ननु कथमेतद् अनित्यप्रमा ..
उत्पत्तौ परतस्त्वे चिरन्तनानुमानभङ्गः
ननु कथमेतद् अनित्यप्रमा ज्ञानहेत्वतिरिक्तहेतुजन्या कार्यत्वे सति तद्विशेषत्वात् । अप्रमावत् । अन्यथाऽप्रमापिप्रमा स्यात् । यदि दोषप्रतिबन्धान्नप्रमा तर्हि ज्ञानमपि न स्यादित्यनुकूलतर्क-सनाथानुमानविरोधात् । स्वतस्त्वे च मानाभावादिति चेन्न ।प्रमाया ज्ञानत्वेन तद्धेतोर्ज्ञानहेतुतया तदतिरिक्तजन्यत्वसाधने बाधात् । विरोधाच्च ।
नापि ज्ञानत्वप्रयोजकहेत्वतिरिक्तहेतुजन्येति साध्यम् ।प्रत्यक्ष-त्वादिप्रयोजकानामिन्द्रियादीनां चाक्षुषत्वादिप्रयोजकानां चक्षुरादीनां च ज्ञानत्वप्रयोजकातिरिक्तत्वेन यथायथं तैस्सिद्धसाधनात् ।
युक्तिरत्नाकरः
उक्तमुत्पत्तौ प्रामाण्यस्वतस्त्वमसहमानः प्रत्यवस्थितो ॥ नन्विति ॥ अनित्येति ॥ ईश्वरप्रमामादायांशतो बाधवारणायेदम् । अनित्यज्ञानमित्युक्ते ज्ञाने ज्ञानत्वहेत्वन्यहेतुजन्यत्वाभावसाधने बाधात् प्रमापदम् । तद्विशेषत्वाज् ज्ञानविशेषत्वात् । एतच्च ज्ञानसामान्ये व्यवसाये बाधवारणाय । ईश्वरज्ञाने तद्वारणाय कार्यत्वे सतीति । यद्यपि परैर्जन्यज्ञानत्वादित्येवहेतूकृतं तथापि जन्यज्ञानत्वज्ञानसामान्यसामग्रीजन्यत्वेनाप्युपपत्त्या तद्विशेषज्ञानसामग्री-जन्यत्वे अप्रयोजकतया ज्ञानविशेषत्वस्य च विशेषसामग्रीजन्यत्वप्रयोज-कत्वेनैवमुक्तम् । एवमप्रयोजकतावारणाय ॥ तद्विशेषत्वादिति ॥ यन्निष्टयन्निरूपितेत्यादिवत्परैरप्यप्रयोजकत्वाहितव्यभिचारवारकस्यापि सार्थक्यस्य वक्तव्यत्वादिति ज्ञापनाय तत्वनिर्णयटीकायामेवमनूदितमभिप्रेत्य तदेवेह लिखितं बोध्यम् । अन्यथा ज्ञानमात्रजन्यत्वे यथा ज्ञानसामान्य-सामग्य्रामधिकदोषानुप्रवेशाज्जायमानाप्रमाज्ञानविशेषतस्तथा प्रमाविशेषोऽपि स्यात् । ज्ञानसामग्य्रा एव प्रमासामग्रीत्वम् । नापि तस्यामधिकदोषानु-प्रवेशात्प्रमाविशेषस्याप्यवकाशत्वादिति भावः ।
ननु ज्ञानसामान्यज्ञानसामग्य्रा एव प्रमासामग्रीत्वेऽपि प्रतिबन्धकता दोषसत्वान्न तत्र प्रमात्वं प्रयोजयति किन्तु तद्विपरीतप्रमात्वमेव दोषाणां प्रकृतकार्यप्रतिबन्धेन विपरीतकार्यजनकत्वदर्शनादित्याङ्क्य तद्वदेव ज्ञानत्वमपि न स्यात् । तत्सामग्यामपि प्रतिबन्धकदोषप्रवेशादित्याह ॥ यदीति ॥ मानाभावाच्चेति चकारसम्बन्धः ॥ प्रमाया इति ॥
