०७ परतस्त्वेऽनवस्थोक्तिः

किञ्चाप्रामाण्यशङ्काभावस्यप्रवर्तकत्वेपि..

परतस्त्वेऽनवस्थोक्तिः

धर्म्यज्ञानदिनाप्रामाण्यशङ्काभावसिद्धिखन्डनम्

तर्कताण्डवं

किञ्चाप्रामाण्यशङ्काभावस्यप्रवर्तकत्वेपि तदर्थमेव प्रामाण्यनिश्चयो वाच्यः । ननु धर्म्यज्ञानादिनापि शङ्काभावो युक्तः । न हि ज्ञानं ज्ञातं सदेवप्रवर्तकम् । सत्यप्यर्थज्ञाने तदज्ञानेनाप्रवृत्यदर्शनादिति चेन्न१ । न तावद्धर्म्यज्ञानं युक्तम् । योग्यस्य धर्मिणो ज्ञानस्य मनस्संयुक्तात्म-समवायरूपसम्प्रयोगवत्वेनैवोत्पत्या ज्ञानत्वेन ज्ञानज्ञानसामग्र्याः सत्वात् ।

युक्तिरत्नाकरः

एवं बह्वायाससाध्ययागादिप्रवृत्तौ प्रामाण्यनिश्चयस्यैव प्रवर्तकत्वा-त्तत्परतस्त्वेऽनावस्थाद्वयापत्तिरित्यभिधाय प्रामाण्यशङ्काशून्यार्थनिश्चयस्य तच्छङ्काभावस्य वा प्रवर्तकत्वाङ्गीकारेप्युक्तानवस्थाद्वयापत्तिरित्याह ॥ किञ्चेति ॥ अस्य परेणेति शेषः । एवं स्वमते परीक्षया अप्रामाण्य-शङ्कानिरासेपि २नाप्युपपत्तिरिति द्रष्टव्यम् । ननु न कार्याभावसत्व-प्रतिबन्धकसत्वप्रयुक्त एव कारणाभावादपि तत्सम्भवादित्याशङ्कते ॥ नन्विति ॥ कोट्यस्मरणादिरादिशब्दार्थः । ननु धर्म्यज्ञानात्संशयाभाव इत्युक्तं, ज्ञातस्यैव ज्ञानप्रवर्तकत्वात् प्रवृत्यनुरोधेन तत्र धर्मिज्ञानस्य वाच्यत्वादित्यत्राह ॥ न हीति ॥ ज्ञानज्ञाने स्वतन्त्रान्वयव्यतिरेकयोर-भावसूचनार्थोऽपिशब्दः । धर्मिणो ज्ञानस्याभावो हि योग्यत्वाभावाद्वा सन्निकर्षाभावाद्वा । स्वात्मकृतेन तद्द्वयमपीति दर्शयितुं योग्यस्येति सम्प्रयोगवत्वेनैवोत्पत्येति चोक्तम् । न च ज्ञाननिरासाभिप्रायेण वा तदभ्युपगमेऽपि प्रतियोगिरूपविशेषणज्ञानमात्रेणाभावत्वविशिष्टा-भावज्ञानवद्विषयरूपविशेषणज्ञानमात्रेणैव ज्ञानत्वविशिष्टज्ञानस्यानु-भवानुसारेणैवाभ्युपगन्तव्यत्वाभिप्रायेण वा तदुक्तिः । न हि ज्ञानत्व-निर्विकल्पकाभावापराधेन घटविषयकवानहमिति अनुव्यवसायः क्वापि दृश्यते । किन्तु घटविषयकज्ञानवानित्येवेति । एवं च सामग्रीनैयत्येनैव सुखादि-वज्ज्ञानस्यापि ज्ञातैकसत्वमुपेयम् । सुखदुःखयोरपि सोत्पत्तिक्षणे सामग्रीसत्वादेव हि ज्ञातैकसत्वं सुखादाविव ज्ञानादावपि कदापि कस्यापि संशयविपर्ययादर्शनेन योग्यताविशेषगुणत्वावच्छेदेनैव ज्ञातैकसत्वावधारणादिति भावः ।

