न चाप्रयोजकाः स्वतस्त्वहेतवः
प्रामाण्यनिश्चयस्यप्रवर्तकत्वम्
स्वतस्त्वहेतूनां सामान्यतोप्रयोजकत्वपरिहारः
तर्कताण्डवं
न चाप्रयोजकाः स्वतस्त्वहेतवः । परतस्त्वे प्रामाण्यज्ञानस्यापि प्रामाण्यं संवादादिलिङ्गजन्यानुमितिरूपेणान्येन ज्ञानेन ग्राह्यम्, एवं तत्प्रामाण्यमप्यन्येनेति फलमुख्येका अनवस्था । एवं प्रामाण्यस्यानु-मेयत्वे लिङ्गव्याप्त्यादिज्ञानप्रामाण्यानिश्चयेऽसिद्ध्यादिप्रसङ्गेन तन्निश्चयार्थं लिङ्गाद्यन्तरं, तज्ज्ञानप्रामाण्यनिश्चयश्च स्वीकार्यः, एवं तत्र तत्रापीति कारणमुख्यान्यपीत्यनवस्थाद्वयापत्तेः ।
न च यत्र दोषशङ्कादिरूपाकाङ्क्षा तत्रैव संवादापेक्षेति नानवस्थेति वाच्यम् । तथात्वेप्रतिबन्धनिरासार्थमेव संवादापेक्षा न तु प्रामाण्य-ग्रहार्थमिति मन्मतप्रवेशापत्तेः । उक्तं हि भगवत्पादैः ‘‘आकाङ्क्षाया एव बुद्धिदोषात्मकत्वात्’’ इति ।
युक्तिरत्नाकरः
॥ न चाप्रयोजका इति ॥ यद्यपि प्राचीनानुमानेषु न चाद्यो हेतुर-प्रयोजकः नोक्तहेतुत्वप्रयोजकत्वमाशङ्क्य निराकृतम् । तथापि प्रयुक्ताप्रयुक्त-साधारणसकलस्वतस्त्वानुमानेष्वप्रयोजकतामाशङ्क्य निराक्रियते । अत एव स्वतस्त्वहेतुत इत्येवोक्तं न तु प्राक् प्रसक्त इति । परतस्त्वे जलादि-ज्ञानप्रामाण्यस्य समर्थप्रवृत्तिजनकत्वादिलिङ्गानुमितिविषयत्वे प्रामाण्यज्ञानस्य तदनुमितिरूपप्रामाण्यज्ञानस्य संवादः समर्थप्रवृत्यादिरूपः समर्थप्रवृत्ति-जनकजातीयत्वम् अन्येन तज्जलादिज्ञानप्रामाण्यानुमिते ग्राह्यविषयीकार्यं फलमुखिफलप्रामाण्यानुमितेर्मुखम् उपस्थितिर्यस्या सा जलादिज्ञाने प्रागनुमेयः । तत्रापि प्रामाण्यानुमितो प्रामाण्यानुमेयमिति प्रामाण्यानुमितिरूपफलनिष्ट-प्रमानिश्चयपरेति पर्यवसितोऽर्थः ॥ प्रामाण्यनिश्चय इति ॥ निश्चित-प्रामाण्यकस्यैव सत्तानिश्चयरूपत्वादिति भावः । कारणं प्रामाण्यानुमिति-हेतुः । लिङ्गव्याप्तिज्ञानादिमुखमुपस्थितिहेतुर्यस्याः सा तन्निष्टप्रामाण्यनिश्चये सत्येव जलनादिज्ञानप्रामाण्यानुमितिः । तत्प्रामाण्यानुमितिश्च तल्लिङ्गादि-ज्ञानप्रामाण्यनिश्चये सत्येवेत्येवं परंपरेत्यर्थः ।
