१४ स्थूलावयविप्रत्यक्षप्रमादौ भूयोवयवेन्द्रियसन्निकर्षादेर्हेतुत्वभङ्गः

अथापि स्याद् भ्रमसामान्येप्रत्यक्षादिभ्रमे..

स्थूलावयविप्रत्यक्षप्रमादौ भूयोवयवेन्द्रियसन्निकर्षादेर्हेतुत्वभङ्गः

तर्कताण्डवम्

अथापि स्याद् भ्रमसामान्येप्रत्यक्षादिभ्रमे वानुगतदोषस्याभावेपि तत्तद्भ्रमविशेषे पित्तादिरिव स्थूलावयविप्रत्यक्षप्रमायां भूयोवयवेन्द्रिय-सन्निकर्षः, संशयविपर्ययोत्तरप्रत्यक्षप्रमायां विशेषप्रमा, नियमेनप्रमयो-रनुमितिशाब्दप्रतीत्योः सत्यलिङ्गपरामर्शवाक्यार्थज्ञाने चान्वयव्यति-रेकाभ्यां हेतू । एवं चप्रमाया अप्रमाव्यावृत्ताननुगताधिकहेतु-जन्यत्वात्परतस्त्वम् । त एवाननुगता हेतवःप्रमांप्रत्यसाधारण-हेतुत्वेनोपाधिना गुणा इत्युच्यन्ते । तस्मादनित्यप्रमात्वमनित्य-ज्ञानत्वप्रयोजकाधिकप्रयोज्यं तदन्वयव्यतिरेकानुविधायित्वात् । अप्रमात्ववत् । अन्यथा अप्रमापिप्रमा स्यात् । न चाप्रमायामधिको दोषो हेतुरस्तीति वाच्यम् । तथात्वे भ्रमस्यप्रमात्वप्रयोजकजन्यत्वे सत्यधिकजन्यत्वेनप्रमाविशेषत्वापातादिति मम सिद्धान्तरहस्यमिति चेन्मैवम् ।

भूयोवयवेन्द्रियसन्निकर्षे शङ्खत्वादिविशेषदर्शने च सत्यपि पीतः शङ्ख इत्यादिभ्रमस्य वंशे उरगभ्रमस्य बाष्पावयवे धूमावयविभ्रमेऽ-वयव्यंशे एव भ्रमस्य दर्शनेनान्वयव्यभिचारात् ।

यदि च तत्र पित्तमण्डूकवसाञ्जनादिदोषप्रतिबन्धात्प्रमानुत्पत्ति-स्तर्ह्यावश्यकत्वाद्दोषाभाव एव हेतुर् मम तु दोषाभावेनाप्रमारूप-विपरीतकार्यानुत्पत्तौ ज्ञानसामग््रयैवप्रमोत्पत्तिः ।

न्यायदीपः

यत्तूक्तं मणौ ‘‘तत्तत्प्रमायां भूयोऽवयवेन्द्रियसन्निकर्षयथार्थलिङ्गसादृश्य-वाक्यार्थज्ञानानां यथायथंप्रत्येकमेव गुणत्वम् । अन्वयव्यतिरेकात् । तत्तदप्रमायां पित्तादिलिङ्गभ्रमादीनां दोषत्ववत्प्रत्यक्षे विशेषदर्शनमपि गुणः । तदनुविधानात्’’ इत्यादितत्तात्पर्यमाशङ्कते ॥ अथापि स्यादित्यादिना ॥ संशयेति ॥ संशयोत्तरविपर्ययोत्तरेत्यर्थः ॥ विशेषेति ॥ व्याप्येत्यर्थः ।प्रमयोरितिप्रतीत्योर्विशेषणम् । तावता कथंप्रमात्वस्य परतस्त्वमित्यत आह ॥ एवं चेति ॥ उक्तसन्निकर्षादेर् हेतुत्वे सतीत्यर्थः । गुणाजन्यत्वा-त्कथमेतदित्यत आह ॥ त एवेति ॥ असाधारणेति ॥ भ्रमव्यावृत्तेन्यर्थः ।

