यत्तु मणावुक्तं
परोक्तस्वतस्त्वनिरुक्तिभङ्गः
प्रथमस्वतस्त्वनिरुक्तिखन्डनम्
तर्कताण्डवं
यत्तु मणावुक्तम् । तदप्रमाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वं स्वतस्त्वं तदभावश्च परतस्त्वम् इति तन्न । तदभाववति तत्प्रकारकत्व-रूपाप्रामाण्याग्राहकस्यापि तद्वति तत्प्रकारकत्वरूपप्रामाण्यात्यन्ता-भावविषयकस्य ज्ञानज्ञानस्य प्रामाण्यग्राहकत्वेन बाधात् ।
अप्रामाण्यपदेन प्रामाण्यविरोधिविवक्षायामपि ज्ञानं गुण इत्यादि-वाक्यजन्यस्य ज्ञानं प्रमेयमिति सामान्यप्रत्यासत्तिजन्यस्य च ज्ञान-ज्ञानस्य प्रामाण्याविषयकत्वाद् बाधतादवस्थ्यात् । ज्ञानग्राहकपदेन स्वविषयघटितत्वेन ज्ञानग्राहकत्वविवक्षायामपि घटज्ञानमित्यादि-शब्दजन्यस्य ज्ञानज्ञानस्य प्रामाण्याविषयकत्वेन बाध एव ।
युक्तिरत्नाकरः
एवं स्वमते स्वतस्वं निरुच्य मण्युक्तां मीमांसकादित्रितयसाधारणी १विप्रतिपत्तिं दूषयितुमनुवदति ॥ यत्विति ॥ तदिति ॥ यत्र ग्राह्य-प्रामाण्याश्रये ‘‘अयं घट’’ इत्यादिज्ञाने अप्रामाण्यग्रहाद्याकारवती ज्ञानग्राहकसामग्री गुरुमते ‘‘पटमहं जानामि’’ इत्याकारकस्वप्रकाश-रूपव्यवसायजनिका मिश्रमते तदनुव्यवसायजनिका मनः संयोगादिरूपा भट्टमते घटो ज्ञानविषयः ज्ञातताधारत्वादित्याद्यनुमिति जनकव्याप्तिज्ञानादि-रूपा तदावद्ग्राह्यत्वं स्वतस्वमित्यर्थः । अत्र घटत्ववद्विशेष्यकत्वा-वच्छिन्नघटत्वप्रकारकत्वादीनां सर्वप्रामाण्यानामप्रामाण्यत्वेनानुगतीकृतानां पक्षत्वेन पक्षीकृतप्रामाण्याश्रये दोषवशादप्रामाण्यग्राहकसामग्रीसम्पन्नतदनु-व्यवसायादि सामग्य्रा प्रामाण्याग्रहाद् बाध इत्यतो अप्रामाण्यग्राहिकेत्युक्तम् ।
न च गुरुमते सर्वधियां याथार्थ्येनाप्रामाण्याप्रसिध्या तदग्रहका-प्रसिद्धिस्तदभाववति तत्प्रकारकत्वरूपाप्रामाण्यस्येच्छायां प्रसिद्धिश्च । ततः स्मर्यमाणस्य क्वतिज्ज्ञाने भ्रमसम्भवात् ।
न च तन्मते भ्रमाभावेन तदप्रामाण्यसम्भवः । मतान्तराभ्युपगता-न्यथाख्यातिरूपस्य तस्याभावेऽप्यसंसर्गाग्रहरूपस्य तस्य तन्मतेऽपि सत्वात् ।
न च ‘‘इदं ज्ञानं प्रमा’’ इत्यत्र अप्रमेत्यस्य स्मरणस्याप्रामाण्य-ग्राहकत्वेऽपि इदं ज्ञानमित्यस्य ग्रहणस्याप्रामाणग्राहकत्वात्तेन प्रामाण्या-ग्रहाद्बाध इति वाच्यम् ।
अप्रामाण्याग्राहकेत्यनेनाप्रामाण्यग्राहकसामग्य्रसमवहितेन तेन प्रामाण्या-ग्रहेऽप्यबाधात् । न चैवं मणिकृदुच्यमानसंशयानुपपत्तेर्न तन्मते दोषता स्यात् । संशयस्थलीयधर्मिज्ञानस्योक्तस्मृतिरूपाप्रामाण्यग्रहसामग्री-समानकालीनत्वेन तया ज्ञानग्राहकसामग्य्रा प्रामाण्यग्रहेण तन्मतेऽपि संशयोपपत्तेरिति वाच्यम् । धर्मिज्ञानानन्तरं यत्र प्रामाण्याप्रामाण्यकोटिस्मृतिस् तत्र तस्य धर्मिज्ञानस्याप्रामाण्यग्रहसामग्य्रसमवहितत्वेन प्रामाण्यनिश्चया-वश्यम्भावेन संशयानुपपत्तेस्तन्मतेऽपि दोषत्वसम्भवात् । एवमपि यत्र शुक्त्यादौ रजतादिभ्रमानन्तरम् इदम् अप्रमाणं विसंवादिप्रवृत्तिजनकत्वादित्यादिना अप्रामाण्यानुमितौ जातायां ‘‘इदम् अप्रमात्वेन जानामि’’ इत्यनु-व्यवसायादिनाऽनुमिति निष्ठस्याप्रामाण्यवत्यप्रामाण्यत्वरूपं कारकत्व-रूपप्रामाण्यस्य प्रथमज्ञाननिष्ठाप्रामाण्यग्रहेणैव ग्रहणादंशतो बाधः ।
