०४ स्वतस्त्वानुमानेषु बाधोद्धारः

ननूक्तरूपं याथार्थ्यं न साक्षिणो..

स्वतस्त्वानुमानेषु बाधोद्धारः ।

उक्तयाथार्थ्यस्य साक्षिणो ऽनुव्यवसायस्य चाविषयत्वशङ्का परिहारश्च

तर्कताण्डवं

ननूक्तरूपं याथार्थ्यं न साक्षिणो अनुव्यवसायस्य वा विषयः । रजतत्वप्रकारकत्वे सन्देहादर्शनेन तस्य तद्विषयकत्वेऽपि रजतत्व-वद्विशेष्यकत्वे सन्देहदर्शनेन रजतत्ववत्वरूपे बहिरर्थे तस्य असामर्थ्यात् । तथाच स्वतस्त्वानुमानानि बाधितविषयाणीति चेन्न । सुखत्ववत्वादेर्बहिरर्थत्वाभावेन साक्षिवेद्यसुखादिज्ञाने स्वतः प्रामाण्या-प्रतिहतेः ।

किञ्च किं रजतत्वादिवैशिष्ट्यमनुव्यवसायाविषय एव किं वा व्यवसायविषयतया तद्विषयोपि स्वातन्त्र्येण तदविषयः । नाद्यः । अनुव्यवसायस्य ससम्बन्धिकव्यवसायविषयकसाक्षात्कारत्वेन सम्बन्धितावच्छेदकरजतत्वादिवैशिष्ट्यविषयकत्वनियमात् । धर्म-धर्म्यंशयोरिव तद्वैशिष्ट्यांशेपि व्यवसायप्रत्यासत्तेः सत्वेन तदप्रतीतौ हेत्वभावाच्च । रजतं जानामीत्यनुव्यवसायेपि रजतरजतत्वयोः स्वरूपेणैव भाने तस्य पुरोवर्तिरजतत्वे जानामीति समूहालम्बन-रूपानुव्यवसायाद् विषयभेदाभावापाताच्च । व्यवसायगतस्य रजतत्ववैशिष्ट्यविषयकत्वस्य असिद्ध्यापाताच्च । नह्यनुव्यवसायाद् अन्येन तत्सिद्धिः । न च वैशिष्ट्यमगृह्णन्ननुव्यवसायस् तद्विषयकत्व-ग्रहणे शक्तः ।

युक्तिरत्नाकरः

उक्तरूपमिति ॥ बहिरर्थघटितत्वज्ञापनाय साक्षिणो न्यायमते सिद्धेराह ॥ अनुव्यवसायस्येति ॥ सन्देहदर्शनेनेत्युपलक्षणम् । बहिरर्थत्वाभावेनेति बोध्यम् । सन्देहेति तस्य रजतत्ववत्वसंशयपर्यवसन्नत्वादिति भावः ॥ तथाचेति ॥ यद्यपि सुखानुभवसाक्षात्कारनिष्कम्पप्रवृत्तिहेतुत्व-व्यवसायादेरेव च पक्षत्वेन तत्र प्रामाण्यस्य संशयाभावेन बाधः । तथापि प्रामाण्यं स्वतोग्राह्यमित्याद्यनुमानाभिप्रायेण वा यत्र बहिरर्थै संशयस्तत्रापि स्वतस्त्वस्य साधनीयतया तदभिप्रायेण वा योग्यत्वसाधकाद्यनुमित्यभिप्रायेण चेयमुक्तिः । अत एव पक्षीकृतसुखादिज्ञानप्रामाण्ये करतलामलकादे-र्बहिरर्थत्वेऽपि सन्देहाभावेनेति शेषः । साक्षिवेद्यं च तत् सुखम् इति विग्रहः । आदिपदेन करतलामलकादेर् ग्रहणम् । स्वतः प्रामाण्यग्रहः साधनाप्रतिहतेः । ससम्बन्धिकसंयोगसविकल्पकप्रत्यक्षे सम्बन्धितावच्छदेकघटत्वादिविशिष्टस्य घटादौ ससम्बन्धिनि भाननियमेन संयोगप्रत्यक्षापेक्षया ससम्बन्धिकपदार्थ-प्रत्यक्षत्वस्य विभागघटाभावादिवृत्तितया सामान्यरूपत्वेन ससम्बन्धिता-वच्छेदकवैशिष्ट्यविषयकत्वं व्यवसायतावच्छेदकत्वकल्पनादिति भावः । न घटस्यापि स्वभावसम्बन्धितया प्रत्यक्षे व्यभिचारः । ससम्बन्धिक-पदेनान्यनिरूप्यत्वस्य विवक्षितत्वात् । तस्य च घटत्वेन रूपेणान्या-निरूप्यत्वात् । एवञ्च इदं रजतत्वेन जानामीत्यनुव्यवसायः स्वविषय-निरूपकैतदवच्छेदकवैशिष्ट्यविषयकः निरूपप्रत्यक्षत्वाद् घटे पटसंयोग इति प्रत्यक्षवदिति भानमिह सूचितम् । हेतुसाध्ययोर्व्यवसाये रजतत्वपदे प्रकृताभिप्राये ।

