१२ यज्ञपत्युक्तवक्त्रानुमानभङ्गः

अथापि स्यात्

यज्ञपत्युक्तवक्त्रानुमानभङ्गः

तर्कताण्डवम्

अथापि स्यात् ।प्रमामात्रानुगतगुणाभावेपि परतस्त्वं सेत्स्यति । न ह्यनित्यप्रमात्वस्योक्तकार्यतावच्छेदकत्वं परतस्त्वम् । किन्तु तस्य स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयमात्रवृत्तित्वम् । तच्चानित्य-प्रमामात्रानुगतगुणाभावेप्यननुगतगुणैरपि सेत्स्यति ।

तत्र चप्रमाणम् अनित्यप्रमात्वं स्वाश्रयमात्रवृत्तिधर्मा-वच्छिन्नकार्यताश्रयमात्रवृत्ति स्वाश्रयमात्रावृत्तिधर्मावच्छिन्नकार्यता-प्रतियोगिककारणत्वाश्रयमात्रानुत्पाद्यकार्यमात्रवृत्तिधर्मत्वात् । अप्रमात्ववदित्यनुमानम् ।

अनेन सामान्यकारणमात्रानुत्पाद्यकार्यमात्रवृत्तिधर्मत्वरूपेण हेतुना साध्यमानं विशेषकारणजन्यत्वं सर्वप्रमानुगतगुणस्य बाधितत्वे-नाननुगतगुणजन्यत्वमादाय पर्यवस्यति ।

युक्तिरत्नाकरः

एवमनुगतगुणपक्षे प्रतिक्षिप्यानुगततत्पक्षमपि प्रतिक्षेप्तुं तमाशङ्कते ॥ अथापीति ॥ किन्त्विति ॥ स्वस्यानित्यप्रमात्वस्य य आश्रय-स्तदितरावत्तयो ये प्रत्यक्षप्रमात्वादयस्तदवच्छिन्नकार्यताश्रय एव वर्तमानत्वमुक्तकार्यताव्याप्यत्वमिति यावत् ।

॥ तच्चेति ॥ मात्र१मर्थः । एवं चानित्यप्रमात्वस्य कार्यतान-वच्छेदकत्वेपि तदाश्रयसर्वप्रमासु गुणजन्यतावच्छेदकधर्मत्वमेव परतस्त्व-मिति भावः ॥ अनित्ये इति ॥ एतच्च बाधवारणाय । साध्यमुक्तार्थः ॥ स्वेति ॥ साध्यहेत्वोः स्वपदं समाभिव्याहृतपरम् । एवं यो वर्तते धर्मः नित्यज्ञानत्वादिस् तदवच्छिन्नकार्यतानिरूपितकारणताश्रयो मनस्संयोगादिस् तन्मात्रानुत्पाद्यं कार्यम् अनित्यप्रमा तन्मात्रवृत्ति धर्मत्वादित्यर्थः । हेतोर् अप्रयोजकतां निरस्यन् साध्यपर्यवसान प्रकारमाह ॥ अनेन इति ॥

न्यायदीपः

यज्ञपतिमतमाशङ्कते ॥ अथापीति ॥ अथापीत्याद्युक्तमेव व्यनक्ति ॥प्रमेति ॥ उक्तेति ॥ अप्रमाकारणतेत्यादिनोक्तेत्यर्थः ॥ तस्येति ॥ अनित्यप्रामात्वस्येत्यर्थः ॥ स्वेति ॥ स्वस्यानित्यप्रमात्वस्य य आश्रय-स्तन्मात्रवृत्तयस्तदितरावृत्तित्वे सति तद्वृत्तयो ये धर्मा जन्यप्रत्यक्ष-प्रमात्वादयस् तदवच्छिन्नकार्यताश्रय एव वर्तमानत्वम् उक्तकार्यताश्रयत्व-व्याप्यत्वमिति यावत् ।