नैय्यायिकमतेऽपि इदं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वादित्याद्यनुमिति जनिकयोक्तरूपया सामग्य्रा प्रामाण्यग्रहात्सिद्धसाधनमतो यावदिति सामग्री-विशेषणम् । ज्ञानग्राकत्वञ्च ज्ञानग्रहजननस्वरूपयोग्यत्वं विवक्षितम् । तथा च सामग्रीपदाभावे अप्रामाण्यग्राहकेत्यादेर् ग्राहकविशेषणत्वेन तादृशेनापि ज्ञानग्राहकेणात्ममनोयोगादिना ग्राह्यपदेन विवक्षितस्य तत्र ज्ञानगोचरज्ञान-प्रामाण्यस्य प्रकारत्वेऽपि पक्षीभूतप्रामाण्यस्याविषयत्वेन तदभावादिति भावः ।
यद्वा ज्ञानं गुण इति सामान्यप्रत्यासत्तिजन्यज्ञाने प्रामाण्यस्य विषयत्वाद् बाधः । ज्ञानं प्रमेयमिति सामान्यप्रत्यासत्त्युपवर्णनं तु अशोकवनिकान्याये-नेति द्रष्टव्यम् ।
ननु ज्ञानग्राहकपदेन स्वविषयघटितज्ञानग्राहकत्वं विवक्षितम् । एवं च नोक्तदोषः । न च ज्ञानं गुण इत्यादिशब्दज्ञानस्य स्वविषयघटितज्ञान-विषयत्वेनाप्युक्तसामान्यप्रत्यासत्तिज्ञानस्य मनः सन्निकृष्टज्ञानधर्मिकत्वेन तस्य च स्वविषयघटितस्यैव भाननियमादुक्तदोषतादवस्थ्यम् । स्ववृत्तिवर्तमानज्ञान-ग्रहमात्र एव प्रामाण्यभानस्वीकारेणोक्तप्रत्यासत्तिजन्यज्ञानस्य योग्यधर्मिकत्वे बाधशङ्कानवकाशात् । ज्ञानपदस्य स्मृत्याद्युपनीतयोग्यपरकीयादिज्ञानधर्मिकत्वे तु स्वविषयाघटितज्ञानविषयत्वेनोक्तविवक्षया तद्दोषपरिहारादित्यत्राह– ज्ञानग्राहकपदेनेक्ति ॥ घटज्ञानमित्यादीति ॥ अपदार्थत्वादवाक्यार्थ-त्वाच्च न तत्र प्रामाण्यभानमिति भावः ।
ननु घटज्ञानमिति शाब्दस्थलेऽपि मीमांसकमते प्रामाण्यग्रहोऽस्त्येव । तथा हि– यथा घटेन जलमाहरेत्यत्र छिद्रेतरत्वं गुरुनये योग्यताबलात् ‘‘पीनो देवदत्तो दिवा न भुङ्क्ते’’ इति श्रुत्यर्थापत्तिस्थले रात्रिभोजनं भट्टमते शब्दानुपस्थितमप्यन्वयितावच्छेदकत्वेन भासते, तथेहापि घटविषयकत्व-ज्ञानत्वयोर् घटेच्छापटज्ञानादावतिप्रसक्त्या यद्घटविषयकं तज्ज्ञानमित्य-भेदान्वयासम्भवाद् घटविषयकदिशि घटत्ववद्विशेष्यकज्ञानत्वं, ज्ञानदिशि घटत्वप्रकारकज्ञानत्वं वान्वयितावच्छेदकयोग्यतयानुपस्थितमपि भासते । न च भट्टमिश्रयोरन्यथाख्यातिसत्वाद् घटत्वप्रकारकं ज्ञानं तद्घटित-विशेष्यकमित्यन्वयस्य मतत्रयेऽपि घटविशेष्यकस्य द्रव्यत्वप्रकारकस्य घटत्वाप्रकारकस्यापि सत्वाद् घटविशेष्यकं ज्ञानं तद्घटत्वप्रकारक-मित्यन्वयस्य सम्भवान् नोक्तयोरप्यवच्छेदकत्वमिति वाच्यम् । तन्मतेऽपि घटत्वप्रकारकज्ञानत्वघटत्व वद्विशेष्यकज्ञानत्वयोरौत्सर्गिकनियमत्वेनान्वय-बोधसम्भवात् । एवं च यद्घटत्वप्रकारकं ज्ञानं तद्घट१विशेष्यमिति वा यद्घटविशेष्यकं ज्ञानं तद्घटत्वप्रकारकमिति वौत्सर्गिकनियमबाधस्य घटत्व-प्रकारकमपि ग्रावादवयवं घट इति ज्ञानं घटविशेष्यकं, घटविशेष्यकमपि इदं द्रव्यमिति ज्ञानं न घटत्वप्रकारकमिति व्यभिचारस्य यद्युपस्थितिस् तदा प्रामाण्यविरोध्युपस्थितिसामग्रीसमानकालीनत्वाद् घटज्ञानमितिशब्देन प्रामाण्यग्रहेऽपि न बाधः । यदि नोपस्थितिस् तदा तयोरेवान्वयिता-वच्छेदकत्वग्रहसम्भवात्तेनाप्रामाण्यं२ गृह्यते एवेति न बाध इति चेत् ।
