०३ प्रामाण्यस्वतस्त्वेऽनुमानानि

स्वतस्त्वेप्रमाणं तु, ज्ञानप्रामाण्यं स्वतो ग्राह्यम्..

प्रामाण्यस्वतस्त्वेऽनुमानानि

प्रथमानुमानकथनम्

तर्कताण्डवं

स्वतस्त्वेप्रमाणं तु, ज्ञानप्रामाण्यं स्वतो ग्राह्यम्, परतो ऽगृह्य-माणत्वे सति गृह्यमाणत्वात्; यद्यदन्येनागृह्यमाणत्वे सति ग्राह्यं तत् तेन ग्राह्यम् । यथा चक्षुरन्येनागृह्यमाणं रूपं चक्षुर्ग्राह्यम् ॥ १ ॥

युक्तिरत्नाकरः

स्वतस्त्वं निरुच्य तत्साधनाय १प्रामाण्यं प्रतिजानीते ॥ स्वतस्त्व इति ॥ २प्रामाण्यं तु अनुमानम् इत्युत्तरेण सम्बन्धः । तत्र तावद्यदुक्तं तत्त्वनिर्णयटीकायां ज्ञानगतं याथार्थ्यं तद्गाहकेणैव ग्राह्यं ग्राहकान्तारानुपपत्तौ सत्यां गृह्यमाणत्वात् । यद्यतोऽन्येनानुपपद्यमानग्रहणं गृह्यते तत्तेनैव गृह्यते यथा चाक्षुषोऽन्येनानुपपद्यमानसाक्षात्कारं साक्षात्क्रियमाणं रूपं चक्षुषैव साक्षात्क्रियत इत्युक्तौ विशेषणवैय्यर्थ्यम् । तद्वति तत्प्रकारकत्वमात्रोक्तावपि तदेव । न च करणप्रामाण्ये बाधवारणाय तत्, तद्गतस्य याथार्थ्यस्य यथार्थज्ञानसाधनतारूपस्य ज्ञानकारणग्राहकेणाग्रहेण बाधात् ।

अत एव सुधायाम्– अथवा ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयग्राह्यत्वं स्वतस्त्वमित्युक्तम् । अस्तु वा कथञ्चिद्बाधः, कथं तेन तद्वारणम् । करणगतप्रामाण्यस्यापि परामर्शादि-ज्ञानगतत्वान्नेच्छादिप्रामाण्ये बाधवारणाय तत्, इच्छाया अपि सविषयकत्वेन साक्षिवेद्यत्वेन तद्ग्राहकेण तद्गतयाथार्थ्यग्रहे बाधकाभावात् ।

किञ्च तद्ग्राहकेणैव ग्राह्यमित्यत्र ग्राहकपदेन ज्ञापकमात्रोक्तौ न्यायमतेऽप्य-नुमितिग्राह्यत्वे३ सिद्धसाधनम् । एवकारवैय्यर्थ्यं च । प्रत्यक्षोक्ताव४नुमिति-प्रामाण्यपदादिशब्दग्राह्यत्वेन बाधात् । एवकाराभाव एव सामञ्जस्याच्च । एवकारस्य भिन्नक्रमत्वेन वा तदर्थत्वैकत्वेऽपि प्रागुक्तपक्षद्वयेऽपि पटज्ञान-मित्यनेन शब्देन प्रतिबद्धसाक्षिणा च प्रामाण्याग्रहाद्बाध एव ।

नापि संशयविरोध्यलौकिकप्रत्यासत्त्यजन्यप्रत्यक्षवेद्यत्वं साध्यार्थः । अत्र चेशज्ञानानुमितिमादाय सिद्धसाधनवारणाय क्रमेण संशयविरोध्यलौकिक-प्रत्यासत्त्यजन्यजन्यप्रत्यक्षेति विशेषणत्रयमिति वाच्यम् । संशयविरोधिपदेन तन्निवर्तकोक्तावीशज्ञानस्यापि तथात्वात् सिद्धसाधनम् । संशयस्यापि धारावाहिकस्थले पूर्वसंशयं प्रति उत्तरात्मविशेषगुणत्वेन स्वात्मानञ्च १प्रतियोगितया निवर्तकत्वेन तमादाद्यार्थान्तराच्च । संशयविषयविरोधि-विषयत्वस्य तदसमानाधिकरणत्वस्य चोक्तावीशज्ञानस्यापि तथात्वात् संशयानुत्पादव्याप्यत्वोक्तावव्याप्त्यादि । साक्षिणि तदभावाच्च । हेतौ च ग्रहणपदेन ज्ञापकमात्रोक्तौ प्रामाण्यस्य क्वचिदनुमितिग्राह्यत्वेन विशेषणा-सिध्यापत्तेः ।

न च तत्प्रकारक एव संवाद्यनुमानेन प्रामाण्यग्रहणेऽनवस्थापत्तेर्न विशेषणासिद्धिरिति उक्तमेवेति वाच्यम् । तत्राप्रामाण्यस्य सर्वत्र नियमे-नानुमितिग्राह्यत्वे एव प्रामाण्यविशेष्यस्यानुमितिग्राह्यत्वेनानुमित्योक्त्या क्वचित्प्रामाण्यस्यानुमितिग्राह्यत्वेऽपि तदभावात् । अत एव दूरे जलज्ञानानन्तरं प्रामाण्यसंशयसामग्रीप्रतिबद्धेन साक्षिणा प्रामाण्याग्रहे प्रवृत्युत्तरकालं जलोपलम्भे प्राचीनपक्षे प्रामाण्यग्रहः समर्थप्रवृत्तिजनकत्व-रूपलिङ्गेन भवत्येवेति राद्धान्तः ।

