ननु तथापि स्वतस्त्वेऽनभ्यासदशायां संशयो न स्यात्
स्वतस्त्वे संशयोपपादनम्
तर्कताण्डवं
ननु तथापि स्वतस्त्वेऽनभ्यासदशायां संशयो न स्यात् । ज्ञानग्रहे प्रामाण्यग्रहात् । अग्रहे च धर्मिज्ञानाभावादिति चेन्न । असतिप्रतिबन्धे साक्षिवेद्यत्वनियमो वा साक्षिवेद्यत्वयोग्यता वा स्वतस्त्व-मित्युक्तम् । अप्रामाण्यसंशयस्थले च प्रामाण्यग्रहणशक्ति-प्रतिबन्धिकाऽप्रामाण्यग्रहणसामग्रीसमवहितैव । अन्यथाऽप्रामाण्य-संशयायोगात् । एवं च ज्ञानं गृह्णता साक्षिणा शक्तिप्रतिबन्धात् प्रामाण्याग्रहणेऽप्यस्मदुक्तस्वतस्त्वाहान्या स्वतस्त्वपक्षेऽपि धर्मि-ज्ञानस्य प्रामाण्यानिश्चयस्य च सम्भवेन संशयो युक्त एव । न हि ज्ञानत्वप्रमात्वग्रहणशक्त्योरेकप्रतिबन्धकप्रतिबध्यत्वमपि स्वतस्त्वा-न्तर्गतम् ।
युक्तिरत्नाकरः
उक्तानुमाने प्रतिकूलतर्कपराहतिं शङ्कते ॥ नन्विति ॥ तथापि उक्तरीत्या बाधोद्धारेपि । अनभ्यासदशायां सजातीयविजातीयसंवादाभाव-दशायामेतच्चापाद्यस्यानिष्टत्वस्य ज्ञापनाय । तथा च प्रामाण्यं यदि स्वाश्रयग्राहकेण नियमेन ग्राह्यं स्यान् न तदा सन्दिग्धेत । न चेष्टापत्तिः । अनभ्यासदशायां तस्यानुभवसिद्धत्वादित्यर्थो लभ्यते । तदुपपादयति ॥ ज्ञानग्रहे इति ॥
ज्ञानग्रहेऽपि प्रामाण्यग्रहे च न स्वतस्त्वमिति भावः । अग्रहे ज्ञानस्य ॥ असतीति ॥ आद्यस्वतस्त्वनिरुक्तौ ग्राह्येत्यादि प्रथमविशेषणेन प्रतिबन्धकासमवहितस्यैव विवक्षितत्वादिति भावः । साक्षीति उभयत्रापि ग्राह्यप्रामाण्याश्रयज्ञानविषयकसाक्षीत्यर्थः । यद्यप्युभयसिद्धेत्यादि तृतीय-स्वतस्त्वनिर्णयाय नैय्यायिकाभिमतग्राह्यत्वसाधारणादेव साक्षिघटितेन सङ्गृह्यते तथापि तस्याः परमतसाधारणस्य तत्रैवोक्त्या स्वमतसाधारणत्वेनोक्त-स्वतस्त्वनिरुक्तिद्वयमेवेह सङ्गृहीतमिति बोध्यम् ॥ ग्रहणेति ॥ निश्चये-त्यर्थः ॥ ग्राहकेति ॥ ज्ञापकेत्यर्थः । अत एव संशयनिश्चय-सामग्ये्रत्युभयोरपि प्रतिबन्धकत्वात्प्रामाण्यविरोध्युपस्थापकसामग्य्रोभयं वा एतेत्युभयसाधारण्येनैव प्राक् निरुक्तम् । एवं संशयस्थले प्रतिबन्धक-सद्भावमुपपाद्य द्विविधेऽपि स्वतस्त्वे संशयानुपपत्तिमुद्धरति ॥ एवं चेति ॥ साक्षिणा शक्तिप्रतिबन्धात् प्रामाण्यग्रहण इत्यनेनाप्रतिबद्धसाक्षिवेद्यत्वनैयत्यं प्रतिबन्धदशायामाग्रहेति साक्षिवेद्यत्वयोग्यत्वं चाक्षतमिति दर्शितम् । अस्मदुक्तस्वतस्त्वान्येत्यनेन च मण्युक्तेऽप्रामाण्यग्राहकेत्यत्र प्रामाण्यविरोधिग्राहकसमवहितेति पर्यवसिम् । ग्राहकपदेन निश्चायकत्वं वा विवक्षितम् उपस्थापकमात्रं वा । नाद्यः लोके विपरीतनिश्चये सामग्य्रा इव तत्संशयसामग्य्रा अपि निश्चयप्रतिबन्धकत्वदर्शनेन अप्रामाण्यनिश्चय-सामग्रीस्थल इव तत्संशयसामग्रीस्थलेपि प्रतिबन्धादेव प्रामाण्यनिश्चयस्य स्वतस्त्ववादिना वाच्यतया तद्ग्रहस्यावश्यकत्वेन निश्चायकविवक्षायोगात् । नान्त्य उक्तस्वतस्त्वे संशयानुपपत्तेरभावेन राद्धान्तस्त्वित्यादिना संशयानुपपत्तेर्दोषत्वोक्त्ययोगादिति दर्शितम् ॥ संशयो युक्त एवेति ॥
ननु धर्मिज्ञानात्पूर्वकालीनाप्रामाण्यादिकोटिस्मृतेः कथं संशयहेतुता तत्पूर्वमप्रामाण्यादिकोटिस्मृत्यभावे च धर्मिज्ञानस्य प्रामाण्यविरोध्युप-स्थापकसामग्य्रसमवहितसाक्षिरूपतया प्रामाण्यनिश्चायकत्वावश्यम्भावे कथं संशयः । न च धर्मिज्ञानान्तरभाविकोटिस्मृतेरेव संशयहेतुतेत्यत्र मानाभावः । स्थाणुत्वपुरुषत्वकोटिद्वयसाधारणोर्ध्वतादिविषयकस्य धर्मिज्ञानस्य कोटिस्मारकत्वेनैव संशयं प्रति हेतुत्वावधारणात् । कथमन्यथा साधारणासाधारणधर्मदर्शनविप्रतिपत्तीनां संशयोपयोगः । न हि नित्या-नित्यव्यावृत्तिगन्धवत्वदर्शनस्य विप्रतिपत्तेर्वा कोटिद्वयोपस्थापकत्वमन्तरेण संशयोपयोगः । न च साधारणधर्मदर्शनादिनेवादृष्टादिनापि जानाति कोटिस्मृतिसंशयहेतुस् त्रैविध्योक्त्ययोगात् सिद्धान्तेऽप्यसाधारणधर्मदर्शन-विप्रतिपत्योः साधारणधर्मदर्शन एवान्तर्भावेनैकविध्यस्यैवोक्तेरिति चेन्न । दैवात्कोटिस्मृतिमतामूर्ध्वत्वादिविशिष्टपुरोवर्तिधर्मिदर्शनेनापि संशयस्यानुभव-सिद्धत्वात् । साधारणधर्मदर्शनस्योक्तरीया कोटिस्मारकत्वेन संशयहेतुत्व-सिद्धावपि धर्मिज्ञानात्पूर्वकालीनादृष्टादिजन्यकोटिस्मृतेः संशयाहेतुत्व-मित्यस्यालाभाच्च । तेनैवासाधारणधर्मदर्शनरूपधर्मिज्ञानस्य संशयेऽ-नुपयोगप्रसङ्गः । दैवात् स्थाणुत्वपुरुषत्वकोटिस्मृतिमतो नयनोन्मीलना-नन्तरमनेकवस्तुदर्शनेऽपि यत्रैवोर्ध्वतादिसाधारणधर्मदर्शनं तत्रैव संशयो नान्यत्रैवेत्येवंविधधर्मिनियमार्थत्वात् । न