अत्राहुर् ज्ञानहेत्वतिरिक्तहेतुजन्येऽपि साध्ये सर्वं वाक्यं सावधारणमिति न्यायेन ज्ञानहेत्वन्येनैव हेतुना जन्या न तु ज्ञानहेतुनेति । ज्ञानहेत्वजन्यत्वं विवक्षितम् उत यथाश्रुतमेव । नाद्य इत्याह ॥ प्रमायामिति ॥ नान्त्य इत्याह ॥ विरोधाच्चेति ॥ लोके सर्वस्यापि ज्ञानहेतुतया तदतिरिक्तस्यैवा-प्रसिद्ध्या तद्घटितभावरूपसाध्याप्रसिद्ध्यौ व्यतिरेकव्याप्तेरपि दुर्ग्रहतया पक्षे साध्यसिद्धिविरोधादित्यर्थः । विकल्पद्वये दूषणद्वयाभिधानेप्येकस्मिन्नेवोक्त-साध्ये दूषणद्वयाभिधानेन चकारोपपत्तिः । नचातीन्द्रियाणां साक्षात्कारा-विषयतयानुमित्यादौ विषयस्य हेतुतया ज्ञानजनकत्वस्य तत्रैव प्रसिद्धिरिति वाच्यम् । वेद्येपि वायावनुद्भूतरूपाभावस्य परमाणौ महत्वाभावस्य मनसि महत्वसमानाधिकरणोद्भूतरूपाभावस्य च प्रतियोगिसत्वप्रसंजितोप-लम्भप्रतियोगित्वरूपानुपलब्ध्ययोग्यत्वसत्वेन प्रत्यक्षतया तत्र च संयुक्तविशेषणतादिप्रत्यासत्तिघटकतया वाय्वादेरपि हेतुत्वात् । पारिमाण्डिल्यगुरुत्वपरमाणुकर्मविशेषादिष्वपि महत्वसमानाधिकरणोद्भूतरूपा-भावादेर् योग्यानुपलब्ध्या प्रत्यक्षत्वनियमेन तत्र संयुक्तसमवेतविशेषणतादि-घटकप्रत्यासत्तिघटकत्वेन तेषामपि जनकत्वसामान्यप्रत्यासत्त्या भूयोऽपि सर्वस्य ज्ञानजनकत्वसम्भवाच्च । न चैवमपि गिरिदरीविवरादिवृत्युत्पन्न-विनष्टव्यक्तिविशेषे ज्ञानजनकत्वप्रसिद्धिस् तद्धटितमानतादृशायां प्रमेयत्वादि-सामान्यप्रत्याकस्मिकस्यापि ज्ञानं न वृत्तमित्यत्र मानाभावेन ज्ञानजनकत्वस्य सन्दिग्धतया तद्घटितसाध्याप्रसिद्धेर् वज्रलेपत्वादिति ।
तन्न । गिरिदरीविवरादिवर्त्युत्पन्नविनष्टव्यतिरिक्तविशेषादीनां परः सहस्राणां ज्ञानाजनकत्वात् । न हि तद्वर्तमानदृशायां प्रमेयत्वादिप्रत्यासत्या कस्यचिज् ज्ञानं वृत्तमित्येतावता व्यवहितदेशे स्थितानां तेषामपि हेतुत्वम् । व्यवहितकालस्थितानामतीतानागतानामपि तथात्वापत्तेः । न हि देशतः कालतो वावधाने कश्चिद्विशेषः । प्रमेयत्वस्य तु प्रत्यासत्तित्वं लौकिकेन्द्रिय-सन्निकर्षवतः कस्यचित्प्रमेयस्य जनकत्वेऽप्युपपन्नम् । न चेन्द्रियसन्निकृष्टस्य प्रमेयस्य देशान्तरस्थप्रमेयवता सम्बन्धाभावेन कथं तदुपस्थापकत्वमिति वाच्यम् । वर्तमानप्रमेयस्यातीतानागतेः सहसम्बन्धाभावेन कथमतीता-नागतप्रमेयवदुपस्थितरिति साध्यात् तदीयातीतादिसम्बन्धिवर्तमानमेवाभि-धेयत्वादिप्रमेयं तदुपस्थापकम् । तदा देशान्तरवर्तिसम्बन्धेन्द्रियसन्निकृष्ट-प्रमेयत्वादिरूपप्रमेयमेव तदुपस्थापकं भविष्यतीति न देशान्तरस्थवर्तमान-प्रमेयस्य प्रमेयवत्वसामान्यप्रत्यासत्तिज्ञानहेतुत्वमिति ज्ञानजनकत्वप्रसिद्धेरिव कलापादपि संयुक्तविशेषणतादिप्रत्यासत्तिघटकमतीन्द्रियमात्रस्य ज्ञानहेतुत्वमिति ।