न । येन पुंसा घटविशेष्यकज्ञानत्वघटत्वप्रकारकत्वयोर् अन्वयिता-वच्छेदकत्वं न गृहीतं, तेन घटज्ञानमिति शब्देन प्रामाण्याग्रहेण बाधात् । नहि घटेन जलमाहरेत्यादौ छिद्रेतरत्वादेरिवेहाप्यन्वयितावच्छेदकयो-रनुपस्थित्या अन्वयबोधासम्भवः । तद्वदिहान्वयानुपपत्तेरसम्भवात् । किञ्च यथा ‘‘स्वरूपवान्मैत्र’’ इत्यत्र गौरत्वादिकोट्यन्तरव्यतिरेकानिश्चये श्याम-त्वादिकं नान्वयितावच्छेदकत्वेन भासते ३यथा घटज्ञानमित्यत्रापि घटतदितरविशेष्यकत्वसम्भवेन तदितरविशेष्यकत्वव्यतिरेकनिर्णयदशायां न घटविशेष्यकत्वमन्वयितावच्छेदकत्वेन भासत इति तेन शब्देन प्रामाण्या-ग्रहाद्बाध एव । किञ्च विशेष्यकत्वघटत्वप्रकारकत्वयोरिव घटविषयकत्व-घटत्वप्रकारकत्वयोरौत्सर्गिकनियमसम्भवाद् यदा घटविषयकत्वादेरेवा-न्वयितावच्छेदकत्वग्रहस्तदापि बाध एव । नहि घटविषयकत्वे सति घटत्वप्रकारकत्वमेव प्रामाण्यम् । किञ्च द्रव्यत्वप्रकारकघटविशेष्यकज्ञाने घटत्वप्रकारकतानिश्चयदशायामप्युक्तशब्दात् प्रामाण्याग्रहाद्बाध एवेति न किञ्चिदेतत् । घटज्ञानमित्यादिशब्दजन्यस्येत्युपलक्षणम् । अयं घटज्ञानवानित्याद्यनुमितिरूपस्येति द्रष्टव्यम् ।
न्यायदीपः
मीमांसकत्रितयसाधारणीं परोक्तस्वतस्त्वनिरुक्तिमनूद्य निराह ॥ यत्त्विति ॥ मणिग्रन्थे ‘‘ज्ञानप्रामाण्यमिति पूर्ववाक्यनिर्दिष्टं ज्ञानं तदिति परामृश्यते । तत्र ग्राह्यप्रामाण्याश्रयेऽयं घट इत्यादिज्ञाने अप्रामाण्याग्राहिका यावती ज्ञानग्राहिका सामग्री गुरुमते घटमहं जानामीत्येवमाकारस्वप्रकाश-व्यवसायजनिका चक्षुर्घटसंयोगादिरूपा मिश्रमते तदनुव्यवसायजनकमनः-संयोगादिरूपा भट्टमते घटो ज्ञानविषयः ज्ञातताधारत्वादित्याद्यनुमितिजनक-व्याप्तिज्ञानादिरूपा । तावत्या ग्राह्यत्वं स्वतस्त्वमित्यर्थः । अत्र निरुक्तौ तत्रेत्युक्त्या यत्र शुक्तिरजतादिज्ञाने विसंवादादिलिङ्गेन अप्रामाण्यानु-मित्यनन्तरमिदमप्रमात्वेन जानामीत्यनुव्यवासयस् तत्राप्रामाण्यवत्यप्रामाण्य-प्रकारकत्वरूपाप्रामाण्यघटितानुमितिनिष्ठप्रामाण्यस्यप्रथमज्ञाननिष्ठाप्रामाण्य-ग्राहिणैवानुव्यवसायेन ग्रहणाद्बाध इति शङ्का, अप्रामाण्याग्राहकेत्युक्त्या इदं ज्ञानमप्रमेत्यादावप्रामाण्यग्राहकसामग्र्या तज्ज्ञाननिष्ठस्य प्रामाण्यस्याग्रहणाद् बाध इति शङ्का यावदित्युक्त््या न्यायमते ज्ञानग्राहकानुमितिसामग्र्या क्वचिदनुव्यवसायेन च प्रामाण्यग्रहात्सिद्धसाधनमिति शङ्का निरस्ता । विधिकोटौ बाधवारकाणां तदभावकोटौ सिद्धसाधनतावारकत्वं तद्वारकस्य च बाधवारकत्वं ज्ञेयम् । गुरुमते सर्वज्ञानानांप्रमात्वेपि तदभाववति तत्प्रकारकत्वरूपा-प्रामाण्यस्येच्छायांप्रसिद्धस्येदं ज्ञानमप्रमेत्यादौ स्मरणसम्भवेनागृहीता-संसर्गरूपाप्रामाण्यग्रहसम्भवात् तन्मतेप्यप्रामाण्याग्राहकपदवैयर्थ्यं नेति ।