मणिकृदभिमतमनुमानमाह ॥ तस्मादिति ॥ उक्तसन्निकर्षादेर्गुणत्वेन तज्जन्यत्वेनप्रमायाः परतस्त्वसम्भवात्प्रयोग उच्यत इत्यर्थः ॥ तदन्वयेति उक्तरूपसन्निकर्षादिलक्षणाधिककारणपरामर्शः । हेतोरप्रयोजकत्वनिरासाय विपक्षे बाधकमाह ॥ अन्यथेति ॥ अनित्यज्ञानत्वप्रयोजकादधिका-प्रयोज्यत्वे तन्मात्रप्रयोज्यत्व इत्यर्थः । आपादकासिद्धिमाशङ्क्याह ॥ न चेति ॥प्रमात्वप्रयोजकेति ॥ अनित्येति योज्यम् । अनित्यज्ञानत्व-प्रयोजकस्यैवानित्यप्रमात्वप्रयोजकत्वेन त्वदभिमतेरिति भावः ॥ इत्यादिभ्रमस्येति ॥ तिक्तो गुड इत्यादिरादिपदार्थः ॥ वंशेति ॥ १अनुरगत्वस्य स्पर्शने दर्शने भूयोऽवयवेन्द्रियसन्निकर्षे सत्यपि मण्डूकवसाक्त-नेत्रस्य मण्डूकवसादोषेण जायमानस्य वंशे उरगभ्रमस्येत्यर्थः ।

तदिन्द्रियजप्रत्यक्षप्रमायां तदिन्द्रियजविशेषदर्शनं हेतुरिति विशेषदर्शनस्य हेतुत्वे भवेदेवं विशेषविवक्षा । तदेवायुक्तमिति ‘‘एवं भ्रमोत्तरप्रमायामपि’’ इत्यादिना वक्ष्याम इति भावेन स्थलान्तरेप्युक्तसन्निकर्षस्य व्यभिचारमाह ॥ बाष्पेति ॥ धूमेति ॥ धूमरूपावयवीत्यर्थः ।

यत्र स्थूलावयविप्रत्यक्षे भूयोऽवयवेन्द्रियसन्निकर्षो गुण इत्युक्तं तस्मि-न्नेवेति विरोधस्फोरणायावयव्यंश एवेत्युक्तम् । अञ्जनादीत्यादिपदेन सारूप्यादिग्रहः ॥ दोषाभाव एवेति ॥ यादृच्छिकसंवादिनि दोषाभावःप्रमाव्यभिचारीति तूत्तरभङ्गे निरसिष्यत इति भावः । यत्तु सन्निकर्षाद्युत्कर्षेणप्रमोत्कर्षात्सन्निकर्षादिरेव हेतुरिति । तन्न । उक्तस्थलेषु तदुत्कर्षे सत्यपिप्रमानुदयेन व्यभिचारात् ।

ननु सिद्धान्ते दोषाभावस्य प्रामाण्याहेतुत्वादुक्तस्थले प्रामाण्यप्रयोजक-ज्ञानसामग्रीसत्त्वात्प्रमोत्पत्तिः स्यादित्यत आह ॥ मम त्विति ॥ यद्वा तावतापि सिद्धान्ते स्वतस्त्वहानिरित्यत आह ॥ मम त्विति ॥


एवं भ्रमोत्तरप्रमायामपि तदनुत्तरप्रमायां ..

तर्कताण्डवम्

एवं भ्रमोत्तरप्रमायामपि तदनुत्तरप्रमायां या कप्ता सामग्री भ्रमकाले सा न वर्तते चेत्तदभावादेव कार्याभावो न तु विशेषदर्शनाभावादिति विशेषप्रमा न हेतुः । वर्तते चेद्विशेषदर्शनाभावेपि तदनुत्तरप्रमेव तदुत्तर-प्रमाप्युत्पद्येतैव । न हि कार्येवैचित्र्याभावेपि कालभेदमात्रेण विचित्र-हेत्वपेक्षा । यदि तदा संशयादिदोषःप्रतिबन्धकस्तर्ह्यावश्यकत्वाद् दोषाभावादेवप्रमास्तु ।

किञ्च करादौ चरणादिभ्रमजन्ये संशयानन्तरभाविनिप्रमारूपे पुरुषसाक्षात्कारे विशेषप्रमारूपस्य वह्न्यालोके धूमभ्रमजन्यायां नियमेनप्रमायामनुमितौ यथार्थलिङ्गपरामर्शरूपस्य भ्रान्तविप्रलम्भक-वाक्यजन्यायां नियमेनप्रमायां शाब्दप्रतितौ यथार्थवाक्यार्थज्ञानरूपस्य गुणस्य अभावेपिप्रमात्वदर्शनेन व्यतिरेकव्यभिचारोपि ।

