०८ परतस्त्वे प्रथमप्रामाण्यानुमित्यसम्भवः

किञ्च प्रामाण्यमनुमेयं चेत्कथं प्राथमिकं तज्ज्ञानम्

परतस्त्वे प्रथमप्रामाण्यानुमित्यसम्भवः

परतस्त्वे अप्रसिद्धविशेषणत्वोपपादनं

तर्कताण्डवं

किञ्च प्रामाण्यमनुमेयं चेत्कथं प्राथमिकं तज्ज्ञानम् । अप्रसिद्ध-विशेषणत्वेनानुमानाप्रवृत्तेः ।प्रवृत्तिगतसंवादरूपवैचित्र्येण तद्धेतुज्ञाने वैचित्र्यानुमानेपि वह्न्यर्थिप्रवृत्तिहेतोर् वह्नित्ववति वह्नित्वप्रकार-कत्वादिरूपप्रामाण्यस्य विशिष्यासिद्धेः ।

न च प्रामाण्यमात्रनिषेधे व्याघातदण्डभयेन विशेष्यवृत्तिप्रकार-कत्वरूपं प्रामाण्यं सामान्यत एवप्रसिद्धं वह्निज्ञाने साध्यमानं पक्षधर्मताबलाद्वह्नित्ववति वह्नित्वप्रकारकत्वादौ पर्यवस्यति । एवं च नाप्रसिद्धविशेषणत्वं नाप्यसाधारण्यमिति वाच्यम् ।प्रथमे स्वार्थानुमाने परकीयस्य प्रामाण्यनिषेधस्य अभावेन व्याघातानुप-स्थितेः । स्वयं निषेधस्य च तद्धीपूर्वकत्वात् ।

न च तत्र प्राग्भवीयसंस्कारजन्या स्मृतिरूपा तत्प्रसिद्धिः ।प्रथम-प्रामाण्यज्ञानस्य प्रामाण्यस्वतस्त्वेनैवोपपत्तौ तत्कल्पकाभावात् ।

युक्तिरत्नाकरः

॥ अप्रसिद्धविशेषणत्वेनेति ॥ यद्यपि प्रामाण्य१विशेषकानुमिति रेवमपि सम्भवत्येव । तथापि तस्याप्रसिद्धौ तन्नेत्यत्र तात्पर्यम् । ननु संवादिप्रवृत्तिहतेुविलक्षणहेतुसाध्या तद्विलक्षणकार्यत्वादित्यनुमानेन सिद्धलक्षण्यं प्रामाण्यरूपमेव पर्यवस्यतीत्यत्राह ॥ प्रवृत्तीति ॥ आदिपदेन वह्न्यवृत्ति-प्रकारादावनवच्छिन्नत्वादेः परिग्रहः । न च तस्य नाम प्रवृत्तित्वमिति वाच्यम् । तन्मते प्रामाण्यनिश्चयस्य साक्षादप्रवर्तकत्वेनाप्रामाण्य-शङ्कानिरासार्थकतया तस्य च ततोऽपि लाभादिति भावः । प्रामाण्यमात्रनिषेधे विशेष्यवृत्तिप्रकारकं ज्ञानं नास्तीति प्रमात्वसामान्यनिषेधे व्याघातः । प्रमा नास्तीति निषेधबोधके वाक्ये स एव दण्डः भयशब्दश्च तस्य वाक्यशब्दस्य निषेधप्रतियोगिज्ञानं विनाऽसम्भवलक्षणविपक्षबाधकतर्कसूचनार्थः । तथा चेदं वाक्यं प्रतियोगिज्ञानपूर्वकं निषेधज्ञानपूर्वकवाक्यत्वात्सम्मतवदित्यनुमान-सिद्धस्य ज्ञानस्य विषयं विनानुपपत्त्या प्रमासामान्यप्रसिद्धावयं वह्नित्वेनानुभवो विशेष्यवृत्तिप्रकारकः समर्थप्रवृत्तिजनकत्वाद् यन्नैवं तन्नैवमिति व्यतिरेकिणा पक्षधर्मताबलाद् वह्नित्ववतीत्यादिविशेषसिद्धिरित्यर्थः ।

॥ नाप्यसाधारणमिति ॥ साध्यस्य सामान्यत एव सिध्या व्यक्ति-विशेषवृत्तित्वेनानिश्चयात् साध्यवद्व्यावृत्तत्वेन हेतो२रनिश्चयान् नासाधारण्य-मित्यर्थः । इदं चोपलक्षणम् । हेतोर्निश्चयसाध्यवद्वृत्तित्वेनानिश्चयान् नान्वयित्वमित्यपि द्रष्टव्यम् । यद्व्याधातो विरोध एव । तथा च प्रमामज्ञात्वा तन्निषेधे विरोधात् प्रमासामान्यप्रसिद्धिरित्यर्थः । यद्यपि परैर्विशेष्यावृत्य-प्रकारकत्व एव सामान्यप्रसिद्धिरुक्तेति तदनुवाद एवोचितः । तथापि स्वतस्त्वपरतस्त्वविचारपरविषयः प्रामाण्यप्रसिद्धेरेव वाच्यतया परोक्तायाश्च प्रकृतानुपयोगादनौचित्यज्ञापनायेदमनूदितम् । वक्ष्यते च तत् । यद्यपि परैर्व्याघातेन प्रमातद्विषयसिद्धौ वह्निर्विशेष्या१प्रवृत्तिप्रकारानवच्छिन्नज्ञानविषयो ज्ञेयत्वादित्यन्वयिना पक्षधर्मताबलादयं वह्न्यनुभवः प्रमेति ज्ञानविशेष-वृत्तित्वरूपप्रकारौदासीन्येन वह्निमात्रे सामान्यत वह्न्यवृत्ति२प्रकारका-नवच्छिन्नज्ञानत्वप्रसिद्धावयं वह्निरित्यनुभवविशेष उक्तः । साध्यसिध्यर्थमयं वह्नित्वेनानुभवः प्रमेत्यादिव्यतिरेकप्रवृत्तिरिति मध्येऽन्वयानुमानमप्याश्रितम् । तथापि तस्या३नुयोगमभिप्रेत्य वह्निरित्येवानूदितम् । न च व्यतिरेकिणि साध्यप्रसिध्यर्थत्वात्तदादरः । व्यघातदण्डभयेन विशेष्य४वृत्यप्रकारकत्व-मात्रस्य प्रसिद्धावपि वह्निवृत्यप्रकारानवच्छिन्नरूपविशेष्याप्रसिद्धेरिति वाच्यम् । अनुमितेर्व्यापकतावच्छेदकप्रकारकत्वेनास्य विशेषस्याधुनाप्यसिद्धेः पक्षधर्मताबलादपि साध्यस्य पक्षीयतामात्रमेव सिद्ध्येन्नत्वधिकमतिप्रसङ्गात् । न च वह्निं पक्षीकृत्य विशेष्यावृत्तीत्यादिना साध्यमानवह्नेरेव विशेष्यतया वह्न्यवृत्यप्रकारकत्वमादायेव पर्यवस्यति प्रकारान्तरासम्भवादिति वाच्यम् । वस्तुतो वह्नेरेव विशेष्यत्वेऽपि व्यापकतावच्छेदकविशेष्यत्वाकारेणैव तद्भानं न तु व्यवसायककोटावनुपात्तवह्नित्वाकारेणापि । तेन रूपेण तज्ज्ञान-सामग्य्रभावात् । न चानुमितावुपनीतभानपक्षे उपनीतं वह्नित्वं विशेष्यांशे प्रकारतया भासिष्यत इति वाच्यम् । तथा सति व्याघातसिद्धसाध्य-प्रसिद्धिमादायोपनीतविशेष्यस्य व्यतिरेकिण्येव भानसम्भवेन मध्येऽन्वयानुप-योगादिनिषेधस्य निषेधबोधकस्य वाक्यस्य व्याघातस्य निषेधवाक्यस्य विरोधस्येति वा ।