तदुक्तमेव पञ्चमात्रानुमानमाह ॥ अनित्यप्रमात्वमिति ॥ बाध-निरासाय ॥ अनित्येति ॥ साध्यमुक्तार्थम् । साध्यहेत्वोः स्वपदं समभिव्याहृतपरम् । एवं चानित्यप्रमात्वाश्रय एव यो न वर्तते धर्मो ऽनित्यज्ञानत्वादिस् तदवच्छिन्नकार्यतानिरूपितकारणताश्रयो मनस्संयोगादिस् तन्मात्रानुत्पाद्य कार्यमनित्यप्रमा तन्मात्रवृत्तिधर्मत्वादिति हेत्वर्थः । अनित्यज्ञानकारणमात्रानुत्पाद्यकार्यमात्रवृत्तिधर्मत्वादिति फलितोर्थः । हेतोरप्रयोजकतां निरस्यन् साध्यपर्यवसानप्रकारमाह ॥ अनेनेति अननुगतेति ॥प्रत्यक्षप्रमाद्येकैकानुगतेत्यपि योज्यम् । अन्यथा जन्यप्रत्यक्षप्रमात्वादेरवच्छेदकत्वायोगेन बाधापत्तेरिति भावः ।


अत्र च साध्ये आद्यं..

तर्कताण्डवम्

अत्र च साध्ये आद्यं मात्रपदं स्वतस्त्वपक्षेप्यनित्यप्रमात्वस्य स्वाधिकदेशवृत्तिनाऽनित्यज्ञानत्वेनावच्छिन्नकार्यताश्रय एव वर्तमानत्वात्सिद्धसाधनमिति शङ्कानिरासाय । द्वितीयं तु सर्वासांप्रमाणां गुणजन्यत्वसिद्ध्यर्थम् ।

हेतौ१प्रथममात्रपदाभावे एतद्घटपटान्यतरत्वे व्यभिचारः । घटत्वपटत्वयोः कार्यतावच्छेदकयोर् एतद्घटपटान्यतरत्वादिकारण-मात्रवृत्तित्वाभावेन साध्याभावत् । २अन्यतरत्वस्य च स्वानुगत-कारणाभावेन कार्यतानवच्छेदकत्वात् ।

अतः स्वाश्रयमात्रावृत्तिधर्मावच्छिन्नकार्यत्वप्रतियोगिककारण-ताश्रयमात्रानुत्पाद्येति कार्यं विशेषितम् । तेनैतद्घटपटान्यान्य-त्वाश्रयकार्यस्य तदुभयान्यात्वाधिकरणमात्रावृत्तिघटत्वपटत्वावच्छिन्न- कार्यत्वप्रतियोगिककारणत्वाश्रयमात्रोत्पाद्यत्वेन हेत्वभावान्न व्यभिचारः ।

प्रथममात्रपदाभावे हेतुस्तत्र वर्तते । अन्यतरत्वाश्रयावृत्ति-कुड्यत्वादिरूपधर्मावच्छिन्ना या कार्यता तत्प्रतियोगिककारण-त्वाश्रयीभूतं यत्कुड्यकारणं तन्मात्रानुत्पाद्ये एतद्घटपटरूपे कार्येऽ-न्यतरत्वस्य वृत्तेः । मात्रपदे दत्ते तु न व्यभिचारः । स्वाश्रयमात्रा-वृत्तिपदेनान्यतरत्वाधिकदेशवर्तिनोर्घटपटत्वयोरपि सङ्गृहीतत्वेन तदवच्छिन्नकार्यताप्रतियोगिककारणत्वाश्रयीभूतं यद्घटादिकारणं तन्मात्रोत्पद्ये घटादावप्यन्यतरत्वस्य वृत्त्या तदनुत्पाद्यकार्यमात्र-वृत्तित्वरूपहेत्वभावात् ।

युक्तिरत्नाकरः

॥ स्वाधिकदेश इति ॥ अनेन अत्र मात्रशब्दस्य कात्स्न्यार्थकत्वेन तदुपादाने तदाश्रये सर्वत्र वर्तमानेन अनित्यज्ञानत्वेन अनवच्छिन्नकार्यताश्रय एव अनित्यप्रमात्वात् सिद्धसाधनं स्याद् अतः व्यवच्छेदार्थकत्वम् इति सूचितम् ।