किञ्च घटज्ञानप्रामाण्यं घटत्ववति घटत्वप्रकारकज्ञानत्वमित्यादिशब्देन प्रामाण्यग्रहणात्कथं न सिद्धिः । विशेष्यं च व्यर्थम् । न ह्यज्ञायमानं किञ्चि-दस्ति येन तत्र व्यभिचारकारणार्थं तत्स्यात् । न च हेतौ साध्ये च ग्राहकपदं प्रत्यक्षपरम् । एवञ्चेदानीमिन्द्रियधर्माधर्मौ व्यभिचारवारणाय गृह्यमाणत्वादिति । तदर्थश्च प्रत्यक्षादीनीति वाच्यम् । तत्र साध्यं स्वाश्रय-प्रत्यक्षविषयत्वमात्रं वा स्वाश्रयप्रत्यक्षमात्रविषयत्वं वा यत्स्वाश्रयप्रत्यक्ष-विषयत्वं वा । नाद्यः न्यायमतेऽप्यनुव्यवसायविशेषविषयत्वाभ्युपगमेन सिद्धसाधनापत्तेः । न द्वितीयः बाधाद्धेतोस्तत्राप्रयोजकत्वाच्च । नान्त्यः प्रतिबद्धसाक्षिणा तदग्रहेण बाधात् । यत्किञ्चित्स्वाश्रयप्रत्यक्षविषयत्व-मात्रेणाप्युपपत्त्या हेतोरुक्तसाध्यसाधकत्वात् । एतेनैवकारस्य कार्त्स्न-व्यवच्छेदोभयार्थकत्वे प्रतिबद्धयावदनुव्यवसायवेद्यत्वं, तदर्थः पर्यवस्यतीति न कोऽपि साध्यदोष इति निरस्तम् ।

उक्तसाध्यहेतोरप्रयोजकत्वादित्यादिदोषनिरासाय तदनुमानतात्पर्यमाह ज्ञानप्रामाण्यमिति ॥ ज्ञानान्यावृत्तिप्रामाण्यपदप्रवृत्तिनिमित्तमित्यर्थः । तच्च लाघवाद्घटत्ववद्विशेष्यकत्वे सति घटत्वप्रकारकज्ञानत्वं न विशेष्या-वृत्यप्रकारकत्वमिति न बाध इति भावः ॥ स्वत इति ॥ ग्राह्यप्रामाण्य-विरेध्युपस्थिति तत्सामग्य्रसमवहितग्राह्यप्रामाण्याश्रयतत्तञ्जान१विषयसकल-साक्षिविषय इत्यर्थः । तदर्थविशेषणकृत्यं च प्रागुक्तम् ।

॥ परत इति ॥ ननु परतोऽग्राह्यत्वं परग्राह्यत्वाभावः । तत्र किं परतो ग्राह्यत्वम् । न तावत् स्वतो ग्राह्यत्वाभावः । हेतोः साध्या-विशेष्यात् । नञ्द्वयवैय्यर्थ्यात् । व्यर्थविशेष्यकत्वाच्च । नाप्यप्रतिबद्ध-साक्ष्यतिरिक्तं परशब्दार्थः । अनुमितिग्राह्यत्वेन हेतोरसिद्धेः । न चोक्त एव परशब्दार्थः । तदग्राह्यत्वं हि तन्मात्रग्राह्यत्वाभावः । तन्मात्रग्राह्यत्वं च तदितराग्राह्यत्वे सति तद्ग्राह्यत्वम् । तदितरशब्दार्थश्च प्रतिबद्धानु-व्यवसायग्राह्यत्वम् । विशिष्टानुमित्यादिग्राह्यत्वस्याभावो हेत्वर्थः । तस्य च सिद्धान्त उक्तानुव्यवसायग्राह्यत्वेन तदग्राह्यत्वरूपविशेषणाभावायत्त-विशिष्टाभावस्य सम्भवेऽपि न्यायमते विशेषणविशेष्ययोरभयोरपि सत्त्वे-नान्यतरासिद्धेरपरिहारात् । न च न्यायमते परेतरयत्किञ्चिदुक्तसाक्षिग्राह्यत्वेन परेतरग्राह्यत्वासामान्याभावविवक्षायत्तविशेषणाभावायत्तविशिष्टाभावसत्वान्नासिद्धिरिति वाच्यम् । तथाप्युक्तानुव्यवसायाग्राह्यत्वे सत्यनुमित्यादिग्राह्यत्वाभावस्यैव हेतुत्वसम्भवे इतरपदवैय्यर्थ्याच्च । विशेष्यवैय्यर्थापरिहाराच्च ।

ननु परतोऽग्राह्यपदेनाप्रामाण्यमुच्यते तदन्यत्वं च परमतेऽग्राह्यत्वम् । तच्च विशेष्यवृत्त्यप्रकारकत्वाद् अतीन्द्रिये व्यभिचारि । अतो ग्राह्यत्वादिति विशेष्यम् । तदर्थश्च ज्ञानांशलौकिकप्रत्यक्षविषयत्वादिति । अतो न दोष इति चेद् यदन्येनाग्राह्यत्वे सतीत्यादिव्याप्त्यभिधानविरोधात् । न हि परतोऽग्राह्यत्वे सतीत्यत्रेवोक्तार्थोऽत्र सम्भवतीति चेदुच्यते । परतोऽग्राह्यत्वं परमात्राग्राह्यत्वम् । परत्वञ्च ग्राह्यप्रामाण्याश्रयगोचरज्ञानांशलौकिकप्रत्यक्षा-पेक्षया । तन्मात्रग्राह्यत्वं च तदितराग्राह्यत्वे सति यत्किञ्चित्तद्ग्राह्यत्वाभावः ।

ततश्चायमर्थः । ग्राह्यत्वप्रमाश्रयगोचरज्ञानांशलौकिकप्रत्यक्षातिरिक्तेतरा-ग्राह्यत्वविशिष्टतादृशप्रत्यक्षातिरिक्तयत्किञ्चिद्ग्राह्यत्वस्याभावे सतीति प्रत्यक्षातिरिक्तं यत्किञ्चित्प्रामाण्यग्राहकमेव विवक्षितम् । एवञ्च ग्राह्य-प्रामाण्याश्रयालौकिकप्रत्यक्षाग्राह्यत्वं विशिष्टस्य प्रामाण्यज्ञापकविषयत्वस्या-भावः सत्यन्तार्थः पर्यवसितः । न्यायमतसिद्धस्तु प्रसाध्याङ्गत्वाददोषः । अत्र विशेष्याभावमात्रोपादाने प्रामाण्ये असिद्धिरतो विशिष्टाभावोपादानम् । विरोध्यभावायत्तविशिष्टाभावश्चाप्रामाण्ये विशेष्यावृत्यप्रकारकत्वादौ चास्तीति व्यभिचारः । तद्वारणाय ग्राह्यत्वादिति । तदर्थश्च प्रत्यक्षयोग्यता-वच्छेदकधर्मावच्छिन्नत्वादिति योग्यतावच्छेदकञ्चानुगतत्वाद्बहिर्द्रव्यप्रत्यक्षे महत्वसमानाधिकरणोद्भूतरूपवत्वमेव । रूपप्रत्यक्षे उद्भूतत्वे सति महत्व१समानाधिकरणमिव जातिप्रत्यक्षे योग्यव्यक्तिवृत्तित्वमिव प्रामाण्यप्रत्यक्षे तद्वति तत्प्रकारकज्ञानत्वादिकमेव । स्वरूपप्रकारविषयमात्रघटितत्वेन तस्य योग्यत्वान्न तु विशेष्यावृत्त्यप्रकारकत्वादि । तस्यातथात्वादिति न तत्र व्यभिचारः । न तावन्मात्रञ्च, शब्दगन्धादौ व्यभिचार इति विशिष्टोपादानम् । यद्यदन्येनागृह्यमाणत्वे सतीत्यत्र यच्छब्देन यदाश्रयगोचरलौकिकप्रत्यक्षमुच्यते तदन्येनाग्राह्यत्वञ्च तदन्यमात्रग्राह्यत्वम् । तदर्थश्च स्वाश्रयगोचर-लौकिकप्रत्यक्षग्राह्यत्वे सति यत्किञ्चित्तदितरातिरिक्तग्राह्यत्वाभावः । यत्किञ्चित्तदतिरिक्तस्वगोचरज्ञानमेव विवक्षितम् । न च हेतोरन्यतरासिद्धिः, न्यायमतेऽपि पारतन्त्र्येणोक्तानुव्यवसायप्राप्तत्वस्यैव सत्वेनोक्तप्रत्यक्ष-वेद्यत्वसामान्याभावस्याभावात् ।