ननु स्वार्थानुमाने परकीयव्याघातस्यानवतारेऽपि स्वकीयप्रामाण्य-निषेधानुपपत्त्येव तत्प्रसिद्धिः स्यादित्यत्राह ॥ स्वयमिति ॥ प्रामाण्य-स्येत्यतः पूर्वमुपस्थितया स्वकीयनिषेधो कल्पित एवेति भावः । उपलक्षणं चैतत् । परार्थानुमानेऽपि तस्य सार्वत्रिकमेव । न हि प्रमा नास्तीति निषेधेन सर्वत्र भवितव्यमित्यस्ति निर्बन्धः । किं चेदं वाक्यं प्रतियोगिज्ञान-पूर्वकमित्यनुमाने प्रतियोगिभूता प्रमा प्रमात्वेन वा साध्यकूटकोटिनिष्ट-प्रतियोगित्वमात्रेण वा । नाद्यस् तदप्रसिद्धेः । नान्त्यः प्रमात्वेन तदप्यनुपस्थित्या वक्ष्यमाणानुमितौ साध्यप्रसिध्य सम्पादनादित्यपि बोध्यम् ॥ स्वतस्त्वेनैवेति ॥ प्राग्भवीयसंस्कारोद्बोधस्य जीवनान्यथानुपपत्ति-मात्रकल्प्यत्वात् । तस्य च प्रकारान्तरेणोपपत्त्या तदकल्पकत्वादिति भावः । इदं चोपलक्षणम् । प्रत्ययोत्पन्नदेवदत्तादिज्ञानवृत्तेर् देवदत्तत्व-वतीत्यादि प्रामाण्यस्य प्रागनुभवेन तत्संस्कारासम्भवेऽपि बोध्यः ।

न्यायदीपः

एवं परतस्त्वे अनवस्थाद्वयोक्त्या स्वतस्त्वहेतूनामप्रयोजकत्वं निरस्य विपक्षेऽनुमित्यसम्भवरूपबाधकान्तरादपि नाप्रयोजकाः स्वतस्त्वहेतव इति भावेनाह ॥ किञ्चेति ॥ ननूक्तमत्र मणौ ‘‘प्रथमं च प्रामाण्यज्ञानं व्यतिरेकिणा’’ इति तत्राह ॥ अप्रसिद्धेति ॥ साध्याप्रसिद्धौ तन्निरूपित-व्याप्त्यज्ञानादिति भावः । ननु संवादिप्रवृत्तिर्विसंवादिप्रवृत्तिहेतुविलक्षण-हेतुसाध्या तद्विलक्षणकार्यत्वादित्यनुमानेन सिद्ध्यद्वैलक्षण्यं प्रामाण्यरूपमेव सेत्स्यतीत्यत आह ॥प्रवृत्तीति ॥ १दाहसमर्थविशेष्यवृत्तिप्रकारकत्वादि-रादिपदार्थः ।

प्रकारान्तरेणप्रसिद्धिमाशङ्क्य निराह ॥ न चेति ॥ विशेष्यवृत्ति-प्रकारकज्ञानं नास्ति,प्रमा नास्तीत्यादिनिषेधस्य क्वचित्प्रमाप्रसिद्धिं विनानु-पपत्तेस्तदर्थं तत्प्रसिद्ध्यभ्युपगमे व्याघातरूपदण्डप्रसङ्गात्तद्भयेन क्वचि-त्प्रसिद्धेरवश्यवाच्यत्वात् ॥ सामान्यतः सिद्धमित्युक्तम् ॥ साध्यमान-मिति ॥ वह्निज्ञानं विशेष्यवृत्तिप्रकारकं समर्थप्रवृत्तिहेतुत्वादिति व्यतिरेकिणा साध्यमानमित्यर्थः ॥ नाप्यसाधारण्यमिति ॥ व्यक्तिविशेषे साध्यस्या-निश्चयेन सपक्षानिर्णयादिति भावः । ननु स्वर्थानुमाने परकीयव्याघाता-नवतारेपि स्वकीयप्रामाण्यनिषेधानुपपत्यैव तत्सिद्धिः स्यादित्यत आह ॥ स्वयमिति ॥ तथा च सा धीरेव कथं स्यादिति मृग्यत इति भावः ।

‘‘प्रागभवीयसंस्काराद्विशेष्यावृत्यप्रकारकत्वं तद्वति तत्प्रकारकज्ञानत्वं वा तत्प्रामाण्यं तन्मात्रं स्मृतं वह्निज्ञानादौ साध्यमानं’’ इत्यादिना मणिकृदुक्तं तत्सम्प्रदायविदां मतमनूद्य निराह ॥ न च तत्रेति ॥प्रथमप्रामाण्यानुमिति-स्थल इत्यर्थः ॥ उपपत्ताविति ॥ तदुपपत्तिप्रकारश्च बाधोद्धारग्रन्थे संशयोपपादनग्रन्थादौ चोक्त इति भावः ।


अथप्रथमम् अयं वह्नित्वेनानुभवो..

तर्कताण्डवम्

अथप्रथमम् अयं वह्नित्वेनानुभवो वह्नित्वप्रकारकत्वे सति वह्नित्वाभाववद्विशेष्यको न समर्थप्रवृत्तिजनकत्वाद् व्यतिरेकेणा-प्रमावदित्यनुमानेनाप्रामाण्याभाव एवानुमेयः । तत एव निष्कम्प-प्रवृत्तेः । न च तत्रापि साध्याप्रसिद्धिर्दोषः । अभावसाध्यके व्यति-रेकिणि साध्यप्रसिद्धिं विनैव साध्याभावरूपस्य भावस्य हेत्वभाव-व्याप्यत्वग्रहात् ।

यद्वा वह्नित्वाभाववद्विशेष्यको नेत्येव साध्यम् । पक्षधर्मताबलाद-प्रामाण्याभावसिद्धिः । नच घटादिरूपात् सपक्षाद् व्यावृत्याऽ-साधारण्यम् । तस्यानित्यदोषत्वादिति चेन्मैवम् ।प्रथमस्य प्रामाण्य-ग्रहणस्योपाये पृष्टेऽप्रामाण्याभावग्रहणोपायकथनस्य व्यधिकरणत्वात् ।

न चोक्तव्यतिरेक्येव पक्षधर्मताबलाद्वह्नित्ववद्विशेष्यकत्वरूपं प्रामाण्यं गृह्णातीति वाच्यम् । व्याप्त्या व्यापकतावच्छेदकावच्छिन्न-त्वेनोपस्थापितस्यापूर्वस्य व्यक्तिविशेषस्यैव पक्षधर्मतया पक्षसम्बन्ध-सिध्या तथानुपस्थपितस्योक्तरूपप्रामाण्यस्य पक्षसम्बन्धबोधने तस्या असामर्थ्यात् ।

युक्तिरत्नाकरः

मणिकृतो ऽभिमतं पक्षमाशङ्कते ॥ अथ इति ॥ वह्नित्वप्रकार-कानुभवमात्रपक्षीकरणे गुञ्जाविशेष्यकस्यापि तस्य पक्षतापत्त्या बाधासिद्ध्योः प्रसङ्गेन तद्वारणायायमिति व्यक्तिविशेषनिर्देशः ॥ वह्नित्वप्रकारकत्वे सतीति ॥ यद्यपि पक्षधरादिभिर् वह्नित्वाभाववदविशेष्यकत्वमात्रमेव साध्यं निष्कृष्टं तथापि विशेष्यवृत्तिविशिष्टाभावस्य विशेषणाभावपर्यव-सायितानियमादित्युत्तरग्रन्थानुरोधाद्विशिष्टाभावस्यैव साध्यतोचितेति यज्ञपतिना तथैव व्याख्यातत्वात् तथैवानुवदति ॥ समर्थेति ॥ समर्थप्रवृत्तिजनकत्वमेवानुगतं नास्तीत्ययं वह्निरित्यनुभवजन्यप्रवृत्तिसमर्थत्वे दाहसमर्थविशेष्यकत्व एवेति दाहसमर्थविषयकप्रयत्नजनकत्वादित्यर्थः । अत्र विशिष्टाभावस्य साध्यत्वादेवात्र वह्नित्वमिति ज्ञाने व्यभिचारः । वह्नित्वाभाववति वह्नित्वविशेष्यकतया वह्न्यंशे वह्नित्वप्रकारकतया विशेष्यसत्वेऽपि वह्नित्वप्रकारकत्वरूपविशेषणाभावेन विशिष्टाभावसत्वात् ॥ न च वह्निमानयमिति ज्ञाने व्यभिचारः । तत्र १वह्निभाववत्पर्वतविशेष्यकतया वह्न्यंशे वह्नित्वप्रकारकतया च साध्याभावसत्वात् । वह्नौ प्रवर्तकतया हेतुसत्त्वाच्चेति वाच्यम् । यदंशे हेतुसत्वं तदंशे साध्यस्यापि सत्वादत एव वह्निगुञ्जापुञ्जयोरिमौ वह्नीति ज्ञाने व्यभिचारः ॥ तत एवेति ॥ न हि प्रामाण्यनिश्चयोऽपि स्वतः प्रवर्तकः । किन्त्वप्रामाण्यशङ्कानिरासद्वारा । तन्निरासश्चाप्रामाण्याभावनिश्चयेनापि सम्भवतीति भावः ।