तन्न । प्रत्यासत्तिघटकत्वेप्रत्यासत्तिनिष्टहेतुतावच्छेदकतयैव सात्रहेतुता । अन्यथा असिद्धेः । नचैवं चक्षुःसम्बन्धविशेषणतादिघटकत्वेनान्यथासिद्धतया चक्षुषोप्यहेतुता । रूपाद्युपलब्धयः करणसाध्याः क्रियात्वादिति धर्मिग्राहकमानेन तत्सिद्धेः । चक्षुषापश्यामीत्याद्य१भवबलसिद्धं रूपाद्युप-लब्धिनिष्ठचाक्षुषत्वादिजातिप्रयोजकतया च तद्धेतावश्यम्भवात् । नचैवं घटपटत्वाभावा इत्यादिप्रत्यक्षेऽपि संयुक्तविशेषणतादिप्रत्यासत्तिघटकत्वेन अन्यथासिद्धतया संयोगघटादेरप्यहेतुत्वापत्तिः । तदभावप्रस्यक्षे घटादेरप्यधिकरणतया विषयत्वेन तदंशे संयोगादेः सन्निकर्षत्वेन घटादेश्च स्वविषयतया हेतुत्वात् परमाणुतत्परिमाणादौ महत्वाभावामहत्वाभावादि-प्रत्यक्षादौ च परमाण्वाद्यंशे तस्यालौकिकप्रत्यक्षतया विषयतत्संयोगादे-र्हेतुत्वमेवेत्यतीन्द्रियाणां ज्ञानहेतुप्रत्यासत्तिघटकत्वेनान्यथासिद्धतया ज्ञानहेतुत्वमेवेति ।
नापि योगिप्रत्यक्षं प्रति तेषां हेतुत्वं तस्यालौकिकप्रत्यक्षत्वेन विषययाजन्यत्वात् । नचानादेः पूर्ववृत्तित्वाभावेन तदहेतुत्वेपि वर्तमानस्यहेतुत्वमविरुद्धम् । विषयस्य प्रत्यक्षहेतुतादिलौकिकेन्द्रिय-सन्निकर्षसम्पादनेन हि १कारणत्वादिषु स्थितानां योगिनां रामेश्वरादि-स्थितविषयाणां लौकिकः सन्निकर्षोस्ति । न च यथा जन्यज्ञानादि-सहकारिवशादस्मदादिनयनरश्मिना कुड्यभूतलादिव्यवहितनिक्षेपादिभिः सम्बन्धस् तथा योगजधर्मरूपसहकारिवशात्तैरपि लौकिकसन्निकर्ष एव सम्भवीतीति वाच्यम् । गिरिदरीविवरादिवर्त्युत्पन्नविनष्टादीनां च स्ववर्तमानतादृशायामेव योगिलौकिकप्रत्यक्षविषयत्वं सम्भवेपि महत्व-समानाधिकरणोद्भूतरूपत्वादिबहिर्द्रव्यादिलौकिकप्रत्यक्षे तन्त्रत्वेन क्लृप्त-स्यातीन्द्रियपरमाण्वादिष्वभावेन तद्गोचरयोगिप्रत्यक्षस्य लौकिकत्वानुप-पत्या तत्रलौकिकप्रत्यक्षसन्निकर्षस्याहेतुत्वात् । न चालौकिकसन्निकर्ष-जन्यप्रत्यक्षे साक्षात्करोमीत्यनुव्यवसायादर्शने योगिनां परमाण्वादिगोचर-प्रत्यक्षे साक्षात्करोमीत्यनुव्यवसायोनस्यादिति वाच्यम् । अतीतादि-गोचरतत्साक्षात्कारवदुपपत्तेः । न हि तत्रापि लौकिकसन्निकर्ष-जन्यत्वसम्भव इति सङ्क्षेपः ।