ननु मुखशब्दस्य स्वाङ्गवाचित्वाभावात् स्वाङ्गाच्चोपसर्जनाद-संयोगोपधादित्यतो नङाविति चेत् तेन चेत् तत्तथायुतमित्यनेन प्रामाण्याङ्ग-सदृशस्यापि स्वाङ्गशब्देन ग्रहणोक्त्या सुस्तनी प्रतिमेतिवत्सादृश्यविवक्षया फलमुखीति प्रयोगोपपत्तेः । सुमुखशालेत्यत्र तु सुमुखशब्दद्वारवाचितया सादृश्यविवक्षणात् ङीभावः । ननु न सर्वत्र प्रामाण्यनिश्चया१पेक्षया येनानवस्था । न हि करतलामलकादौ प्रामाण्यनिश्चयाभावापराधेन प्रवृत्तिविलम्बः । किन्तु यत्रैव ज्ञानदोषत्वशङ्का तत्रैव । सा च न सार्वत्रकीत्याह ॥ न चेति ॥ उदाहरिष्यमाणभगवत्पादीयवाक्यगताकाङ्क्षा-शब्दार्थं विवृण्वन्नाह ॥ दोषशङ्कादिरूपेति ॥ संवादापेक्षया संवादादि-लिङ्गप्रामाण्यानुमित्यपेक्षा यत्र दोषशङ्का तत्र संवादापेक्षेति वदता तन्निवर्त-नार्थं संवादस्याङ्गीकृतम् । अन्यथा दोषशङ्काभावेऽपि प्रामाण्यनिश्चयार्थं संवादापेक्षायामनवस्था तादवस्था । तथा चास्मन्मतप्रवेशापत्तिरित्याह ॥ तथात्व इति ॥ प्रतिबन्धनिरासार्थमिति स्वमतानुवादः ॥ आकाङ्क्षाया इति ॥ दोषजन्यत्वशङ्कया हि प्रामाण्यनिर्णयाकाङ्क्षोदेतीत्याकाङ्क्षाशब्देन तज्जनितदोषशङ्का लक्ष्यते । लाक्षणिकपदोपादानप्रयोजनं च यावद्दोषशङ्कमेव प्रामाण्यनिश्चयापेक्षा, अतो नानवस्थेति ज्ञापनम् । तथा च परोक्तदोषज-त्वादिशङ्काया एव बुद्धिदोषशब्देनास्माभिरुक्तत्वात् तन्निरासार्थं संवादापेक्षेत्यस्मन्मतप्रवेश इत्यर्थः ।
न्यायदीपः
॥ अप्रयोजका इति ॥ हेतवः सन्तु स्वतो ग्राह्यत्वरूपसाध्यं मास्त्वित्यत्र विपक्षे बाधकस्य साध्यसाधनेऽनुकूलतर्कस्याभावादिति न चेत्यर्थः । पूर्वं क्वचिद्धेतावप्रयोजकत्वोद्धारस्य प्रातिस्विकरूपेण कृतत्वेऽपि सामान्यतोयमुद्धार इत्यदोषः । अत एव हेतव इत्युक्तिः । ‘‘तत्प्रामाण्य-स्याप्यन्येन ग्रहणाङ्गीकारेऽनवस्थानात्’’ इति टीकां विवृण्वानो मण्याद्युक्त-दिशैव अनवस्थाद्वयमाह ॥ परतस्त्व इति ॥ ज्ञानग्राहकसाक्षिव्यतिरिक्तेन येन केनापि ग्राह्यत्व इत्यर्थः ।
॥ फलमुखीति ॥ फलं प्रामाण्यज्ञानं मुखमुपस्थितिहेतुर्यस्याः सा फलमुखीत्यर्थः । कारणान्तरानवस्थोपलक्षणतयैकत्रानवस्थानिर्धारणाय वा पराभ्युपगमानुरोधेन वानुमेयत्व इत्यापादकनिर्धारणोक्तिः । पूर्वं तु सामान्य-मुपेत्य परतस्त्व इत्याद्येवोक्तम् । न तु विशिष्येति ध्येयम् ॥ कारण-मुखीति ॥ पूर्ववद्व्याख्येयम् । ज्ञानानां प्रामाण्यमनुमितिग्राह्यम् अनुमिति-प्रामाण्यं तु स्वत इति प्राचीनमते फलमुखानवस्थाभावात्कारणमुख्या अप्युक्तिरित्येके ।