न च नियमघटितस्य साध्यस्य यावत्याश्रयग्राहकग्राह्यपर्यवसिति कथम् अनेन सिद्धिनियमानुपादाने वा कथं नासिद्धसाधनम् इति वाच्यम् । नियमानु-पादानेन स्वाश्रयांशलौकिकप्रत्यक्षविषयत्वमात्रसाधनेऽपि प्रथमानुव्यवसाय-विषयत्वमादायैव साध्यपर्वसानसम्भवेन सिद्धसाधनानवकाशात् ।

यद्वा द्वितीयसाध्याभिप्रायेणैतत्प्रणयनमिति न कश्चिद्दोषः । यद्यदन्येनानु-पपद्यमानग्रहणमित्यत्रापि यदन्येनेति स्वाश्रयगोचरलौकिकप्रत्यक्षमात्रे-णेत्यर्थः । तथा च यद्यदाश्रयगोचरलौकिकप्रत्यक्षत्वाभावविशिष्टयज्ज्ञापक- विषयत्वाभावे सति प्रत्यक्षविषयस् तदाश्रयांशेलौकिकप्रत्यक्षविषय इति सामान्यव्याप्त्यर्थः पर्यवस्यति । न च रूपे स्वाश्रयग्राहकस्य स्पार्शन-प्रत्यक्षाविषये विशेषणविशेष्ययोरुभयोरपि सत्वेन विशिष्टाभावाभावात् साधनवैकल्यम् । स्वाश्रयगोचरचाक्षुषप्रत्यक्षविषये तस्मिन् स्वाश्रय-गोचरप्रत्यक्षग्राह्य(त्व)तत्सामान्याभावस्य विवक्षितस्याभावेन विशिष्टा-भावापत्तेः । गुरुत्वांशे व्यभिचारवारणाय– ग्राह्यत्वादिति ॥ सामान्यव्याप्तौ विशिष्टं प्राग्वत् । अत्र यद्यपि ज्ञानत्वादिदृष्टान्तसम्भवेन विशेष-व्याप्तिप्रदर्शनमेव कर्तुमुचितम् । तथापि विशेषव्याप्तेरिव सामान्यव्याप्तेरपि १गमकत्वविशिष्टे स्वतन्त्रेच्छतया तत्प्रदर्शनं कृतमिति । न च सामान्यव्याप्तिप्रदर्शनेऽपि हेतुविशिष्टव्याप्त्यप्रदर्शनान्न सानुमित्यङ्गमिति वाच्यम् । विशिष्टहेतुनिष्टव्याप्तिप्रदर्शनेऽपि यत्तत्वपुरस्कारेण सामान्यमुखेन हेतुनिष्टव्याप्तेरपि प्रदर्शनात्, कथमन्यथा तवापि ‘‘देवदत्तो बहिरस्ति विद्यमानत्वे सति गृहे असत्वात्’’ इत्यत्र विद्यमानत्वे सति यत्र नास्ति स ततोऽन्यत्रास्ति इत्यादिषु सामान्यव्याप्त्युद्भावनं विशिष्टप्रस्तावे द्रष्टव्यम् ।

वस्तुतस्तु ज्ञानप्रामाण्यप्रतिबद्धस्वाश्रयगोचरस्वाश्रयांशलौकिकप्रत्यक्षविषय इति सामान्यमुखेनैव साध्यं विवक्षितमिति न किञ्चिदेतत् । न च शब्द-स्याप्यनुगतत्वात् कथं पक्षीयहेतौ साध्यनिरूपितव्याप्तिप्रदर्शनमति वाच्यम् । एवंविधाननुगमदोषस्य सकलतार्किकाभिमतत्वात् । कथमन्यथेश्वरानुमानं तवापि । परमार्थस्तु परतोऽग्राह्यत्वे सति ग्राह्यत्वात् स्वाश्रयगोचर-प्रत्यक्षातिरिक्तप्रत्यक्षाविषयत्वे सति प्रत्यक्षविषयत्वादित्यर्थः । अस्य गोः परेण भाव्यमित्यादौ परशब्देन तद्गोसदृशगवां तस्य प्रतिपाद्यत्वदर्शनात् । अत एव चक्षुरन्येनानुपपद्यमानसाक्षात्कारं साक्षात्क्रियमाणं रूपादि चक्षुषा साक्षात्क्रियत इति टीकोक्तिः । यद्यपि नेदं परोक्तपरतस्त्वाभावरूपं तथाप्युक्त एव तत्स्वरूपसाध्यव्याप्यमिति हेतुतयोपन्यासो युक्तः । न हि परतस्त्वाभावसाधनेनैव स्वतस्त्वं साधनीयमित्यस्ति निर्बन्धः । न च स्वाश्रयप्रत्यक्षातिरिक्तप्रत्यक्षावेद्यस्य हेतुत्वे टीकायामसिद्धिमाशङ्क्य संवादलिङ्गत्वानुमानवेद्यत्वेऽनवस्थापत्तेरिति तत्साधनमसङ्गतमिति वाच्यम् । तत्र साक्ष्यतिरिक्तेन प्रत्यक्षादिना येन केनापि प्रामाण्यग्रहणे अनवस्थेत्युच्यते नत्वनुमानवेद्यत्व एव । तत्रैव न च ज्ञानग्राहकातिरिक्तेन ग्रहणं सम्भवतीति ग्राहकान्तरस्यानवस्थाप्रसङ्गेन निरस्तत्वादिति च सामान्यमुखेनैव तदुक्तिः । अत्र विशेष्यमात्रस्य शब्दगन्धादौ व्यभिचारः । अतः पूर्वदलम् । अप्रत्यक्षत्वे सति प्रत्यक्षत्वं च व्याहतमतः स्वाश्रयप्रत्यक्षातिरिक्तेति ।- सत्यन्तस्य गुरुत्वादौ व्यभिचाराद् विशेष्यम् । न च स्वाश्रयज्ञापकातिरिक्त-१दलमिति वाच्यम् प्रत्यक्षपदेनाखण्डसाक्षात्वरूप२जन्यत्युक्त्या वैय्यर्थ्यात् । द्वितीयप्रत्यक्षपदादानेन च सिद्धिः । अखण्डाभावे वैय्यर्थ्याभावात् । तृतीयस्य चोक्तमेव प्रयोजनम् । न च विशेषणासिद्धिः । तदयोग्यधर्मा-घटितत्वेन तत्साधनान्तरेणापि तदभ्युपगमाच्चेति सङ्क्षेपः ।