एवं चातीन्द्रियेष्वेवज्ञानहेत्वतिरिक्तत्वप्रसिध्या साध्याप्रसिध्यभावेन नोक्तदिशा विकल्पमुखेन ग्रन्थोवतरणनीयः । किन्तु यथास्थितसाध्य एव प्रमाया इत्यादिवाक्यमुक्त्वाहेतुर्विरुद्धोपीत्याह ॥ विरोधाच्चेति ॥ कार्यत्वे सति ज्ञानविषयत्वस्याज्ञानहेतुजन्यव्याप्यतयोक्तहेतोः साध्यसहचारस्यैव भावादित्यथार्थ इत्येवयोजनीय इति युक्तमुत्पश्यामः ।
ननु ज्ञानहेत्वित्यनेन ज्ञानत्वप्रयोजकत्वं विवक्षितम् । तत्त्वं च ज्ञानत्वम् । यज्जन्यत्वप्रयुक्तं यज्जन्यतावच्छेदकमिति यावत् । एवं च ज्ञानत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयभिन्नजन्यत्वं साध्यमतो नोक्तः दोषः । न च ज्ञानत्वस्य नित्यवृत्तितया न कार्यतावच्छेदकत्वं यद्धर्माश्रयस्य सर्वोत्पत्तिवद्धेत्वधीनधर्मस्यैव तद्धेतुजन्यतावच्छेदकत्वाद् अत्र सर्वपदोपादानात् प्रमेयत्वादेर्दण्डादिजन्यतावच्छेदकतानिवारिता प्रमेयपदा-द्युत्पत्तेर्दण्डाधीनत्वात् । नचैवं कम्बुत्वादेरपि दण्डत्वादिजन्यता-वच्छेदकापत्तिः । बाधकाभावे १सत्यपि विशेषणानि । तत्र गौरवत्वस्यैव बाधकत्वात् ।
नचैवं सत्तादिकमेवेश्वरादिजन्यतावच्छेदकत्वं स्यान् न कार्यत्वादिकमिति वाच्यम् । एतन्मत२दुष्टत्वादित्याह ॥ नापीति ॥ प्रत्यक्षत्वादीति जन्यप्रत्यक्षत्वादीत्यर्थः । अनुमितित्वादिरादिशब्दार्थः । इन्द्रियमित्यादिपदेन परामर्शग्रहः । चाक्षुषत्वादीत्यादिपदेन रासनत्वादेः रासनादेश्च परिग्रहः । इदमुपलक्षणम् । यद्धर्माश्रयः सर्वोयदधीनस् तद्धर्मस्यैव तदवच्छेदकत्वम् । लाघवात् । न तु यद्धर्माश्रयस्य सर्वो३पपत्तिरिति । उत्पत्तिपदप्रवेशेन गौरवात् । एवं च ज्ञानसत्वाश्रयस्य सत्वस्य हेत्वधीनत्वेन ज्ञानत्वस्य कार्यतावच्छेदकतया तद्धर्मसाध्याप्रसिद्धिरित्यपि बोध्यम् ।
न्यायदीपः
॥ एतदिति ॥ उत्पत्तौ च प्रामाण्यं स्वत एवेत्येतदित्यर्थः । कुत इत्यतः कुसुमाञ्जल्युक्तेन तत्वनिर्णयटीकाद्याशङ्कितेनानुमानेन विरोधं मानाभावं च हेतुद्वयमाह ॥ अनित्यप्रमेति ॥प्रमेत्येवोदयनोक्तावपीश्वरज्ञानांशे बाध-वारणाय तदभिप्रेतं स्वयमुक्तमनित्येति ॥ अत एव अनित्यप्रमात्वं कार्यतावच्छेदकम् इति रुचिदत्तोक्तिः । हेत्वधीनत्वे ज्ञानहेत्वधीनत्वे च साध्ये सिद्धसाधनमतो ॥ ज्ञानहेत्वतिरिक्तहेतुजन्येति ॥ तद्विशेषत्वात् ॥ ज्ञानविशेषत्वादित्यर्थः । ईश्वरज्ञाने व्यभिचारनिरासाय ॥ कार्यत्वे सतीति ॥ ज्ञाने तद्दोषनिरासाय विशेष्यम् ।