न्यायदीपः

एवं प्रामाण्यनिश्चयस्यप्रवर्तकत्वसाधनेन तन्निश्चयस्य परतोज्ञाय-मानत्वे१ऽनवस्थाद्वयमुक्त्वा अप्रामाण्याशङ्काशून्यस्यार्थनिश्चयस्यप्रवर्तकत्वेपि तदर्थमेव प्रामाण्यनिश्चयस्यावश्यकत्वादनवस्थाद्वयं दुर्वारमेव परतस्त्वपक्षे इत्याह ॥ किञ्चेति ॥ यद्वा प्रामाण्यनिश्चयस्यप्रवर्तकत्वपक्षे तस्यावश्य-वेद्यत्वेप्यप्रामाण्यशङ्काशून्यार्थनिश्चयस्यप्रवर्तकत्वपक्षे तदनावश्यकत्वान्ना-नवस्थेत्यत आह ॥ किञ्चेति ॥प्रवर्तकत्वेपीति ॥प्रवर्तकार्थनिश्चय-सहकारित्वेपीत्यर्थः । यद्यपि सिद्धान्ते परीक्षयाऽप्रामाण्यशङ्कानिवृत्तावेव साक्षिणा प्रामाण्यनिश्चयेन प्रामाण्यनिश्चयस्याप्रामाण्यशङ्काभावार्थत्वं नास्ति । ‘‘सा च बुद्धिदोषमात्रं निरस्यति । तस्मिन्निरस्ते साक्षी स्वमहिम्नैव प्रामाण्यं गोचरयति’’ इति तत्वनिर्णयटीकाद्युक्तेः । तथापि ‘‘यत्र तु प्रामाण्य-ज्ञानेऽप्रामाण्यशङ्कया प्रामाण्यसंशयस् तत्र प्रामाण्यज्ञाने प्रामाण्यनिश्चयादेव प्रामाण्यनिश्चयः’’ इति मण्युक्तेस्तंप्रत्येतदापादनमित्यदोषः ।

ननु तच्छङ्काभावः प्रामाण्यनिश्चयरूपप्रतिबन्धादिव स्वहेत्वभावादपि सम्भवतीति भावेन ‘‘प्रामाण्यज्ञानस्य ज्ञानाभावेन कोटिस्मरणाभावेन विषयान्तरसञ्चारेण वा प्रामाण्यनिश्चयानवश्यम्भावात्’’ इति मण्याद्युक्त-माशङ्कते ॥ नन्विति ॥ तथात्वेप्रवृत्तिर्न स्यादित्यत आह ॥ न हीति ॥ ‘‘ज्ञानं ह्यबुभुत्सितग्राह्यतया तीव््रासंवेदनं’’ इत्यादिप्रथमपादीयसुधावाक्यं विवृण्वन्नाह ॥ न तावदिति ॥ कोट्यस्मरणं चायुक्तमिति कल्पापेक्षया तावच्छब्दः । अज्ञानं हि तदर्थयोग्यत्वाभावेन वा सन्निकर्षादिसामग्र्यभावेन वा सहकारिविरहप्रयुक्तसामग्र्यभावेन वाप्रतिबन्धेन वेति चतुर्धा । आद्यद्वयं नप्रकृत इत्याह ॥ योग्यस्येत्यादिना ॥ मनस्संयुक्तेत्याद्युक्तिः पररीत्या । सिद्धान्ते त्वात्मसंयुक्तमनस्समवायेत्यर्थः । समवायस्तादात्म्यं ज्ञेयम् ।

सुखाद्यनुभवरूपसाक्ष्याशयेन वायं ग्रन्थः सिद्धान्ते योज्यः । सत्यपि धर्मिज्ञाने साधारणधर्मादर्शनादसन्देह इति शङ्कापनोदायोक्तम् ॥ ज्ञानत्वेन ज्ञानज्ञानेति ॥

न च ज्ञानत्वनिर्विकल्पकविलम्बात्तदभावः । निर्विकल्पकस्याप्यनुत्पत्तौ बीजाभावान्निरसिष्यमाणत्वाद्वेति भावः । एतेन ‘‘सुखादिवत्सत्यां सामग्र्यां वेद्यत्वापरिहारात्’’ इति तत्वनिर्णयटीका विवृता ।


नच ज्ञानज्ञाने बुभुत्सा हेतुः..