ननु व्याप्तिशरीरान्तर्गतोऽन्यानिरूप्यघटादिप्रत्यक्षे संयोगो गुण इत्यादि-शाब्दज्ञानेन व्यभिचारवारणाय हेतावुभयोपादानम् । ननु संयोगनिर्विकल्पके व्यभिचारः । सविकल्पकत्वविशेषणे च सिद्धान्तव्यर्थता । न चानु-व्यवसायस्य ज्ञानांशे निर्विकल्पकत्वेऽपि विषयांशे सविकल्पकत्वदर्शनात् संयोगप्रत्यक्षस्यापि संयोग्यंशे सविकल्पकत्वेन व्यभिचार इति वाच्यम् । घटादिनिर्विकल्पकदशायामेव रूपादिनिर्विकल्पवत् संयुक्तसमवायादिना संयोगनिर्विकल्पकस्यापि सम्भवेन व्यभिचारस्य वज्रलेपत्वात् । न च लाघवेन ससम्बन्धिकप्रत्यक्षत्वावच्छेदेनैव सम्बन्धितावच्छेदकप्रकार-ज्ञानजन्यत्वकल्पनात् । न तदा संयोगनिर्विकल्पकसामग्रीति वाच्यम् । अपसिद्धान्तात् । अन्वयव्यतिरेकाभ्यां संयोगत्वविशिष्टप्रत्यक्ष एव ससम्बन्धितावच्छेदकज्ञानहेतुत्वस्य तदभ्युपगमात् । गुणत्वादिसामान्य-प्रत्यक्षासत्तिजन्यसंयोगप्रत्यक्षे व्यभिचारेण सम्बन्धिनिष्ठासाधारणधर्मप्रकारक-प्रत्यक्षत्वस्यैतज्जन्यतावच्छेदकसत्वेनोपेयत्वाच्चेति । न च तद्वारणाय लौकिकत्वमेवावच्छेदकमिति वाच्यम् । संयोगाद्यन्यतममात्रजन्यत्वस्या-लौकिकप्रत्यासत्तिजन्यत्वादेर् वा तस्यापि गुरुत्वाद्वस्तुतः संयोगे एव गुणत्वसत्वात्तत्प्रकारक एव लौकिकप्रत्यक्षे सम्बन्धितावच्छेदकप्रकारकज्ञाने तस्य हेतुत्वाच्चेति चेन्न सामान्यप्रत्यासत्तिजन्यसंयोगप्रत्यक्षे व्यभिचारवारणाय प्रत्यक्षपदेन तदसाधारणधर्मप्रकारकप्रत्यक्षत्वस्यावश्यविवक्षणीयत्वेन तत एव तन्निर्विकल्पके व्यभिचारवारणादिति ।