॥ अभावसाध्यक इति ॥ व्यतिरेकिणि साध्यस्याप्रसिद्धौ तदभावस्या-ज्ञानात्तत्र साधनाभावनिरूपितव्याप्तिग्रहासम्भव इत्येव हि साध्याप्रसिद्धे-र्दोषत्वम् । तच्चाभावसाध्यके न सम्भवति । तत्र साध्याभावस्य भावरूपतया साध्यानुपस्थितावपि साधनाभावनिरूपितव्याप्तेर् ग्रहसम्भवात् । न च साध्याभावत्वेन तदग्रहे गमकतया प्रयोजकेन साध्याभावव्यापकाभाव-प्रतियोगित्वेन हेत्वग्रहात्कथं तेन हेतुना साध्यसिद्धिरिति वाच्यम् । यद्व्यापकतया हेत्वभावो गृहीतस्तदभावस्तेन हेतुना सिध्यतीत्येव नियमात् । एवं चाप्रामाण्याभावाप्रसिद्धावप्यप्रामाण्यव्यापकतया समर्थप्रवृत्तिजनकत्वा-भावस्य गृहीततया तेन हेतुना प्रामाण्याभावरूपसाध्यं प्रसिद्धमेव सेत्स्यति ।

न चैवं सुखदुःखाभावात्मकत्वभ्रमे सुखव्यापकतया मुखग्लान्यभावादेव ग्रहे तेन मुखग्लान्यादिना सुखाभावानुमितेरेव स्यान् न दुःखानुमितिरिति वाच्यम् । यद्व्यापकतयेत्यस्य १पदात्मकतया गृह्यमाणस्य व्यापकतयेत्यर्थात् । एवं च सुखस्यापि दुःखाभावात्मकतयेति गृह्यमाणस्य व्यापकतया हेत्वभावो गृह्यत इति तेन हेतुना तदभावरूपदुःखानुमितिरविकलेति ।

नन्वेवं द्रव्यत्वव्यापकतयापि कपिसंयोगाद्यभावग्रहे तदभावस्य कपिसंयोगादिना वृक्षादौ द्रव्यत्वाभावानुमानापत्तिरिति चेन्न । तद्व्यापकतया हेत्वभावो गृहीत इत्यत्र हेत्वभाव इत्यस्य हेतुसत्वविरोधीत्यर्थात् ।

नन्वेवं पृथिवी इतरभिन्ना पृथिवीत्वादित्यत्र इतरत्वव्यापकतया पृथिवीत्वाभावग्रहे तदभावेन पृथिवीत्वेनेतरत्वात्यन्ताभाव एव सिध्येन् नत्वितरान्योन्याभावस्तस्य तदत्यन्ताभावरूपत्वाभावरूपत्वमावश्यकम् । यस्य यद्विरहरूपत्वं तस्यापि तद्विरहरूपत्वनियमादिति । तन्न । अन्येन्याभावस्य पृथिवीतरभिन्नेति १समानाधिकरणनिबन्धधीगम्यत्वेन इतरत्वावच्छिन्नेतरज्ञानाधीनज्ञानत्वे प्रतियोगियोग्यताधीनसाक्षात्कारत्वेन तस्य घटविरहरूपत्वेऽपि घटस्य तद्विरहरूपत्वाभवेनोक्तयिमासिद्धेश्च । तत्रापि तद्विरहरूपत्वे तत्र भूतले २समवायसम्बन्धारोप्यघटकाभावो नास्तीति प्रतीत्यापत्तेः । विपक्षबाधकं विना सहचारदर्शनमात्रेण न त्वेतरात्यन्ताभावरूपत्वावच्छेदकभेदेनोक्तविरुद्धधर्माणामुपपत्तिः । एकघटप्रतीयोगिकानां प्रागभावादीनामारोप्यसम्बन्धभेदेन सामान्यविशेषा-भावयोश्चावच्छेदकभेदेन च भेदाभ्युपगमेनाभावभेदकप्रयोजकयोस्तयोरिहापि सत्वेन भेदस्यावश्यकत्वात् । पृथिवीतरत्वस्य पृथिव्यन्योन्याभावरूपतया तदभावस्य भावरूपतानियमेन पृथिवीतरस्य जलादेर्भावरूपतया तदन्योन्याभावस्याभावैकस्वभावत्वनियमेन कथं तयोरैक्यम् । अन्यथैकस्य वस्तुनः भावाभावरूपत्वात् । तथा च कथं पृथिवीत्वेन इतरात्यन्ता-भावसिद्धिरिति ।

अत्राहुः । यदभावव्यापकतया यदभावो गृहीतः स तेन सिध्यतीत्येव नियमः । एवं चेतरान्योन्याभावस्येतरतादात्म्यरूपेतरत्वविरहरूपत्वाभावेऽपि इतरतादात्म्यस्यान्योन्याभवविरहरूपतया तद्व्यापकतया पृथिवीत्वाभावस्य ग्रहणे तेन पृथिवीत्वेन तदन्योन्याभावसिद्धिरविकलैवेति । न चैवं यत्रेतर-तादात्म्यं तत्र पृथिव्यन्योन्याभाव इत्यन्योन्याभावे व्यापकत्वाग्रहे १अन्योन्याभावपृथिवीत्वविरहरूपत्वाभावेन यदभावो गृहीत इत्युक्त-नियामकाभावेन पृथिवीत्वेनेतरभेदानुमितिर्न स्यात् । न स्याच्च । यत्र पृथिव्यन्योन्याभावस् तत्र गन्धविरह इति व्याप्तिग्रहेण यदभावव्यापकाभावतया इतरभावेन गन्धेन पृथिवीत्वानुमितिरिति वाच्यम् । यदभावव्यापकतये-त्यत्रोभयत्रापि योऽभावो यस्येति बहुव्रीहिणा प्रतियोग्यनुयोगिभावलाभेन यत्प्रतियोग्यनुयोगिभावलक्षणसम्बन्धवतो विरोधिनो व्यापकतया प्रतियोग्यनुयोगिभावसम्बन्धवान्विरोधी गृहीत इत्यर्थपर्यवसानात् । एवं च पृथिव्यन्योन्याभावस्य पृथिवीत्वात्यन्ताभावरूपत्वाभावेऽपि पृथिवीत्वस्य तदन्योन्याभावात्यन्ताभावरूपत्वेन सह प्रतियोग्यनुयोगिभावसम्बन्धवा-नन्योन्याभावो व्यापकतया गृहीत इति (पृथिवीत्वेनेतरभेदात्यन्ताभावः) पृथिवीत्वेन सह प्रतियोग्यनुयोगिभावसम्बन्धत्वेन यत्प्रतियोग्यनुयोगि-भावलक्षणसम्बन्धवतो विरोधिन इति पूर्वदलस्यापि सत्वेनानुपपत्तिरिति तन्न ।

यत्प्रतियोग्यनुयोगिभावसम्बन्धवत इत्यत्र तादृशसम्बन्धवत्वं स्वरूपसद्विवक्षितमुत ज्ञायमानम् । नाद्यः । यत्र प्रमेयत्वाभाव-स्तश्चत्राभिधेयत्वाभाव इति व्याप्तिनिश्चये अभिधेयत्वेन प्रमेयत्वाननु-मित्यापातात् । तत्र प्रमेयत्वाद्यभावाप्रसिद्ध्या अभावत्वेन गृह्यमाणघटाभावे प्रमेयत्वादिप्रतियोगिकत्वारोपेण स्वरूपसतः प्रतियोग्यनुयोगिभावस्याभावात् । नान्त्यः । प्रकृताप्रामाण्याभावादि२साधके अप्रामाण्याभावादेरप्रसिद्ध्या प्रतियोग्यनुयोगिभावसम्बन्धेनाप्रामाण्यादेर् गृहीतुमशक्यतया तदनुमानापातात् ।

