ननु कथं वेदस्यापौरुषेयत्वम्
वेदापौरुषेयत्ववादः
तर्कताण्डवम्
वेदापौरुषेयत्वे अनुमानानि
ननु कथं वेदस्यापौरुषेयत्वम् । तत्रप्रमाणाभावात् । वाक्यत्वा-द्यनुमानेन ‘‘च्छन्दांसि जज्ञिरे’’ इत्यादिश्रुत्या ‘‘प्रतिमन्वन्तरं चैषां श्रुतिरन्या विधीयते’’ इत्यादिस्मृत्या च पौरुषेयत्वसिद्धेश्चेति चेत् ।
उच्यते । ज्योतिष्टोमस्य स्वर्गसाधनत्वं वेदतात्पर्यविषयो वा पौरुषेयशब्देतरप्रमाणकः पौरुषेयशब्दाप्रमाणकत्वे सति सप्रमाणक-त्वात् । यद्यदप्रमाणकत्वे सति सप्रमाणकं तत्तदितरप्रमाणकम् । यथा संमतम् । वक्ष्यमाणरीत्या पक्षधर्मताबलादपौरुषेयशब्दसिद्धिः ।
न्यायदीपः
एवं ‘‘नविलक्षणत्वादस्य’’ इति नयसिद्धं ‘‘स्वतःप्रमाणैः’’ इति श्लोकोक्तं प्रामाण्यस्वतस्त्वं समर्थ्य अधुना विलक्षणत्वादिति हेतोर-पौरुषेयत्वरूपवैलक्षण्यवत्वादित्यर्थान्तरोपगमेन ब्रह्मसूत्राभिमतमादिवर्जितैरिति श्लोकोक्तमपौरुषेयत्वं साधयितुं मणिकृदाद्युक्तमाशङ्कते ॥ नन्विति१ ॥ वाक्यत्वादीत्यादिपदार्थव्यक्तिरग्रे परोक्तानुमानखण्डनप्रस्तावे ज्ञेया । २मण्याद्युदाहृतश्रुतिस्मृती चाह ॥ च्छन्दांसीति ॥
‘‘न चापौरुषेयं वाक्यमेव नास्तीति वाच्यम् । तदभावे सर्वसमयाभि-मतधर्माद्यसिद्धेः’’ इति विष्णुतत्त्वनिर्णयवाक्यसूचितानां धर्माधर्मस्वर्ग-नरकादिकंप्रमाणोपेतं वस्तुत्वादित्यादिना जिज्ञासाधिकरणसुधोक्तसामान्य-परिशेषनिष्कर्षभूतानामुक्त्याप्रमाणाभावादिति हेतुं तावन्निराह ॥ ज्योति-ष्टोमस्येति ॥ विशिष्यैवं पक्षनिर्देशे तद्बोधकैकवाक्यस्यापौरुषेयत्वसिद्धिर्न तु सर्वस्यापि वेदस्येत्यतः सामान्यपक्षनिर्देशमाह ॥ वेदेति ॥ यद्वा ‘‘यः शब्दो वक्त्त्रा यदिच्छयाप्रयुक्तः स तत्पर’’ इति तदिच्छया वक्तृप्रयुक्त-शब्दगोचरत्वमेव शब्दतात्पर्यविषयत्वमिति वेदगततात्पर्यपर्यालोचनया तस्य पौरुषेयत्वम् इति मणिकृदुक्तिखण्डनाय वेदतात्पर्यविषय इति सामान्य-पक्षनिर्देशः । यद्वा अस्मिन्पक्षे सप्रमाणकत्वादिति हेतुर्वस्तुत्वादिहेतुनाप्रसाध्याङ्गक इति भावेनाह ॥ वेदेति ॥ आपातप्रतिपाद्ये बाधवारणाय ॥ तात्पर्येति ॥ लौकिकशब्दतात्पर्यविषये बाधवारणाय ॥ वेदेति ॥