न्यायदीपः

तत्र किंप्रमाणमित्यत आह ॥ स्वतस्त्वेप्रमाणं त्विति ॥ अनुमानमिति वक्ष्यमाणेनान्वयः । यद्यपि–

‘‘पृष्टेनागम एवादौ वक्तव्यः साध्यसिद्धये’’

इति कथालक्षणोक्तेर् ग्रन्थस्य च वादकथारूपेणप्रवृत्तेः

‘‘ऋग्यजुःसामाथर्वाख्या मूलरामायणं तथा ।

भारतं पञ्चरात्रं च वेदा इत्येव शब्दिताः ॥

पुराणानि च यानीह वैष्णवानि विदो विदुः

स्वतः प्रामाण्यमेतेषां नात्र किञ्चिद् विचार्यते’’

इत्यादिरागम एव वाच्यः । तथाऽपि हैतुकस्य तार्किकस्यागमेऽत्यादरा-भावात् तंप्रत्यागमानुकूला न्याया एवात्रोच्यन्त इत्यदोषः ।

‘‘ज्ञानगतं याथार्थ्यं तद्ग्राहकेणैव ग्राह्यम्, ग्राहकान्तरानुपपत्तौ सत्यां गृह्यमाणत्वाद् यद्यतोऽन्येनानुपपद्यमानग्रहणं गृह्यते तत्तेनैव गृह्यते, यथा चक्षुषोऽन्येनानुपपद्यमानसाक्षात्कारं साक्षात्क्रियमाणं रूपादि चक्षुषा साक्षात्क्रियते’’ इति तत्त्वनिर्णयटीकोक्तमनुमानं तात्पर्यतोऽनुवदति ॥ ज्ञानप्रामाण्यमिति ॥ याथार्थ्यरूपमित्यर्थः । तत्स्वरूपमुक्तं प्रागस्माभिः । चक्षुरादिरूपानुप्रमाणव्यावृत्तस्य साक्षाज्ज्ञेयविषयीकारित्वस्य लाभाय ज्ञानेति विशेषणं तत्तज्ज्ञानपरम् । घटत्ववति घटत्वप्रकारकज्ञानत्वादिरूपं प्रामाण्य-मित्यर्थः । यदा तु प्रामाण्यपदेन केवलप्रामाण्यग्रहस् तदा ज्ञानपदं स्पष्टार्थम् । अत एव सुधायां ‘‘प्रामाण्यम्’’ इत्येव पक्षोक्तिः ॥ स्वत इति ॥ ग्राह्य-प्रामाण्यविरोध्युपस्थापकसामग्र्यसमविहिततत्तज्ज्ञानविषयकसाक्षिविषय एवेत्यर्थः । विशेषणकृत्यं प्राग्वत् । साक्षी च लौकिकप्रत्यक्षादिरूपानु-व्यवसाय एव ॥ परत इति ॥ प्रामाण्यं परतो ग्राह्यं सांशयिकत्वाद् इत्यादौ यत् पराभिमतं साध्यम् उक्तविशिषेणकसाक्षिज्ञानादन्येनैव ग्राह्यत्वादिरूपं तदभावे सति ग्राह्यत्वादित्यर्थः । तेनानुमित्यादिग्राह्यत्वेऽपि नासिद्धिः ‘‘परस्य स्वत्वात् स्वस्य च परत्वात्’’ इत्यादि मण्युक्तखण्डनस्याप्य-नवकाशः ।

केचित्तु परतो ग्राह्यत्वं नाम उक्तविशेषणकोक्तरूपसाक्षिज्ञानादन्योत्पाद्य-प्राथमिकप्रतीतिकत्वम्, तच्छून्यत्वे सतीत्यर्थः । तेन स्वतस्त्ववादे प्रामाण्यस्यानुमित्यादिग्राह्यत्वेऽपि न विशेषणासिद्धिरित्याहुः । अत्र सत्यन्तमात्रस्याप्रयोजकत्वाद् ग्राह्यत्वादित्युक्तिः । घटादिगतगन्धादौ सत्यपि ग्राह्यत्वे स्वाश्रयग्राहकोक्तरूपप्रत्यक्षाग्राह्यत्वं नेति व्यभिचारनिरासाय सत्यन्तम् ।