ननु व्यवच्छेदार्थकत्वेऽपि सर्वज्ञानं धर्मिण्यभ्रान्तम् इति न्यायेन भ्रमस्यापि स्वाश्रयतया तदितरघटादौ अनित्यज्ञानस्य अवृत्तेः सिद्धसाधनतादवस्थ्यम् । न च शुक्तौ इदं रजतमिति भ्रमानन्तरं दोषवशात् १न तत्ताप्रमोषेण रजतमिति भ्रमरूपस्मृतिसम्भवेन स्वाश्रयादन्यस्मिन् तत्त अनित्यज्ञानत्वसत्वान् नोक्त-दोष इति वाच्यम् । उक्तस्मृतौ स्मृतिविशेष्यकत्वाननुभवेन सत्यरजतानुभव-मूलकत्वेन अभ्रमत्वात् ।

न च रजतविशेष्यकत्वस्यापि अनुभवेन प्रमात्वमपि नियन्तुं शक्यम् । एवमपि रजतत्वेनानुभूतमात्रविषयकत्वेन प्रमात्वात् । अनित्यज्ञानत्वस्य तदन्यावृत्तित्वाद् इति चेन्न । स्वाश्रयेतरावृत्ति इत्यनेन स्वात्यन्ताभाव-वदवृत्तित्वस्य विवक्षिततया अन्योन्याभावस्य व्याप्यवृत्तित्वेऽपि अत्यन्ताभावस्य १तथात्वेन अनित्यज्ञानत्वस्य प्रमात्वात्यन्ताभाववद् भ्रमवृत्तितया उक्तदोषाभावात् ।

नन्वेवमपि स्वात्यन्ताभावे प्रतियोगिव्यधिकरणविशेषणे भ्रमे तादृशात्यन्ताभावाभावाद् दोषतादवस्थ्यम् । तदविशेषणे प्रत्यक्षप्रमात्वादेरपि भ्रमे धर्म्यंशे सत्वेन प्रमात्वाश्रयमात्रावृत्तित्वेन बाध इति चेन्न ।

स्वात्यान्ताभावावच्छेदेन अवृत्तित्वस्य विवक्षिततया प्रत्यक्षप्रमात्वे स्वात्यान्ताभावावच्छेदेन वृत्या उक्तबाधाभावात् । अनित्यज्ञानस्य तु तदवच्छेदेनापि सत्वेन सिद्धसाधनत्वस्याप्याभावाद् इति ।

॥ द्वितीयमिति ॥ तदनुपादाने स्वाश्रयमात्रवृत्तिनिप्रत्यक्षप्रमादिष्वेकेन केनचिदवच्छिन्नकार्यताश्रये अनित्यप्रमात्वस्य वृत्याप्युक्तसाध्योपपत्त्या सर्वासुप्रमासु गुणजन्यत्वं न सिध्येदतो द्वितीय२मात्रचेदुपादानम् । तथा च तस्य व्यवच्छेदार्थकत्वेन स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रय एवानित्यप्रमात्वस्य वर्तमानत्वलाभादनित्यप्रमात्वाश्रये सर्वत्र गुणजन्यत्व-सिद्धिः । ३मात्रे च क…र्खतत्वेतु स्वाश्रयमात्रवृत्त्येकानित्यप्रत्यक्षप्रमात्वा-वच्छिन्नकार्यताश्रयकृर्त्स्नवृत्तितयाद्युपपत्या सर्वत्र गुणजन्यत्वं नसिध्यति इति भावः । मात्रचोरुभयोरपि कार्स्त्नार्थकत्वेऽनित्यप्रमात्वस्योक्तदिशा सर्वाश्रयबुद्धावन्यज्ञानत्वावच्छिन्नकार्यताश्रयसर्वत्र सत्वात् सिद्धसाधनं स्यादत उभयोरपि व्यवच्छेदार्थत्वमेवेति ध्येयम् ॥