विशेषदर्शनेनाप्रामाण्यशङ्काभावसिद्धिखन्डनम्

तर्कताण्डवं

नच ज्ञानज्ञाने बुभुत्सा हेतुः सा चासार्वत्रिकीति वाच्यम् । ज्ञानस्य सुखादिवद्योग्यात्मविशेषगुणत्वेनाबुभुत्सितग्राह्यत्वात् । बुभुत्साया ज्ञानरूपधर्मिज्ञानसाध्यत्वेनानवस्थानाच्च । वर्तमानस्वीय-ज्ञाने बुभुत्साया अदर्शनाच्च ॥

न च धर्म्यज्ञानरूपफलात्सुखादिसामग्री तज्ज्ञानसामग्री वा १ज्ञानप्रतिबन्धिका कल्प्यत इति वाच्यम् । धर्म्यज्ञानस्य अद्याप्य-सिद्ध्यान्योन्याश्रयात् । ज्ञानस्याज्ञाने तत्र कदाचित् संशयाद्यापाताच्च ।

कोट्यस्मरणं चायुक्तम् । ज्ञानत्वरूपसाधारणधर्मदर्शनस्य यागादौ निष्कम्पप्रवृत्यर्थं प्रामाण्यादिरूपविशेषबुभुत्सायाश्च सत्वेन तत्स्मरण-सामग्र्याः सत्वात् । न च विषयान्तरसञ्चारादसन्देह इति युक्तम् । यागादौ निष्कम्पप्रवृत्तिहेत्वसन्देहप्रयोजकविशेषावधारणाय विषयान्तर- सञ्चारस्यैव निरोद्धव्यत्वात् । न हि प्रेक्षावन्तो बहुवित्तव्ययायाससाध्ये साधनत्वानिश्चयेपि विषयान्तरसञ्चारसम्पादितासन्देहमात्रेण चैत्यवन्द-नादौप्रवर्तन्ते ।

किञ्चोक्तरीत्या सम्पन्नसामग्रीकेण कप्तेन प्रामाण्यनिश्चयेनैवा-सन्देहसम्भवे कथं विषयान्तरसञ्चारादिकल्पनम् ।

अपि च विषयान्तरासञ्चारेपि सुखादिज्ञानप्रामाण्ये नियमेनासन्देहो दृश्यत इति नासावसन्देहहेतुः । अन्यथा सुखादिकमपि सुखत्वादिना नावश्यवेद्यम् । तत्रासन्देहस्तु धर्म्यज्ञानादिनेति स्यात् । तत्र सामग्रीसत्वादवश्यवेद्यतेति चेत्समं प्रामाण्येपि ।

युक्तिरत्नाकरः

ननु बुभुत्साया अपि ज्ञानग्रहहेतुतया तदभावादेव न ज्ञानग्रहस्तत्राह ॥ १नवेति ॥ भविष्यादौ स्वज्ञानपरज्ञाने च संशयादिदर्शनेन बुभुत्सायाः सत्वेऽपि स्ववृत्तिवर्तमानज्ञाने बुभुत्साननुभवपराहतेत्याह ॥ वर्तमानेति ॥ नन्विष्टानिष्टविपर्ययदर्शनादिसमनन्तरमेव सुखदुःखयोरुत्पत्त्या तद-व्यवहितोत्तरक्षणे च तयोः साक्षात्कारस्यैव दर्शने तत्सामग्य्रोरेव प्रतिबन्ध-कत्वस्य वाच्यतया तदभावघटितसामग्रीविरहादेव ज्ञानग्रहस्तत्राह ॥ नचेति ॥ विषयदर्शनानुव्यवसायस्योक्तरीत्या सम्भृतसामग्रीकतया तदनन्तरमपि सुखाद्युत्पत्तिसम्भवेन तत्र धर्मिज्ञाननिश्चयादन्योन्याश्रय इति परिहरति ॥ धर्मीति ॥ ननु सुखतत्साक्षात्कारादिसामग्य्रा अनुव्यवसाय-स्रामग्रीतः प्रबलात्तत्र सुखादिकमेव ज्ञायते न त्वनुव्यवसायस्तत्राह ॥ ज्ञानज्ञान इति ॥ सुखादिहेतुविषयदर्शनादौ सर्वत्र सुखादिसामग्रीनियमेन प्रतिबन्धकतया तदनुव्यवसायसम्भवे संशयाद्यापातेन सुखादिसामग्रीतोऽनु-व्यवसायसामग्य्रा एव प्राबल्यमागतमिति भावः । अभ्युपेत्य चेदमुक्तम् । वस्तुतः नित्यव्यवसायादिगोचरनित्यसाक्ष्यनभ्युपगमे सुखसाक्षात्कारा-विशिष्टदर्शनेन सुखादेर्हेतुताग्रह एव न स्यात् । तेषां युगपदुपस्थित्यभावा-त्सुखादिसामग्रीबलवत्वेन सुखादिजननेन तावदिष्टादर्शनास्थितिर् ज्ञानत्वसुखत्वगोचरनिर्विकल्पकोत्पत्तिदशायामेव तज्ज्ञानानवस्थानादेवं ज्ञानेच्छाप्रयत्नादिष्वपि कार्यकारणभावग्रहानुपपत्तिः ।

