१५ प्रमायां दोषाभावस्य हेतुत्वभङ्गः

अस्तु तर्हि दोषाभावादेवप्रमा

प्रमायां दोषाभावस्य हेतुत्वभङ्गः

तर्कताण्डवम्

अस्तु तर्हि दोषाभावादेवप्रमा । तस्यानन्यथासिद्धान्वय-व्यतिरेकित्वादिति चेन्न । कारणतावच्छेदकप्रतिबन्धकाभावादि-साधारणस्यप्रयोजकत्वमात्रस्यापादन इष्टत्वात् ॥

‘‘अदुष्टमिन्द्रियं त्वक्षं तर्कोऽदुष्टस्तथानुमा आगमोऽदुष्टवाक्यं च’’

इति ब्रह्मतर्के, ‘‘निर्दोषार्थेन्द्रियसन्निकर्षःप्रत्यक्षं निर्दोषो-पपत्तिरनुमा निर्दोषः शब्द आगमः’’ इतिप्रमाणलक्षणे; ‘‘दोषा-भावस्य कारणत्वे च नास्माकमनिष्टं तावता वेदापौरुषेयत्वा-व्याघातात्’’ इति भाष्यटीकायां चोक्तेः । दोषाभावस्यापेक्षि-तत्वेपिप्रमाजननशक्तिस्सहजा, न तु भ्रमजननशक्तिवदाधेयेत्येतावतैव प्रामाण्यस्वतस्त्वसिद्धेश्च ।

उक्तं हि सुधायां ‘‘इन्द्रियादीनामौत्सर्गिकी शक्तिःप्रमाण्यजनने दोषापवादादप्रामाण्यमपि जनयति’’ इति कारणत्वस्यापादनं त्वयुक्तम् ॥

न्यायदीपः

॥ अस्त्विति ॥ तथाच ज्ञानहेतुतोऽधिकजन्यत्वात्स्वतस्त्वहानिरिति भावः ।प्रयोजकत्वमापाद्यते कारणत्वं वा । आद्य आह ॥ कारणेति ॥प्रतिबन्धकाभावाहेतुताया वक्ष्यमाणत्वाशयेनाह ॥प्रतिबन्धकाभावा-दीति ॥ कारणकारणादिरादिपदार्थः ॥प्रयोजकत्वेति ॥ तद्व्यतिरेक-१प्रयुक्तव्यतिरेकप्रतियोगित्वमात्रस्य न त्वनन्यथासिद्धस्येत्यर्थः ।

इष्टत्वमेव क्रमात्सूत्रभाष्यटीकाकृतां सम्मत्या दृढयति ॥ अदुष्ट-मिति ॥ अक्षम् अनुमा आगम इति लक्ष्यनिर्देशः । तत्त्वनिर्णयो-दाहृतब्रह्मतर्क इत्यर्थः । मानत्रयेपि दोषाभावापेक्षाद्योतनाय त्रितयोदाहरणम् ॥ टीकायां चेति ॥ देवताधिकरणभाष्यस्य टीकायामित्यर्थः । तत्र कारणत्वे चेत्युक्तिःप्रयोजकत्वे चेत्यर्थ इत्यग्रे व्यक्तम् ।

नन्वेवमपि कथं न स्वतस्त्वहानिः । ज्ञानहेत्वतिरिक्तानपेक्षत्वा-भावादित्यत आह ॥ दोषाभावस्येति ॥ एतावतैवेति ॥ दोषाभावस्य कारणत्वपक्षे शक्त्याधायकत्वेपिप्रयोजकत्वपक्षे तदभावादिति भावः ॥ उक्तं हीति ॥ दोषेत्यादिनोक्तंप्रमेयं जिज्ञासाधिकरणसुधायामुक्तमित्यर्थः । औत्सर्गिकी उत्सर्गः सामान्यं ज्ञानमात्रजनिकेवेत्यर्थः । दोषापवादादित्यस्य दोषाहितशक्तिरूपापवादादित्यर्थ इति भावः ।

नन्वेवं गुणस्यापिप्रयोजकत्वोपपत्तौ किं तन्निरासायासेनेति चेन्न । गुणवादिनोपि दोषाभावस्य आवश्यकत्वोपपादनात् । गुणस्य दोषनिरासोपक्षीणतोपपादनाच्चेति भावः ।


क्लप्तकारणं चक्षुरादिकमादायैव..

तर्कताण्डवं

क्लप्तकारणं चक्षुरादिकमादायैव दोषाभावस्यप्रमांप्रति नियत-पूर्वभावित्वग्रहणेन दण्डत्ववद् दण्डगतदार्ढ्यवत् शक्तिः कारणता-वच्छेदिकेति पक्षे शक्तिवद् उपस्थितेष्टभेदाग्रहःप्रवर्तक इत्यत्रोप-स्थितिवद् विषयत्वेन विषयजन्यं ज्ञानंप्रत्यक्षमित्यत्र विषयत्ववच्च चक्षुरादिनिष्ठकारणतावच्छेदकत्वमात्रेणान्वयव्यतिरेकयोरुपपत्तौ दोषाभावे कारणताया दोषाभावत्वे कारणतावच्छेदकतायाश्च कल्पने गौरवात् । उक्तरीत्या सत्यपि दोषेप्रमात्वदर्शनेनप्रमासामान्यंप्रति व्यतिरेकव्यभिचाराच्च ।

उक्तं हि विष्णुतत्वनिर्णयटीकायां ‘‘दोषाभावोपि न प्रामाण्य-कारणम् । यादृच्छिकसंवादिषु सत्यपि दोषेप्रमाणज्ञानोदयात्’’ इति ।