श्रीलक्ष्मीनाथतीर्थटीका

स्वतस्त्वेऽनुमानप्रमाणमाह ॥ स्वतस्त्व इति ॥ प्रमाणमिति ॥ अस्य पदस्यानुमानमिति वक्ष्यमाणेन सम्बन्धः । ज्ञानप्रामाण्यमित्यत्र प्रामाण्यपदस्य १तद्वति तत्प्रकारकत्व याथार्थ्यरूपमित्यर्थः । तेन प्रामाण्य-पदेनैव तद्वति तत्प्रकारकत्वज्ञानत्वलाभात् तस्य चानुप्रमाणे एव गतत्वा-भावात् तद्व्यावर्तनाय पक्षे ज्ञानपदमनादेयमिति शङ्का निरस्ता२स्रयमाह ॥ स्वतो ग्राह्यमिति ॥ ग्राह्यप्रामाण्याश्रयविरोध्युपस्थापकसामग्य्रसमवहित- ग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानविषयक साक्षिज्ञानविषय एवेति वा ग्राह्यप्रामाण्या-श्रयतत्तज्ज्ञानविषयकसाक्षिज्ञानयोग्य इति वा उभयसिद्धप्रामाण्याविषयक-ज्ञानभिन्नज्ञानविषय एवेति वार्थः । तेन ज्ञानं गुण ३इत्याशब्दजन्यज्ञानस्यापि ज्ञानग्राहकतया तद्ग्राह्यत्वाभावेन प्रामाण्यस्य यावज्ज्ञानग्राहकग्राह्यत्वरूप-स्वतस्त्वे साध्ये बाधः स्यादिति शङ्का परास्ता । निरुक्तसाध्ये यावत्पदस्या-प्रवेशात् । हेतुकी पदत इति४ ।

॥ इति लक्ष्मीनाथतीर्थकृतटीका ॥


सुखमनुभवामीतिप्रत्ययः

अनुमानचतुषट्यकथनम्

तर्कताण्डवं

सुखमनुभवामीतिप्रत्ययः (प.१) दोषशङ्काद्यकलङ्कितज्ञानस्य अनुव्यवसायो वा (प.२), निष्कम्पप्रवृत्तिहेतुभूतज्ञानस्यानुव्यवसायो वा (प.३), प्रामाण्यविरोध्युपस्थापकसामग्र्यसमवहितोऽनुव्यवसायो वा (प.४), स्वग्राह्यज्ञानप्रामाण्यविषयकः(सा.१) तत्प्रकारको वा(सा.२) तद्विरुद्धाविषयकत्वे सति तद्व्याप्यत्वाविषयकत्वे सति तत्संशयविरोधिप्रत्ययत्वात्(हे.१), तद्व्याप्यत्वाविषयकत्वे सति तदभावनिश्चयविरोधिनिश्चयत्वात्(हे.२), तद्विषयकव्यवहारहेतुप्रत्यय-त्वात् (हे.३), तज्ज्ञानप्रकारप्रकारकतया तत्प्रकारवद्विशेष्यकतया च तद्विषयत्वाच्च (हे.४) प्रामाण्यानुमितिवद् इत्याद्यनुमानम् ।

युक्तिरत्नाकरः

एवं विप्रतिपत्त्यनुसारेण प्रामाण्यमात्रे स्वतस्त्वं प्रसाध्येदानी ज्ञानविशेष-निष्टप्रामाण्ये स्वतस्त्वं साधयति ॥ सुखमनुभवामीति ॥ न च सर्वप्रामाण्ये स्वतस्त्वविप्रतिपत्तौ तदेकदेशे तत्साधनमर्थान्तरग्रस्तम् । क्वचि-त्साधने तद्दृष्टान्तेन अन्यत्रापि तत्साधनसम्भवात् । वस्तुतः सामान्य-धर्मावच्छेदेन संशये क्वचित्तद्विशेषे तन्निश्चयेऽपि तन्निवर्तको भवत्येवेति कथमर्थान्तरम् । अत एवानभ्यासदशापन्नज्ञानप्रामाण्यं न स्वतो ग्राह्यमिति परेषामपि साध्यनिर्देशः । यद्वा प्रामाण्यविरोध्युपस्थापकत्वस्य साध्ये विशेषणत्वे गौरवं मन्वान आह– ॥ सुखमनुभवामीति ॥ सुखमिति सुखसाक्षात्कारगोचरतदंशलौकिकसाक्षात्कार इत्यर्थः । तेन शाब्दसुख-ज्ञानसाक्षात्कारे सुखसाक्षात्कार इति शब्दजन्यसुखसाक्षात्कारज्ञाने परकीय-सुखसाक्षात्कारस्य अयं साक्षात्कारवानित्यनुमित्युपनीतस्य साक्षात्कारे साक्षात्कारांश लौकिके च प्रामाण्यस्याविषयेऽपि बाधः । यद्वा स्ववृत्ति-वर्तमानसुखस्य यः साक्षात्कारस्तद्गोचरसाक्षात्कारव्यक्तिविशेष एवानेनोच्यत इति न दोषः । एवं सुखसाक्षात्कारनिष्टप्रामाण्ये संशयाभावस्य उभयवादिसिद्धत्वेन तत्र स्वतस्त्वसाधने संशयानुपपत्तिबाध इति भावः ।

तथाविधमेव पक्षान्तरमाह ॥ दोषेति ॥ दोषशङ्का दोषजत्वशङ्का । आदिपदेन तन्निश्चयः । अनुव्यवसायो ज्ञानांशलौकिकः । पूर्वस्मिन्पक्षे सुखसाक्षात्कारानुव्यवसायमात्रं पक्षः । उत्तरपक्षत्रयेषु करतलामलकादि-ज्ञानानुव्यवसायेनापि पक्षो द्रष्टव्यः । इह पक्षत्रये बाधवारणाय क्रमेण विशेषणत्रयम् । १दोषशङ्काद्यकलङ्कितस्याप्रामाण्यशङ्कास्कन्दितस्य ज्ञानस्यानुव्यवसायो न २प्रामाण्यग्रह इति तदंशे बाधः । न चादिपदेना-प्रामाण्यशङ्कादेरपि परिग्रहः । तथात्वेऽन्त्यपक्षाभेदप्रसङ्गात् । तत्र ग्राह्यप्रामाण्यांशशङ्कातत्सामग्य्राद्यसमवहितत्वं व्यवसायविशेषणमावश्यकम् । तत्सामग्री च दोषशङ्कादिरूपैवेति चेन्न । दोषशङ्का तन्निश्चयतत्कार्य-कलङ्कितत्वेन तत्र प्रामाण्यविरोध्युपस्थिते सति तत्सामग्य्रसमवहितत्वेन च ज्ञानस्य विशेषणात्तयोर्भेदात् ॥ स्वग्राह्येति ॥