अत्र यदुक्तं प्रामाण्यघटकाप्रामाण्यग्राहिणा ज्ञानेन प्रामाण्यग्रहणा-द्बाधवारणाय तत्र ग्राह्यप्रामाण्याश्रयज्ञाने इत्यर्थकं तत्पदमिति तन्न । इमौ वह्नी इति वह्निद्वयगोचरैकज्ञानविषयकानुव्यवसायादिरूपज्ञानेन दोषवशा-दन्यतरांशाप्रामाण्यग्राहिणाप्यन्यतरांशे प्रामाण्यग्रहणेन बाधात् ।
यत्तु तदित्यस्य तत्र तदंशे ग्राह्यप्रामाण्याश्रयज्ञानांशे अप्रामाण्याग्राह-केत्यर्थत्वान्न दोष इति तन्न । तथापि तदंशे भावरूपाप्रमाण्याग्राहिणापि नेदं ज्ञानंप्रमाणमिति तदंशे प्रामाण्याभावावगाहिना प्रामाण्याग्रहणेन बाधादिति मूलोक्तदोषग्रासात् ।
यदपि तत्पदं ग्राह्यपरं सत्प्रामाण्यपदेनान्वीयमानं ग्राह्यप्रामाण्य-विरोधीत्यर्थलाभार्थमतो न दोष इति तदपि न । तथात्वेऽतत्प्रामाण्येति निर्देशापातेन यथोक्तनिर्देशे तत्पदस्य प्रामाण्यपदेनासामर्थ्यात् । गुरुमते इदं ज्ञानमप्रमेत्यादावप्रमेति स्मृतेरप्रामाण्यग्राहकत्वेपि इदं ज्ञानमिति-ग्रहणात्मकस्याप्रामाण्यस्मृतिप्रतिबन्धेन प्रामाण्याग्रहणेन बाधापत्त्योक्त-स्वतस्त्वनिरुक्तेर्गुरुमतसाधारण्यायोगाच्च ।
नचोत्पत्तिप्रामाण्यग्रन्थे मणिकृतैव ‘‘प्राभाकरास्तु’’ इत्यादिना गुरुमते संशयानुपपत्त्युपपादनप्रस्तावे इदं ज्ञानंप्रमा न वेत्यादावपि प्रामाण्यग्रहो-स्तीत्युपेत्य संशयस्यान्यविषयत्वोपपादनात् तादृशस्थलेऽपि प्रामाण्यग्रह-सद्भावान्न बाध इति शङ्क्यम् । तथात्वे तन्मते तदप्रामाण्याग्राहकपदवैयर्थ्या-पत्तेः । तादृशस्थले१ प्रामाण्यग्रहमुपेत्याग्राहकपदेन ग्राहकसामग्र्यसमवधान-विवक्षायां च मिश्रादिमतेऽप्रामाण्यग्रहस्थले तत्सामग्र्यभावेन तदसमवहितेनापि ज्ञानग्राहकेण तत्र प्रामाण्याग्रहाद्बाध एवेत्यादिदूषणं स्फुटत्वादुपेक्ष्योक्तनिरुक्तौ यावज्ज्ञानविषयकज्ञानविषयत्वमित्येव सामञ्जस्ये ग्राहकसामग्रीत्युक्तिवैयर्थ्या-द्गौरवाच्चेत्युपेत्य ग्राहकसामग्रीपदत्यागेन ज्ञानपदेनैवानुवदन्यथाश्रुता-प्रामाण्यपदार्थे तावद्दोषमाह ॥ तदभाववतीति ॥ अप्रामाण्याग्राहकस्या-पीति ॥ उक्तविधभावरूपाप्रामाण्याविषयकस्यापीत्यर्थः । प्रामाण्यात्यन्ता-भावेत्युपलक्षणम् । अप्रामाण्यव्याप्यप्रामाण्यात्यन्ताभावव्याप्यविषयकस्येत्यपि ज्ञेयम् । तेन नञोऽभावार्थविवक्षापिप्रत्युक्ता ध्येया ।
ननु नञो विरोधार्थत्वे प्रामाण्याभावतद्व्याप्याप्रामाण्यतद्व्याप्यानां चतुर्णामप्यप्रामाण्यपदेन प्रामाण्यविरोधिवाचिना ग्रहणसम्भवान्नोक्तदोषः । विरोधित्वस्य प्रामाण्यनिश्चयप्रतिबन्धकज्ञानविषयत्वरूपत्वादित्याशयेन पक्षधराद्युक्तविवक्षामनूद्य निराह ॥ अप्रामाण्येति ॥ अपिपदेनैतत् सूचयति । यद्यपि ग्राह्यप्रामाण्यविरोधिलाभो नैतावता भवति । तत्पदमिलितेनाप्यसामर्थ्यादलाभ एव । विरोधितामात्रं त्वप्रयोजकम् । तथाप्यभ्युपगमोयमिति ॥ इत्यादिवाक्येति ॥ ज्ञानं समवेतं ज्ञानममूर्त-मित्यादिवाक्यजन्यस्य गुणत्वादिप्रकारकज्ञानविशेष्यकस्येत्यर्थः । ज्ञानज्ञान-स्येत्यन्वयः । साक्षाज्ज्ञानत्वव्यापकधर्माप्रकारकेत्यपि ग्राहकविशेषण-मस्त्वित्यत उक्तम् ॥ ज्ञानंप्रमेयमितीति ॥ ज्ञानेप्रमेयत्वं ज्ञातं सत्प्रत्यासत्तीभूय स्वविशेषणतासम्बन्धेन स्वाश्रयभूतानि सर्वज्ञानरूपवस्तून्युप-स्थापयतीतिप्रमेयत्वप्रकारकज्ञानविशेष्यकज्ञानज्ञानस्यप्रमेयत्वाश्रयज्ञाने प्रामाण्याविषयकत्वादित्यर्थः । उक्तदोषपरिहाराय शङ्कते ॥ ज्ञानग्राहकपदे-नेति ॥ प्रामाण्याविषयकत्वेनेति ॥ अपदार्थत्वादवाक्यार्थत्वाच्च घटत्व-वद्विशेष्यकत्वादेस्तेन सर्वथा भानाभावादिति भावः । यत्तु शब्दानुपस्थितमपि प्रामाण्यमन्वयितावच्छेदकतया घटज्ञानमिति ज्ञाने भातीति पक्षधरोत्प््रोक्षितं मतं तत्तेनैव दूषितमित्युपेत्योक्तम् ॥ बाध एवेति ॥ विवृतं चैतद्गुरुपादैः । ननु १शब्दान्यत्वे सति स्वविषयघटितत्वेन ज्ञानग्राहकत्वविवक्षास्त्विति चेन्न । तथाप्ययं घटज्ञानवान् तद्व्यवहारवत्वाद् इत्याद्यनुमानजन्यज्ञान-ज्ञानस्यापि प्रामाण्याविषयकत्वेन बाधात् । ज्ञानंप्रमेति शब्दजन्यज्ञानस्य प्रामाण्याविषयकत्वापाताच्चेति भावः ।
श्रीलक्ष्मीनाथतीर्थटीका
यावत्परमतं न निराक्रियते तावत्स्वमतं न प्रतिष्ठितं स्यादिति न्यायेन मण्युक्तं स्वतस्त्वं दूषयितुमनुवदति ॥ यत्तु मणावुक्तमिति ॥ ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यं न वेति विप्रतिपत्तावुक्तमित्यर्थः ॥ तदप्रामाण्येति ॥ ग्राह्यप्रामाण्याश्रये ज्ञाने अप्रमाण्याग्राहिका यावती ज्ञानग्राहिका सामग्री तद्ग्राह्यत्वमित्यर्थः । इदन्तु प्राभाकरभट्टमुरारिमिश्रमतत्रयसाधारणम् । प्राभाकरमते ज्ञानग्राहिका सामग्री स्वप्रकाशरूपा । भ मते ज्ञाततालिङ्गकानुमितिरूपा । मुरारिमते अनु-व्यवसायरूपेति विवेकः । ज्ञानग्राहकसामग्रीग्राह्यत्वमित्येवोक्तौ न्यायमते पञ्चमानुव्यवसायग्राह्यत्वेन सिद्धसाधनं स्यात् । अतो यावदित्युक्तम् । यावतां मध्ये प्रथमानुव्यवसायादेरपि प्रवेशात् । तेन प्रामाण्यग्रहणस्य नैय्यायिकेनानङ्गीकारात् । न सिद्धसाधनम् । तावत्युक्त इदं ज्ञानमप्रमाणमिति अप्रामाण्यग्राहकज्ञाग्राहिका या सामग्री तया प्रामाण्यस्याग्रहणान् मतत्रये बाधः स्याद् अत उक्तं तदप्रामाण्याग्राहकेति ।
अत्रानुगतस्य ज्ञानप्रामाण्यस्याभावात्कथं तस्य लक्ष्यत्वोक्तिः । न च गोव्यक्तिसामान्यस्य अनुगतस्य लक्ष्यस्याभावेपि गोत्वरूपलक्ष्यतावच्छेदक-स्यानुगतस्य सत्वेन यथा लक्ष्यता तथा ज्ञानत्वाख्यलक्ष्यतावच्छेदकस्य अनुगतस्य सत्वेन ज्ञानप्रामाण्यस्य लक्ष्यता सम्भवतीति वाच्यम् । अलक्ष्यव्यावृत्तस्य गोत्वस्येव ज्ञानत्वस्य भ्रमेपि सत्वेन अतिप्रसक्ततया अलक्ष्यतावच्छेदकत्वात् ।