ननु यत्रेष्टतावच्छेदकप्रकारकज्ञानानन्तरं कस्मादपि हेतोस्तदिच्छाभावेना-प्रवृत्तिस्तत्र तदनुव्यवसायसम्भवादिव यत्रेच्छायामपि तदाकृत्यसाध्यत्वा-ज्ञानात्प्रवृत्यनुत्पत्त्याविच्छाज्ञानासम्भवादिव सामान्यलक्षणेष्टतावच्छेदक-ज्ञानत्वावच्छिन्नस्य तादृगुपस्थितेच्छात्वावच्छिन्नस्य च भानतया तज्जन्य-स्मृत्युपनीतयोस्तयोः कार्यकारणग्रहानुपपत्तिः । यत्रेष्टतावच्छेदकप्रकारक-ज्ञानानन्तरं कस्मादपि हेतोस्तदिच्छाभावेन प्रवृत्यसम्भवत्येव, एवमिच्छा-प्रयत्नयोरपि तद्ग्रहः सम्भवत्येवेति चेन्न । एवमिच्छापूर्ववृत्तित्वस्य ज्ञाने ज्ञानानन्तर्यस्य चेच्छायां सामान्यलक्षणयापि तदनुव्यवसायेनाविषयीकृतया पूर्वापराभावस्य तन्नियमस्य चाग्रहे कार्यकारणभावस्य साक्षिरूपनित्यज्ञान-मन्तरेण सर्वथा ग्रहासम्भवात् । एवं नाधारानुसन्धानानुपपत्तिरपि तत्र मानम् । मध्येऽनुव्यवसायकल्पने चाधारत्वानुपपत्तेः । एवं चोत्पन्नस्य साक्षिणा विषीकरणनियमेन धर्म्यज्ञानसम्भव एवेति ध्येयम् ।

॥ यागादाविति ॥ ननु ज्योतिष्टोमादिवाक्याद्यागादेः स्वर्गसाधनत्वादि-रूपवाक्यार्थज्ञानानन्तरं तत्र प्रामाण्यज्ञाने सति ज्ञायमानाया बुभुत्सायाः कथं तद्धेतुकोटिस्मरणहेतुतेति चेन्न । साधारणधर्मदर्शनस्य सत्वेनेति तारकहेतोर्बुभुत्सायाः सत्त्वेनेति ज्ञापकहेतोश्चोक्त्या सामग्य्राः सामग्याः सत्त्वादवगमाच्चेत्यर्थात् ।

यद्वा यागादाविष्टसाधनत्वज्ञानानन्तरस्य सामान्यतो ज्ञाते संशयं विनापि प्रामाण्यादिरूपविशेषण बुभुत्सायाः सत्वेन तदवधारणार्थं प्रवृत्तस्य कोट्यन्तरव्यवच्छेदेन प्रामाण्यावधारणस्य कर्तव्यताबुभुत्सानन्तरं कोटिद्वय-स्मरणस्यौचित्यावर्जिततया तथोक्तिः । साधारणधर्मदर्शनान्तरं कोटिस्मरण-प्रतिबन्धकविषयान्तरसञ्चाराभावप्रदर्शनार्थं तदुक्तिरित्याहुः । प्रामाण्याप्रामाण्य-रूपकोटिद्वयसहचरितत्वेनाग्रहे साधारणधर्मदर्शनेऽपि कोटिस्मृत्या कारणा-भावादेव संशयानुभवो नसामग्रीनैय्यत्यस्योपपादितत्वेन तन्नियमप्रयुक्त एव संशयाभाव इत्यत्र तात्पर्यम् ॥ विषयान्तरेति ॥ प्रामाण्यावधारणाय विषयान्तरसञ्चारनिरोधे उक्तरीत्या धर्मिज्ञानकोटिस्मृत्योः सत्योर्निर्णायकाव-तारादौचित्यावर्जितसंशय इति भावः । विषयान्तरसञ्चारसम्पादितासन्देह-स्यान्वयव्यभिचाराच्च न प्रवर्तकत्वमित्याह ॥ न हीति ॥ सुखादिज्ञाने प्रामाण्यसन्देहस्य नियतस्य नियतप्रामाण्यनिश्चयत्वं प्रयोज्यत्वमेव युक्तम् । तत्त्वमिति नियतविषयान्तरस्य सञ्चारप्रयोज्यत्वमित्याह ॥ अपि चेति ॥ एवं प्रामाण्यसन्देहस्य न धर्मिज्ञानादितत्सामग्रीविरहप्रयोज्यता अपि तु प्रामाण्यनिश्चयप्रतिपाद्यतेत्युपपाद्य प्रामाण्यस्यावश्यवेद्यत्वं तदनङ्गीकारे बाधकमाह ॥ अन्यथेति ॥