एतेन मणौ जन्यत्वादिति हेत्वनुवादोऽनुचित इति सूचितम् । कुसुमाञ्जलौ मणौ चोक्तमनुकूलतर्कमाह ॥ अन्यथेति ॥प्रमात्वस्य ज्ञानसामग्रीमात्रप्रयोज्यत्वेऽप्रमायामपिप्रमात्वं स्यात् । तत्रापि ज्ञानसामान्य-हेतोः सत्त्वादिति भावः ॥ ज्ञानमपीति ॥ ज्ञानत्वप्रमात्वयोरेकसामग्री-प्रयोज्यत्वादेकांशेप्रतिबन्धेऽपरांशेपि तथात्वादिति भावः । मानाभावाच्चेति चान्वयः । व्याघातं चाह ॥ विरोधाच्चेति ॥ ज्ञानजनकजन्यत्वार्थ-त्वेप्युक्तदोषावेवेति भावः ।
मणिकृतोत्प््रोक्ष्य दूषितानपि पक्षान् शिष्याणां सुबोधायानूद्यनिराकरोति ॥ नापीति ॥प्रत्यक्षत्वादीत्यादिपदेनानुमितित्वोपमितित्वशाब्दत्वानां तथा चाक्षुषत्वादीत्यत्र रासनत्वादीनां द्वितीयचतुर्थादिपदाभ्यां च परामर्शोप-मानशब्दज्ञानानां रसनादीनां च ग्रहः । सिद्धसाधनादित्युपलक्षणम् । ज्ञान-त्वस्येश्वरज्ञानवृत्तित्वेन कारणाप्रयोज्यतया तत्प्रयोजकसामग्र्यप्रसिद्ध्या साध्याप्रसिद्धिरित्यपि बोध्यम् ।
नापि ज्ञानसामान्यसामग्र्यतिरिक्तसामग्रीजन्येति साध्यम्
तर्कताण्डवं
नापि ज्ञानसामान्यसामग्र्यतिरिक्तसामग्रीजन्येति साध्यम् । सामग्रीशब्देन कृत्स्नकारणचक्रविवक्षायां सामग्रीभेदे कार्यभेदनियमेनप्रमाया ज्ञानभिन्नत्वापत्तेः । कतिपयकारणचक्रविवक्षायां चोक्त-रीत्येन्द्रियादिभिः सिद्धसाधनात् ।
एतेनानित्यज्ञानत्वावच्छिन्नकार्यताभिन्नकार्यत्वप्रतियोगिककारणजन्येति साध्यत इति निरस्तम् । इन्द्रियादिभिः सिद्धसाधनात् ।
एतेन अनित्यप्रमाप्रमाऽप्रमोभयहेतुभिन्नहेतुजन्या जन्यत्वात्,प्रमाऽप्रमान्यतरप्रतिबन्धकजन्या वाप्रमाऽप्रमान्यतरत्वात्, स्वविरो-ध्यनुभवप्रतिबन्धकजन्या वा अनित्यानुभवत्वाद् अप्रमावत् । चाक्षुषप्रमा चाक्षुषभ्रमाजनकजन्या अनित्यप्रमात्वाद् रासनप्रमा-वदिति निरस्तम् ।प्रमाजनकव्यक्तिविशेषस्योभयहेतुभिन्नत्वेनाप्रमा-प्रतिबन्धकत्वेन चाक्षुषभ्रमाजनकत्वेन च सिद्धसाधनात् ।
युक्तिरत्नाकरः