किञ्च प्रामाण्यं किं तद्वति तत्प्रकारकत्वम् उत तद्वति तत्प्रकारकज्ञानत्वं वा । नाद्यः । इच्छादिसाधारणस्य उक्तविधप्रामाण्यस्य स्वाश्रयग्राहक-ग्राह्यत्वाभावात् । द्वितीये आकाशे शब्द इति ज्ञानस्य प्रामाण्यमेव न स्यात् । तस्य स्वतस्त्वं तु दूरादेवेति पक्षदूषणं मनसि निधाय स्वतस्त्वं दूषयितुमुपक्रमति ॥ तन्नेति ॥ तदप्रामाण्येत्यत्र अप्रामाण्यपदेन तदभाव-वति तत्प्रकारकज्ञानत्वरूपमप्रामाण्यं विवक्षितम् उत प्रामाण्याभावो वा । द्वितीये इदं ज्ञानमप्रामाणमिति ज्ञानग्राहिकया प्रामाण्याभावग्राहिकया प्रामाण्यस्याग्रहणाद्बाध इति मनसि निधायाद्ये दोषमाह ॥ तदाभाव-वतीति ॥ तदाभाववति तत्प्रकारकत्वरूपाप्रामाण्यस्य प्रामाण्यात्यन्ताभावस्य च भिन्नत्वाद् अन्यतरग्राहकस्य अन्यतराग्राहकत्वादिति भावः । ननु अप्रामाण्यपदेन तदभाववति तत्प्रकारकत्वं वा प्रामाण्याभावो वा न विवक्षितः । येनोक्तदोषः स्यात् । किन्तूभयानुगतं प्रामाण्यविरोधित्वमात्रं विवक्षितमतो न पूर्वोक्तदोष इति शङ्कते ॥ अप्रामाण्यपदेनेति ॥ तर्हि ज्ञानग्राहकपदेन ज्ञानग्राहकमात्रं विवक्षितम् उत स्वविषयघटितत्वेन ज्ञानग्राहकञ्चेति विकल्प्य बाध इत्याह ॥ ज्ञानं गुण इत्यादिना ॥ सामान्येति ॥ प्रमेयत्वसामान्यप्रत्यासत्तिजन्यत्येत्यर्थः । द्वितीयमनुवद-न्निराह ॥ ज्ञानग्राहकपदेनेति ॥ तथा च ज्ञानं गुण ज्ञानं प्रमेयमित्यादि-ज्ञानज्ञानस्य स्वविषयज्ञानविषयघटज्ञानत्वाभावान् न पूर्वोक्तदोष इति शङ्कितुहृदयम् । अत्रापि बाध इत्याह ॥ घटज्ञानमित्यादीति ॥ अत्रादि-शब्देन घटविशेष्यकं ज्ञानं घट१विशेषणज्ञानं चेत्यादि शब्दजन्यं ज्ञानज्ञानं गृह्यते ।
ननु ज्ञानग्राहकपदेन ग्राह्यप्रामाण्याश्रयज्ञानप्रकारप्रकारकतयाननु ज्ञानग्राहकपदेन ग्राह्यप्रामाण्याश्रयज्ञानप्रकारप्रकारकतया
तर्कताण्डवं
ननु ज्ञानग्राहकपदेन ग्राह्यप्रामाण्याश्रयज्ञानप्रकारप्रकारकतया तत्प्रकारवद्विशेष्यतया च तद्विषयत्वं विवक्षितम् । अत्र च विशेषण- द्वयेन तव घटविशेष्यकं ज्ञानमिति तव घटत्वप्रकारकं ज्ञानमिति च शब्दाभ्यां जन्ययोर् घटज्ञानविषयकज्ञानयोः प्रामाण्याविषयकत्वाद् बाध इति शङ्काद्वयं क्रमेण निरस्तमिति चेदुच्यते ।
त्वदुक्तं यद्ग्राह्यप्रामाण्याश्रयज्ञानप्रकारप्रकारकतया तत्प्रकार-वद्विशेष्यतया च तद्विषयत्वं तत्प्रामाण्यविषयकत्वमेव । स्वप्रकार-वद्विशेष्यकत्वस्यैवप्रमाण्यरूपत्वात् । तथा च यावती प्रामाण्य-विषयिका सामग्री तद्ग्राह्यत्वं स्वतस्त्वमित्युक्तं स्यात् । तथा चैतादृशस्वतस्त्वस्य परतस्त्वपक्षेऽपि सत्वात्सिद्धसाधनम् । एत-दभावरूपपरतस्त्वसाधने अपसिद्धान्तश्च । न हि परतस्त्वपक्षे अनुव्यवसायाविषयोऽपि प्रामाण्यं प्रामाण्यानुमितेरप्यविषयः । अस्मिन्पक्षेऽप्रामाण्याग्राहकत्वविशेषणवैयर्थ्यं च ।
युक्तिरत्नाकरः
