१६ उत्पत्तौ स्वतस्त्वे अनुमानानि

स्वतस्त्वे तु..

उत्पत्तौ स्वतस्त्वे अनुमानानि ।

तर्कताण्डवं

स्वतस्त्वे तु अनित्यप्रमामात्रानुगतो गुण इति पक्षे अनित्य-यथार्थज्ञानत्वम् अनित्यज्ञानत्वानवच्छिन्नकार्यतानवच्छेदकम् अनित्य-ज्ञानावृत्तित्वरहितत्वाज् ज्ञानत्ववत् । तत्समनियतधर्मघटितत्वाद् यदेवं तदेवं यथा पृथुबुध्नोदराकारघटितं घटत्वं घटत्वान-वच्छिन्नकार्यतानवच्छेदकम् । भ्रमावृत्तिकार्यतानवच्छेदकं वा भ्रम-वृत्तित्वाद् भ्रमत्ववत् ।

न चैतेषां हेतूनामसिद्धिः । भ्रमेपि धर्म्यंशेप्रमात्वस्य सत्त्वात् ।प्रमात्वस्य ज्ञानत्वघटितत्वाच्च । नाप्यप्रयोजकता । समनियतयो-रेकस्यैव कार्यतावच्छेदकत्वे आवश्यके लघावर्थेप्रमाणप्रसराल्लघुनोऽ-नित्यज्ञानत्वस्यैव तदौचित्यात् । भ्रमे ज्ञानत्वप्रमात्वयोर्व्याप्य-वृत्तित्वाव्याप्यवृत्तित्वे त्वेकसामग्रीप्रयोज्यत्वेपि त्वन्मते वेगविभाग-योरिव युक्ते ।

मन्मते तुप्रकारांशेप्रमात्वापवादकस्य दोषस्य सत्वात् तद्भावो युक्तः ।

न्यायदीपः

॥ स्वतस्त्वे त्विति ॥ मानमित्यनुकर्षः । उच्यत इत्यर्थः । अननु-गतगुणपक्षे सिद्धसाधनतावारणाय ‘इति पक्षे’ इति विवेकायोक्तम् । अनित्यप्रमात्वम् अनित्यज्ञानत्वावच्छिन्नकार्यत्वप्रतियोगिककारणताभिन्न-कारणताप्रतियोगिककार्यतावच्छेदकम् अनित्यज्ञानत्वव्याप्यकार्यतावच्छेदक-धर्मत्वादप्रमात्ववदिति मण्युक्तानुमानस्यप्रत्यनुमानमाह ॥ अनित्येति ॥ विशेष्यमात्रस्य नित्यवृत्तितया कार्यतानवच्छेदकत्वेन सिद्धसाधन-वारणायानित्येति पक्षविशेषणम् । यथार्थेत्युक्तिरपि तद्वारणार्थैव । साध्येऽ१नित्यज्ञाननिष्ठकार्यतानवच्छेदकत्वेन सिद्धसाधननिरासायानित्येत्यादि-कार्यताविशेषणम् ।प्रमानिष्ठेत्यपि योज्यम् । तेन घटादिनिष्ठकार्यता-नवच्छेदकत्वेन न सिद्धसाधनम् । हेताविन्द्रियत्वादिनेन्द्रियादिनिष्ठकारणता-प्रतियोगिककार्यतावच्छेदकेप्रत्यक्षत्वादौ व्यभिचारवारणाय नञ्द्वयम् । तत्रानित्यज्ञानवृत्तित्ववत्तदवृत्तित्वस्यापि सत्वेन तद्राहित्याभावात् । उक्तदोषनिरासायैवानित्यज्ञानेत्यप्युक्तिः । असिद्धिनिरासायानित्येति ॥ ज्ञानत्ववदिति ॥ तस्य नित्यवृत्तितया कार्यतानवच्छेदकत्वादनित्यज्ञान-वृत्तित्वाच्चेति भावः ॥ तत्समेति ॥ अनित्यप्रमात्वसमनियतो यो धर्मो अनित्यज्ञानत्वं तद्घटितत्वादित्यर्थः ।

भ्रमेपि धर्म्यंशेप्रमात्वेनानित्यप्रमात्वानित्यज्ञानत्वयोरन्योन्यं व्याप्य-व्यापकभावादिति भावः । अत एव तत्समनियतधर्मघटितत्वद्योतनायैव अनित्यप्रमात्वमिति पक्षनिर्देशमकृत्वाऽनित्ययथार्थज्ञानत्वमित्युक्तम् ॥ यदेवमिति ॥ यद्यत्समनियतधर्मघटितं तत्तदनवच्छिन्नकार्यता-नवच्छेदक-मित्यर्थः ॥ पृथुबध्नेति ॥ पृथुबुध्नोदराकारघटत्वं नाम धर्मः । स्वसमनियत-घटत्वधर्मघटितत्वात् तदनवच्छिन्नकार्यता पटादिनिष्ठा तदनवच्छेदक इत्यर्थः ।