किञ्च बहिरर्थत्वेनानुव्यवसायविषयत्वं किं रजतत्ववैशिष्ट्यमात्रे साध्यते किं वा पुरोवर्तिरजतत्वयोरपि । नान्त्यः । तत्रापि संशयापातात् । नाद्यः । तयोरपि तत एव तदविषयत्वसाधनप्रसङ्गात् । संशयाभावेन तयो-स्तद्विषयत्वसाधने तु बहिरर्थहेतोस्तत्रैव हेतुत्वात् पुरोवर्तिरजतत्वयोश्च व्यवसायरूपोपनायकसहकृतत्वाद्धेत्वागमनान् न व्यभिचारस्तदा तद्वैशिष्टेऽपि हेत्वसत्वाभावाद् अनुव्यवसायविषयकत्वसिद्धिरित्याह ॥ धर्मेति ॥ तदप्रतीतौ तन्मात्राप्रतीतौ संशयगतिस्तु वक्ष्यते इति भावः । एवं सामग्य्रुप-पादनेन वैशिष्ट्यानुव्यवसायविषयत्वं प्रसाध्य तदङ्गीकारे अनुभवबाधं व्यवसायस्य वैशिष्ट्यविषयत्वासिद्धिं च क्रमादाह ॥ रजतमिति ॥ केचित्तु रजतं जानामि इत्यनुव्यवसायः रजतरजतत्ववैशिष्ट्यविषयकस् तदविषयक-विलक्षणत्वाद् व्यवसायवदित्यनुमानबाधितं च बहिरर्थत्वेन वैशिष्ट्य-स्यानुव्यवसायविषयत्वसाधनमनुकूलतर्कसध्रीचीनत्वेनास्य प्राबल्यादित्यभिप्रेत्य तर्कमाह रजतमिति इति । अपिर्विरोधे । इदं रजतमिति व्यवसायवदिदं रजतं जानामि इत्यत्रापि रजतत्ववैशिष्ट्यविषयकानुव्यवसायविषयः स्यात् पुरोवर्तिरजतत्वे रजतं जानामि इत्यत्रैवेहापि समुच्चयार्थो वा स्वरूपेणैव भानवैशिष्ट्यं प्रति अनुयोगित्वप्रतियोगित्वाभ्याम् अभाने रजतं जानामि इति प्रतीतिर्यदि रजतरजतत्वविषयके सति तद्वैशिष्ट्यविषयकानुव्यवसायविषयः स्यात् पुरोवर्तिरजत्वे जानामीति समूहालम्बनानुव्यवसायसमानाकारः स्यादिति तर्कार्थः । घटाद्यनुव्यवसाये रजतत्वं विशिष्टतया जानामीत्यनुव्यवसाये इदं रजतमिति व्यवसाये च व्यभिचारवारणाय क्रमाद्विशेषणद्वयम् ।

ननु पुरोवर्तिरजतत्वे जानामीत्यनुव्यवसाये रजतत्वविशेष्यकत्व-स्याधिकस्य भानात्कथं तत्समानाकारतापादनमिति चेन्न । रजतांशे तत्समानविषया स्यादित्यत्र तात्पर्यात् । एतदस्वरसाद् आह– व्यवसायेति ॥ तथा च तद्बाधितं तत्साधनमिति भावः । यद्वा एतदन्यथानुपपत्तिरप्युक्तवैशिष्ट्यविषयकत्वे मानमिति । ननु वैशिष्ट्यस्य बहिरर्थत्वेनानुव्यवसायाविषयत्वेऽपि तद्विषयकत्वस्य व्यवसायनिष्ठस्य तद्विषयकत्वे दोषस्तत्राह ॥ न चेति ॥ अननुसंहितोपा धेरुपहित-प्रत्ययायोगादिति भावः । व्यवहारोऽभिलापः । आदिपदावृत्तिः । तथाचेदं रजतमिति प्रवृत्यभिलापौ रजतत्ववैशिष्ट्यविषयकज्ञानासाध्यौ तादृश-प्रवृत्यादिमत्वात् पूर्वं तादृशप्रवृत्यादिवदित्यनुमित्यर्थे ॥