तस्मादिदमत्र तत्त्वम् । यत्सम्बन्धावच्छिन्नस्य यस्य व्यापकतया यत्सम्बन्धावच्छिन्नो यो गृहीतस् तत्सम्बन्धावच्छिन्नतदव्यापकतावच्छेद-कत्वाभिमतावच्छेदकावच्छिन्नाभावत्वप्रकारक पक्षधर्मताज्ञानेन तत्सम्बन्धा-वच्छिन्नतद्व्याप्यतावच्छेदकत्वाभिमतावच्छेदकावच्छिन्नाभावत्वप्रकारकानुमिति-र्जायत इति । एवं च पृथिवीतरभिन्ना गन्धवत्वादित्यत्र तादात्म्य-रूपसम्बन्धवच्छिन्नं यदितरवद्व्यापकतावच्छेदकत्वावच्छेदकत्वाभिमतं यद्गन्धवत्वाभावत्वं तदवच्छिन्नगन्धवत्वरूपहेत्वभावः स्वूपसम्बन्धावच्छिन्नो गृहीत इति स्वरूपसम्बन्धावच्छिन्नस्य तस्याभावरूपेणागन्धवत्वेन तादात्म्यरूपसम्बन्धावच्छिन्नेतरप्रतियोगिकोभावोऽन्योन्याभाव एवेति स एव सिद्ध्यति । एवं च यत्सम्बन्धावच्छिन्ना प्रामाण्यव्यापकतया यत्सम्बन्धा-वच्छिन्नं समर्थप्रवृत्तिजनकत्वाभावो गृहीतस् तदभावेन समर्थप्रवृत्तिजनकत्वेना-प्रसिद्ध एव तत्सम्बन्धावच्छिन्नस्याप्रामाण्यस्याभावो सिद्ध्यति । तथा प्रमेयत्वप्रतियोगितया गृह्यमाणे घटाभावस्य व्याप्यतावच्छेदकत्वेनाभिमतं यदभिधेयत्वं तदवच्छिन्नाभावज्ञानेन तेनाभिधेयत्वेन व्यापकतावच्छेद-कत्वाभिमतप्रमेयत्वप्रतियोगित्वावच्छिन्नप्रतियोगिकाभावत्वेन प्रकारेण प्रमेयत्वानुमितिरविकला । यत्सम्बन्धावच्छिन्नयोर् व्याप्यव्यापकभावो गृहीतस् तत्सम्बन्धावच्छिन्नतदभावयोर्गम्यगमकभाव इत्युक्त्या सम्बन्धान्तरेण व्याप्तिग्रहे तदसम्बन्धान्तरेण तदभावानुमितिरिति संक्षेपः ।

ननु साध्ये वह्नित्वप्रकारकत्वे सतीति विशेषणं व्यर्थम् । न चाप्रामाण्या-भावरूपोद्देशसिध्यर्थं तदुपपादनम् । वह्नित्वप्रकारकज्ञानस्याप्रामाण्यं वह्नित्वाभाववद्विशेष्यकत्वमेवेति पक्षीकृते वह्नित्वप्रकारकानुभवे वह्नित्वाभाव-वद्विशेष्यकत्वाभावसाधनेऽपि तत्सिद्धेरित्यत आह ॥ यद्वेति ॥ अत्र वनदाहकसमर्थविषयकप्रत्ययत्वादिति पूर्वोक्तो हेतुः । अत्र वह्नित्वमिति ज्ञाने वह्नित्वाभाववद्विशेष्यके वह्नित्व१प्रवर्तके व्यभिचारात् । किन्तु दाहसमर्थविषयकप्रयत्नजनकत्वे सति वह्नित्वप्रकारकनिश्चयत्वादिति मण्युक्त एव । एवं च वह्नित्वप्रकारकत्वाभावादेव न व्यभिचारः ।

गुञ्जायामयं वह्निरिति ज्ञाने तद्वारणाय सत्यन्तम् । १वह्नाविव वह्नित्वं न वेति संशयेदाहसमर्थविषयकप्रयत्नजनके तद्वारणाय निश्चयपदम् । न च तस्य वह्नित्वप्रकारकत्वाभावादेव न व्यभिचारः । वह्नित्वं न वेति निषेधकोटौ २प्रतियोगिता वह्नित्वस्य ३प्रकारकत्वात् । न चेह वह्नित्वं न वेत्यस्य वह्नित्वविशेष्यकत्वादिदं वृत्तित्वं वृत्तित्वतदभावकोटिकत्वाच्च न वह्नित्वप्रकारकत्वमिति वाच्यम् । इह वह्नित्वतदभावो वेति वह्नित्वतदभावविशेष्यकस्य पुरोवर्तिविशेषणकस्याधाराधेयभावसंसर्गस्यानुभव-सिद्धस्य प्रकारान्तरेणानुभवसम्भवात् । एकत्र विरुद्धनानाकोटिवैशिष्ट्यविषय-कत्वमात्रेणापि संशयत्वस्य सम्भवे कोटिविशेषणकत्वस्य गौरवेण तन्त्रत्वात् ॥ वह्नित्वाभाव इति ॥ इदं वृत्तिर्नवेति संशये तद्वारकत्वसम्भवाच्च ।

यदत्रोक्तं यज्ञपतिना । वह्नित्वाभाववद्विशेष्यके इत्येतावन्मात्रं न साध्यं तस्य वह्नावयं वह्निर्गुञ्जापुञ्जो नेति साधारणतया निष्कम्पप्रवृत्तावनुपयोगात् । स्वसमानाधिकरणनिश्चयप्रकारीभवद्वह्नित्वाभाववद्विशेष्यकत्वे सति वह्नित्व-प्रकारवानित्येव विवक्षितम् । तच्च संशयाद्व्यावृत्तम् । तच्च तस्य वह्नित्व-वद्विशेष्यकत्वेऽपि संशयसमानाधिकरणनिश्चयं प्रति वह्नित्वस्य शतृप्रत्यय-वाच्यवर्तमानप्रकारतया अभावेन तादृशनिश्चयप्रकारीभवद्वह्नित्वाभाव-वद्विशेष्यकत्वात् । एवं च वह्नावियं गुञ्जेति भ्रमे व्यभिचारवारणाय हेतौ वह्नित्वप्रकारकपदम् । उक्तभ्रमे वह्नित्ववद्विशेष्यकत्वे सति स्वपदस्य समभिव्याहृतपरतया वह्नित्वस्योक्तपदभ्रमसामानाधिकरणवत्कालीन-निश्चयकारकत्वाभावेन तद्घटितविशिष्टसाध्याभावात् । निश्चयपदं नोक्तसंशये व्यभिचारवारणायेति ।

तन्न । उक्तसंशये तत्पुरुषीयतत्कालीननिश्चयाभावेन तादृङ्निश्चय-प्रकारीभूतवह्नित्वस्य प्रसिद्ध्या तद्घटितसाध्याभावसत्वनिबन्धनव्यभिचारः । नाप्रसक्तेः । उक्तरीत्या वह्नावियं गुञ्जेति भ्रमेऽपि व्यभिचाराप्रसक्त्या वह्नित्वप्रकारकपदवैय्यर्थ्याच्च । न चोक्तसंशये तत्पुरुषीयतत्कालीनकोटि-स्मृतिमादायोक्तनिश्चयप्रकारता वह्नित्वे प्रसिद्धेति वाच्यम् । तथा सति तमादायैव तत्र साध्यसत्वेन व्यभिचारप्रसक्त्या तद्विशेष्यविशेष्यकत्वस्यापि प्रवेश्यतया कोटिस्मृतेश्चान्यविशेष्यकत्वनियमेनाप्रसिद्ध्यनुद्धारात् ।

यदत्रोक्तं नरहरिणा । उक्तसंशये साध्याभावसत्वात् । निश्चये तन्निबन्धनव्यभिचारधीविरहेपि विशेषणाप्रसिद्ध्या तद्घटितसाध्यस्यापि तत्रासत्वेन सकलसाधनाश्रयाश्रितसाध्यसामानाधिकरण्यरूपव्याप्तिविरहः प्रकृतहेतौ वज्रकल्पः । न च साध्यासत्वज्ञानाधीनव्यभिचार-बुध्यभावादनुमित्युत्पत्तौ स्वरूपसद्व्याप्तिविरहोऽकिञ्चित्कर इति वाच्यम् । स्वरूपसद्व्याप्तिविरहेऽसत्य एव परामर्शस्य दोषत्वापत्तेरिति ।

तन्न । उक्तरीत्याऽन्वयव्याप्त्यसम्भवेऽपि यत्र स्वसमानाधिकरणनिश्चय-प्रकारी१भाववद्वह्नित्वाभाववद्विशेष्यकत्वं तत्र दाहसमर्थविषयकप्रयत्नजनकत्वे सति वह्नित्वप्रकारकत्वाभाव इति प्रकृतोपयुक्तव्यतिरेकव्याप्तेरप्रमायां सत्वेन तद्ग्रहे परामर्शस्यापि तत एव सत्यत्वेन व्यतिरेक्यनुमानप्रवृत्तेरविकलत्वेन निश्चयपदवैय्यर्थ्यस्य दुष्परिहरत्वात् । मधुसूदनाद्युक्तदिशा संशये निश्चयवत्वं विना कृतहेतुसत्वेऽपि साध्यतावच्छेदकहेतुसमानाधिकरणा-भावविशेषप्रतियोगितानवच्छेदकत्वस्य हेतौ तदवच्छिन्नसाध्यसामानाधि-करण्यसत्वेनान्वयव्याप्तिसम्भवाच्च । सकलसाधनाश्रयाश्रितसाध्यसामानाधि-करण्यरूपव्याप्तेर्मणिकृताऽनभ्युपगमाच्च ।