अन्ये तु तन्मते क्वापि स्वप्रकाशत्वाभावात्तत्राप्यनवस्थाऽस्त्येव । अत एव परतस्त्व इति सामान्योक्तिः । न त्वनुमेयत्व इति विशिष्येत्याहुः ।
यत्र तु प्रामाण्यज्ञानेऽप्रामाण्यशङ्कया प्रामाण्यसंशयस्तत्र प्रामाण्यज्ञान-प्रामाण्यनिश्चयादेव प्रामाण्यनिश्चय इत्यादिमण्युक्तमाशङ्कते ॥ न च यत्रेति ॥ दोषेति ॥ दुष्टकरणजन्यत्वादिशङ्कारूपेत्यर्थः । ‘‘न चाकाङ्क्षायामेवप्रमाणान्तरापेक्षत्वादनवस्थाभाव’’ इति तत्वनिर्णयानुकरणादाकाङ्क्षेत्युक्तिः ॥ उक्तं हीति ॥ तत्वनिर्णये । आकाङ्क्षेति बुद्धिदोष इत्यप्रामाण्यशङ्केति चानर्थान्तरम् ।
न चावश्यवेद्यत्वाभावान्नानवस्था
अर्थनिश्चयस्य प्रवर्तकत्वखण्डनम्
तर्कताण्डवं
न चावश्यवेद्यत्वाभावान्नानवस्था । ज्ञानमवश्यवेद्यमिति वक्ष्य-माणत्वात् । कृष्यादौ सन्देहात्प्रवृत्तावपि बहुवित्तव्ययायाससाध्ये पारत्रिकफलगे यागादौ निष्कम्पप्रवृत्यर्थं प्रामाण्यस्याप्यवश्यवेद्यत्वात् ।
ननु तत्राप्यर्थनिश्चय एव हेतुः । समानविषयत्वात् । आवश्यक-त्वाच्च । न तु प्रामाण्यनिश्चय इति चेन्न । पीतः शङ्ख इत्यादा१वा-कारान्तरार्थोल्लेखाभावेन, शङ्खः पीतत्वेनैव भातीत्यनुभवेन चैकाकार-नियते संशयान्यज्ञानरूपे निश्चये सत्यपि पीतार्थिनोऽप्रवृत्तिदर्शनात् ।
न चाप्रामाण्याज्ञानरूपसहकारिविरहादप्रवृत्तिरिति वाच्यम् । एवं तर्ह्यप्रामाण्यस्याप्यनुमेयत्वेन तदननुमितिदशायां पीतार्थिनःप्रवृत्तिः स्यात् । किञ्चाप्रामाण्याज्ञानात्प्रवृत्तौ प्रामाण्याज्ञानान्निवृत्तिः स्यात् ।
किञ्च तदभाववति तत्प्रकारकत्वरूपाप्रामाण्यशङ्काद्यभावो ऽनेका-भावघटितत्वाद् गुरुः । प्रामाण्यनिश्चयस्तु न तथेति लघुः । एव-मप्रामाण्यशङ्काद्यभाववत्तद्वति तत्प्रकारकज्ञानत्वरूपप्रामाण्या-त्यन्ताभावशङ्काद्यभाव एवं तद्व्याप्यदोषजन्यत्वादिशङ्काद्यभावोपि हेतुरित्यभावा अनेके । प्रामाण्यनिश्चयस्त्वेकः । अभावानां प्रामाण्य-निश्चयविरोध्यभावत्वेनैकत्वे त्वावश्यकत्वाल्लाघवाच्च प्रामाण्यनिश्चय एव सहकारी ।
युक्तिरत्नाकरः
प्रकारान्तरेणानवस्थापरिहारमाशङ्क्य निषेधति ॥ न चेति ॥ ज्ञान-स्यावश्यवेद्यत्वात् तद्वर्तिप्रामाण्यनिश्चय संशयापत्यार्थसन्देहे प्रवृत्यापत्या तत्प्रामाण्यस्यापि निश्चयतया तन्निश्चयस्याप्यवश्यवेद्यत्वे तत्प्रामाण्य-स्याप्येवमित्यनवस्थेत्याह ॥ ज्ञानमिति ॥