चैवं संशयत्रैविध्योक्तिविरोधः । अदृष्टादिजन्यकोटिस्मृतिस्थले धर्मिज्ञानजन्यकोटिस्मृतिस्थले चोक्तरीत्या साधारणधर्मदर्शनस्य संशयोपयोगिमात्रेण तदुपपत्तिः साधारणधर्मदर्शन-विप्रतिपत्योस्तु प्रकारान्तरेणोपयोगासम्भवे कोटिस्मारकत्वेनैवोपयोग इत्यन्यदेतत् । अस्तु वा धर्मिज्ञानस्य साधारणधर्मदर्शनयोः कोटिस्मृतिद्वारैव संशयहेतुता । तथापि न स्वतस्त्वेन संशयानुपपत्तिः । न च धर्मिज्ञानात्पूर्वमप्रामाण्यकोटिस्मृत्यभावे प्रामाण्यविरोध्युपस्थापकसामग्य्रसमहित एव धर्मिज्ञानरूपसाक्षीति प्रामाण्यनिश्चय एव स्यान् न संशय इति वाच्यम् । अप्रामाण्यसंशयहेतुदोषस्यैव तत्र सत्वात् । सामग्रीपदेनापि तस्यैवा-प्रामाण्यसंशयाद्येसाधारणकारणतया विवक्षितत्वादत एव स्वतस्त्वनिरुक्त्यवसरे दोषशङ्कादिरूपे प्रामाण्यविरोधिग्राहकसामग्रीसमवधानात्मके प्रतिबन्धे सतीत्युक्तम् ।
न च तत्र दोषशङ्केति दोषजन्यत्वे शङ्केति व्याख्यातत्वात् कथमेतदिति वाच्यम् । दोषश्च शङ्का चेति दोषशङ्केति विग्रहे दोषस्य तज्जन्यत्वशङ्कायाश्च लाभात् । अत एवात्राप्यसति प्रतिबन्धे साक्षिवेद्यत्वनियम इति प्रामाण्य-विरोधीत्यादेः प्रतिबन्धकत्वमात्रार्थकत्वमभिहितम् । एवं प्रामाण्यसंशयस्थले आवश्यकतज्जन्यदोषेणैव प्रतिबन्धाद् धर्मिज्ञाने प्रामाण्यनिश्चायके सति ततः कोटिद्वयस्मृतौ प्रामाण्याप्रामाण्यसंशयो युक्त एवेति भावः ।
न्यायदीपः
उक्तानुमानेषुप्रतिकूलतर्कपराहतिं मण्याद्युक्तमाशङ्कते ॥ नन्विति ॥ तथाऽपीति ॥प्रबलबाधरूपदोषाभावेऽपीत्यर्थः ॥ प्रामाण्यग्रहादिति ॥ अन्यथा स्वतस्त्वभङ्गापत्तेरिति भावः ॥ अग्रहे चेति ॥ ज्ञानस्येत्यनुषङ्गः । यथा हि त्वन्मते जातिव्यक्त्योरेकवित्तिवेद्यत्वनियमेपि दोषवशादिदं रूप्य-मिति भ्रमस्थले शुक्तिग्रहेपि न शुक्तित्वग्रहस् तथा मन्मतेपि ज्ञानप्रामाण्ययोर् एकवित्तिवेद्यत्वनियमेपि संशयस्थले ज्ञानग्रहे सत्यपि तेन तत्प्रामाण्याग्रहेपि न स्वतस्त्वभङ्गः ।
अस्माभिरुक्तस्वतस्त्वस्य तत्रापि सत्वादिति भावेन ‘‘धर्म्युपलब्धावपि व्याघातादिदर्शनेन साक्षिणिप्रतिबद्धे प्रामाण्यविषये मनसि संशयोपपत्तेः’’ इति तत्वनिर्णयटीकां विवृण्वानः समाधत्ते ॥ असतिप्रतिबन्ध इति ॥ प्रामाण्यविरोध्युपस्थापकसामग्र्यसमवधाने सतीत्यर्थः । अत्र सर्वत्र साक्षी प्रागुक्तरूप एव ज्ञेयः ॥ ग्रहणेति ॥ निश्चयेत्यर्थः ॥ अन्यथेति ॥ उक्तरूपसामग्र्यभाव इत्यर्थः ।