न्यायदीपः

ननु अप्रामाण्यघटकोपाधेरभावस्य व्यवसायाविषयतया तदनुव्यवसाय-वेद्यत्वमप्रामाण्यस्य बाधितमिति यथोच्यते तथैव प्रामाण्यघटकोपाधेर्धर्मधर्मि-वैशिष्ट्यस्य व्यवसायविषयत्वेपि न तदनुव्यवसायविषयता । तस्य बहिरर्थ-त्वात् । अन्यथा धर्मधर्म्यंश इव वैशिष्ट्ये अस्ति न वेति कदापि सन्देहो न स्यादिति भावेन ‘‘अस्तु तावदिदं प्रामाण्यं तथाप्यनुव्यवसायानन्तरं व्यवसायस्य प्रामाण्ये अर्थस्य तद्वत्वे च संशयस्यानुभवसिद्धत्वान्नार्थतद्वत्त्वं तस्य विषयः’’ इति मणिकृदुक्तं हृदि कृत्वा शङ्कते ॥ नन्विति ॥ उक्तेति ॥ तद्वति तत्प्रकारकज्ञानत्वरूपमित्यर्थः । वक्ष्यमाणोपपादन-सौकर्याय एतदुक्तिः । स्वरूपज्ञानं साक्षीति सिद्धान्तावष्ठम्भेनाह ॥ साक्षिण इति ॥ मानसज्ञानानुभवो अनुव्यवसाय इति मतावष्टम्भेनाह ॥ अनु-व्यवसायस्य वेति ॥ तद्वद्विशेष्यकत्वसन्देहस्य तद्वत्वसन्देहपर्यव-सानाद्रजतत्ववत्त्वरूपेत्युक्तम् ॥ तस्येति ॥ अनुव्यवसायस्येत्यर्थः ।

सर्वप्रामाण्यस्य स्वतस्त्वानापत्तेराह ॥ किञ्चेति ॥ ‘‘नार्थतद्वत्वं तस्य विषयः’’ इति मण्युक्तेरुभयथा सम्भवात् स्वातन्त्र्येणेति कैश्चिद्व्याख्यानाच्च द्वेधा विकल्पः ॥ सम्बन्धितेति ॥ व्यवसायसम्बन्धिनि रजते या सम्बन्धिता तदवच्छेदकेत्यर्थः ॥ नियमादिति ॥ संयोगप्रत्यक्षादौ तथा दर्शनादिति भावः । न च संयोगनिर्विकल्पके व्यभिचारः । तदभावस्य वक्ष्यमाणत्वात् । तस्यापि संयोग्यंशे सविकल्पकत्वाच्च । साक्षात्कार-पदेनासाधारणधर्मप्रकारेण ससम्बन्धिकसाक्षात्कारस्य अभिप्रेतत्वाच्च । अत एव गुणत्वप्रमेयत्त्वादिसामान्यप्रत्यासत्तिजन्ये ससम्बन्धिकसंयोगादिसाक्षात्कारे न व्यभिचारः । न चैवमपि संयोगत्वसामान्यप्रत्यासत्तिजन्ये संयोगसाक्षात्कारे व्यभिचारः । एवं हि लौकिकेत्यपि साक्षात्कारो विशेषणीयः ॥ धर्मेति ॥ बाह्यार्थत्वेपि रजतस्थं रजतत्वं तदाधारभूतं विशेष्यं च यथानुव्यवसायस्य विषयस् तथा रजते रजतत्ववैशिष्ट्यमपि विषयोऽस्तु, तयोर्व्यवसायोपनीतत्वे तद्वत्वस्यापि व्यवसायोपनीतत्वमस्तु, न हि व्यवसायः स्वविषयमध्ये धर्मधर्मिणोरेवोपनायको न वैशिष्ट्यस्येत्यत्र हेतुरस्तीत्यर्थः ।प्रत्यासत्तेरिति पररीत्योक्तम् । व्यवसायविषयत्वस्य नियामकस्य सत्वेनेति वार्थः । ननु धर्मधर्म्यंशयोः संशयो न कदाचित्, तद्वत्वांशे तु सोऽस्तीति संशय एव तदप्रतीतौ हेतुकल्पक इति चेन्न । तस्यान्यथोपपत्तेर्वक्ष्यमाणत्वादिति भावः ।