न्यायदीपः

सहकार्यन्तरविरहान्न ज्ञानज्ञानमिति तृतीयमाशङ्क्य निराह ॥ न चेति ॥ अनवस्थानाच्चेति ॥ बुभुत्सा हीच्छाविशेषः । तस्याः स्वविषय-ज्ञानसाध्यत्वाद् बुभुत्साहेतुज्ञानस्य धर्मिज्ञानविषयकस्य तद्विषयबुभुत्सा-साध्यत्वात् सा च तद्विषयज्ञानसाध्येति पूर्वपूर्वज्ञानव्यक्तिबुभुत्साव्यक्ति-परम्परयाऽनवस्थानाच्चेत्यर्थः । भविष्यदादिज्ञानज्ञाने कथञ्चिद् बुभुत्सासम्भवेपि न वर्तमाने । तथाच तत्र व्यभिचारान्न क्वापि सा ज्ञानज्ञानहेतुरित्याह ॥ वर्तमानेति ॥ स्वीयेति ॥ यद्यपि स्वस्येदमित्यर्थेऽणि कृते स्वशब्दस्य द्वारादिषु पाठेन ‘‘द्वारादीनाञ्च’’ इतिसूत्रेण वकारात्पूर्वमैजागमेनौकारे सति सौवेति भाव्यम् । तथापि स्वस्मै हितमित्यर्थे ‘‘प्राक् क्रीताच्छ’’ इति छप्रत्यये स्वीयेति साध्विति ज्ञेयम् ।

चतुर्थं निराह ॥ न च धर्म्यज्ञानेति ॥ व्यवसायरूपधर्मिणोऽ-ज्ञानेत्यर्थः ॥ ज्ञानस्याज्ञान इति ॥ अननुव्यवसाय इत्यर्थः ॥ संशयेति ॥ ज्ञानं वृत्तं न वेत्येवं संशयेत्यर्थः । एतेन ‘‘न च जिज्ञासाया-मेव अनुभवोऽनुभूयते’’ इत्यादिभाष्यटीका विवृता ध्येया ।

कोट्यस्मरणेननेत्येतन्निराह ॥ कोट्यस्मरणं चेति ॥ ‘‘ज्ञाने हि ज्ञाते तत्प्रामाण्यानुपलब्धौ कथं संशयो न स्यात्’’ इति तत्वनिर्णयटीकां विवृण्वान आह ॥ ज्ञानत्वेति ॥ मण्युक्तमन्यदपि निराह ॥ न चेति ॥ परकीयप्रवृत्तिहेतुभूतः शङ्काभावः प्रामाण्यनिश्चयहेतुक एव । न तु विषयान्तरसञ्चारहेतुक इति तु दुर्ज्ञानमित्यत आह ॥ किञ्चोक्तरीत्येति ॥ बाधोद्धारग्रन्थोक्तरीत्या सम्पन्नसामग्रीकेण प्रामाण्यनिश्चयप्रवर्तकत्ववादोक्त-रीत्या कप्तेनेत्यर्थः । व्यभिचाराच्च असन्देहहेतुरेवायं न भवतीत्याह ॥ अपि-चेति ॥ अन्यथेति ॥ कप्तासन्देहहेतुत्यागेनाकप्तहेतुकल्पन इत्यर्थः ॥ सममिति ॥ अत्रापि सामग्र्या बाधोद्धारग्रन्थ उपपादितत्वादिति भावः ।