अस्तु सामग्री ततः किमित्यत आह ॥ एवं चेति ॥ प्रामाण्यविरोध्युप-स्थापकसामग्री-समवधाने सतीत्यर्थः ॥ धर्मिज्ञानस्येति ॥ व्यवसायरूपस्य संशये धर्मिणो यज्ज्ञानं तस्येत्यर्थः ॥ संशयो युक्त एवेति ॥ मानसोऽयं बोध्यः । न तु साक्षिरूपस् तस्य सुदृढनिर्णयरूपत्वात् ।
अस्मदुक्तस्वतस्त्वाहान्येत्युक्तं व्यनक्ति ॥ न हीति ॥ असतिप्रतिबन्धे ज्ञानगोचरसाक्षिवेद्यत्वनैयत्यमित्यस्यप्रतिबन्धे सति साक्षिणा ज्ञानं प्रामाण्यं चोभयं न गृह्यत इति यद्यर्थस्तदा परं स्वतस्त्वहानिः । नह्येवं विवक्ष्यत इति भावः ।
तद्ग्रहणशक्त्योर्भिन्नत्त्वेपि ज्ञानत्वग्रहणशक्तिवत्..
तर्कताण्डवं
तद्ग्रहणशक्त्योर्भिन्नत्त्वेपि ज्ञानत्वग्रहणशक्तिवत् प्रामाण्यग्रहणशक्तिः सहजा । नत्वप्रामाण्यग्रहणशक्तिरिव आहितेत्येतावतैव प्रामाण्यस्य स्वतस्त्वात् । दृश्यते च वह्नौ दाहप्रकाशनशक्त्योः सहजत्वेपिप्रतिबन्धकभेदः ।
अस्तु वा तयोरेकैव ग्रहणशक्तिस्तथापि तस्या एनं मा दहेत्यादौ दाहशक्तेरिव विषयभेदेनप्रतिबन्धाप्रतिबन्धौ युक्तौ ।
नचैवंप्रतिबन्धकाभावरूपस्याधिकस्य हेतोरनुप्रवेशात् सिद्ध-साधनम् । न्यायमतेऽप्रतिबद्धेनाप्यनुव्यवसायेन प्रामाण्याग्रहणात् ।
नाप्यपसिद्धान्तः । ‘‘अप्रामाण्यग्रहणकारणाभावस्यापि प्रामाण्य-ग्रहणोपयोगाङ्गीकारेपि न कदाचिदस्माकं हानिः’’ इति टीकोक्तेः । ‘‘प्रतिबन्धकाभावो न हेतुः’’ इत्युत्पत्तिस्वतस्त्ववादे वक्ष्यमाणत्वाच्च ।
यत्र पूर्वं दोषशङ्कादेरभावेपि कारणान्तरोपनिपातात् पश्चात् तत्संशयस्तत्र पूर्वं प्रामाण्यं निश्चीयत एव । तदाप्रतिबन्धकाभावात् ।
युक्तिरत्नाकरः
ननु ज्ञानत्वग्रहेऽपि प्रतिबन्धात्प्रमात्वग्रहात्संशयोपपत्तिरित्युक्तं स्वतस्त्ववादिना । ज्ञानत्वप्रमात्वग्रहणशक्त्योरैक्यस्यैव वाच्यतयैक-प्रतिबन्धकप्रतिबध्यत्वावश्यम्भावेन प्रामाण्यग्रहप्रतिबन्धे ज्ञानत्वग्रहासम्भवात् प्रामाण्यग्रहशक्तेर्ज्ञानत्वग्रहशक्त्यन्यत्वे भिन्नशक्तिग्राह्यत्वाविशेषादप्रामाण्य-वत्परतस्त्वापत्तेः । अन्यथा प्रामाण्यस्यापि तत्त्वापातादत्राह ॥ न हीति ॥ ज्ञानत्वप्रमात्वग्रहशक्त्योर्भेदादेवेति भावः ।