ननु वैशिष्ट्यस्यापि भाने भासमानवैशिष्ट्यप्रतियोगित्वरूपस्य रजतत्वादिगतस्यप्रकारत्वस्यापि भानप्रसङ्गेनेदं रजतत्वेन जानामीत्येवानु-व्यवसायो भवेन्नत्विदं रजतं जानामीत्यत आह ॥ रजतमिति ॥ अपीत्यभ्युपगमवादः । रजतत्वेनेत्येवाकारो नत्वेवं तथापीत्यर्थः । यद्वा वैशिष्ट्यस्यानुव्यवसायाविषयत्वे दोषान्तरमाह ॥ रजतमिति ॥ न केवलं समूहालम्बन इत्यपेरर्थः । इदं रजतमिति व्यवसायसमानाकार-तयोत्पद्यमानेपीति वार्थः ॥ स्वरूपेणैव ॥ असम्बद्धतयैवेत्यर्थः ॥ असिद्धीति ॥ रजतरजतत्वयोः स्वरूपेणैव भान इत्यनुकर्षः ॥ तद्विषय-कत्वेति ॥ वैशिष्ट्यविषयकत्वेत्यर्थः ।


ननु वैशिष्ट्यविषयकव्यवहारादिलिङ्गकानुमित्या..

**अनुव्यवसायस्य वैशिष्ट्यविषयकत्वसाधानम् **

तर्कताण्डवं

ननु वैशिष्ट्यविषयकव्यवहारादिलिङ्गकानुमित्या व्यवसाय-प्रामाण्यानुमित्या वा तत्सिद्धिः । न त्वनुव्यवसायेन । इदं रजतत्वेन जानामीति हि तदाकारो नत्विदं रजतमिति । तृतीयार्थश्च न वैशिष्ट्यम् । व्यवसायेऽपि तदर्थोल्लेखापत्तेः । किं तु व्यवसायगतं रजतत्वप्रकारकत्वम् । तस्माद्वैशिष्ट्यं नानुव्यवसायविषय इति चेन्मैवम् । वैशिष्ट्यविषयकत्वस्य अनुमेयत्वेऽनुमितितः प्राक्तत्र कदाचित्संशयाद्यापातात् । भासमानवैशिष्ट्यप्रतियोगित्वादन्यस्यप्रकारत्वस्याभावेनेदं रजतत्वेन जानामीत्याकारेणैवानुव्यवसाये१ धर्मधर्म्यंशविषयकत्वस्येव वैशिष्ट्यविषयकत्वस्यापि भानेऽनुभवसिद्धे तत्त्यागेनान्यतस्तत्सिद्धिकल्पने धर्मधर्म्यंशविषयकत्वस्यापि अन्यतः सिद्धिकल्पनापाताच्च । न च व्यवसायस्य वैशिष्ट्यविषयकत्वमगृह्णन् धर्म्यंशादिविषयकत्वमात्रं गृह्णन्नन्योऽनुव्यवसायोऽनुभूयते ।

न च व्यावर्तकत्वं वा तज्ज्ञानजनकज्ञानविषयत्वं वा विशेष्यानिष्ठो, रजतत्वादिनिष्ठो ज्ञानेन सह स्वरूपसम्बन्धविशेषो वाप्रकारत्वमिति वाच्यम् । बहिरर्थानां तेषां वैशिष्ट्यवद्व्यवसाय-विषयत्वाभावेनानुव्यवसाये भानायोगात् । कप्तस्य भासमानवैशिष्ट्य-प्रतियोगित्वस्य त्यागेन स्वरूपसम्बन्धविशेषकल्पनायोगाच्च । इदं रजतत्वविशिष्टतया जानामीत्यनुव्यवसायाच्च । व्यवसायस्य त्वदुक्तरजतत्वप्रकारकत्वेनैवेदं रजतमित्याकारस्येदं रजतमित्यभिलपनं रजतार्थिप्रवृत्तिं चप्रति हेतुत्वस्य च सम्भवे तस्य वैशिष्ट्यविषय-कत्वाभावापाताच्च ।

अनुव्यवसाय एव तृतीयार्थोल्लेखस्तु तत्र वैशिष्ट्यभानेऽपि अधिकस्य रजतत्वे व्यवसायंप्रतिप्रकारत्वस्यापि भानात् । अत एवानुव्यवसायस्येदं रजतमित्याकारत्वाभावोऽपि । वैशिष्ट्यस्य स्वातन्त्र्येणाभानात् ।