किञ्चप्रतिबन्धकाभावे लोके कारणत्वाव्यवहारादौत्सर्गिक-कार्यापवादकविरोधित्वरूपान्यैवान्यथासिद्धिः परिभाष्यतामित्युक्तम् । उक्तं हि सुधायां ‘‘तर्हि दोषाभावः कारणमित्यायातमिति चेन्न । तथा सत्युत्सर्गापवादयोः क्वाप्यभावप्रसङ्गाद् इति ।

न चैवं भाष्यटीकाया विष्णुतत्त्वनिर्णयटीकया सुधया च विरोध इति शङ्क्यम् । भाष्यटीकायां कारणशब्दस्यास्मदुक्तं यद्घटंप्रति कुलालपित्रापि साधारणं तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वरूपंप्रयोजकत्वं तन्मात्रपरत्वात् । उक्तं हि ‘तस्माद्गुणेभ्यो दोषाणाम-भावस्तदभावतो ऽप्रमाण्यद्वयाभावस्तेनोत्सर्गोनपोदितः’’ इति ।

न्यायदीपः

द्वितीयं निराह– कारणत्वस्येति । कुत इत्यतः ‘‘येन सहैव यस्य यंप्रति पूर्ववृत्तित्वमवगम्यते तत्तेनान्यथासिद्धं’’ इति मण्युक्तान्यथासिद्धि-मत्वादित्याह ॥ कप्तेति ॥ ग्रहणेनेति ॥ त्वदुक्तपारिभाषिकान्यथा-सिद्धत्वेन हेतुनेत्यर्थः । अस्य चक्षुरादिनिष्ठकारणतेत्यादिनान्वयः ।

गुरुमतेनाह ॥ उपस्थितेति ॥ उपस्थितम् ॥ बुद्धौ विपरिवर्तमानं यदिष्टं रजतादि तेन पुरोवर्तिनो भेदाग्रह इत्यर्थः । उपस्थितेरपि पुरोवृत्ति-गोचरप्रवृत्तिकारणत्वे वैशिष्ट्यज्ञानस्यापि हेतुतापत्त्या भेदाग्रहःप्रवृत्तिहेतुरिति मतहान्यापत्तेर्हेतुतावच्छेदकत्वंं यथा तथेत्यर्थः । न्यायमतेनाह ॥ विषयत्वेनेति ॥प्रत्यक्षमित्यत्रेति ॥ इतिप्रत्यक्षलक्षण इत्यर्थः । अन्यथासिद्धिमुक्त्वा व्यभिचारं चाह ॥ उक्तेति ॥ ‘‘किञ्च करादौ चरणादिभ्रमजन्य’’ इत्यदिनोक्तरीत्येर्थः ।

ननु दोषस्यप्रतिबन्धकतया तदभावस्य स्वतन्त्रावेव कार्यान्वय-व्यतिरेकावतो न प्रागुक्तान्यथासिद्धिर्युक्तेत्यत आह ॥ किञ्चेति ॥ अन्यथासिद्धशब्दस्य त्वया यौगिकार्थं त्यक्त्वा लोकव्यवहारानुरोधेन त्रिधा पारिभाषिकार्थोक्तेरिहापि व्यवहारानुरोधेन त्वदुक्तान्यथासिद्धित्रयादन्यैवान्यथा-सिद्धिः परिभाष्यतामित्युक्तमतीतभङ्ग इत्यर्थः ॥ उक्तं हीति ॥ दोषा-भावस्यान्यथासिद्धतया कारणत्वं नेत्येतज्जिज्ञासाधिकरणे‘‘प्रत्यक्षवच्च प्रामाण्यं’’ इत्यादिश्लोकव्याख्यानसुधायामुक्तमित्यर्थः ।

उपलक्षणमेतत् ‘‘दोषाभावान्वयव्यतिरेकनियमात्प्रामाण्यस्य परतस्त्वं किं न स्यादिति चेन्न । यादृच्छिकसंवादिषु प्रामाण्येपि दोषाभावेन कारणत्वभङ्गात्’’ इत्यादिना वादावल्यामुक्तमित्यर्थः । उत्सर्गेत्यादेरर्थस्तु ‘‘दाहाविरोधिनो हेतुत्व’’ इत्यदिना पूर्वतनग्रन्थेनैव विवृतो ध्येयः ॥ भाष्यटीकाया इति ॥ प्रागुक्ताया इत्यर्थः ॥ सुधया चेति ॥ वादावल्या चेत्यपि ध्येयम् ॥ तद्व्यतिरेकेति ॥ दोषाभावव्यतिरेकप्रयुक्तव्यतिरेकप्रति-योगित्वं प्रामाण्यस्य यत्तद्रूपंप्रयोजकत्वमित्यर्थः । स्वविरहप्रयुक्तविरह-प्रतियोगिकार्यकत्वरूपं यत्प्रयोजकत्वमिति फलितोर्थः ॥ उक्तं हीति ॥ वार्तिके दोषाभावस्योक्तरूपंप्रयोजकत्वमुक्तमित्यर्थः । तदभावतः गुणा-धीनदोषाभावतः । अबोधकत्वरूपं विपरीतबोधकत्वरूपं वा विपरीत-बोधकत्वरूपमननुष्ठानरूपं वा यदप्रामाण्यद्वयं तदभावः । तेन दोषाभावस्या-प्रामाण्यनिरासोपक्षयेण ज्ञानसामग्रीत एवप्रमा जायत इत्युत्सर्गो न भग्न इत्यर्थः ।