एतद्घटपटान्यतरत्वेन साध्याभावमुपपादयति ॥ कार्यते ॥ ययोर् घटत्वपटत्वयोः कार्यतावच्छेदकत्वं न तयोश्चाश्रयमात्रयवृत्तित्वे यस्य च तद्घटपटान्यतरत्वस्य स्वाश्रयमात्रवृत्तित्वं न तस्यानुमतहेत्वभावेन कार्यता-वच्छेदकतेति साध्याभाव इति भावः । अत्र घटपटान्यतरत्वे स्वाश्रय-मात्रवृत्तिघटत्वपटत्वावच्छिन्नकार्यताश्रय एव वृत्या साध्यसत्वे-नानैकान्त्याप्रसक्तेरेतत्पदोपादानम् ।

न च तद्घटपटान्यतरत्वे स्वाश्रयमात्रयवृत्तिकार्यतया एवाप्रसिद्ध तद्घटित-साध्याभावोदुर्ग्रह इति वाच्यम् । स्वपस्य तादृशकार्यताश्रयमात्रवृत्तिधर्मपरत्वे च घटत्वादेरेव च तार्दृशतया तदभावस्य सुग्रहत्वात् । तत्रान्यतरत्वमेतद्घ-पदान्यतरत्वतन्मात्रानुत्पाद्येति । न च तन्मात्रानुत्पाद्यत्वं तदितरोत्पाद्यत्वे सति १तदुसाधनय तद्घटत्वपटान्यतरात्मके कार्ये कुड्यकारणानुत्पाद्यता-नास्तीति नानैकान्त्यमिति वाच्यम् । तन्मात्रानुत्पाद्यत्वं हि तन्मात्रो-त्पाद्यत्वाभावस् तन्मात्रोत्पाद्यत्वं च तदिरानुत्पाद्यत्वे सति तदुत्पाद्यत्वम् । अत्र विशेषणाभावाद्विशिष्टाभावोस्त्येव । नचैवमपि कुड्यत्वाद्यवच्छिन्न-कार्यतानिरूपितकारणताश्रयान्यानुत्पाद्यत्वे सति तदुत्पाद्यत्वमप्रसिद्धं कार्यमात्रस्य तादृशकारणताश्रयान्या२ ।

न्यायदीपः

साध्ये मात्रपदद्वयं व्यवच्छेदार्थकं न तु कार्त्स्न्यार्थकमित्युपेत्य दूषणज्ञानसौकर्याय व्यावर्त्यं व्यनक्ति ॥ अत्र चेति ॥ द्वितीयमिति ॥ अनित्यप्रमात्वं तादृशकार्यताश्रय एव वर्त्ति न त्वन्यत्रेत्यस्य व्यवच्छेदार्थक-मात्रपदेन लाभात्तस्य जन्यप्रत्यक्षप्रमात्वानुमितित्वोपमितित्वशाब्दत्वाश्रयेषु सर्वत्र वर्तनं तेषां सर्वेषां गुणजन्यत्व एवोपपाद्यते । अन्यथा बाधात् । कार्त्स्न्यार्थत्वे तु यत्किञ्चित्तादृशधर्मावच्छिन्नकार्यताश्रये सर्वत्र वर्तित्वोपपत्येष्टासिद्धेर्व्यवच्छेदार्थ एव द्वितीयोपीति भावः ।