प्राचीनपक्षनिर्देश एव साध्यान्तरमाह ॥ भ्रमावृत्तीति ॥ भ्रमावृत्ति-कार्यताप्रमादिनिष्ठा कार्यता तदनवच्छेदकमित्यर्थः । अनित्ययथार्थज्ञानत्वं तादृशज्ञाननिष्ठकार्यतानवच्छेदकमित्येव साध्यकरणे अनित्यज्ञानत्वे व्यभिचारः । तस्यात्ममनःसंयोगादिहेतुनिरूपितकार्यतावच्छेदकत्वात् । भ्रमवृत्तित्वाच्च । अतो भ्रमवृत्तीत्येवमुक्तिः । अनित्यज्ञानत्वस्य च तादृशघटादिनिष्ठकार्यतानवच्छेदकत्वान्न दोषः ॥ न चैषामिति ॥ त्रयाणामित्यर्थः । भ्रमेपीत्यनेनाद्यन्तयोरसिद्ध्युद्धारः ॥प्रमात्वस्येति ॥ अनित्यप्रमात्वस्यानित्यज्ञानत्वघटितत्वादित्यर्थः ।

यद्वाप्रमात्वस्य ज्ञानत्वघटितत्वेऽनित्यप्रमात्वस्यानित्यज्ञानत्व-घटितत्वमर्थसिद्धमितिप्रमात्वस्येत्येवोक्तं लघुन इति ॥प्रमात्वस्य विषयसत्वघटितत्वेन गुरुत्वमिति भावः ।


ननु विभागस्याव्याप्यवृत्तित्वं स्वात्यन्ताभावसामानाधिकरण्यम्

तर्कताण्डवं

ननु विभागस्याव्याप्यवृत्तित्वं स्वात्यन्ताभावसामानाधिकरण्यम् । अत्यन्ताभावस्याधिकरणविशेषसम्बन्धः स्वरूपानतिरिक्त इति न हेतुसापेक्ष इति चेत्तुल्यंप्रमात्वेपि । अनित्यप्रमात्वं दोषविरोधिवृत्ति-धर्मावच्छिन्नकारणत्वप्रतियोगिककार्यतानवच्छेदकं दोषजन्यवृत्ति-त्वात् । भ्रमत्ववत् । दोषविरोधी गुणो दोषाभावश्चेति स्वतस्त्व-सिद्धिः । अनित्यप्रमात्वं न कार्यतावच्छेदकम् । तथात्वे बाधक-वत्त्वात् । घटज्ञानत्ववत् । न चासिद्धिः । अनुगतकारणाभावरूपस्य बाधकस्योक्तत्वात् ।

न्यायदीपः

अनित्यप्रमात्वप्रमाकारणतानवच्छेदकरूपावच्छिन्नकारणताप्रतियोगिक-कार्यतावच्छेदकं भ्रमावृत्तिकार्यतावच्छेदकत्वाद् घटत्ववदिति मण्युक्तस्यप्रत्यनुमानमाह ॥ अनित्यप्रमात्वमिति ॥ दोषः पित्तादिः । तद्विरोधि-वृत्तिधर्मो गुणत्वादिरूपः । तदवच्छिन्नेत्यर्थः । दोषजन्यवृत्तित्वादिति हेतोरसिद्ध्युद्धारः प्राग्वत् ।

ननूक्तानुमानेन दोषविरोधिनो गुणस्याहेतुत्वलाभेपि दोषाभावस्य हेतुत्वानिवारणाज् ज्ञानहेत्वधिकजन्यत्वात्प्रमात्वस्य ज्ञानहेतुमात्र-जन्यत्वक्षतिरित्यत आह ॥ दोषविरोधीति ॥ विरोधित्वं च सहानव-स्थायित्वं वा तन्निश्चयप्रतिबन्धकनिश्चयविषयत्वं वोभयानुगतम् ।प्रतिबन्धकत्वं च तदनुत्पादव्याप्यत्वमिति भावः ।

अनित्यप्रमात्वं कार्यत्वच्छेदकं बाधकं विना कार्यमात्रवृत्तिधर्मत्वाद् अप्रमात्ववदिति मण्युक्तस्यप्रत्यनुमानमाह ॥ अनित्यप्रमात्वमिति ॥ अत्र पूर्वत्र च सिद्धसाधनताव्युदासायानित्येतिप्रमात्वविशेषणम् ॥ तथात्वे ॥ कार्यतावच्छेदकत्व इत्यर्थः ॥ बाधकेति ॥ स्वावच्छिन्न-कार्यताप्रतियोगिकानुगतैककारणासम्भवरूपबाधकवत्त्वादित्यर्थः ॥ घटेति ॥ घटज्ञानमात्रे अनुगतकारणाभावाद्घटज्ञानत्वं नावच्छेदकमित्युप-पादितमधस्तादिति भावः ॥ उक्तत्वादिति ॥प्रमामात्रानुगतगुणभङ्ग इत्यर्थः ॥ इति पक्ष इति ॥ विरोध्यनुमानमुच्यत इति योज्यम् ।

विषयसत्वं गुण इति पक्षमुपेत्याह ॥ न विषयेति ॥ इन्द्रियसन्निकर्षो गुण इति पक्ष आह ॥ न षड्विधेति ॥ अन्यतरेति ॥ अन्यतमेत्यर्थः । साधुत्वं पूर्वमुक्तं ध्येयम् । प्रागुपपादितमेव स्मारयति ॥ योगिप्रत्यक्षादे-रिति ॥ सामान्यप्रत्यासत्तिजप्रत्यक्षमादिपदार्थः ॥ अन्यतरेणेति ॥ अन्यतमेनेत्यर्थः । अनुमितिशाब्दप्रमयोरपि गुणजन्यत्वे क्रमेणानुमाने आह ॥ अनुमितीत्यादिना ॥ विवक्षितार्थतत्वज्ञानं गुण इति मत आह ॥ विवक्षितेति ॥