यदपि तेनैव २निश्चायकप्रकारताविशिष्टवह्नित्वाभाववद्विशेष्यकत्वे सति वह्नित्वप्रकारको नेत्येव साध्यम् । कालान्तरे निश्चयप्रकारतावैशिष्ट्यस्य वह्नित्वेऽपि सिध्या नाप्रसिद्धिः । संशयकाले च तद्वैशिष्ट्यस्य तत्राभावेन संशये विशिष्टसाध्याभावेन व्यर्थं निश्चयपदमिति पक्षान्तरमुक्तम् ।

तन्न । यदाकदाचिन्निश्चयप्रकारतावैशिष्ट्यविवक्षायां संशयेऽपि साध्य-सत्वेन व्यभिचाराप्रसक्तेः । तत्कालीनवैशिष्ट्यविवक्षायां तु संशये प्रसिद्धेरेवेत्यलम् ।

यद्यपि समानाधिकरणानिश्चयकारीभवद्वह्नित्वाभाववद्विशेष्यको नेत्यत्र स्वपदस्य स्वोपादानगोचर१जन्यकृतिजन्यान्यानीत्यत्रेव प्रतियोगिपरत्वेना-प्रमायामेव प्रतियोगिप्रसिद्धेर्नाप्रसिद्धिशङ्का तथापि तदा संशयेऽपि तदभाव-रूपसाध्यसत्वेन व्यभिचाराप्रसक्त्या निश्चयपदानर्थक्यमेवेति यज्ञपत्युक्त-मयुक्तम् ।

यदपि साध्येऽपि निश्चयपदान्तर्भावस्य विवक्षितत्वात् । संशये व्यभिचारवारणाय हेतौ निश्चयपदसार्थक्यमिति ।

तन्न । वह्नित्वाभाववति वह्नित्वप्रकारकनिश्चयो नेति प्रतियोगिविशेषणत्वे उक्तसंशयो, विशिष्टाभावरूपसाध्यसत्वेन व्यभिचाराप्रसक्त्या निश्चय-पदानर्थक्यात् । निश्चयत्वसमानाधिकृतो प्रामाण्याभावः साध्य इति स्वातन्त्र्येण विशेषणत्वे तस्य भावरूपतया केवलभावसाध्यकत्वसमानाश्रय-साध्याप्रसिद्ध्या दूषणत्वोक्त्ययोगादिति ।

ननु विशिष्टहेतोरपि वह्नावेव वह्नित्वाभाव इदं वृत्तिरिति ज्ञानेऽवह्न्यर्थ-प्रवर्तको वह्नित्वप्रकारकनिश्चये व्यभिचार इति चेन्न । निश्चयपदेनैव तद्वारणात् । निश्चयत्वं हि संशयान्यज्ञानत्वम् । संशयत्वं च न भासमान१विरोधनानाकोटिज्ञानत्वमात्रम् । पीतः शङ्क इत्यादेरपि तत्वापत्तेः । किन्तु धर्मिपरस्याभावविषयकत्वम् । स च एकधर्मि-कत्वान्तर्भावे गौरवात् । तदन्यज्ञानत्वरूपनिश्चयत्वस्य च परस्पराभाव-विषयकज्ञानत्वरूपतया वह्नित्वाभावाविषयकत्वस्यैव पर्यवसन्नत्वात् ।

नन्वेवमपि वह्नावेवात्र वह्नित्वसमवाय इति ज्ञाने व्यभिचारः । न च वह्नित्वप्रकारकत्वावच्छेदेन दाहसमर्थविषयप्रयत्नभञ्जकत्वं विवक्षितम् । अत्र समवायांश इव वह्नित्वप्रकारकत्वेन तदंशे दाहसमर्थविषयकप्रयत्न-जनकत्वाभाव इति वाच्यम् । तथा विवक्षायां निश्चयपदवैय्यर्थ्याभावात् । उक्तसंशयस्याप्यभावांश एव वह्नित्वप्रकारकत्वेन तदंशे दाहसमर्थविषय-प्रयत्नजनकत्वाभावात् ।

अत्रोक्तम् मधुसूदनेन । वह्नित्वप्रकारकेत्यत्र वह्नित्वे वैशिष्ट्य-विशेषणत्वम् । विशेषणमिह वह्नित्वसमवाय इत्यत्र तु वह्नित्ववैशिष्ट्य-विशेषणमेवेति नोक्तदोषः । न चाभावप्रतियोगिनोः स्वरूपमेव वैशिष्ट्यमित्य-भावं प्रति विशेषणीभूतस्य वह्नित्वस्य वैशिष्ट्यविशेषणतया वैशिष्ट्यविशेषणी-भूतवह्नित्वप्रकारकत्वाभावादेवोक्तसंशये वह्नित्वाभाव इदं वृत्तिरिति निश्चयेन व्यभिचारवारणान् निश्चयपदानर्थक्यमिति वाच्यम् । वह्न्यर्थप्रवृत्यनुकूलत्वेन वैशिष्ट्यस्य विशेषणात् । उक्तस्थले वह्नित्वस्याभावरूपवैशिष्ट्यविशेषणतया ज्ञानेऽपि तस्य वह्न्यर्थिप्रवृत्यनुकूलत्वाभावेन तादृशवैशिष्ट्याविशेषण-वह्नित्वप्रकारकत्वसत्वेन निश्चयपदस्य तत्र व्यभिचारवारकत्वादिति ।

तन्न । निश्चयपदार्थसार्थक्याय विशेषणान्तरप्रक्षेपणस्यानुचितत्वात् । किं चेह वह्नौ द्रव्यमिति प्रमायां व्यभिचारः । तस्यां वह्नित्वस्य वह्निं प्रत्येव विशेषणतयावह्न्यर्थिप्रवृत्यनुकूलवैशिष्ट्यविशेषणवह्नित्वप्रकारकनिश्चयसत्वात् ।

यदपि वक्तुरेवोक्तं वह्नित्वसाक्षात्विशेषणकतया दाहसमर्थाश्रयाविषयका-न्यत्वं निश्चयत्वम् । एवं चात्र वह्नित्वसमवाय इतीत्यत्र वह्नित्वसाक्षा-द्विशेष्यकतया दाहसमर्थाश्रयस्य समवायस्य विषयीकरणेन तद्विषयकान्यत्वस्य विशेषस्य तत्राभावान् न व्यभिचारः । न चैवं गुञ्जायामयं वह्निरिति भ्रमे वह्नित्वसाक्षाद्विशेषणकतया दाहसमर्थभिन्नगुञ्जाविषयकतया तदन्यत्वरूप-निश्चयत्वाभावादेव तत्र व्यभिचारसंवारणे सत्यं तद्वैय्यर्थ्यमिति वाच्यम् । एवमपि तत्तादात्म्यारोपवह्नित्वस्य वह्निं प्रत्येव साक्षाद्विशेषणतया तद्भिन्न-गुञ्जायां साक्षादविशेषणत्वेनोक्तनिश्चयत्वसद्भावेन तद्व्यभिचारवारकत्वादिति ।

तन्न । ‘‘वह्निमानयं पर्वत’’ इत्यत्र वह्नित्वस्य वह्निं प्रत्येव साक्षा-द्विशेषणतया वह्नित्वसाक्षाद्विशेषणकतया दाहसमर्थभिन्नविषयकान्यस्य सत्वेन वह्नित्वाभाववत्पर्वतविशेष्यकतया साध्याभावेन व्यभिचारात् । ‘‘इह वह्नौ द्रव्यत्वम्’’ इह वह्नौ रूपमि’’त्यादिप्रत्यक्षे व्यभिचाराच्च ।

किञ्च प्रयत्नसाध्यतया वह्न्यादानमिव व्यापार्यतया वह्निरपि विषय इति वह्न्यादानमिष्टसाधनमित्यनुमितौ दाहसमर्थविषयकप्रयत्नजनकत्वे सतीत्यादि-विशिष्टहेतुसत्वेन तत्र व्यभिचारः । अयं वह्नित्वसमवायवानित्यत्र दाहसमर्थभिन्नसमवायं प्रति वह्नित्वस्य साक्षाद्विशेषणतया विशिष्टहेत्व-भावेनासिध्यापत्तेश्च न तस्यापक्षत्वमिति वाच्यम् । तत्साधारणनिश्चयत्व-निर्वचनसामर्थ्ये तस्यापक्षत्वोक्त्ययोगात् ।