हेतावपि मात्रपदानि व्यवच्छेदार्थनीत्युपेत्यानुत्पाद्यान्तविशेषणकृत्यं वक्तुमाह ॥ हेताविति ॥ घटपटान्यतरत्वे साध्यसत्वादेतदित्युक्तम् । एतद्घटपटान्यतरत्वे साध्याभावं व्यनक्ति ॥ कार्यतेति ॥ ययोर्घटत्व-पटत्वयोः कार्यतावच्छेदकत्वं न तयोः स्वाश्रयमात्रवृत्तित्वं ततोऽधिकदेश-वृत्तित्वात् । अन्यतरत्वस्याप्यनुगतकारणाभावेन कार्यतानवच्छेदकत्वात् । एवं च स्वाश्रयमात्रवृत्तिधर्मावच्छिन्नकार्यताश्रयवृत्तित्वरूपसाध्याभावा-दित्यर्थः । एतेनप्रथममात्रपदस्यापि कृत्यमुक्तं ध्येयम् ।प्रथममात्रपदं हित्वा स्वाश्रयावृत्तिधर्मावच्छिन्नेत्यादेरेवोक्तावेतद्घटपटान्यतरत्वस्य स्वाश्रयावृत्तिकुड्यत्वादिधर्मावच्छिन्नकार्यताप्रतियोगिककारणताश्रयः कुड्याद्य-साधारणकारणं तन्मात्रानुत्पाद्यं यदेतद्घटपटरूपं कार्यं तद्वृत्तित्वेन एतद्घट-पटान्यतरत्वे उक्तहेतोः सत्वेपि मूलोक्तदिशा साध्याभावेन व्यभिचारः । दत्ते तु मात्रपदे न दोषः । कुड्यत्वस्य एतद्घटपटान्यतरत्वान्यतराश्रये१ अवृत्ति-धर्मत्वेपि तद्वृत्तित्वे सति ततोधिकदेशवृत्तित्वरूपतन्मात्रावृत्तिधर्मत्वाभावेन तत्र हेतोरेवाभवात् ।

यद्यप्यत्र विवक्षितं तन्मात्रानुत्पाद्यत्वं तदुत्पाद्यत्वे सति ततोऽधि-कोत्पाद्यत्वम् । तच्चोक्तस्थले नास्ति । एतद्घटपटान्यतरत्वे कुड्यकारणो-त्पाद्यत्वे सति ततोधिकोत्पाद्यत्वरूपतन्मात्रानुत्पाद्यत्वस्य बाधात् । तथाच हेत्वभावादेव न तत्र व्यभिचारः । तथापि तन्मात्रानुत्पाद्यत्वं तदितरानु-त्पाद्यत्वे सति तदुत्पाद्यत्वरूपतन्मात्रोत्पाद्यत्वस्याभावरूपं यत्तदनुत्पाद्यत्वं तदस्त्येवैतद्घटपटान्यतरत्वाश्रये एतद्घटपटरूपेऽर्थ इति तावन्मात्रेण तत्र हेतुसत्वमुपेत्य व्यभिचारे चोदिते मात्रपदेन तन्निरासः ।

मूले तुप्रकृताभिमततन्मात्रानुत्पाद्यत्वस्य तत्राभावात् । कुड्याद्य-साधारणकारणेतरेश्वरज्ञानोत्पाद्यत्वेन तदितरानुत्पाद्यत्वस्याप्रसिद्ध्या तदभावस्य दुर्ग्रहत्वाच्च व्यभिचारचोदना न युक्तेत्यरुच्यैवप्रथममात्रपदस्येदं कृत्यमित्याद्यनुक्त्वा स्वाश्रयमात्रावृत्तिधर्मावच्छिन्नकार्यत्वप्रतियोगिक-कारणताश्रयमात्रानुत्पाद्येति कार्यं विशेषितमित्येवोक्तम् ।

केचित्तुप्रथममात्रपदाभावे इत्यादिःप्रथममात्रपदकृत्यपरतयापि पाठ उपलभ्यत इति पक्षे तु तन्मात्रानुत्पाद्येत्यस्य तदितरानुत्पाद्यत्वविशिष्ट-तदुत्पाद्यत्वाभाववत्वरूपतन्मात्रानुत्पाद्यार्थकत्वेपि इहाप्रसिद्धिनिरासाय तदितरानुत्पाद्यत्वमात्रं विवक्षणीयम् । तच्च गगनादौप्रसिद्धमिति तदभाव एतद्घपटान्यतरत्वाश्रयकार्ये ग्रहीतुं शक्य इति व्यभिचारचोदनोपपाद्या । असिद्धिरप्रसिद्धिः । तथाच नासिद्धिवारकत्वं दोष इत्याहुः ।