ननु प्रामाण्यविषयक इत्यलम् । न चान्यप्रामाण्यमादायार्थान्तरवारणाय पूर्वदलम् । बाधादेव तदादाया३साध्यपर्यवसानाद् अन्यथा धूमाद्यनुमानेऽपि । महानसीयवहन्यादिकमादायार्थान्तरवारणार्थं विशेषणप्रक्षेपापत्तेः । प्रामाण्यस्य सुखत्ववति सुखत्वप्रकारकज्ञानत्वादिविशेषपरत्वावश्यम्भावेन तच्छङ्कान-वकाशाच्चेति चेन्न । स्वाश्रयग्राहक४ग्राह्यरूपस्वतस्त्वसिध्यर्थम् ईश्वरानु-मानादाविव तदुपादानात् ।

ननु सुखानुभवगोचरानुव्यवसायस्यऽभ्रमत्वासम्भवेपीतरानुव्यवसायस्य भ्रमगोचरत्वस्यापि सम्भवेन तत्र स्वग्राह्यज्ञाननिष्टप्रामाण्यप्रसिद्ध्या बाधः । न च दोषशङ्काद्यकलङ्कितेत्यादिनाभ्यासदशापन्नत्वं विवक्षितम् । तथा सति पक्षत्रयोपन्यासायोगात् । अभ्यासस्य ग्राह्यप्रामाण्यसजातीयत्वात् । अन्यस्य निर्वक्तुमशक्यत्वेन न्यायमतेऽपि तत्र प्रामाण्यग्रहेण सिद्धसाधनापत्तेः । रजतादिभ्रमेऽपि क्वचित्प्रामाण्यानन्तरं तद्गतभ्रमसम्भवेन बाधानिस्ताराच्चेति चेन्न । स्वाग्राह्यज्ञाने प्रामाण्यविषयक इत्यर्थात् । तच्च तत्राप्यक्षतमत एवाप्रमापि प्रमेत्येव गृह्यते ।१ न साक्षिणः प्रमात्वनियमेन भ्रमे प्रामाण्य-विषयकत्वानुपपत्तिः । तत्र २मानसस्येव प्रामाण्यग्रहस्याङ्गीकारात् । उक्तञ्च भगवत्पादैः ‘‘यत्क्वचिद्व्यभिचारी’’त्यादि ।

यद्वा दोषशङ्कादीत्यादौ प्रमागोचरानुव्यवसायस्यैव पक्षत्वमिति नोक्त-दोषः । तत्प्रकारक इति स्वग्राह्यज्ञानप्रामाण्ययोर्वैशिष्ट्यविषय इत्यर्थः । तेन प्रामाण्यविशेष्यकज्ञाने न व्यभिचारः । शिष्टं प्राग्वत् । तद्विरुधेत्यनेन प्रामाण्यानधिकरणज्ञानावृत्तिविषयकान्यत्वमखण्डमिह विवक्षितम् । तेन प्रामाण्यघटकघटत्वादिविषयकतया नासिद्धिर्न वा तद्वारकज्ञानवृत्तित्व-विशेषणवैय्यर्थ्यम् ।

ननु तत्संशयविरोधित्वं तत्संशयनिवर्तकत्वप्रामाण्यसिद्धिः । ननु प्रामाण्य-निश्चयोत्तरभाव्यर्थनिश्चये प्रामाण्यविषयके व्यभिचारात् तत्संशयानुत्पाद-व्याप्यत्वस्य तत्राप्यक्षतेः । भाविन्यर्थनिश्चये उपनायकनैय्यत्येन निश्चित-प्रामाण्यविषयकज्ञानविषयोऽयं घट इत्येवमाकारकतयाऽवश्यवाच्यत्वेन प्रामाण्यविषयकत्वरूपसाध्यस्यापि सत्वान् नोक्तदोषः । तथापि करतला-मलकाद्यर्थनिश्चये व्यभिचारात् । तत्र स्वनिष्ठगोचरानुव्यवसायात्पूर्व-मप्यसंशयात् । न च तज्जातीये प्राक्प्रामाण्ये निश्चयादेव संशयः । एवमप्युक्तार्थनिश्चये प्रामाण्यसंशयानुत्पादव्याप्यरूपे तद्विरोधित्वाक्षतेः । न च तत्संशयविरोधीत्यनेन तत्संशयानुत्पादव्याप्यतावच्छेदकधर्मवत्वं विवक्षितम् । उक्तार्थनिश्चये चार्थनिश्चयत्वं प्रामाण्यसंशयपूर्वभाव्यर्थ-निश्चयेऽपि सत्वान्न तद्व्याप्यतावच्छेदकम् । प्रामाण्यनिश्चयोत्तरार्थ-निश्चयत्वन्तु स्वघटकेन लघुना प्रामाण्यनिश्चयत्वेनैव धूमत्वेन व्याप्यता-वच्छेदकसम्भवे नीलधूमत्ववत् तावद्व्याप्यतावच्छेदकमिति वाच्यम् । धूमनिष्टव्याप्तेर्धूमत्वेनैवावच्छेदसम्भवेन तद्घटितनीलधूमत्वस्यानवच्छेदकत्वेऽपि प्रामाण्यनिश्चयोत्तरार्थनिश्चयनिष्टव्याप्तेस् तदवृत्तिप्रामाण्यनिश्चयत्वेनावच्छेदा-त्तद्घटितस्यापि गुरोरुक्तधर्मस्यावच्छेदकत्वावश्यम्भावात् । यन्निष्टा यन्निरूपिता व्याप्तिरिति न्यायादिति चेन्न ।

प्रामाण्यसंशयानुत्पादप्रयोजकत्वमेव तत्संशयविरोधीत्यनेन विवक्षितम् । उक्तार्थनिश्चयस्तदनुत्पादे घटादिसाक्षात्कारे चक्षुःकर्मैव न प्रयोजक आवश्यकप्रामाण्यानिश्चयादेवान्यथासिद्धत्वात् । यद्वा प्रामाण्यसंशयनिवृत्ति-जननयोग्यत्वं तद्विरोधित्वम् । तच्च प्रामाण्यनिश्चयादावेव नत्वर्थनिश्चये प्रामाण्यनिश्चयाभावेऽर्थनिश्चयमात्रेण क्वापि तत्संशयानिवृत्तेः । तत्सत्वे तत एव तन्निवृत्तेः । तदुत्तरभाव्यर्थनिश्चयस्य तदनिवर्तकत्वादिति ।