युक्तिरत्नाकरः

नन्विति ॥ तथा च न द्वितीयं बाधकम् । न तावदनुपपत्तिरिति भावः ॥ नन्वभिलापादेरिति ॥ इदं रजतमित्याकारकत्वादेव बहिर्वैशिष्ट्य-विषयकत्वम् । तथा चेदं रजतं जानामीत्यनुव्यवसायस्यापि तत एव वैशिष्ट्यविषयकत्वसिद्धिस् तत्राह ॥ इदं रजतत्वेनेति ॥ इदं रजतमिति जानामीत्यनुकर्षः । बहिरस्वातन्त्र्यादिति भावः । एवं च इदं रजतं जानामि इत्यनुव्यवसायस्यैव असिध्या समूहालम्बनानुव्यवसायसमानविषयापादन-मप्यसङ्गतमिति भावः ॥ अनुमितितः प्रागिति ॥ इदमुपलक्षणम् । बालमूकादेरुदासीनस्य वाभिलापप्रवृत्तेरभावेन प्रामाण्यानुमितेरपि प्रवृत्युत्तरकालतत्सामर्थ्यावधारणसाध्यत्वेन तदसार्वत्रिके व्यवसायस्य वैशिष्ट्यविषयत्वासिद्धेः । किं च वैशिष्ट्यविषयकत्वग्रहे सत्येव स्यादि-त्यनुव्यवसायत एव तद्गहो वाच्यः । प्राथमिकस्य तद्ग्रहस्यानुमित्यादि-रूपस्यासम्भवात् । प्राथमिकप्रामाण्योपस्थिते प्राग्भवीयसंस्कार-व्यतिरेक्यनुमानादिनोत्पत्तिरित्यस्य निरसिष्यमाणतया तन्न्यायानवताराच्च । एवं प्रवृत्त्यादावपि वैशिष्ट्यविषयकत्वमनुव्यवसायादन्यतो न सिध्यतीति हेत्वसिद्धिरित्याद्यपि बोध्यम् । तदिदमुक्तम् ॥ तद्यनुव्यवसायादन्यतरा-सिद्धिरिति ॥ किञ्चेदं रजतं जानामि इति नानुव्यवसायाकारः । किन्त्विदं रजतत्वेनेत्यभ्युपगमोनुभवापलापे दोषलिप्सैव नत्विष्टसिद्धये तत्र कारक-त्वोल्लेखेनैव तद्घटकवैशिष्ट्यविषयकत्वाभावासिद्धेः । बहिरर्थघटिततया तदभावे धर्मधर्मिविषयकस्यापि तथात्वापत्तेः । यदि चेदं रजतत्वेनेत्यनुभव-सिद्धतदुल्लेख्याद्धर्मधर्मिसिद्धिस् तदेहापीत्युक्तम् । न च धर्मधर्मिविषयत्वमपि न भासत इति वाच्यम् । इदं रजतत्वेनेति तदाकारविरोधादनुव्यवसाये व्यवसायमात्राभावेन सर्वानुभवविरोधाच्च । तथा च वैशिष्ट्यविषयकभ्रमे वानुमानादिसिद्धमिति वैषम्यं निर्मूलमित्याह ॥ भासमानेति ॥ ननु वैशिष्ट्यघटितमेव तत्प्रकारकत्वम् अतो न तृतीयार्थोल्लेखबलाद्वैशिष्ट्य-विषयकत्वसिद्धिस्तत्राह ॥ न चेति तज्ज्ञानजनकेति ॥ विशिष्ट-ज्ञानकज्ञाने विषयतयाऽवच्छेदकमित्यर्थः । अतो न विशेष्यादौ प्रसङ्गः । विशेषणाविषयत्वेनैव तस्य विशिष्टज्ञानजनकत्वात् । तत्राद्येऽतीता-नागतातीन्द्रियेषु प्रकारत्वं न स्यात् । व्यावृत्तिधीजनकत्वरूपव्यावर्तकत्वस्य तत्राभावात् । द्वितीये विशेषणज्ञानहेतुत्वपक्षे प्रकारत्वमात्रेऽसम्भवः । तृतीयेऽप्यतीतादै प्रकारत्वं न स्यात् । तन्निष्टस्य तदात्मकस्य तदभावाभावान्न च तत्र, ज्ञानमेव सम्बन्धः । रजतादिविशिष्टत्वोक्त्ययोगात् । कथञ्चिद्योगे विशेष्यवृत्तित्वस्यापि तत एव भाने तदवृत्तित्वोक्त्ययोगाच्चेत्यादि दोषे सत्येव दोषान्तरमाह१ ॥