ननु प्रामाण्यसंशयेऽपि कृष्यादौ फलसाधनत्वज्ञाने प्रामाण्यसन्देहात् । यद्यपि कृष्यादौ फलसाधनत्वनिश्चयस्यास्त्येव तथापि स्वरूपयोग्यतानिश्चय एवासौ वचनात् । न च तावन्मात्रेण निष्कम्पप्रवृत्तिः । अनेनावश्यं फलं भविष्यतीत्येवंरूपस्तु निष्कम्पप्रवृत्तिः । फलोपधाननिश्चयो निश्चय-प्रामाण्यको नास्त्येव । किन्तु तत्सन्देह एवेत्यर्थः । बहुत्वव्यवसाययोर्विशेषणम् अवश्यवेद्यत्वादिति । तथा च तद्वेदनेऽवश्यं वेद्यत्वात ज्ञायमाने प्रामाण्यज्ञाने निष्कम्पप्रवृत्ययोगात् । तज्ज्ञाने च पुनरनवस्थेति भावः ।
ननु पारत्रिकफलकयागादावपि निष्कम्पप्रवृत्तौ न प्रामाण्यनिश्चयो हेतुर्येनानवस्था । किन्त्वर्थनिश्चय एव तस्य प्रवृत्तिसाधनविषयकत्वान् न चार्थनिश्चयस्तत्प्रामाण्यनिश्चयेत्येवेत्यनवस्थेति द्वावपि प्रवर्तकौ गौरवादावश्यकार्थनिश्चयादेव प्रवृत्त्युपपत्तेः । न च तादृगर्थनिश्चयेऽपि प्रामाण्यनिश्चये सत्येवेत्यनवस्थातादवस्थ्यम् । न । गृहीतप्रामाण्य-सजातीयस्यागृहीतप्रामाण्यस्यैव प्रवर्तकत्वदर्शनेन स्वतःशङ्काविरहेऽत्यर्थ-निश्चयादेव प्रवृत्युपपत्तेः । क्वचिच्छङ्कायामपि तन्निवृत्यर्थं प्रामाण्यनिश्चया-पेक्षायामपि धर्मिज्ञानकोटिस्मरणाद्यभावादिना शङ्काभावे तदनुपेक्षणादिति शङ्कते ॥ नन्विति ॥
अन्वयव्यतिरेकाभ्यां प्रामाण्यनिश्चयस्यैव प्रवर्तकत्वाद् अर्थनिश्चयमात्रस्य तस्मिन् सत्यपि प्रामाण्यनिश्चयेऽप्रवृत्तेरिति ॥ नेति ॥ आकारार्थोल्लेखाभावे स्थाणुश्चेन्न पुरुषः पुरुषश्चेन्न स्थाणुरिति परस्परप्रतिक्षेपाकारार्थोल्लेखाभावेन । क्वचिद्व्याकारेति पाठः । तत्र द्व्याकारत्वमर्थोल्लेखविशेषणं परस्पर-प्रतिक्षेपिद्व्याकारतयार्थोल्लेखेत्यर्थः । आकारान्तोल्लेखेति पाठेप्येष एवार्थः । अप्रवृत्तिदर्शनात्प्रवृत्यदर्शनात् । न तु तत्र पीतार्थिप्रवृत्यभावेन प्रामाण्य-निश्चयाभावात् । किंत्वप्रामाण्यस्य तत्र निश्चितत्वेन प्रवृत्तिहेतोर-प्रामाण्यज्ञानस्याभावादेवेत्याशङ्क्य निषेधति ॥ नचेति ॥ एवं हीति ॥ ननु यत्र शङ्खे पूर्वं पीतत्वाभावो स्मृतो वा तत्र प्रवृत्यापादाने इष्टापत्तिः । यत्र तु गृहीतो न विस्मृतश्च तत्र नयनगतपित्तिदोषाज्जायमानं पीतः शङ्ख इति ज्ञानं सवितृसुषिरज्ञानवत् प्रामाण्यधीकलङ्कितमेव जायत इति न तत्र प्रवृत्यापादनं युक्तमिति चेन्न । न ह्यनुत्पन्नज्ञाने प्रामाण्यशङ्कातन्निश्चयोवा भवतीति धर्मिज्ञानोत्तरकालमेव तदनुमितेः । प्राक् प्रवृत्यापादनसम्भवा-द्धर्मिज्ञानमात्रस्य च संशयानुमित्योरसामग्रीत्वेन यज्ज्ञानं यत्र प्रतिबन्धकं तत्सामग्य्रपि तत्र प्रतिबन्धिकेति न्यायानवताराच्च । अप्रामाण्यधीकलङ्कित-मेवेत्युक्तिस्तु नियमेन तदुत्तरकाले तदवताराभिप्राया ।
वस्तुतस्तु व्यवसाये पीतत्वस्येव प्राचीनानुभवजन्यसंस्कारेण पीतत्वा-भावस्याप्युपनये साक्षिणा पीतत्वाभाववत्येव पीतत्वप्रकारकं ज्ञानं मम वृत्तिमित्युत्तरक्षण एवाप्रामाण्यपरिच्छेदः । परमताभिप्रायेण चैतदुक्तमिति बोध्यम् । लोके रजतार्थिनो रजतज्ञाने प्रामाण्यनिश्चये सति प्रवृत्तिः, अप्रामाण्यनिश्चये च निवृत्तिरिति सर्वानुभवसिद्धमपि अपहायाप्रामाण्य-ज्ञानस्यापि प्रवर्तकत्वाभ्युपगमे निवर्तकत्वमपि प्रामाण्यज्ञानस्यैव स्यात् । न चेष्टापत्तिः । गृहीतप्रामाण्यज्ञानसजातीये त्वयापि निवृत्यनभ्युपगमादिति भावेनाह ॥ किञ्चेति ॥
ननु प्रामाण्यज्ञानमभावरूपत्वाद्गुरु अप्रामाण्यज्ञानं तु भावरूपत्वाद् लघ्विति तदेव निवृत्तौ हेतुरिति चेत् तर्ह्यप्रामाण्यज्ञानमेव हेतुः स्यादित्याह ॥ किञ्च तदभावेति ॥ शङ्कादीत्यादिपदेन निश्चयपरिग्रहः । एवमुत्तर-त्रापि । एवं शरीरगौरवादप्रामाण्यज्ञानस्य प्रवृत्तावहेतुत्वमभिधाय अनेक-कारणताकल्पनापाताच्च न तथात्वमित्याह ॥ एवमिति ॥ दोषजन्यत्वा-दित्यादिपदेन विसंवादिप्रवृत्तिजनकत्वादिपरिग्रहः । नन्वप्रामाण्यशङ्काद्यभावा-नामेकत्वेप्येकावच्छेदकक्रोडीकारान्न गौरवम् । अन्यथा प्रामाण्यनिश्चय-व्यक्तीनामनेकत्वान् न हेतुता स्यात्तत्राह ॥ अभावानामिति ॥ प्रामाण्य-निश्चयं प्रति विरोधिनां प्रतिबन्धकानामप्रामाण्यशङ्कादीनामभावस्तत्त्वेनानुगता हेतव इत्यर्थः । आवश्यकत्वमिहावश्योपस्थितिकत्वम् ।
ननु यत्रैकस्मिन्धर्मिणि धर्मद्वयं तत्र कारणतावच्छेदकत्वकल्पने लाघवगौरवावतारो, यथा दण्डज्ञाने विशेषणज्ञानत्वविशेषणता-वच्छेदकत्वप्रकारकत्वयोः । न चेह प्रामाण्यनिश्चयत्वप्रामाण्यनिश्चय-विरोध्यभावत्वयोस् तथात्वमिति कथमिति चेत् । यत्र लघुगुरुधर्मा-वच्छिन्नयोरन्यत्रैव कारणताकल्पनाप्रसक्तिस्तत्र लघुधर्मावच्छिन्नस्यैव कारणत्वं न