अत्रोपाध्यायविवक्षामाशङ्कते– नन्विति ॥ एवञ्च घटज्ञानमित्यादिसामग्री नोक्तरूपानुव्यवसायादिसामग्री तथैव इदं घटत्वेन जानामीत्यादौ विशेष्यत्वेनैव घटत्वाश्रयस्मृतिप्रकारकत्वेनैतद्घटत्वादेर्भानादिति भावः ॥ तत्प्रकारद्विशेष्यकतयेति ॥ यद्यपि स्वाश्रयप्रकारकतया स्वाश्रय-विशेष्यविशेष्यकतया स्वाश्रयग्राह्यत्वमेवोपाध्यायोक्तम् । तथापि तावन्मात्रस्य रजतत्वप्रकारकं पुरोवर्तिविशेष्यकमिदं ज्ञानमिति शाब्दसमाप्तिसत्वात् । तथा च प्रामाण्याग्रहाद्बाधः स्यादिति । स्वाश्रयविशेष्यविशेष्यकतयेत्यस्य स्वाश्रयप्रकारनिरूपितवैशिष्ट्यानुपयोगि विशेष्यकतयेत्यर्थे तत्प्रकार-वद्विशेष्यकत्वमेव लभ्यत इति भावः । तत्प्रकारवद्विशेष्यकत्वेनेत्यत्र किं तत्प्रकारोपलक्षितव्यवसायधर्मिविशेष्यकत्वं विवक्षितम् उत विशिष्टतद्धर्मि-विशेष्यकत्वम् । नाद्यः । घटत्वप्रकारकं किञ्चिद्विशेष्यकमित्यादि प्रागुक्त-सामग्य्रा प्रामाण्याग्रहेण बाधात् ।
यदत्रोक्तं नरहरिणा । अनयापि सामग्य्रा गृह्यत एव प्रामाण्यं ज्ञान-ज्ञानस्य तद्विषयधर्मधर्मिविशेष्यावगाहित्वनियमेन विशेष्ये घटत्ववत्व-स्यानयापि ग्रहादन्यथाप्रकारकत्वादिग्रहानुपपत्तेस् तस्य तद्घटितमूर्तिकत्वादिति तन् नोक्तनियमस्य प्रत्यक्षादिमात्रविषयत्वेन घटत्वनिरूपितपुरोवर्त्यनु-योगिकवैशिष्ट्यस्य पदवाक्यार्थयोरन्यतरत्वाभावेन तत्राभावात् । प्रकारत्व-भानान्यथानुपपत्या तज्ज्ञान इव घटत्वप्रकारकमिति शब्देनापि प्रामाण्यं भासेत । यदि च भासमानवैशिष्ट्यप्रतियोगित्वमात्रस्यैव प्रकारशब्दार्थत्वेन पुरोवृत्यनुयोगिकस्य भासकाभावेन तत्र प्रामाण्याग्रहस्तदात्रापि प्रकारांशे पुरोवृत्यनुयोगिकस्यैव विशेष्यांशे घटत्वप्रतियोगिकत्वस्यापि भासकाभावात् । अन्यथा तदुत्तरकालं घटत्वप्रकारकमिदं ज्ञानं घटत्ववद्विशेष्यकं न वेति प्रमाणं न वेति संशयानापत्तेरिति दिक् ।
अस्तु तर्हि द्वितीयस्तत्राह– त्वदुक्तमिति । तत्प्रकारवद्विशेष्यकतया तत्प्रकारनिरूपितवैशिष्ट्यानुयोगित्वेन व्यवसायधर्मिणि विषयकतयेत्यर्थः । तद्विषयकत्वं व्यवसायविषयकत्वम् । प्रागुक्तशाब्दसामग्य्रां व्यवसायधर्मिणि तत्प्रकारनिरूपितवैशिष्ट्यानुयोगित्वाभानेऽप्यनुव्यवसायादिसामग्य्राः सम्बन्धितावच्छेदकरूपतयेत्यादिवक्ष्यमाणयुक्त्या व्यवसायधर्मिणि तन्निरूपितवैशिष्ट्यानुयोगिकत्वभासकत्वमस्त्येवेति भावः ।
यच्च तेनैवोक्तम् अप्रामाण्याग्राहकेति नञ् व्यत्यासेनाप्रामाण्याभावग्राहकेत्यर्थे प्रामाण्यग्राहकत्वमेव पर्यवस्यति । एवं च प्रामाण्यग्राहकयावज्ज्ञानग्राहकत्वं विधिकोट्यर्थः । ततश्च घटज्ञानमित्यादिना प्रामाण्यग्रहेऽपि न बाधः । नापि सिद्धसाधनम् । ग्राह्यपदेन विवक्षितस्य स्वातन्त्र्येण ग्राह्यत्वस्य नैय्यायिकैरनभ्युपगमादिति ।
तदपि न । अग्राहके नञो अप्रामाण्याभावार्थकत्वे पूर्वपदेन समासायोगान् नञ्द्वयवैय्यर्थ्याच्च । न हि घट इति वक्तव्ये अनघट इति वदन्ति । तत्पदं च व्यर्थम् । न च घटज्ञानग्राहकेण पटज्ञानप्रयोजनमिति वाच्यम् । तत्पदस्य प्रामाण्यविशेषणत्वेनैवोक्तलाभे ज्ञानग्राहकपदस्य सर्वथा व्यर्थत्वात् । प्रामाण्यपदस्याननुगततत्तत्प्रामाण्यपरत्वावश्यम्भावेनोक्तबाधस्यासम्भवदुक्तिकत्वाच्च । तत्पदस्य ज्ञानविशेषणत्वे असमर्थत्वाच्च । स्वातन्त्र्येण प्रामाण्यग्राहकेत्युक्तौ सिद्धसाधनापत्त्या स्वातन्त्र्यपारतन्त्र्यसाधारणग्राहकमात्रस्य वाच्यतया अप्रामाण्यग्राहकस्यापि त्वदुक्तदिशा तत्प्रकारकत्वभानानुरोधेन तद्वत्वभास-कत्वे प्रामाण्यविषयकत्वस्यावश्यकत्वेन स्वातन्त्र्येण प्रामाण्याग्रहेण बाधाच्चेति दिक् ।