यदपि तेनैवोक्तं वस्तुतस्त्वित्यादिना वह्नित्वप्रकारकेत्यनेन विशेषण-गततयेदंत्वप्रकारकत्वाप्रकारकत्वं (विशेषणगततयेदं त्वप्रकारकत्वं) विवक्षितम् । तेनेह वह्नौ द्रव्यत्वमिह वह्नौ रूपमित्यत्र विशेषणगत-तयेदंत्वप्रकारकत्वे व्यभिचारः । एवं चेह वह्नित्वं तदभावो वेति संशये वह्नित्वादिदं वृत्तिरिति भ्रमे इह वह्नित्वाभाव इह वह्नित्वसमवाय इत्यादिषु विशेषणगततयेदंत्वप्रकारकेषु व्यभिचारस्यानेनैव वारणादुर्वरितं निश्चयपदं प्रत्यक्षपरम् । तच्च वह्न्युपादानमिष्टसाधानमित्यनुमितौ व्ययः । न चैव-मप्युपनीतेष्टसाधनावगाहिप्रत्यक्षके व्यभिचारः । लौकिकत्वेनापि तद्विशेषणादिति ।

तन्न । वह्निवदिदं गेहमिति प्रत्यक्षे तथापि व्यभिचारात् । प्रत्यक्षतया तत्रापि विशेषणे इदंत्वभानाभ्युपगमे चायं वह्निरित्यादौ वह्नित्वांशेऽपीदंत्व-वैशिष्ट्यभानापत्त्या तदंशे निर्विकल्पकत्वाभ्युपगमविरोधः । गुञ्जावह्न्योरिमौ वह्नी इति भ्रमे व्यभिचाराच्च ।

किं च त्वदुक्तरीत्या कालादिगोचरप्रत्यक्षसाध्यतया वह्निगोचरव्यपार्यतया काष्टादिगोचरं प्रयत्नं प्रति जनकत्वेन दाहसमर्थविषयकप्रत्यक्षजनकत्वेति- विशेषणतयेदंत्वाप्रकारकलौकिकप्रत्ययत्वस्य हेतोस्तत्र व्यभिचारः । न हि साध्यतया वह्निगोचरप्रयत्नजनकमुपादानप्रत्यक्षमेव न तु निमित्तगोचर-प्रत्यक्षमित्यस्ति नियमः । येन काष्टादिगोचरप्रत्यक्षं वह्न्यर्थिप्रयत्नजनकं न स्यात् । किन्तु निमित्तादिसाधारणप्रवृत्तिविषयप्रत्यक्षमात्रमेव । अन्यथा घटध्वंसादिजनको प्रयत्नो मुद्गरादिप्रत्यक्षजन्यो न स्यादिति ।

यदपि निश्चये १यदाभिप्रेतं वह्नित्वाभावाविषयकत्वं वह्नित्वप्रतियोगिक-पदार्थविशेषणतया वह्नित्वाविषयत्वमेव, तेनेह वह्नित्वसमवाय इह वह्नित्वाभाव’’ इत्यादिबुद्धौ वह्नित्वप्रतियोगिकं समवायादिपदार्थं प्रत्येव विशेषणतया वह्निभानात् तत्र व्यभिचारः । यदंशे वह्नित्वप्रकारकत्वं तदंशे साध्यमिति विवक्षितत्वाच्च । ‘‘इह वह्नौ रूपमिह वह्नौ द्रव्यमि’’त्यादौ न व्यभिचारः । तत्र वह्न्यंश एव वह्नित्वप्रकारकत्वसत्वेन तदंशे साध्यव्यापिरूपत्वादिति वदद्भिर् गुञ्जापुञ्जयोरिमौ वह्नी इति भ्रमे व्यभिचारात् । तत्र गुञ्जांशे वह्नित्वप्रकारकत्वेऽपि साध्यासत्वात् । अयं वह्नित्वसमवायवानित्यादिज्ञाने भागासिद्धेश्च । न वा अस्तु वह्नित्वप्रकारनिश्यत्वादित्यत्र स्वार्थे कप्रत्ययः । विरुद्धप्रकारकत्वमेव निश्चयत्वम् । तथा च वह्नित्वप्रकारकत्वविरुद्धाप्रकारकज्ञानत्वादिति तदर्थः । तथा च इह वह्नित्वं तदभावो वा वह्नित्वाभाव इदं वृत्तिर् इह वह्नित्वसमवाय इत्यादिषु वह्नित्ववह्नित्वाभावत्ववृत्तित्वसमवायत्वादीनां वह्नित्वविरुद्धानां प्रकारत्वाद् व्यभिचारः ।

न च वह्निगुञ्जापुञ्जयोरिमौ वह्नी इति यत्र दोषवशाद् वह्निगतमेवेदंत्वं त्वयाराप्यते तत्र साधारणधर्म एवेदंत्वरूपेण भासमानेन हीदन्त्वं तद्व्यक्तिमात्रवृत्तीत्यस्ति नियमः । तथापि तत्र व्यभिचार इति वाच्यम् । ज्ञानपदस्य प्रत्यक्षपरत्वात् । १प्रत्यक्षेव सामग्रीमहिम्ना तन्मात्रवृत्तीदंत्वस्यापि भाननियमादिति । तदपि न गुञ्जायामयं वह्निरिति भ्रमे व्यभिचारस्योक्तदलेनैव वारणे तद्वारणार्थमुपात्तस्य सत्यंतस्य वैय्यर्थ्यापत्तेः । अयं वह्निरित्यादि-पक्षीकृतप्रत्यक्षज्ञानस्यापि वह्नित्वविरुद्धरूपत्वादिप्रकारकत्वेनासिद्ध्यापत्तेश्च । अनुमानादिकज्ञाने हेत्वलाभाच्च ।

यत्तु २नाव्ययपक्षे मधुसूदनोक्तं नोक्तदूषणम् । यत्र चक्षुषा किं शुककुसुमनिचये वह्नित्वेन गृह्यमाणोभिवान्नरूपम् । अवध्यग्रहणान्न-पृथक्त्वादिदोषान्नसाधारणजातिः । अविद्यमानात्वात् कर्मादि न गृह्यते । तत्र तद्व्यक्तिमात्रवृत्तिगुणकर्मजात्यादिरूपे इदंत्वस्य प्रत्यक्षेणाप्यग्रहादुक्तस्थले व्यभिचार एवेति ।

तन्न । माषराशिस्थमयीरूपस्येव किंशुककुसुमरूपस्यापि ग्रहणा-वश्यम्भावात् । न हि महाराजनावयवैर्पटस्येव वह्न्यवयवैः किंशुककुसुमा-नामभिसम्बन्धोऽस्ति प्रदेशविशेषवृत्तित्वादिरूपस्य तदसाधारणधर्मेदन्त्वस्य प्रत्यक्षे भाननियमाच्चेति दिक् ।

यदपि गोपीनाथोक्तम् । स्वाभावाश्रयविशेषणतया वह्नित्वाविषयकत्वं निश्चयपदेनोक्तम् । एवञ्च अत्र वह्नौ वह्नित्वसमवाय इत्यादौ न व्यभिचारः । तत्र वह्नित्वाभावाश्रये समवायादौ वह्नित्वस्य विशेषणत्वात् । न चैवं गुञ्जायां वह्नित्वभ्रमे उक्तविशेषणेनैव व्यभिचारवारणे सत्यंतस्य वैय्यर्थ्यम् । इह वह्नौ द्रव्यत्वमित्यादिज्ञाने व्यभिचारवारकत्वात् । न च तद्दानेऽप्य-प्रतीकारः । वह्नित्वेतरविशेषणत्वस्य दाहसमर्थविशेषणत्वाद् वह्निरुक्तस्थले द्रव्यत्वादिकं प्रत्येव विशेषणत्वादिति ।

तन्न । अयं वह्नित्वसमवायवान् इत्यस्यापक्षत्वापत्तेः । स्वाभावाश्रय-विशेषणतया वह्नित्वाविषयकत्वस्य वह्नित्वाभाववद्विशेष्यकत्वाभाव-रूपसाध्यसिद्धिं विना दुर्ग्रहत्वेनाज्ञानासिद्ध्यापाताच्च । इह वह्नित्वाभाव इति भ्रमे व्यभिचाराच्च । वह्नित्वाभावस्यात्माश्रयापत्त्या स्वानधिकरणत्वेन वह्न्यभावाश्रयविशेषणतया वह्नित्वाविशेषणकत्वस्य सत्वात् ।