गुरुधर्मावच्छिन्नस्येत्यत्रापि तदवतारसम्भवात् । इदमुपलक्षणम् । कारणतावच्छेदकावच्छिन्नयत्किञ्चित्कारणसत्व एव कार्यावश्यम्भावे-नोक्तावाच्छेदकावच्छिन्नाप्रामाण्यशङ्काविरहस्थले प्रामाण्याभावशङ्कायामपि प्रवृत्तिप्रसङ्गदोषान् नेदमवच्छेदकमित्यपि बोध्यम् । न च प्रामाण्य-निश्चयविरोध्यसमानकालीनोक्ताभावत्वेन नानुगम इति न दोष इति वाच्यम् । एवमप्रामाण्याद्यभावानामप्युक्तप्रकारेणानुगमसम्भवेन प्रतिबन्धकाभावकूटस्य हेतुत्वमिति तत्सिद्धान्तक्षतेः । शिष्टं स्वप्रस्तावे ।
न्यायदीपः
तत्वनिर्णयटीकोक्तरीत्याप्रकारान्तरेणानवस्थाभावमाशङ्क्य निराह ॥ न चेति ॥ ज्ञानस्येति शेषः ॥ अवश्यवेद्यमिति ॥ एतेन चरमप्रामाण्य-ज्ञानस्य ज्ञानाभावेन, कोटिस्मरणाभावेन, विषयान्तरसञ्चारेण, वा प्रामाण्य-संशयानवश्यम्भावान्नानवस्थेति मण्याद्युक्तं निरस्तं ध्येयम् । नन्वस्तु ज्ञानस्यावश्यवेद्यतया ज्ञातत्वेन तत्प्रामाण्यानिश्चये तत्संशयोऽवर्जनीयः । तथापि कृष्यादाविवप्रवृत्तिरस्त्वित्यत आह ॥ कृष्यादाविति ॥
‘‘यत्राप्रामाण्यशङ्का नास्ति करतलादिज्ञाने तत्र व्यवसाय एवार्थनिश्चयस् तत एव निष्कम्पप्रवृत्तिः’’ इत्यादिमण्याद्युक्तमाशङ्कते ॥ ननु तत्रा-पीति ॥ पारलौकिकयागादावपीत्यर्थः ॥ आवश्यकत्वाच्चेति ॥ प्रामाण्यनिश्चयप्रवर्तकत्ववादिनाप्यर्थनिश्चयस्याभ्युपेयत्वादिति भावः ।
(१) किमर्थनिश्चय एवप्रवर्तक उत (२) प्रामाण्यविरोधिज्ञानविरह-सहकारिसहितः, अथ (३) प्रामाण्यविरोधिज्ञानविरहः न सहकारी किन्तुप्रवर्तकतावच्छेदकः, (४) यद्वाऽर्थनिश्चय एवप्रवर्तको ऽप्रामाण्यादिज्ञानंप्रतिबन्धकंप्रतिबन्धकान्तरसम्पादकं वा, इति विकल्पान् हृदि कृत्वाऽद्यो व्यभिचारीत्याह ॥ पीत इति ॥ शुक्लो वेत्याकारान्तरेत्यर्थः ॥ द्व्या-कारार्थेति ॥ अकारान्तरेति क्वचित्पाठः ।
द्वितीयं शङ्कते ॥ न चाप्रामाण्येति ॥ प्रामाण्यविरोधिनो निश्चय-संशयसाधारणज्ञानाभावरूपसहकारीत्यर्थः । इष्टापत्तिमाशङ्क्याह ॥ किञ्चेति ॥ नन्वप्रामाण्यज्ञानस्यप्रतिबन्धकत्वं सर्वसिद्धमित्यस्तु तद्विरहात्तत्रप्रवृत्तिः । प्रामाण्यज्ञानप्रवर्तकत्वमद्यापि न सिद्धमिति कथं तदभावा-न्निवृत्तिरापाद्यत इत्यतस्तत्साधयति ॥ किञ्चेति ॥ शङ्कादीत्यादिपदेन निश्चयग्रहः ॥ विरोध्यभावत्वेनेति ॥ १विरोधिनिश्चयविषयाभावत्वेनेत्यर्थः ।