१७ अप्रामाण्यस्य परतस्त्वम्

अप्रमायां त्वनन्यथासिद्धान्वयव्यतिरेकित्वाद् दोषः कारणम्

अप्रामाण्यस्य परतस्त्वम्

तर्कताण्डवम्

अप्रमायां त्वनन्यथासिद्धान्वयव्यतिरेकित्वाद् दोषः कारणम् । क्वचित् सादृश्यादिके दोषे सत्यपि भ्रमानुत्पत्तिरसंसर्गाग्रहादिहेत्वन्तर-वैकल्यादिति नान्वयव्यभिचारः । विसंवादिशुकादिवाक्येपि दोषस्योक्तत्वान्न व्यतिरेकव्यभिचारोऽपि ।

न चप्रमायां गुणःप्रतिबन्धकस्य दोषस्येवाप्रमायामपि दोषःप्रतिबन्धकस्य गुणस्य दोषाभावस्य वा निरासक इत्यन्यथासिद्ध इत्यप्रामाण्यमपि स्वतः स्यादिति वाच्यम् । पीतः शङ्ख इत्यादिप्रत्यक्षे भूयोऽवयवेन्द्रियसन्निकर्षे शङ्खत्वादि-विशेषदर्शनादिरूपे गन्धप्राग-भावावच्छिन्नो घट इत्याद्यनुमाने सत्यपरमार्शरूपे घटोस्तीति वक्तव्ये पटोस्तीति वाक्यजन्यज्ञाने विवक्षितार्थतत्वज्ञानरूपे च गुणे सत्यपि पित्तबाधप्रमादरूपेण दोषेण भ्रमोत्पादनेन दोषस्य गुणनिरासो-पक्षीणत्वायोगात् । स्वाभावनिरासोपक्षीणत्वेन अन्यथासिद्धौ च सहकारिमात्रापलापप्रसङ्गात् ।

न्यायदीपः

ननुप्रमायां गुणस्येव भ्रमेप्यन्वयव्यतिरेकव्यभिचाराद् भ्रमविरोधिगुण-निरासादावुपक्षयेन अन्यथासिद्धेश्च दोषो न हेतुरिति सोपि स्वतः स्यादित्यतः ‘‘परतोऽप्रामाण्यम्’’ इति तत्त्वनिर्णयाद्युक्तमप्रामाण्यस्य परतस्त्वं साधयितु-मुक्तदोषं निरस्यन् भ्रमे दोषस्य हेतुत्वमाह ॥ अप्रमायान्त्विति ॥ हेतो-र्विशेष्यासिद्धिं निराह ॥ क्कचिदिति ॥ ‘‘कारणे सत्यपि कार्यानुत्पादस्य सामग्र्यभावेनोपपत्तेः’’ इति तत्त्वनिर्णयटीकां हृदि कृत्वाह ॥ असंसर्गा-ग्रहादीति ॥ विशेषादर्शनादिरादिपदार्थः ।

एतेन यादृच्छिकसंवादिन्यपि दोषस्य व्यभिचारो निरस्तः । तत्र विषया-सत्वादिसहकारिविरहात् ॥ उक्तत्वादिति ॥ भूयोऽवयवेन्द्रियसन्निकर्षादि-हेतुत्वभङ्गे ‘‘तत्राप्यनित्यवाक्यदोषस्य विवक्षितार्थतत्त्वज्ञानाभावस्य’’ चेत्यादिनोक्तत्वादित्यर्थः । अनन्यथासिद्धेत्यादिहेतोर्विशेषणा-सिद्धिमाशङ्क्य निराह ॥ न चेति ॥प्रतिबन्धकस्येति ॥प्रमाप्रतिबन्धकस्य दोषस्य यथा निरासकस्तथाऽप्रमाप्रतिबन्धकस्य गुणस्येत्यर्थः ।

दोषस्यान्यथासिद्धिं वदता हि गुणस्यप्रतिबन्धकत्वमुपेत्य तदभावस्य भ्रमे कारणत्वं वाप्रमायां दोषाभावस्येवप्रयोजकत्वं वा वाच्यम् । आद्ये भ्रमस्य न स्वतस्त्वापत्तिः । द्वितीये किं गुणाभाव एवप्रयोजकोऽथो-त्तेजकाभावविशिष्टगुणःप्रतिबन्धकस् तदभावश्चप्रयोजक इति वा नाद्यः । व्यभिचारादिति भावेनाह ॥ पीतः शङ्ख इत्यादिना ॥ विशेषदर्शनादिरूप इति ॥ पीतत्वाद्यसंसर्गग्रह आदिपदार्थः । सप्तम्यन्तरूपपदानां गुण-पदेनान्वयः ।

ननु क्वचित् कश्चिद्गुण इत्यननुगतगुणपक्षे पीतःशङ्ख इत्यादौ विपरीतप्रत्यक्षादिरेव कश्चिदन्यो गुणः । स तत्र नेति वदन्तंप्रत्याह ॥ गन्धेति ॥ यद्वा१ विशेषप्रमा गुण इति मते व्यभिचारोक्तिरियमित्युपेत्यप्रत्यक्षादिभ्रमत्रयेपि गुणाभावव्यभिचारोक्तिरियमिति बोध्यम् ।

॥ पित्तेति ॥प्रत्यक्षे पित्तम् अनुमाने बाधः शाब्देप्रमादो दोष इति विवेकः । दोषाभावस्य वा निरासक इत्येतन्निराह ॥ स्वाभावेति ॥ सहकारीति ॥ दण्डचक्रादेरपि स्वाभावनिरासोपक्षयेण मृत्पिण्ड एक एव हेतुर्न त्वन्यः कश्चिदपीति स्यादित्यतिप्रसङ्ग इत्यर्थः ।