तयोर्भेदे प्रामाण्यस्यापादितं परतस्त्वमुद्धरति ॥ तद्ग्रहणेति ॥ नत्विति ॥ अप्रामाण्यग्रहणशक्तिस्तु न सहजा किन्तु प्रवृत्तसंवादाहिता अतो न स्वतस्त्वापत्तिरिति भावः । ननु ज्ञानत्वग्रहशक्तिवत्प्रामाण्यग्रहशक्तेः सहजत्वे एकनिष्ठसहजानेकशक्त्योरकप्रतिबन्धकप्रतिबद्धत्वस्य वह्निनिष्ठ-सहजानेकशक्त्योरकप्रतिबन्धकप्रतिबद्धत्वस्य वह्निनिष्ठदाहपाकशक्तौ दर्शनेन प्रामाण्यग्रहप्रतिबन्धकत्वेन ज्ञानत्वग्राहकप्रतिबन्धः स्यादेवेत्यत्राह ॥ दृश्यते चेति ॥ मणिमन्त्रादिना दाहशक्तेः प्रतिबन्धे प्रकाशनशक्तेरपि प्रतिबन्धा-पातादिति भावः । ननु चन्द्रालोकादौ प्रकाशकरशक्तिसद्भावेऽपि दाहशक्तेर-भावेन तयोर्भेदेऽपि साक्षिनिष्ठज्ञाने त्वप्रामाण्यग्रहशक्त्योर्भेदे मानाभावात् प्रत्युत लाघवादैक्यमेव युक्तम् । एवं च ज्ञानत्वप्रामाण्ययोर् ग्रहाग्रहावित्युक्तमित्यत आह १॥ यद्वेति ॥ एकैवेति ॥ न च ज्ञानपदादौ ज्ञानत्वग्रहशक्तौ सत्यामपि प्रामाण्यग्रहणशक्तेरभावान्न तयोरैक्यम् । तत्र ज्ञानत्वग्रहशक्ते-र्भिन्नत्वेऽपि साक्षिनिष्टयोस्तयोर्भेदे मानाभावात् । न चैवं वह्निनिष्टयोरभेदेऽपि दाहप्रकाशनशक्त्योर्न भेदः स्यादिति वाच्यम् । तयोर्विजातीयकार्यानु-कूलयोरैकजात्यमेव दुर्लभं किमुतैक्यं साक्षिनिष्ठयोस्तु तयोरेकेन्द्रियग्राह्य-वृत्तितदिन्द्रियग्राह्यज्ञानत्वप्रमात्वगोचरैकज्ञानानुकूलयोरेकजातीयमैक्यं च युक्तमेव । न हि चक्षुर्ग्राह्यघटवृत्तितदिन्द्रिय योग्यघटत्वरूपमहत्परिमाणै-कत्वादीनां ग्रहशक्तिश्चक्षुर्वृत्तिर्न विजातीयाद् भिद्यते वा प्रमाणाभावादिति भावः । एनं मा दहेति मन्त्रप्रयोक्तृपुरुषाभिप्रेतं तदितरं च प्रति प्रत्येकस्या अपि दाहशक्तेरिव प्रामाण्यज्ञानत्वे प्रत्येकस्या अपि ग्रहशक्तेः प्रतिबन्धा-प्रतिबन्धौ युक्तावेवेत्यर्थः । नन्वेवं संशयसमर्थनार्थं प्रामाण्यनिश्चये प्रतिबन्धकाभावस्याप्युपयोगाभ्युपगमे परतस्त्वमेवापन्नम् । ज्ञानग्रह-हेत्वतिरिक्तहेतुसापेक्ष्यग्रहविषयत्वस्यैव परतस्त्वादित्यत आह ॥ २नन्विति ॥ अप्रतिबद्धत्वेनेति ॥ फलीभूतज्ञानविषयकज्ञानोपनीतत्वाभावेन रूपत्वादेः स्वातन्त्र्येणानुव्यवसायविषयत्वाभावेन रूपत्वादेः स्वातन्त्र्येणानु-व्यवसायविषयत्वाभ्युपगमादित्यर्थः । तथा च ज्ञानग्रहहेत्वतिरिक्तसापेक्ष एव परतस्त्वं न तु तादृक्प्रतिबन्धकाभावसापेक्षत्वेऽपीति न सिद्धसाधन-मित्यर्थापत्तिरिति भावः ।