३ननु कोयं वेदो नाम (१) यदि वेदपदार्थो वेदस्तर्हि इतिहासपुराण-तात्पर्यविषये बाधः । ‘‘इतिहासपुराणः पञ्चमो वेदानां वेदः’’ इति तयोरपि वेदपदार्थत्वात् । (२) नापि वेदशब्दमुख्यार्थो वेदः । मुख्यत्वप्रयोजक-प्रवृत्तिनिमित्तस्येतिहासादिव्यावृत्तस्यानिरूपणात् । (३) नापि शाखासमुदायो वेदः । शाखाया वेदैकदेशत्वेनान्योन्याश्रयात् । (४) नापि सन्दिग्धकर्तृकं वाक्यं वेदः । वादिप्रतिवादिनोर्निश्चयात् । मध्यस्थसन्देहेन पक्षतावच्छेदक-करणे अन्योन्याश्रयात् । वादिप्रतिवाद्यनुमानान्तरभावित्वान्मध्यस्थसन्देहस्य । (५) नापिप्रमाणशब्दो वेद इति युक्तम् । भारतादौ गतत्वात् । (६) नापि यथार्थवाक्यार्थज्ञानाजन्यप्रमाणशब्दो वेद इति । परमतेऽप्रसिद्धेः ।प्रमाणशब्दमात्रस्य तादृशेश्वरज्ञानजन्यत्वात् । (७) न च जन्ययथार्थ-वाक्यार्थज्ञानाजन्यप्रमाणशब्दो वेद इति युक्तम् । संवादिशुकबालादिवाक्येऽपि गतत्वेन बाधापत्तेः । सिद्धान्तिमते नित्यज्ञानव्यासप्रणीतभारतादावपि गतत्वाच्चेति चेत् ।
उच्यते । (१) ‘‘शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्य-विषयार्थकत्वे सति शब्दजन्ययथार्थवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वं वेदत्वं’’ इति मण्युक्तरीत्या वा (२) ‘‘क्रमविशिष्टा वर्णा वेदः’’ इति सुधोक्तदिशा वा (३) वक्ष्यमाणदिशा ‘‘साक्षाद्धर्मादिबोधकशब्दो वेद’’ इति वा (४)प्रमाकरणामूलकत्वे सतिप्रमाणशब्दो वेद इति वा (५) पूर्वतन्त्रे विधिमन्त्राधिकरणे मन्त्रपदार्थोक्तरीत्या (६) ‘‘वेद इत्यभियुक्तप्रयोगविषयो वा वेद’’ इति तन्निरुक्त्युपपत्तेः ।
आद्ये सत्यन्तमात्रस्य वेदसमानार्थस्मृतौ गतत्वाद्विशेष्यम् । वेदार्थस्य शब्दतदुपजीव्यनुमानविषयकत्वादसम्भववारणाय शब्दतदुपजीविप्रमाणाति-रिक्तेत्युक्तिरिति । तात्पर्यं च तत्प्रमितिशेषत्वमित्यग्रे व्यक्तम् । तद्विषयो ज्योतिष्टोमादिरित्यर्थः । साध्ये बाधवारणाय पौरुषेयेत्युक्तिः । स्वतन्त्रपुरुष-पूर्वकशब्देत्यर्थः । पौरुषेयेतरेत्येवोक्तौ यत्किञ्चित्प्रत्यक्षादिरूपपौरुषेयेतर-प्रमाणकत्वेनापि उपपत्तेः । पौरुषेयशब्दसिद्ध्याऽर्थान्तरवारणाय शब्दपदम् । पौरुषेयशब्दार्थे व्यभिचारनिरासाय हेतौ सत्यन्तम् । अप्रयोजकतानिरासाय विशेष्यम् ॥ यथासम्मतमिति ॥ श्रोत्राद्यप्रमाणकत्वे सति सप्रमाणकं रूपं श्रोत्रादीतरचक्षुःप्रमाणकमित्यर्थः ।
ननुप्रत्यक्षादिप्रमाणकत्वेनापि साध्योपपत्त्यार्थान्तरमित्यत आह ॥ वक्ष्यमाणेति ॥ ‘‘न चात्र हेतुत्रयेऽपि विशेषणासिद्धिः’’ इत्यादौ वक्ष्यमाणदिशाप्रत्यक्षानुमानावेद्ये पक्षे उक्तरूपसप्रमाणकत्वाख्यहेतोः पक्षनिष्ठताया अपौरुषेयप्रमाणकत्वेन विना पर्यवसानाभावादिति भावः ।