न्यायदीपः

१विशेषदर्शनपदेन विशेषदर्शनसामान्यविवक्षायां प्रागुक्तान्वयव्यभिचार-लगनेप्युक्तरूपविशेषदर्शनविवक्षायां नोक्तदोषलगनमित्यतः । अनौपाधिक-भ्रमोत्तरप्रत्यक्षप्रमायामेव विशेषदर्शनं गुणोऽतो नोक्तदोष इत्यतो विशेष-दर्शनाभावे भ्रमोत्तरप्रमाभाव इति व्यतिरेकोऽन्यथासिद्धो न विशेषदर्शनहेतुता कल्पक इति भावेन दोषान्तरमाह ॥ एवं भ्रमेति ॥ संशयविपर्यय-रूपभ्रमेत्यर्थः ।प्रमायामपि न विशेषप्रमाहेतुरित्यन्वयः । ननु भ्रमानुत्तर-प्रत्यक्षसामग्र्या कथं तदुत्तरप्रत्यक्षप्रमा जायेतेत्यत आह ॥ न हीति ॥ विचित्रेति ॥ विशेषदर्शनरूपेत्यर्थः ॥ संशयादीति ॥ विपर्यय आदिपदार्थः ।

ननु संशयस्य ग्राह्यसंशयपर्यवसन्नतयाप्रमाण्यापरिपन्थित्वात्कथंप्रतिबन्धकत्वशङ्का । अन्यथा तस्मिन् सति विशेषदर्शनादपिप्रत्यक्षा-नापत्तेरिति चेन्न । विशेषदर्शनविरहविशिष्टसंशयादेःप्रतिबन्धकत्वेन तदभि-प्रायेण संशयादिदोषःप्रतिबन्धक इत्युक्तेः ।

॥ दोषाभावादेवेति ॥ ननु विशेषदर्शनविरहविशिष्टसंशयादिदोषाभावो हि संशयादिस्थले विशेषादर्शनरूपविशेषणाभावेनैव वाच्य इति विशेषदर्शनमेव पर्यवसन्नमिति चेन्न । तावता तस्यप्रतिबन्धकरूपदोषाभावत्वेनैव हेतुत्व-प्राप्त्या तेन रूपेण हेतुत्वाऽप्राप्तेः । विशिष्टाभावसम्पादनेनान्यथोपक्षीणत्वाच्च ।

रुचिदत्तादयस्तु भ्रमस्थले विशेषादर्शनसहकृतसंशयादेःप्रतिबन्धकत्वे संशयोत्पत्तिकालेप्रत्यक्षापत्तिः । न च ‘‘यज्ज्ञानं यत्रप्रतिबन्धकं तत्सामग्र्यपि तत्रप्रतिबन्धिका’’ इति न्यायात्तदा संशयसामग्रीप्रतिबन्धान्नप्रत्यक्षमिति वाच्यम् । एवमपि धर्मिज्ञानकाले दैवात्पुरुषत्वादिज्ञानात्वतः पुरुषत्वादिनिश्चयापत्तेः । संशयस्य तत्सामग्र्या वा तदानीमभावात् । न च दोषस्यप्रतिबन्धकत्वान्न तदाप्रत्यक्षमिति वाच्यम् । तर्ह्यावश्यकत्वा-त्संशयकालेऽपि तत एव दोषात्प्रत्यक्षानुत्पत्तिरस्तु । किं संशयस्यप्रति-बन्धकत्वाभ्युगमेन । तथाच विशेषदर्शने सति विशेषादर्शनरूपदोषाभावादेवप्रत्यक्षप्रमोत्पत्तिर्न तु निरुक्तविशिष्टाभावस्यप्रत्यक्षप्रमाहेतुत्वम् । मानाभावात् । न च विशेषादर्शनस्य दोषत्वे संशयानुत्तरप्रमानुदयापत्तिरिति शङ्क्यम् । फलबलेनैतस्य क्वचिदेव दोषत्वकल्पनादित्याहुः ।

दोषाभावादेव साऽस्त्वित्यनन्तरं मम त्वित्यादिवाक्यमत्राप्यनुवर्त्य योज्यम् । भ्रमोत्तरप्रमाव्यतिरेकस्य विशेषदर्शनत्वेन विशेषदर्शनव्यतिरेक-निमित्तता नास्ति, किन्तु दोषनिमित्ततेत्यन्यथासिद्धिमुक्त्वा सत्यपि विशेषप्रमाव्यतिरेकादौप्रमोत्पत्तेर्व्यभिचारान्न विशेषप्रमायथार्थलिङ्गपरामर्शादेःप्रमांप्रति हेतुत्वं दूरे गुणत्वेनेति भावेनाह ॥ किञ्चेति ॥

ननूक्तस्थले सर्वत्रेश्वरप्रमामादाय विशेषप्रमासत्यपरामर्शयथार्थवाक्यार्थ-ज्ञानानां न व्यतिरेकव्यभिचार इति चेन्न । अस्मिन्पक्षे ‘‘न चेश्वरे सोऽस्तीति वाच्यं’’ इत्यादिना दोषाणां पूर्वमेवोक्तत्वादिति भावः ।