ननु तथाप्यौत्सर्गिकस्याप्रामाण्यस्य क्वचिद् गुणःप्रतिबन्धकः

तर्कताण्डवं

ननु तथाप्यौत्सर्गिकस्याप्रामाण्यस्य क्वचिद् गुणःप्रतिबन्धकः । पीतः शङ्ख इत्यादौ तु विषयासत्वमुत्तेजकम् । त्वन्मते यादृच्छिक-संवादिलिङ्गाभासादौप्रमाप्रतिबन्धकस्य दोषस्य विषयसत्त्वमिवेति चेन्न । अयथार्थधूमज्ञानेन ज्ञापनीयस्य वह्नेर्दैवात्सत्त्ववद्गुणेन ज्ञाप-नीयस्य श्वैत्यादेः शङ्खे सत्त्वेन विषयासत्त्वस्याभावात् । आरोप्य-पीतत्वासत्त्वस्य च दोषापगमदशायामपि सत्त्वेन तदापि भ्रमापातात् ।

अस्तु तर्हि पित्तादिदोष उत्तेजक इति चेत्तर्हि दोषाभावविशिष्टस्य गुणस्याभावो भ्रमेप्रयोजक इत्युक्तं स्यात् । ततो वरं दोष एवप्रयोजक इति लाघवात् । दाहे तु नोत्तेजक एव हेतुः । तस्मिन्नसत्यपि दाहदर्शनात् । भ्रमस्तु नासति दोषे दृष्टः ।

किञ्च यादृच्छिकसंवादिलिङ्गशब्दाभासादिज्ञानेप्रतिबन्धके गुणे त्वन्नयेन विद्यमाने मन्नयेनाविद्यमाने चोत्तेजकस्य दोषस्य सत्त्वेनौ-त्सर्गिकमप्रामाण्यं स्यात् ।

न्यायदीपः

द्वितीयकल्पेप्युत्तेजकं किं विषयासत्वमथ पित्तादिदोषः । आद्यमाशङ्कते ॥ नन्विति ॥ औत्सर्गिकस्येति ॥ कारणगतसहजशक्तिजन्यस्येत्यर्थः ॥ क्कचिदिति ॥प्रमोत्पत्तिस्थल इत्यर्थः ॥ उत्तेजकमिति ॥ तथाच तदभावविशिष्टगुणाभावो प्रामाण्येप्रयोजक इत्युक्तस्थलेषु तदभावादेवप्रमाया अभावे कारणगतसहजशक्त्यैवाप्रमोत्पादो न दोषरूपहेतुबलेन । दोषस्तु तत्रावर्जनीयसन्निधिरेवेति भावः ॥ त्वन्मत इति ॥ ‘‘यादृच्छिकस्य विषय- सत्त्वस्योत्तेजकत्वेन’’ इत्यादिना दोषाभावहेतुत्वभङ्गे तथोक्तेरिति भावः ।

विषयासत्वमित्यत्र विषयपदेन गुणेन ज्ञाप्यो विषयो अभिमत उत भ्रमविषय इति विकल्प्याद्यं निराह ॥ अयथार्थेति ॥ द्वितीयं निराह ॥ आरोप्येति ॥ तदापीति ॥प्रतिबन्धकस्य गुणस्योत्तेजकयुक्तत्वेनोत्तेजका-भावविशिष्टगुणाभावस्य सत्वादिति भावः ।

द्वितीयं शङ्कते ॥ अस्त्विति ॥ पित्तादिरिति ॥ काचकामलादिरादि-पदार्थः ॥ उत्तेजक इति ॥ औत्सर्गिकाप्रामाण्यप्रतिबन्धकगुणस्येति योज्यम् ॥ दोष एवप्रयोजक इतीति ॥ ननुप्रमायां दोषाभाव इव दोषो भ्रमप्रयोजकश्चेदपि नाप्रामाण्यस्य स्वतस्त्वभञ्जक इति चेन्न । तद्व्यतिरेकप्रयोजकव्यतिरेकप्रतियोगित्वरूपकुलालपितृसाधारणप्रयोजकत्वे लाघवतर्केणावश्यं प्राप्ते सतिप्रतिबन्धकगुणनिरासोपक्षयाभावे चोक्तदिशा सिद्धे सति प्रागुक्तानन्यथासिद्धान्वयव्यतिरेकहेतुबलेन कारणत्वमेव दोषस्य सिद्ध्यतीति तात्पर्यात् । अत एवोत्तरवाक्ये हेतुपदप्रयोगः ।

॥ दाहदर्शनादिति ॥ मण्याद्यभावस्थल इति भावः । अस्तु भ्रमेप्येवमित्यत आह ॥ भ्रमस्त्विति ॥

दोषस्यान्वयव्यभिचारादुत्तेजकतया भ्रमहेतुत्वमयुक्तमिति भावेनाह ॥ किञ्चेति ॥ ईश्वरज्ञानस्य सल्लिङ्गपरामर्शरूपत्वेन यथार्थवाक्यार्थज्ञानत्वेन गुणत्वाङ्गीकारात्त्वन्नयेनेत्युक्तम् । भ्रमसाधारण्येन हेतुतया गुणत्वेनाहेतुत्वा-न्मन्नयेनाविद्यमान इत्युक्तम् ॥ औत्सर्गिकम् ॥ ज्ञानजननशक्तिप्रयुक्त-मित्यर्थः । सिद्धान्ते तु सत्यपि दोषे भ्रमरूपकार्यानुत्पादो हेत्वन्तरवैकल्या-दित्युक्तत्वान्नान्वयव्यभिचार इति भावः ।