नन्वेवं प्रतिबन्धकाभावहेतुत्वाभ्युपगमेऽपसिद्धान्त इत्याह ॥ नापीति ॥ प्रतिबन्धकाभावस्योपयोगमात्रं न हेतुत्वमिति नापसिद्धान्त इति भावः । ननु अन्वयव्यतिरेकाभ्यां प्रतिबन्धकाभावस्य हेतुत्वमेव सिध्यतीति पूर्वोक्तदोषानुवृत्तिस्तत्राह ॥ प्रतिबन्धकाभाव इति ॥ दण्डस्य कारणत्वेन दार्ढ्यस्येवाप्रतिबद्धसाक्षिणः प्रामाण्यग्रहहेतुत्वेनापि प्रतिबन्धकाभावस्य अन्वयव्यतिरेकौ तदवच्छेदकत्वमात्रेणोपपन्नौ न तद्धेतुतां गमयत इति भावः । एवं ज्ञानत्वग्रहे तत्कालीनदोषशङ्कादिना प्रतिबन्धात्प्रामाण्यग्रहे तत्संशयमुपपाद्य यत्र तादृक्प्रतिबन्धकाभावस् तत्रापि तमुपपादयितुम् ॥ यत्रेति ॥ निश्चीयत इति ॥ ननु प्रामाण्यनिश्चये कथं संशयः । न च तन्नाशानन्तरं भविष्यतीति वाच्यम् । निश्चिते तत्र समयान्तरेऽपि संशयायोगात् । अनभ्यासदशापन्नघटादौ कदाचित्संशयापातात् । न च ज्ञाने संशयानिश्चितत्वेप्यर्थे संशयवदनभ्यासदशायामत्रापि निश्चायकज्ञाने प्रामाण्यसंशयादिना प्रबलदोषेण संशयः स्यादिति वाच्यम् । प्रामाण्यनिश्चयस्य साक्षिरूपतया तस्य च स्वप्रकाशतया तन्निष्टप्रामाण्यरूपत्वे तत्रापि संशयायोगात् । उक्तं च सुधायां नापि तत्सिद्धेर्थे संशय इति । न च व्यवसायनिष्टज्ञानत्वग्रहेऽपि प्रबलदोषवशात्स्वनिष्टतत्प्रामाण्यनिश्चय-वत्साक्षिणः स्वप्रकाशत्वेन स्वनिष्ठव्यवसायगोचरत्वग्रहेऽपि प्रबलदोष-वशात्स्वनिष्ठप्रामाण्यविषय इति वाच्यम् । निर्दोषतयाऽवधारितस्वरूपे साक्षिणि सुखादिविषये प्रामाण्यस्येव स्वप्रामाण्यस्यापि स्वेन यदवधारणात्स्व-प्रामाण्यसदासाक्षीत्युक्तेः ।
यत्तु सुखादिघटिततत्तत्प्रामाण्ये निश्चयावश्यम्भावेऽप्यनभ्यासदशापन्न-बहिरर्थघटितप्रामाण्ये न तदवश्यम्भाव इति तन्न । पश्यत्येव सुनिश्चया-दित्युक्तिविरोधात् । अत एव न ग्राहकानवस्थापीति चेत् । सत्यं द्विधा हि संशयः । कश्चित्स्वरसो यथा पुरोवर्तिन्यूर्ध्वतादिविशिष्टे दृष्टे विशेषा-दर्शनात् स्थाणुर्वा पुरुषो वेति । अन्यस्तु सत्यपि निश्चये