ज्ञानसामान्यसामग्रीत्यत्र ज्ञानत्वं प्रति सामग्रीत्युक्तौ तस्य जातिरूपतया तत्सामग्य्रसम्भवेन तद्घटितसाध्याप्रसिध्यापत्या ज्ञानत्वावच्छिन्नं प्रतीत्युक्तौ च नित्यवृत्तिज्ञानत्वस्योक्तरीत्या१नवच्छेदकताया पुनः २प्रसिध्यापत्या ज्ञानत्वाश्रयत्वं प्रति या सामग्रीति वाच्यतया तत्र सामग्रीशब्दार्थं विकल्प्य दूषयति ॥ सामग्रीशब्देनेति ॥ सामग्रीभेद इति ॥ ननु सर्वत्रैवकार्य-विशेषसामान्यसामग्य्रतिरिक्तविशेषसाग्रीजन्यत्वमावश्यकम् । अन्यथा विशेषस्याकस्मिकत्वापत्तेः । तथा च कथमयं नियम इति चेत् । न । सामान्यविशेष३सामग्य्रा मिलितयोरेवैकविरोधकार्यजनकत्वनियमेन विवक्षितकृत्स्नकारणचक्ररूपसामग्रीभेदस्य क्वापि सामान्यविशेषस्थले अभावात्सामान्यसामग्य्रतिरिक्तसामग्रीजन्यो विशेष इत्यादौ सामग्रीशब्दस्य कतिपयकारणमात्रपरत्वादिति भावः ॥ एतेनेति ॥ अनित्यज्ञानत्वा-वच्छिन्नामनोयोगादिनिरूपितकार्यतातदन्यानित्यप्रमात्वावच्छिन्ना तत्प्रति-योगिककारणतन्निरूपितकारणतायाश्रयोगुणस् तज्जन्येति पक्षे साध्य-पर्यवसानमिति भावः । प्रमाप्रमेति उभयसाधारणग्रहेत्वित्यर्थः । एवं चेन्द्रियादिभिर्न सिद्धसाधनम् । ४नन्वमाहेतुपित्तादेरपि स्वगोचरप्रमाहेतुत्वेन प्रमाप्रमोभयहेतुभिन्नत्वाभावादप्रमायां साध्यवैकल्यं घटादेर् दृष्टान्तत्वेचाप्रमायां व्यभिचारः । न प्रमाहेत्विति स्वान्यगोचरप्रमाहेतुत्वं विवक्षितम् । पित्तादेः स्वाप्रमाहेतुत्वेऽपि साध्यप्रमाहेतुत्वाभावान्नोक्त इति वाच्यम् । पीतः शङ्ख इत्या(कारक)ज्ञानस्य धर्मिणः शङ्खाद्यंशे प्रमात्वेनोक्तदोषतादवस्थ्यादिति चेत् । यद्विषयकत्वेनज्ञानं प्रतिजनकत्वं तदंशे या प्रमा तद्धेतुत्वान्यत्वं विवक्षितम् । पीतादेश्च पीतत्वांशे वैशिष्ट्यांश एव जनकतया तत्र च न प्रमात्वाभावेन तज्जनकान्यत्वसत्वान् नोक्तव्यभिचाराभावः । प्रमेति जन्यप्रमेत्यर्थः । तेन नेश्वरज्ञानेनैकान्त्यमीशज्ञानं प्रमाप्रमाबहिर्भूतमिति मतेनायं हेतुरित्याहुः ॥ स्वेति ॥ अत्र यत्किञ्चिदनुभवप्रतिबन्धकजन्यत्वे सिद्धाधनं यावदनुभवप्रतिबन्धकजन्यत्वे बाधोतः ॥ स्वविरोधीति ॥ अनुमित्यादिप्रतिबन्धकप्रत्यक्षादिसामग्रीजन्यत्वेन सिद्धसाधनवारणाय स्वविरोधीति स्वशब्दस्य पक्षीभूतानित्यप्रमामात्रपरतया अनुमित्यादौ तद्विरोधित्वान्नोक्तदोषः । स्वविरोधप्रतिबन्धकानुभवसामग्रीजन्यतया सिद्धसाधनवारणायानुभवपदे ॥ अनित्येति ॥ अनित्यत्वमात्रस्य घटादौ सत्वात्स्वविरोध्यनुभवप्रसिद्ध्यास्तद्घटितसाध्याप्रध्याव्याप्यत्वासिद्धिरतो ज्ञानपदम् । स्मृतौ निर्विकल्पके च व्यवसायस्मृतिव्यतिरिक्तत्वं प्रकारकत्वं च विशेषणमित्याहुः ।