अपौरुषेयशब्दप्रमाणकत्वं वा साध्यम्
तर्कताण्डवम्
अपौरुषेयशब्दप्रमाणकत्वं वा साध्यम् । तत्र चेन्द्रियलिङ्ग-पौरुषेयशब्दाप्रमाणकत्वे सति सप्रमाणकत्वं हेतुः । पूर्ववत्सामान्य-व्याप्तिः । अप्रसिद्धविशेषणता तु व्याप्तौ सत्यां न दोषः । त्वन्मते अभावसाध्यके व्यतिरेकिणि हेत्वभावेन साध्याभावरूपस्य भावस्य व्याप्तिग्रहरूपानुमितिकरणस्येव इहापि साध्यप्रसिद्धिं विनैव सामान्यव्याप्तिग्रहरूपस्य अनुमितिकरणस्य निष्पन्नत्वात् ।
न च तन्निष्पत्तावपि विशेषणज्ञानरूपसहकारिविरहादनुमिति-रूपविशिष्टज्ञानानुत्पत्तिरिति वाच्यम् । मन्मते तस्य विशिष्ट-ज्ञाना-हेतुत्वात् । त्वन्मतेऽप्यभावसाध्यकव्यतिरेकिणीवात्राप्यादौ साध्य-विशेष्यिकाया एवानुमितेः सम्भवात् ।
न्यायदीपः
ननु पक्षधर्मताबलादपि साध्यं सिध्यद् व्यापकतावच्छेदकधर्मप्रकारेणैव सिध्यति न त्वन्यथा । अतिप्रसङ्गादसामर्थ्याच्च । अन्यथा प्रामाण्याभाव-साध्यकमण्युक्तव्यतिरेकिखण्डनायोगादिति वदन्तंप्रत्याह ॥ अपौरुषेयेति ॥
नन्वेवं प्रागुक्तहेतोरिन्द्रियलिङ्गविषये व्यभिचार इत्यत आह ॥ तत्र चेति ॥ उक्तरूपसाध्य इत्यर्थः । पूर्वत्रात्र च विशेषणासिद्धिनिरासाय पौरुषेयेत्युक्तिः । ‘‘आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम्’’ इत्यादि-प्रमाणलक्षणं हृदि कृत्वाऽह ॥ न दोष इति ॥
सा किं साध्याज्ञाने तन्निरूपितव्याप्तिग्रहायोगाद्व्याप्तिज्ञानरूपकरण-विघटकत्वेन दोष उत विशिष्टज्ञाने विशेषणज्ञानस्य कारणत्वेनानुमितिरूप-विशिष्टज्ञानानुत्पादकत्वेन । नाद्य इत्याह ॥ त्वन्मत इति ॥ अयं वह्नित्वेनानुभवो वह्नित्वप्रकारकत्वे सति वह्नित्वाभाववद्विशेष्यको न समर्थ-प्रवृत्तिजनकत्वादिति व्यतिरेकिणीत्यर्थः । उक्तमेतत्पूर्वं परतस्त्वे प्रामाण्यानु-मित्यसम्भववादे ।
द्वितीयमाशङ्क्य निराह ॥ न चेति ॥ तस्येति ॥ विशेषण-ज्ञानस्येत्यर्थः । उपपादयिष्यते चैतन्निर्विकल्पकभङ्ग इति भावः । परमते-प्यनुमित्युत्पादप्रकारमाह ॥ त्वन्मतेऽऽपीति ॥ विशेषणज्ञान-हेतुकत्वमतेऽपीत्यर्थः ॥ अभावसाध्यकेति ॥ प्रागुक्तव्यतिरेकिणीत्यर्थः । मणिकृता ज्ञप्तिप्रामाण्यवादे ‘‘विशेषणज्ञानं विना कथं प्रामाण्य-विशिष्टानुमितिरिति चेत् ।प्रथमं न कथञ्चिज् ज्ञाने प्रामाण्यमित्यनुमित्यनन्तरं तेनैव हेतुना तत्रैव प्रामाण्यविशिष्टानुमितिः । अभावविशेष्यकप्रतीत्य-नन्तरमभाववद्भूतलमिति ज्ञानवत्’’ इत्युक्तेरिति भावः ।