न चैवम् उक्तन्यायेनैव साध्यस्यापि सत्वान् न व्यभिचारः । वह्नित्वा-भाव इदं वृत्तिरित्यत्र व्यभिचार इत्यादि पक्षधरविरोधश्चेति वाच्यम् । साध्ये वह्नित्वाभाववदित्यस्य वह्नित्वानधिकरणपरत्वान्नोक्तभ्रमे वह्नित्वेतरा-भावविशेषणतया सत्यन्ताभावादेव न व्यभिचारः । तथा सत्यत्र वह्नित्व-समवाय इत्यत्रापि सत्यन्तेनैव व्यभिचारवारणे स्वावेत्यस्य वैय्यर्थ्यात् । इह वह्नौ वह्नित्वमिति ज्ञाने स्वाभावाश्रयविशेषणतया वह्नित्वाविषयके व्यभिचाराच्च । वह्निगुञ्जयोरिमौ वह्नी इति गुञ्जायां तादात्म्यारोपे व्यभिचाराच्चेति ।

यदपि विशेष्यत्वेन वह्नित्वप्रतियोगिकाविषयत्वनिश्चयत्वम् इह वह्नित्वसमवाय इत्यत्र विशेषतया वह्नित्वप्रतियोगिकभावादिविषयकत्वान् न व्यभिचारः । वह्निर्वह्नित्वसमवायवानित्यस्य विशेषतया तत्प्रतियोगिक-विषयत्वेऽपि विशेष्यतया तत्प्रतियोगिकाविषयकत्वान्नासिद्धिः । वह्नि-त्वेतराविशेषणत्वेन दाहसमर्थस्य विशेषितत्वाद्वा यदंशे वह्नित्वप्रकारकत्वं तदंशे साध्यस्य विवक्षितत्वाद्वा इह वह्नौ द्रव्यत्वमित्यादौ व्यभिचार इति ।

तन्न । वह्नित्वाभाव इदं वृत्तिर् इदं वह्नित्वं तदभावो वा इह वह्नित्वाभाव इह वह्नित्वसमवाय इत्यादिषु दाहसमर्थस्य वह्नित्वेतरविशेष-त्वेन सत्यन्तत्वं तेनैव तद्वारणे निश्चयपदवैय्यर्थ्यम् । अयं वह्नित्व-समवायवानित्यत्र समवायांशे वह्नित्वप्रकारकत्वेऽपि तदंशे साध्याभावेनांश-भेदविवक्षया अप्ययोगाच्चेति । तस्मात्कथं हेतुरिति चेन्न ।

दाहसमर्थविषयकप्रयत्नजनकत्वे सति वह्नित्वेतरविशेषणतया वह्नि-विषयकत्वाभावादिति हेत्वर्थः । एवं चेह समवायः, इह वह्नित्वं, तदभावो वा, इह वह्नौ रूपं, इत्यादिषु वह्न्यादानमिष्टसाधनमित्यनुमितौ च वह्नेर्वह्नित्वेतरसमवायादिविशेषणवह्नित्वेतरेत्यादि विशेषणात्तद्व्यभिचारनिरासः । वह्नित्वप्रकाकत्वे सतीत्यनेनेह वह्नित्वमित्यत्र तन्निरासः ॥

दाहसमर्थेत्यादिना च गुञ्जायामयं वह्निरिति भ्रमे तन्निरासः । तादात्म्यारोपे वह्नेर्वह्नित्वेतरपुरोवर्तिविशेषतया भानाद्विशेष्यभावादेव न व्यभिचारः । तथापि संसर्गारोपे वह्नित्वेतरपुरोवर्तिविशेषणतया वह्निविषय-कत्वाभावेन व्यभिचारः । न च वह्निगुञ्जयोरिमौ वह्नी इति संसर्गारोपे व्यभिचारः । अयं वह्निरित्यादिप्रत्यक्षस्य रूपरूपत्वादिगोचरतया वह्नित्वाभाववृत्तौ रूपस्य रूपत्वाभावापेक्षया विशेष्यत्वेन भानाद्वह्नित्वाभाव-वद्विशेष्यको नेत्येतावन्मात्रसाधने बाधापत्त्या तद्वारणाय वह्न्यभाववन्मात्र-विशेष्यको नेति साध्यावश्यकविशेषणीयतया तादृशसाध्यस्योक्तभ्रमेऽपि सत्वेन व्यभिचाराप्रसक्तिः । इह वह्नौ वह्नित्वमित्यत्रापि वह्नित्वापेक्षया वह्नेरपि विशेष्यतया विवक्षितसाध्यसत्वादेव न व्यभिचारः ।

वस्तुतः वह्नित्वाभाववद्विशेष्यकत्वाभाव एव साध्यः । अयं वह्निरिति प्रत्यक्षस्य रूपादिविशेष्यकत्वेऽपि पक्षतावच्छेदकवह्नित्वप्रकारकत्वा-वच्छेदेनोक्तसाध्यस्य तत्रापि सत्वेन बाधाप्रसक्तेः । न चैवमिमौ वह्नी इत्युक्तभ्रमे व्यभिचारः । दाहसमर्थमात्रविषयकप्रयत्नजनकत्वे सतीति सत्यन्तार्थात् । न चैवमपीमौ वह्निवह्निसमवायाविति समूहालम्बने वह्नित्वेतरसमवायविशेषणतयापि वह्निविषयके हेत्वसिद्धिरिति वाच्यम् । तस्यापक्षत्वेऽप्यक्षतेः । न च सातत्साधारणहेतूकरणसामर्थ्यं दोषः । सिसाधयिषितसाध्यस्य तत्रासत्त्वेन तद्व्यावृत्तेरेवोचितत्वात् ।

परमार्थतस्तु दाहसमर्थविषयकप्रयत्नजनकत्वं यदंशे तदंशे साध्यसत्वं विवक्षितम् । एवं चोक्तसमूहालम्बने न व्यभिचारः । अत एवेह वह्नौ वह्नित्वमित्यत्रापि न व्यभिचारः । इह वह्नावित्यंश एव दाहसमर्थविषयक-प्रयत्नजनकत्वे तदंशे साध्यस्यापि सत्वात् । इह वह्नित्वसमवाय इत्यादिशाब्दज्ञाने व्यभिचारः । निश्चयपदं च सार्थकमिति संक्षेपः ।

यद्वाऽत्रापि साध्ये दाहसमर्थविषयकप्रयत्नजनकत्वादिनिर्वाहोक्त एव हेतुः । अत एवेह हेत्वन्तरं नोपात्तम् । न चैवमत्र वह्नित्वमिति ज्ञाने व्यभिचारः । अयं वह्निर्मे भूयादितीष्टतावच्छेदकप्रकारिकाया एवेच्छादर्शनेन इह वह्नित्वं मे भूयादितीच्छायाः क्वाप्यदर्शनेन चेच्छासमानप्रकारक-ज्ञानस्यैवेच्छाद्वारा प्रवर्तकत्वेनात्र वह्नित्वस्य चातथात्वेनाप्रवर्तकत्वात् । जनकीभूतज्ञानेष्टतावच्छेदकप्रकारकत्वाभावे तज्जन्येच्छायां तत्प्रकारकस्या-कस्मिकत्वापातात् । इच्छास्वाभाव्यादेव तथाभ्युपगमस्य, सति गत्यन्तरे अयोगात् ।

न चैवमपि वह्न्यादानमिष्टसाधनमित्यनुमितौ व्यापार्यतया वह्निगोचर-प्रयत्नजनिकायां व्यभिचारः । लौकिकप्रत्यक्षत्वेनापि विशेषणात् । काष्ठादिगोचरप्रत्यक्षस्योद्देश्यतया दाहसमर्थविषयकप्रयत्नजनकत्वस्य विवक्षितस्य तत्राभावान् न व्यभिचारः । न च वह्निगुञ्जयोरिमौ वह्नी इत्यत्र व्यभिचारः । यदंशे हेतुसत्वं तदंशे साध्यस्यापि सत्वात् । अत एव वह्निमद्गेहमित्यत्रापि न व्यभिचार इत्यलं विस्तरेण ॥

॥ न च घटादीति ॥ न चैवं घटादावेव साध्यप्रसिद्धेरप्रसिद्ध-साध्यकत्वोक्त्ययोगः । अप्रामाण्यस्य अयोग्यत्वेन तत्प्रतियोगिकाभावस्यापि घटादावनुमेयतया तत्रापि १साध्याप्रसिद्धोक्तिरीत्यैव तत्राप्यनुमानप्रवृत्ते-र्वाच्यतया प्रथममेव वह्न्यादिज्ञानेन तदनुमानात् । न चैवं घटादेर्निश्चित-साध्यवत्वाभावाद् व्यावृत्तरूपासाधारणोक्तिरयुक्ता । लक्षणातिरिक्त-साध्यवह्न्यावृत्तित्वमात्राभिप्रायेण तदुक्तिसम्भवादिति घटादौ साध्यत्वेऽपि तत्वज्ञानाभावात् । आवृत्तत्वरूपासाधारण्यज्ञानाभावो नानुमानप्रवृत्तिर-विकलेति दोषे सत्यपि प्रकृतेऽसाधारण्यस्य दोषत्वमभ्युपेत्याह ॥ तस्येति ॥ अनुकूलतर्कादिना पक्ष एव व्याप्तिग्रहदशायां तस्य दोषत्वादिति भावः ।