॥ उभयहेतुभिन्नत्वेनेति ॥ ननु प्रमाजनकव्यक्तिविशेषस्याप्यप्रमाजनन-योग्यतया तद्भिन्नत्वाभावान् न सिद्धसाधनम् । न च प्रमाप्रागभावपदं व्यक्तिविशेषपरं प्रमाप्रमोभयहेत्वन्यभावरूपहेतुजन्येतिविवक्षितमतो नोक्तदोष इति चेद् अनुमित्यादौ गुणस्य सल्लिङ्गपरामर्शादिप्रतियोगिज्ञानत्वेन सविषय-प्रतियोगिकाभावभ्रमहेतुतयानुमितौ तदजन्यत्वसाधने बाधने बाधादित्यत्र तात्पर्यात् ॥ अप्रतिबन्धकत्वेनेति ॥ कारणीभूताभावप्रतियोगित्वस्य प्रतिवाद्यप्रसिध्या कार्यानुत्पादव्याप्यत्वरूपस्यैव तस्य वाच्यतया तस्य च व्यक्तिविशेषे सत्वात्साध्ये सिद्धसाधनत्वादिति भावः । न च तज्जातीयेति विवक्षितम् । प्रमाजनकव्यक्तिविशेषस्य चाप्रमाप्रतिबन्धकजातीयत्वाभावान् नोक्तदोष इति वाच्यम् । प्रतिबन्धकवृत्तिजातिमत्वविवक्षायां सत्तादिक-मारोपसिद्धसाधनाद् असाधारणजातिविवक्षायां गुणत्वदोषत्वयोरजातित्वेन बाधापत्तेः । तदन्यवृत्तिप्रतिबन्धकतावच्छेदकधर्मविवक्षायां चानित्यप्रमायां च तद्विशेषप्रत्यक्षासु चानुगतगुणभावस्य वक्ष्यमाणतया बाधतादवस्थ्यादिति भावः ।
॥ चाक्षुषभ्रमजनकत्वेनेति ॥ यद्यप्यत्राप्युक्तन्यायेन चाक्षुष-प्रमाजनकव्यक्तिविशेषस्यापि भ्रमजननयोग्यतया प्रागभावस्य तदयोग्यत्वेपि भावत्वेन विशेषणान्नसिद्धसाधनम् । तथापि संशयोत्तरचाक्षुषप्रमागुणस्य पुरुषत्वव्याप्यकरादिमानिति प्रमारूपविशेषदर्शनस्य इह करादिमत्वाभाव इति भ्रमप्रतियोगिज्ञानत्वेन जनकतया संशयोत्तरचाक्षुषप्रमायां बाधादित्यत्रैव तात्पर्यम् ।
न्यायदीपः
ननु ज्ञानत्वप्रयोजकहेत्वित्यस्य ज्ञानत्वाश्रयजनकसामग्रीत्यर्थो विवक्षितः । तेन नेन्द्रियादिभिः सिद्धसाधनम् । तेषामपि तदाश्रयजनक-सामग्रीत्वेन तदन्यत्वाभावादित्यत आह ॥ नापि ज्ञानसामान्येति ॥ ज्ञानत्वाश्रयसामग्रीत्यर्थः ॥ सामग्रीभेद इति ॥ सामान्यविशेषकार्यस्थलेपि सामान्यकार्यसामग्रीतो विशेषकार्यसामग्री न भिन्ना किन्तु मिलितैवेति भावः ॥ सिद्धसाधनादिति ॥ इन्द्रियादीनामपि ज्ञानत्वाश्रयकतिपयकारणान्यत्वादिति भावः ।
ज्ञानत्वस्य नित्यवृत्तितयानवच्छेदकत्वादाह ॥ अनित्यज्ञानत्वेति ॥ अनित्यज्ञानत्वेन अवच्छिन्ना नियता व्यावर्तिता वा या कार्यता अनित्यज्ञानमात्रवृत्तिरात्ममनोयोगादिप्रयोज्या कार्यता तदन्यकार्यत्वंप्रमा-निष्ठमप्रमानिष्ठं च तत्प्रतियोगिकं तन्निरूपितं यत्कारणंप्रमारूपकार्यकारणम् अप्रमारूपकार्यकारणं गुणदोषलक्षणं तज्जन्येत्यर्थः । दोषजन्यत्वे बाधाद्गुणजन्यत्वेन साध्यपर्यवसानं दृष्टान्तेऽप्रमायां दोषजन्यत्वेन साध्यानुगमो ज्ञेयः ॥ सिद्धसाधनादिति ॥ कार्यत्वपदेनप्रमादिवृत्तिकार्यत्वमिवप्रत्यक्षमात्रवृत्तिकार्यत्वमनुमित्यादिमात्रवृत्तिकार्यत्वं चाक्षुषादिज्ञानमात्रवृत्ति-कार्यत्वमपि भवतीति तत्तत्प्रतियोगिककारणानीन्द्रियादीन्यपि भवन्तीति तैः सिद्धसाधनमित्यर्थः ॥प्रमाऽप्रमेति ॥ तदुभयहेतुर्ज्ञानसामान्य-सामग्र्यात्ममनोयोगादिः । तद्भिन्नहेतुर्गुणो दोषश्च । तज्जन्यत्वं च पक्ष-दृष्टान्तयोःप्रमाऽप्रमयोः पूर्ववज्ज्ञेयम् ।प्रमेत्युक्त्या सिद्धसाधनत्वस्या-प्रमेत्युक्त्या बाधस्य च निरासः । न च प्रागभावव्यक्तिविशेषेणार्थान्तरम् । भावत्वेन विशेषणात् ।
यन्मते गुणादेर्विरोधिप्रतिबन्धकत्वं स्वकार्यकरत्वं च तन्मतेनाह ॥प्रमाऽप्रमान्यतरेति ॥ अनित्यप्रमेत्येवं प्रागुक्तपक्षानुकर्षोऽत्रोत्तरत्र च ज्ञेयः । अन्यतरप्रतिबन्धकश्च गुणो दोषश्च । तज्जन्यत्वं पूर्ववत् । हेतौ जन्यप्रमेति योज्यम् ।प्रमाऽप्रमाबहिर्भूतमीश्वरज्ञानमिति मते तु यथाश्रुतमेव । अनुमित्यादिप्रतिबन्धकप्रत्यक्षसामग्रीजन्यत्वेन सिद्धसाधनवारणाय स्वविरोधीत्यनुभवविशेषणम् । अप्रामारूपोऽनुभव इत्यर्थः । स्वशब्दस्य पक्षीभूतानित्यप्रमामात्रपरत्वेनानुमित्यादेः स्वविरोधित्वाभावान्नोक्तदोषः । स्वविरोधिस्मृतिप्रतिबन्धकानुभवसामग्रीजन्यतया सिद्धासाधनतावारणायानु-भवपदम् ॥ अप्रमावदिति ॥ तत्र दोषजन्यत्वेन साध्यानुगमो ध्येयः ॥ चाक्षुषभ्रमाजनकेति ॥ पक्षे गुणजन्यत्वेन दृष्टान्ते रसनेन्द्रिय-सम्प्रयोगजन्यत्वेन साध्यं बोध्यम् ।
आद्यद्वयं स्मृत्यनुभवसाधारणं ध्येयं तृतीयमनुभवासाधारणं चतुर्थं चक्षुरादिप्रत्यक्षसाधारणमिति साध्यचतुष्टयं विवेक्तव्यम् ॥ व्यक्तिविशेषस्येति ॥ निर्देषार्थकरणसम्प्रयोगादिरूपस्येत्यर्थः ॥ अप्रमाप्रतिबन्धकत्वेनेति ॥ तदनुत्पादव्याप्यत्वरूपप्रतिबन्धकत्वे-नेत्यर्थः । अप्रमायाः स्वविरोध्यनुभवत्वादप्रमाप्रतिबन्धकत्वेनेत्यनेनैव स्वविरोध्यनुभवप्रतिबन्धकत्वेनेत्यस्य अप्युक्तत्वान्न तस्य पृथगुक्तिः ॥ इन्द्रियसम्प्रयोगस्येति ॥ इन्द्रियादिसम्प्रयोगत्वस्याप्रमाव्यावृत्तत्त्वेन तदवच्छिन्नकार्यत्वं तस्येत्यर्थः । इन्द्रियसम्प्रयोगस्येति ध्येयम् । अग्र इन्द्रियादीति श्रवणात् ॥ तज्जन्यत्वेनेति ॥ संयोगत्वावच्छिन्नंप्रति द्रव्यत्वेन जनकत्वादिन्द्रियस्यापि द्रव्यत्वादिति भावः ।