तत्र दोषजन्यत्वशङ्कया तत्रैव यथा स्थाणुत्वेन प्रतीयते स्थाणुर्भवति वा न वेति । एवं च प्रकृतेऽपि प्राचीनप्रामाण्यनिश्चयदोषजत्वसंशयान्यनिश्चयसंशयो-पपत्तेः । न च साक्षिरूपेत्यत्र दोषजत्वशङ्कायोगस्तत्र तस्य मानसत्वात् । न च तत्र साक्षिप्रवृत्तिरेव कुतो न स्यात् । क्वचित्प्रामाण्ये परीक्षा-नैरपेक्ष्येऽप्यनभ्यासदशापन्ने परीक्षासहकृतस्यैव साक्षिणः प्रवृत्तेः । तदुक्तं सुधायाम् ‘‘तस्मात्साक्षिप्रामाण्यं परीक्षानपेक्षेणैव साक्षिणा गृह्यते वृत्तिज्ञानानां तु तत्सापेक्षेण’’ इति ।
न चैवं परीक्षासहकृतसाक्षिवेद्यत्वे परतस्त्वापत्तिः । परीक्षाया अनुमानविशेषतया १भावभूतत्वादिति वाच्यम् । यत्र २दोषशङ्कात्रय-प्रतिबन्धकनिरासार्थत्वेन तदपेक्षामपि सर्वत्र तदनपेक्षणेन तत्त्वानापत्तेः । अवयवादनिच्छाज्ञायमानपरीक्षावश्यम्भवतीति सुधोक्तेः । सर्वथा परीक्षापेक्षत इति तु न क्षम्यत इति च । न च पश्चाद्दोषजत्वसंशयेऽपि तदा दोषाभावात् साक्षिणैव तद्ग्रहः किन्नस्यादिति वाच्यम् । दोषजत्वशङ्कादेः पश्चादपि यत्रानवतारस्तत्रैव साक्षिप्रवृत्तेः स्वीकारेण साक्षिसिद्धेर् उत्तरत्रापि संशया-योगात् । ‘‘सुदृढो निर्णयो यत्र’’ इत्युक्तेः । न चोत्तरत्र संशये पूर्वं प्रमाण्यनिश्चयो न वेति वाच्यम् । दूरे जलज्ञानान्तरं क्वचिन्निश्शङ्कमेव किञ्चिदनन्तरं गतस्य पश्चान्मरुमरीचिकत्वादिसंशयदर्शनेन निष्कम्पप्रवृत्ति-हेतुतया प्रामाण्यनिश्चयस्य तत्रावश्यवाच्यतया तस्य मानसत्वावश्यम्भावा-दिति संक्षेपः ।
केचित्तु । ननु अप्रतिबद्धसाक्षिवेद्यमपि न स्वतस्त्वं यत्रानभ्यास-दशायामपि पूर्वं दोषाद्यभावस् तत्रापि प्रामाण्यनिश्चयापत्या दोषान्तरोप-नियतेऽपि संशयाभावापातादित्यत आह ॥ यत्र पूर्वमिति ॥ निश्चीयते एवेत्यस्यासति दोषप्रमाणमिदमिति साक्षिणा निश्चीयत इत्यर्थः । अतो नोत्तरसंशयानुपपत्तिरित्याहुः ।
न्यायदीपः
ननु ज्ञानत्वप्रमात्वग्रहणशक्त्योरैक्योपगमेऽन्यतराग्रहणे द्वयोरप्य-ग्रहणमवर्जनीयम् । भेदे तु स्वतस्त्वहानिरेव । ज्ञानग्रहणशक्त्यतिरिक्त-शक्तिग्राह्यत्वात् । अन्यथाऽप्रामाण्यस्यापि स्वतस्त्वापात्तिरित्यतो ‘‘मानस्यादोषशङ्कयाप्रमाण्यग्रहणशक्तिःप्रतिबद्धा’’ इतिप्रकृतिनय-सुधावाक्येन भेदपक्षस्य ‘‘करणानां ज्ञानजननशक्त्यैव तद्याथार्थ्यजनकत्वं स्वतस्त्वम्’’ इत्यादिजिज्ञासानयसुधा वाक्येनाभेदस्य चप्रतीतेर्भेदाभेद-रूपपक्षद्वयेपि समाधिमाह ॥ तद्ग्रहणेति ॥ न त्वप्रामाण्यग्रहणशक्ति-रिति ॥ सहजेत्यनुकर्षः । किं तु दोषाहितेत्यर्थः ॥ मा दहेतीति ॥ ‘‘अमानोनाप्रतिषेध’’ इति निषेधार्थकमाशब्दोऽयम् । न माङ् । तेन ‘‘माङि लुङ्’’ इत्युक्तलुङभावः साधुः ॥ टीकोक्तेरिति ॥ तत्वनिर्णय-टीकोक्तेरर्थतोऽनुवादोयम् ।
ननु तत्र ‘‘नप्रकृते काचिदस्माकं हानिः’’ इति हि पाठः । तथा चप्रकृते वेदापौरुषेयत्वे काचिद्घानिर्नेत्यभ्युपगमवादेनाप्युपपन्ना सा टीकोक्तिः । एवं च ज्ञानग्रहहेत्वतिरिक्तहेतुसापेक्षग्राह्यत्वे कथं न प्रामाण्यस्य स्वतस्त्वहानिरित्यतस्तत्वनिर्णयटीकास्थं ‘‘न हि दाहाभाव एव वेत्रबीजं वेत्राङ्कुरं जनयतीत्येतावता दाहाभावो वेत्राङ्कुरस्य कारणं भवति । किं तु ततो विपरीतकार्यानुत्पादे सति वेत्रबीजं स्वमहिम्नैवाङ्कुरं करोति । अन्यथोत्सर्गापवादौ क्वापि न स्यातां’’ इति पूर्ववाक्यं हृदि कृत्वाह ॥प्रतिबन्धकेति ॥
एवंप्रतिबन्धकेन प्रामाण्यानिश्चयमुपेत्य संशयमुपपाद्य क्वचित् प्रामाण्यनिश्चयमुपेत्यापि संशयमुपपादयति ॥ यत्रेति ॥ यद्वा अस्त्वेवं प्रामाण्यविरोध्युपस्थापकसामग्रीसमवधानस्थले प्रामाण्यानिश्चयेपि विवक्षितस्वतस्त्वाहान्या संशयोपपत्तिः । तत्सामग्रीसमवधानात्प्राक्काले तु कथम् । तत्र प्रामाण्यानिश्चये स्वतस्त्वहानेः । यज्ज्ञानं यत्रप्रतिबन्धकं तत्सामग्र्यपि तत्रप्रतिबन्धिकेत्यस्य अभावात् । प्रामाण्यनिश्चये १वोदीरित-सन्देहो न स्यादित्यत आह ॥ यत्रेति ॥ निश्चीयत एवेति ॥ मनसेति भावः । न तु साक्षिणा । तस्य दृढनिर्णयत्वात् ।
‘‘सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम्’’ इति ।
‘‘मानसे दर्शने दोषा नैव स्युः साक्षिदर्शने ।
यत्क्वचिद्व्यभिचारि स्याद्दर्शनं मानसं हि तत्’’ ॥
इति च ज्ञानपादीयानुव्याख्यानोक्तेरिति ज्ञेयम् । एतेन यदुक्तं मणौ ‘‘निश्चितेपि प्रामाण्ये दोषान्तरात्तत्र संशय इति चेन्न ।प्रवृत्तिप्रसङ्गात्’’ इति तन्निरस्तम् । प्रामाण्यनिश्चयकालेऽप्रतिबन्धादिष्टापत्तेः । पश्चात्तु तस्य नाशात्प्रतिबन्धाच्च अप्रवृत्युपपत्तेः ।