यत्र निरन्तरव्यवसायद्वयं तत्र पूर्वव्यवसायविषयस्य वैशिष्ट्यं द्वितीयः द्वितीयव्यवसाये प्रकारत्वोपपत्तिः । न च तयोरिदं रजतम् इदं रजतत्व-विशिष्टमित्याकारभेदापत्तिः । इष्टापत्तेः । अत एव दण्डी देवदत्त इत्यत्रा-दण्डसंयोगवान् देवदत्तः दण्डसंयोगसमवायवान् देवदत इत्यादयोपि प्रत्यया अनुभवसिद्धा इति भावः । नन्वेवमिदं रजतत्वविशिष्टतया जानामीत्यत्र तद्विषयत्वासिद्धिरेवेत्यत्राह ॥ व्यवसायस्येति ॥ त्वदुक्तेति ॥ स्वरूपसम्बन्धविशेषरूपेत्यर्थः । तथा चेदं रजतत्वविशिष्टमिति व्यवसाय-वैशिष्ट्यं विषयो न त्विदं रजतमिति व्यवसाय इति तस्याविशिष्टधीत्वमेव सकललोकसिद्धं न स्यात् । वैशिष्ट्यगोचरत्वसत्वादिदं रजतमिति व्यवसायानन्तरं प्रामाण्यसंशयाद्यभावदशायामपि इदं रजतं न वेति कदाचित्कस्यचित्संशयादि स्यात् । तत्र पुरोवर्तिरजतत्वे वैशिष्ट्यस्य सद्भावे व्यवसायानुव्यवसायमानत्वेन तदलीकत्वापत्तिश्च स्यादिति भावः । एवमप्यनुव्यवसायस्य ससम्बन्धिकप्रत्यक्षत्वादिप्रागुक्तयुक्त्यापि वैशिष्ट्य-विषयकत्वस्यावश्यकत्वे किमतिरिक्तस्वरूपसम्बन्धविशेषविषयकल्पनेनेत्यपि बोध्यम् । तदिदमुक्तं क्लृप्तस्येत्यादि ॥ प्रकारत्वस्येति ॥ भासमान-वैशिष्ट्यप्रतियोगित्वरूपस्येत्यर्थः । व्यवसायं प्रति प्रकारत्वस्य च व्यवसायघटितमूर्तितया न व्यवसायविषयत्वमिति भावः । नन्विमे रङ्गरजते इत्यत्रेवाधिकभानेऽपि इदं रजतमित्याकरता वैशिष्ट्यांशे स्यादेवेत्याह ॥ अत एवेति ॥ अतः शब्दार्थमाह ॥ स्वातन्त्र्येणेति ॥ साक्षादित्यर्थः । व्यवसायद्वारैव पुरोवर्तिनि रजतत्ववैशिष्ट्यविषयकत्वेनेति यावत् ।

न्यायदीपः

॥ व्यवहारादीति ॥प्रवृत्तिरादिपदार्थः । व्यवसायो वैशिष्ट्यविषयकस् तद्विषयव्यवहारप्रवृत्तिहेतुत्वात् सम्मतवदित्यनुमित्या इदं ज्ञानंप्रमाणं समर्थप्रवृत्तिहेतुत्वादित्यादिप्रामाण्यानुमित्या वेत्यर्थः । तद्वद्विशेष्यकत्वस्य प्रामाण्यरूपत्वादिति भावः ॥ तत्सिद्धिः ॥ व्यवसाये वैशिष्ट्यविषयकत्व-सिद्धिरित्यर्थः । ‘‘इदं रजतं जानामीति नानुव्यवसायाकारः । बहिर्विशेष्यके मनसोऽसामर्थ्यात् । किं त्विदं रजतत्वेन जानामीति’’ इत्यादिमण्युक्तमाह ॥ इदं रजतत्वेनेति ॥ वैशिष्ट्यविषयकत्वस्य इति ॥ व्यवसायगत-स्येत्यनुषङ्गः ॥ धर्म्यंशेति ॥ इदन्त्वविशिष्टेदमंशविषयकत्वस्येवेत्यर्थः । विशेष्यांशेति वार्थः ॥ अन्यत इति ॥ अनुव्यवसायादन्यतो व्यवहारादि-लिङ्गतो व्यवसायप्रामाण्यानुमितितो वेत्यर्थः । संशयाभावतद्भावौ त्वन्यथोपपन्नाविति भावः । ननु तदंशेऽनुव्यवसायान्तरतः सिद्धिरनुभव-सिद्धेत्यतो निराह ॥ न चेति ॥

