रहो विशेषः

तर्कताण्डवं

न च बौद्धागमाद्वेदे महाजनपरिग्रहो विशेषः । महत्त्वस्य पूज्यत्वरूपत्वे वेदपरिग्रहीतॄणां पूज्यत्वस्याद्याप्यसिद्धेः । सङ्ख्याधिक्यरूपत्वे सन्धिग्धासिद्धेः । तुरुष्कागमादौ व्यभिचाराच्च । सप्तघटिकाभ्यन्तरभोजनादिरूपजीविकादिहेतुदर्शनशून्यत्वरूपत्वे वैदिकेष्वपि केषुचिज्जीविकादिहेतोर्दर्शनात् । बौद्धादिष्वपि केषुचित्तददर्शनाच्च ।

नापि सर्वसम्मतवैद्यशास्त्रपरिगृहीतार्थकत्वं महाजनपरिगृहीतत्वम्, वैद्यशास्त्रे रोगशान्त्यर्थं वैदिककर्मविशेषविधानादिति वाच्यम् । बौद्धानुसारिवैद्यशास्त्रे तच्छान्त्यर्थं बौद्धागमोक्तकर्मणोऽपि विधानात् ।

नापि सर्वसम्मतव्याकरणपरिपालनीयत्वम् । जैनव्याकरण-परिपालनीयत्वस्य जैनागमेऽपि सत्त्वात् । न च सर्वदर्शनानुमतार्थ-कत्वं वेदोक्तसत्यभाषणादीनां धर्मत्वस्य सर्वदर्शनानुमतत्वादिति वाच्यम् । बौद्धोक्ताहिंसाधर्मत्वस्यापि सर्वैः स्वीकारात् । साङ्ख्यै-र्वैदिकहिंसाया अधर्मत्वस्वीकाराच्च ।

१न च मन्त्रायुर्वेदादौ संवादित्वम् । एकदेशसंवादित्वस्य बौद्धोक्ताग्निस्तम्भादिकर्मस्वपि दर्शनात् । विसंवादाभावस्य च वेदेऽप्यभावात् ।

तस्मादपौरुषेयवेदपरिग्रहादेव वैदिकानां पूज्यत्वम् । न तु तत्परिग्रहाद्वेदस्य प्रामाण्यम् । एतदप्युक्तं ‘‘गौरवदोषेण’’ इति । बुद्धाद्यागमतुल्यत्वेन विपरीतलक्षणया १लाघवदोषेण इत्यर्थः । तस्मात्पौरुषेयत्वे वेदस्य बौद्धागमतौल्यमेवेति सुस्थ एवानुकूलतर्कः ॥

न्यायदीपः

‘‘वेदस्य प्रामाण्यं महाजनपरिग्रहादवधार्यते’’ इति मण्युक्तमाशङ्क्य निराह ॥ न चेति ॥ ‘‘अपौरुषेयत्वाद्वेदस्य’’ इत्येतद्व्याख्यावसरे तत्त्वनिर्णयटीकोक्तखण्डनरीतिमनुसृत्य महत्त्वं विकल्प्य निराह ॥ महत्वस्येति ॥

॥ अद्यापीति ॥ पौरुषेयतया वेदप्रामाण्यविवादवेलायमेव न किन्तु महाजनपरिग्रहात् प्रामाण्यमित्युक्तिदशायामपीत्यर्थः ॥ सन्दिग्धेति ॥ बौद्धेषु वा वैदिकेषु वा सङ्ख्याप्रकर्षस्यानिर्णयादिति भावः ।

यत्तु कुसमाञ्जलौ द्वितीयपरिच्छेदे ‘‘हेतुदर्शनशून्यैर्ग्रहणाध्ययनधारणार्था-नुष्ठानादिरेव महाजनपरिग्रहः’’ इत्युक्त्वा सप्तघटिकान्तभोजनादिरूप-जीविकारूपो हेतुर्बौद्धेष्वस्ति न वैदिकेष्वित्युक्तं तदाशङ्क्य निराह ॥ सप्तेति ॥ सप्तघटिकाभ्यन्तरे सप्तघटिकामध्ये प्रातः काले भोजनाभ्यञ्जनादि-रूपजीविकाहेतुर्येषु न दृश्यते ते महान्त इत्यर्थः । जीविकादीत्यादिपदेन रागकुहकवञ्चनादिरूपकुसुमाञ्जल्युक्तहेत्वन्तरग्रहः ॥ दर्शनादिति ॥ तथाच भागासिद्धिरिति भावः । व्यभिचारञ्चाह ॥ बौद्धेति ॥

महत्वं निरस्य तत्परिगृहीतत्वं विकल्प्य निराह ॥ नापीति ॥ वैद्यशास्त्रपरिगृहीतार्थकत्वं व्यनक्ति ॥ वैद्यशास्त्र इति ॥ धान्वन्तरमन्त्रै-रयुतहोमजपादिरूपवैदिककर्मेत्यर्थः ॥ बौद्धागमोक्तेति ॥ ज्वरादिशान्त्यर्थं बुद्धार्चनादिकर्मण इत्यर्थः ॥ जैनेति ॥

‘‘इन्द्रश्चन्द्रः काशकृत्स्नः पिशली शाकटायनः ।

पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥’’

इति कविकल्पद्रुमोक्तेस्तस्यापि व्याकरणकर्तृत्वप्रसिद्धेरिति भावः । व्यभिचारासिद्धी क्रमेणाह ॥ बौद्धेति ॥ साङ्ख्यैरिति ॥ एतदपीति ॥ बौद्धाद्यागमसाम्यमित्येतदपीत्यर्थः । लाघवदोषेण अप्रयोजकतापत्तिरूप-दोषेणेत्यर्थः । तत्र हेतुर् बौद्धाद्यागमतुल्यत्वेनेति ।