तदभावनियमेति ॥ ननु किं तदभावनिश्चयविरोधित्वम् । न तावदनुत्पादप्रयोजकत्वं तन्निवृत्तिजननयोग्यत्वं वा । तदभावसंशयस्य ग्राह्यसंशयतया तदभावनिश्चयप्रतिबन्धकत्वेन तदनुत्पादप्रयोजकत्वात् । निश्चिते संशयायोगेन तदभावनिश्चयनिवृत्तिजननयोग्यत्वाच्च । तत्र व्यभिचारा२प्रसिध्यासक्त्या तद्वारकान्त्यनिश्चयपदवैय्यर्थापत्तेः । द्वितीयन्तु ३तदभावनिश्चयनिश्चयविरोधिनि तदभावसंशये व्यभिचारकमित्युत्तर-ग्रन्थविरोधाच्च । ४न तदभावनिश्चयप्रयोज्यानुत्पादप्रतियोगित्वं वा तदभाव-निवृत्तित्वं वा तत्वम् । आद्यनिश्चयपदवैय्यर्थ्यापत्तेरन्यस्य चासम्भवादिति चेन्न । तदभावनिश्चयप्रतिबन्धकसामग्रीजन्यत्वमिह विरोधित्वम् । एवं च तदभावसंशयस्य तन्निश्चयप्रतिबन्धकत्वेऽपि तत्सामग्य्राः प्रतिबन्धक-तयान्त्यनिश्चयपदाभावे तदभावसंशये आद्यनिश्चयपदाभावे तदभावसंशय-प्रतिबन्धकसामग्रीजन्यतदभावनिश्चये व्यभिचारापत्त्या निश्चयपदसार्थक्यात् । अग्रिमग्रन्थविरोधाच्च । यज्ज्ञानं यत्र प्रतिबन्धकं तत्सामग्य्रपि तत्र प्रतिबन्धिकेति न्यायेन निश्चयसामग्य्रा अपि संशयप्रतिबन्धकत्वात् । न च निश्चयसामग्य्राः संशयप्रतिबन्धकत्वे कदापि संशयो न स्यात् । संशय-सामग्य्रां तदनुप्रवेशावश्यम्भावादिति वाच्यम् । स्थाणुत्वादिनिश्चयसामग्य्राः कोट्यन्तरनिश्चयसामग्रीप्रतिबन्धकत्वेनाप्रतिबद्धनिश्चयसामग्य्राः संशय-स्थलेऽभावात् ।

न चैवमपि संशये साध्यसत्वेनाव्यभिचारादन्त्यनिश्चयपदानर्थक्यम् । इदं प्रामाण्याभाववद् अप्रामाण्यभाववद्वेति प्रकारकस्यापि तस्य सम्भवात् । न च भावाभावयोर् भावकोटित्वमेव संशयस्य स्थाणुः पुरुषो वा पनसोऽन्यो वा पीतः श्वेतो वेत्यादि तदभावव्याप्यकोटिकस्यापि तस्य सम्भवात् । सकललोकसिद्धत्वात् । नचैषां तु चतुष्कोटिकत्वम् अननुभूयमाना-भावाकोटिकत्वकल्पने मानाभावात् । वस्तुतस्तु सत्तानिश्चयरूपेण तद्विषयत्वमिह साध्यम् । प्रामाण्यविषयकत्वमात्रस्योक्तावननुव्यवसाये न्यायमतेऽपि सिद्धत्वात् सिद्धसाधनापत्तेः । एवञ्चोक्तसंशये साध्याभावाद् व्यभिचारः स्फुट एवेति द्वितीयनिश्चयपदमर्थवत् ॥ तद्विषयकेति ॥ अदृष्टद्वारकत्वं विशेषणमतो हविरादिगोचरे ज्ञाने न व्यभिचारः ॥ तज्ज्ञान-प्रकारेति ॥ न च वस्तुतस् तत्प्रकारकविशेष्योक्तौ घटत्वप्रकारक-किञ्चिद्विशेष्यकमिति शाब्दज्ञाने व्यभिचारः । तत्प्रकारविशिष्टतया तद्विशेष्य-कत्वोक्तौ चासिद्धिः । वैशिष्ट्यस्याप्रकारकत्वादिति वाच्यम् । पुरोवर्तिनि तत्प्रकारनिरूपितवैशिष्ट्यविषयकत्वस्य विवक्षितत्वात् । तस्य च पारतन्त्र्येण परेणाभ्युपगमात् । न च व्यापारानुबन्धिताया तद्विषयके मनःसंयोगादौ व्यभिचारः । तेन रूपेण साध्यस्यापि तत्र सत्वादिति भावः ॥ प्रामाण्यानुमितिवदिति ॥ प्रामाण्यप्रकारकानुमितिवदित्यर्थः । तेन प्रामाण्यज्ञानवृत्तीत्यादितद्वशेष्यकानुमितौ तत्प्रकारकत्वरूपसाध्यवैकल्यम् । वस्तुतस्तु यथा न तद्विशेष्यकानुमितावपि न साध्यवैकल्यं तथोक्तमधस्तात् ।

न्यायदीपः

प्रामाण्यस्य स्वतो ग्राह्यत्वे क्वचित् संशयाद्युपपादनक्लेशनिरासाय विशिष्याप्याह ॥ सुखमिति ॥ स्ववृत्तिवर्तमानसुखसाक्षात्कारगोचरः साक्षिरूपःप्रत्यय इत्यर्थः । ज्ञानांशे लौकिकप्रत्यक्षादिरूपानुव्यवसायः प्रामाण्यविषयको न वेति विप्रतिपत्त्यनुरोधेनैतत्पक्षाणामवतार इति सामान्यविप्रतिपत्त्यनानुगुण्यादर्थान्तरत्वमिति न शङ्क्यम् ।

बाह्याभ्यन्तरसाधारणपक्षान्तराण्याह ॥ दोषेति ॥ दुष्टकरणजन्यत्व-शङ्कातन्निश्चयाप्रामाण्यादिशङ्कातन्निश्चयाद्यनास्कन्दितघटादिज्ञानस्य इत्यर्थः । न चैवम् अन्त्यपक्षाभेद इति शङ्क्यम् । तत्रानुव्यवसायविशेषणत्वेन इह व्यवसायविशेषणत्वेन तत्र प्रामाण्यविरोध्युपस्थापकसमग्रीत्वेन अत्र तु तत्कार्यदोषशङ्कादित्वेन चप्रवेशेनात्यन्तभेदात् ।