अन्यस्यप्रकारत्वस्याभावेनेत्येतस्यासिद्धिमाशङ्क्य निराह– न च व्यावर्तकत्वमित्यादिना । विशेष्यनिष्ठव्यावृत्तिबुद्धिजनकत्वं व्यावर्तकत्वम् ॥ तज्ज्ञानेति ॥ वैशिष्ट्यज्ञानेत्यर्थः । विशेषणज्ञानस्य विशिष्ट-ज्ञानजनकत्वादिति भावः ॥ वैशिष्ट्यवदिति ॥ वैशिष्ट्यस्य यथा व्यवसाय-विषयत्वं तथाऽभावेनेत्यर्थः । वैशिष्ट्यस्य बाह्यार्थत्वेऽपि व्यवसाय-विषयत्वात् तत्प्रतियोगित्वरूपप्रकारत्वस्यानुव्यवसाये भानं युक्तमिति भावः । ज्ञानेन सह स्वरूपसम्बन्धविशेषो न बहिरर्थ इत्यत आह ॥ कप्तस्येति ॥ अतीतादिस्थले व्यावृत्तिबुद्धिजनकत्वरूपव्यावर्तकत्वायोगात् । विशेषण-ज्ञानाहेतुत्वपक्षे च द्वितीयस्यायोगेन तत्र भासमानेत्यादिरूपस्यैवप्रकारत्वस्य कप्तत्वादिति भावः । ‘‘वैशिष्ट्यविषयकत्वस्यापि भानेऽनुभवसिद्धे’’ इति प्रागुक्तमसिद्धमित्यत आह ॥ इदं रजतत्वेति ॥

ननु इदंविशेष्यकरजतत्ववैशिष्ट्यप्रकारकज्ञानवानहमित्यनुव्यवसायादिति ह्यस्यार्थः । न च वैशिष्ट्यं व्यवसायेप्रकारः । प्रागनुपस्थितत्वेन संसर्ग-मर्यादयैव भानादिति चेन्न । विशेषणज्ञानहेतुताया निर्विकल्पकभङ्गे निरसिष्य-माणत्वेन प्रागनुपस्थितस्यापि वैशिष्ट्यस्य व्यवसाये रजतत्वस्येवप्रकारतया भाने बाधकाभावादिति भावः । एवंरूपानुव्यवसाये विप्रतिपत्तिरिति चेत्तर्हीदं१ रजतत्वेन जानामीत्याकारोऽपि वैशेष्ट्याभानेप्युपपद्यतामित्यतिप्रसङ्ग इत्याह ॥ व्यवसायस्येति ॥ इत्याकारस्य हेतुत्वस्य च सम्भव इत्यन्वयः ।

वैशिष्ट्यस्य तृतीयार्थत्वे व्यवसायेपि तृतीयार्थोल्लेखापत्तेरिति प्रागुक्तदोषं निराह अनुव्यवसाय एवेति ॥प्रकारत्वस्येति ॥ भासमानवैशिष्ट्य-प्रतियोगित्वरूपस्येत्यर्थः । व्यवसाये त्वात्माश्रयापत्तेर् नोक्तरूपप्रकारत्वस्य भानमिति भावः । वैशिष्ट्यस्यापि भाने व्यवसायसमानाकारता स्यादित्यत आह ॥ अत एवेति ॥ अत एवेत्युक्तं व्यनक्ति ॥ वैशिष्ट्यस्येति ॥ स्वातन्त्र्येणेति ॥ व्यवसाय इव ज्ञानाविशेषणतयेत्यर्थः ।