यद्वा घटादौ निर्विषयकत्वादिना प्रथममेव वह्नित्वाभाववद्विशेष्यकत्वा-भावरूपसाध्याव्यतिरिक्त सूत्रासाधारण्यमाशङ्क्य तन्निराकरणमेतदिति । अप्रसिद्धसाध्यकत्वोक्तिस्तु प्रकृतहेतावन्वयव्याप्तिग्रहासम्भवाभिप्रायेणेति ध्येयम् ।

ननु न व्यधिकरणता । वह्नित्वप्रकारकज्ञानस्य वह्नित्ववद्विशेष्यक-योरन्यतरनियमेन वह्नित्वाभाववद्विशेष्यकत्वाभावः सिध्यन् पक्षधर्मताबला-द्वह्निमद्विशेष्यकत्वमादायैव पर्यवस्येदित्याशङ्क्य निषेधति ॥ न चेति ॥ व्याप्त्येति ॥ यद्यपि व्यतिरेकिणि व्यापकतावच्छेदकावच्छिन्नत्वेनोपस्थापितं १तन्नागमकत्वात्तथाप्यन्वेति व्यापकत्वावच्छेदकावच्छिन्नविषयत्वनैय्यत्य-वह्न्यतिरेकेण हेत्वभावविषययोस्सम्भवयेवान्वयापत्त्या व्याप्याभावप्रतियोगि-विषयकत्वदृष्टान्ततया तदुपादाननैय्यत्यस्य सत्वेन पक्षधर्मताबलादपि तस्यैव पक्षीयत्वरूपविशेषः सिध्येत् । न तथाभूतं वह्नित्ववद्विशेष्य-कत्वमिति दृष्टान्ततया तदुपादानम् । तस्याः पक्षधर्मतायाः । न चेश्वरानुमाने लाघवोपनीतकर्त्रैक्यमिवातथाभूतं प्रामाण्यं भविष्यतीति वाच्यम् । प्रामाण्यस्याप्रसिद्धत्वेन तद्वदिहोपनयासम्भवात् । प्रसिद्धौ तु तस्यैव साधनसम्भवादिति भवः ।

न्यायदीपः

‘‘वयं तु ब्रूमःप्रथममप्रामाण्याभाव एव प्रामाण्यं व्यतिरेकिणा साध्यं’’ इत्यादिनोक्तं मणिकृदभिमतं पक्षमाशङ्कते ॥ अथेति ॥ भ्रमव्यावृत्यर्थमय-मित्युक्तिः । द्रव्यत्वादिना वह्न्यनुभवेऽबाधाय वह्नित्वेनेत्युक्तिः । ‘‘वह्नित्वाभाववति वह्नित्वप्रकारको न’’ इति मण्युक्तसाध्यस्य यज्ञपति-टीकानुरोधेनार्थोक्तिर्वह्नित्वप्रकारकत्वे सतीत्यादि सत्यन्तं न नञर्थभूता-भावविशेषणम् । एवं च अत्र वह्नित्वमिति ज्ञाने वह्नित्वाभाववद्वह्नित्व-विशेष्यकत्वसत्वेपि विशेषणाभावप्रयुक्तविशिष्टाभावरूपसाध्यसत्वान्न व्यभिचारः । अत एव मणौ ‘‘दाहसमर्थविषयकप्रयत्नजनकत्वे सति वह्नित्वप्रकारकनिश्चयत्वात्’’ इत्यादिहेतूक्तावपि ‘‘वह्नित्वाभाववति वह्नित्वप्रकारकत्वादिसमर्थप्रवृत्तिजनकत्वाभावयोः’’ इत्यग्रे तदीयग्रन्थानु-रोधात्समर्थेत्यादिहेतूक्तिः । २अन्यथा साध्ये विशेष्यवैयर्थ्यात् । वह्निविषयकेति समर्थप्रवृत्तिर्विशेषणीया । तेन न घटादिज्ञाने व्यभिचारः । एवमप्यत्र वह्नित्वमिति ज्ञाने व्यभिचार इति चेत् । एवं तर्हि वह्नित्व-प्रकारकत्वे सतीति विशेषणीयम् ।

ननु प्रामाण्यनिश्चयाभावे कथंप्रवृत्तिरित्यत आह ॥ तत एवेति ॥ अप्रामाण्याभावज्ञानत इत्यर्थः । प्रामाण्यनिश्चयस्यापि तन्मते तत्रैवोपयोगा-दिति भावः ॥ अभावसाध्यक इति ॥ व्याप्तिज्ञानार्था हि साध्यप्रसिद्धिः । व्याप्तिश्च साध्याभावहेत्वभावयोरेव । तथाच तयोरेव ज्ञानमावश्यकम् । तत्र च साध्याभावोऽप्रामाण्यमेव । तच्च भावरूपं साध्यभूतस्वाभावरूपप्रतियोगि-ज्ञानं नापेक्षते इति तदप्रसिद्धावपि यत्राप्रामाण्यं तत्र समर्थप्रवृत्तिजनकत्वा-भाव इति हेत्वभावेन व्याप्यत्वग्रहसम्भवादिति भावः ।

वह्नित्वप्रकारकत्वे सतीति विशेषणवैयर्थ्यं मन्वानः पक्षधराद्युक्त-साध्यनिष्कर्षमाह ॥ यद्वेति ॥ कथं तर्हि तदभाववति तत्प्रकारकत्वरूपा-प्रामाण्यस्याभावः सिद्ध्येदित्यत आह ॥ पक्षेति ॥ उक्तहेतोर्वह्नित्व-प्रकारकानुभवरूपपक्षे वह्नित्वप्रकारकत्वविशिष्टवह्वित्वाभाववद्विशेष्यकत्व-रूपाप्रामाण्यनिषेधो विशेषणाभावे बाधाद्विशेष्याभावमादायैव विशिष्टनिषेधे पर्यवस्यतीति तन्मात्राभावसाधने विशिष्टाभावः सिद्ध्यतीत्यर्थः । अत्रापि पूर्ववद्धेतुविशेषणं ध्येयम् । तेन न प्रागुक्तव्यभिचारः ॥ घटादिरूपात्स-पक्षादिति ॥ तस्य निर्विषयकत्वेन तत्र साध्यसत्वनिश्चयादिति भावः ॥ अनित्येति ॥ अनुकूलतर्काभाववेलायामेव दोषत्वादिह च हेतूच्छित्तिरूप-विपक्षबाधकस्य अनुकूलतर्कस्य सत्वेनादोषत्वादित्यर्थः ॥ व्यधिकरण-त्वादिति ॥ अर्थान्तरत्वरूपनिग्रहस्थानापत्तेरिति भावः । इदंप्रमेयमित्यादौप्रमेयत्वाभावाप्रसिद्ध्या तद्घटिताप्रामाण्याभावानुमानासम्भवाच्चेत्यपि ध्येयम् ।

ननु विरुद्धप्रकारद्वये तदभाववद्विशेष्यकत्वाभावे तद्वद्विशेष्यकत्वमादायैव पर्यवसानम् । अन्यथा हेतोः पक्षसम्बन्धो न घटत इत्याशयेन ‘‘तद-भाववति तत्प्रकारकत्वव्यतिरेकः सिद्ध्यंस्तद्वति तत्प्रकारकत्वमादाय सिद्ध्यति । तृतीयप्रकाराभावात्’’ इति मण्युक्तमाशङ्क्य निषेधति ॥ नचेति ॥ व्याप्त्येति ॥ यद्धर्मावच्छिन्ननिरूपितव्याप्तिर्यद्धर्मावच्छिन्नस्य गृहीता तद्धर्मावच्छिन्नस्य पक्षधर्मतया तद्धर्मावच्छिन्नस्यैव सिद्धिः स्यात् । न तु प्रामाण्यस्येत्यर्थः ।

न चायं नियमोऽन्वयिनि हेतौ न व्यतिरेकिणीति शङ्क्यम् । व्यतिरेक-सहचारेणान्वयव्याप्तिर्गृह्यत इति मताभिप्रायेण वा व्यतिरेकिण्यपि हेत्वभावव्याप्याभावविषयत्वनैयत्याभिप्रायेणवैवमुक्तिः ॥ तस्या इति ॥