॥ उपस्थापकसामग्रीति ॥ उपस्थितितत्सामग्रीत्यर्थः । अत्र सर्वत्रापि ज्ञानस्येत्यनेन दोषाजन्यप्रमारूपज्ञानस्याभिमतत्वादिदं रूप्यमित्यादि-भ्रमगोचरानुव्यवसायस्यापक्षतया तस्य तत्र प्रामाण्याग्राहकत्वेऽपि न बाध इति बोध्यम् । तत्र प्रामाण्यग्रहणस्य मानसत्वेन सिद्धान्तेऽपि भ्रमगोचरानु-व्यवसायेन प्रामाण्याग्रहात् । यद्वा वक्ष्यमाणदिशाऽत्राभिमतानुव्यवसायत्वस्य भ्रमानुव्यवसाये अभावेन तस्यापक्षत्वान्न बाधः । अत एव ज्ञानांशे लौकिक-प्रत्यक्षादिरूपस्येह अनुव्यवसायस्य अभिमततया स्मृत्युपनीतप्रामाण्य-विषयकानुव्यवसायमादाय न न्यायमते सिद्धसाधनं शङ्क्यम् ।

॥ स्वग्राह्येति ॥ स्वेन अनुव्यवसायेन ग्राह्यं यज्ज्ञानम् आद्ये सिद्धान्ते सुखविषयकं स्वप्रकाशरूपं साक्षिज्ञानमेव । परमते मानसं सुखव्यवसाय-रूपम् । तदन्यपक्षत्रये च घटादिगोचरं मनोवृत्तिरूपं व्यवसायाख्यं साक्षि-ज्ञानादन्यत् । तन्निष्ठं यत्प्रामाण्यं सुखत्ववति सुखत्वप्रकारकत्वादिरूपं घटत्ववति घटत्वप्रकारकत्वादिरूपं वा तद्विषयक इत्यर्थः । घटज्ञानानु-व्यवसायस्य पटज्ञानप्रामाण्याविषयकत्वाद् बाधनिरासाय स्वग्राह्यज्ञानेत्युक्तम् । यद्वा प्रामाण्यविषयक इत्येवोक्तौ स्वनिष्ठप्रामाण्यविषयकत्वमादाय सिद्धान्ते अर्थान्तरत्वनिरासाय ॥ स्वग्राह्यज्ञानेति ॥ एवं च नार्थान्तरता । न चैवं साक्ष्यंशे स्वग्राह्यव्यवसायप्रामाण्यविषयकत्वाभावाद् व्यभिचारः शङ्क्यः । स्वग्राह्यं यावत्स्वयमन्यच्च तावति प्रामाण्यग्राहकत्वलाभेन साक्ष्यंशे हेतूनामव्यभिचारात् ।

यद्वा सुखत्ववद्विशेष्यकज्ञानत्वादिरूपप्रामाण्यलाभाय स्वग्राह्य-ज्ञानप्रामाण्येत्युक्तिः । प्रामाण्यविषयकत्वं च साध्यं यन्मते वैशिष्ट्य-मनुव्यवसायवेद्यमेव न तन्मतेन बोध्यम् । तद्वेद्यमपि स्वातन्त्र्येण न तद्वेद्यमिति मते तु सत्वेन प्रामाण्यविषयकत्वमभिमतम् । तेन तत्पक्षे सिद्धसाधनतेति शङ्कानवकाशः । अत एव वक्ष्यति ‘‘सत्तया तदुल्लेखस्य साध्यत्वात्’’ इति । न च वादिनः सत्वेनेति विशेषणं व्यर्थं, व्यावर्त्या-प्रसिद्धेरिति शङ्क्यम् । शुक्तिरूप्यज्ञाने प्रामाण्यविषयकस्यापि मानसदर्शनस्य स्वविषयसत्वानिर्णायकस्यापि सिद्धान्ते सत्वात् । परप्रसिद्धत्वमात्रेण व्यावर्त्यत्वोपपत्तेश्च । परार्थानुमाने परंप्रति सिद्धासाधनोद्धारस्यापि वादि-प्रयोजनत्वाच्च । जन्यकृत्यजन्यानीत्यत्र मीमांसकंप्रति जन्यत्वस्येवेहापि वादिनंप्रतिप्रमेयत्वादिवदुपरञ्जकत्वेन विशेषणत्वोपपत्तेश्च । उक्तं च उत्पत्तिप्रामाण्यवादे मणावपि ‘‘उभयसिद्धव्यावर्तकत्वं तन्त्रम् । न तु व्यावर्त्यस्योभयसिद्धिः । गौरवात्’’ इति ।

प्रामाण्यमनुव्यवसायविषयोऽपि प्रागनुपस्थितत्वान्नप्रकारतयेति वदन्तंप्रत्याह ॥ तत्प्रकारको वेति ॥ स्वग्राह्यज्ञानप्रामाण्यप्रकारको वेत्यर्थः । विशेषणज्ञानहेतुताया निर्विकल्पकभङ्गे निरसिष्यमाणत्वादिति भावः ॥ तद्विरुद्धेति ॥ ग्राह्यप्रामाण्यविरुद्धं यत्प्रामाण्याभावतद्व्याप्याप्रामाण्यादि तदविषयकत्वे सतीत्यर्थः । विरुद्धत्वं च तज्ज्ञानप्रतिबन्धकज्ञान-विषयत्वम् ॥ तद्व्याप्यत्वेति ॥ सुखानुभवादिनिष्ठसुखत्ववद्विशेष्यक-त्वादिरूपप्रामाण्यव्याप्यत्वेत्यर्थः ॥ तत्संशयविरोधीति ॥ प्रामाण्य-संशयविरोधित्वं नाम तदनुत्पत्तिव्याप्यत्वादिरूपं ज्ञेयम् । विशेषणकृत्यान्यग्रे व्यक्तानि ॥ तद्विषयकेति ॥ प्रामाण्यविषयकेत्यर्थः ॥ तज्ज्ञानेति ॥ ग्राह्यप्रामाण्याश्रयज्ञानेत्यर्थः । साध्यावैशिष्ट्यनिरासोऽग्रे स्फुटः ॥ तद्विषय-कत्वात् ॥ व्यवसायविषयकत्वादित्यर्थः ॥ प्रामाण्यानुमितिवदिति ॥ इदं ज्ञानंप्रमाणं समर्थप्रवृत्तिहेतुत्वाद् इति प्रामाण्यानुमितावुक्तस्य हेतु-चतुष्टयस्य साध्यद्वयस्य च सत्वादिति भावः । आदिपदेन ‘‘प्रामाण्यं ज्ञानग्राहकमात्रग्राह्यम् अप्रामाण्येतरज्ञानसमवेतधर्मत्वाज् ज्ञानत्ववत्’’ इत्यादिसुधोक्तानुमानग्रहः ।