न्यायदीपः
नन्वस्तु तर्हि स्वाश्रयप्रकारप्रकारकतया स्वाश्रयविशेष्यविशेष्यकतया स्वाश्रयग्राहकग्राह्यत्वमिति यज्ञपतिनोक्तमतम् । तत्र यद्यपि यथाश्रुते घटत्वप्रकारकं किञ्चिद्विशेष्यकम् इति ज्ञानेनापि प्रामाण्याग्रहात्स्वाश्रयप्रकार-प्रकारकतया स्वाश्रयप्रकारवद्विशेष्यकतयेति वाच्यम् । तत्रापिप्रकारवदित्यत्रप्रकारस्योपलक्षणत्वे प्रागुक्तदोषापत्त्या तत्प्रकारविशिष्टविशेष्यविशेष्यक-तयेत्युच्यते । अतो न कोपि दोष इति भावेन शङ्कते ॥ नन्विति ॥ तत्प्रकारवदिति ॥ तत्प्रकारविशिष्टविशेष्यकतयेत्यर्थः ॥ तद्विषयत्वम् ॥ व्यवसायविषयत्वम् ।
अस्मिन् पक्ष इत्यादि वक्ष्यमाणदोषदार्ढ्याय दलद्वयकृत्यं व्यनक्ति ॥ अत्र चेति ॥ विवक्षायामित्यर्थः । किमेतद्वादिमते तद्वत्वरूपं वैशिष्ट्यमनु-व्यवसायविषय एव नेति मतिरुत स्वातन्त्र्येण? आद्ये दोषमाह ॥ त्वदित्यादिना ॥ स्वप्रकारवदिति ॥ स्वप्रकारविशिष्टेत्यर्थः । सिद्ध-साधनापसिद्धान्तौ व्यनक्ति ॥ नहीति ॥ प्रामाण्यमिति ॥ तद्वत्त्वादि-रूपमित्यर्थः । वैशिष्ट्यमनुव्यवसायविषय एव नेति पक्षे तादृशानुव्यवसाय-विषयत्वमादाय सिद्धसाधनादिदोषाभावेपि इदं ज्ञानंप्रमाणं समर्थप्रवृत्ति-जनकत्वाद् इत्यनुमितिसामग्रीरूपा यावती त्वदुक्तलक्षणा ज्ञानग्राहिका सामग्री तावत्त्यापि प्रामाण्यग्रहात् सिद्धसाधनतापसिद्धान्तावित्यर्थः । अनुमितिविषयत्वोक्तौ तत्सामग्रीविषयत्वं सिद्धमेवेत्युपेत्य अनुमितेर् इत्येवोक्तम् । न त्वनुमितिसामग्र्या अपीति । यद्वा तेन सामग्रीत्युक्तावपि ग्राहकज्ञानेत्येव युक्तम् । न तु सामग्रीत्युपेत्यैवमुक्तम् । द्वितीये स्वातन्त्र्येण तद्वद्विशेष्यकत्वग्राहकत्वमिति मतम्, उत ग्राहकत्वमात्रमिति? आद्येप्ये-तदेवोत्तरम् ॥ त्वदुक्तमित्यादि ॥ प्रामाण्यविषयिका स्वातन्त्र्येण तद्व-द्विशेष्यकत्वादिविषयिकेत्यर्थः ॥ अनुव्यवसायाविषयोपि ॥ स्वातन्त्र्येणानुव्यवसायाविषयोपीत्यर्थः ॥प्रमाण्यानुमितेः स्वतान्त्र्येण तद्वत्वविशिष्टधर्मिविशेष्यकत्वादिविषयिकानुमितेरपीत्यर्थः । द्वितीयेपि ग्राह्यमित्यत्र ग्राह्यत्वमात्रमभिमतम् उत स्वातन्त्र्येण? आद्ये तादृशानु-व्यवसायविषयत्वमादायापि सिद्धसाधनतापसिद्धान्तौ स्पष्टौ । द्वितीये तूक्तरूपानुव्यवसायंप्रति प्रामाण्यस्य न्यायमते स्वातन्त्र्येणाविषयतया यावतीति ज्ञानग्राहकसामग्रीविशेषणेनैव सिद्धसाधनतानापपत्तेर्दोषान्तरमाह ॥ अस्मिन् पक्ष इति ॥ ग्राह्यत्वमित्यत्रैव स्वातन्त्र्येण ग्राह्यत्वमिति पक्ष इत्यर्थः । तथा अस्मिन्पक्ष इत्यस्य स्वातन्त्र्येण तद्वद्विशेष्यकत्वादि-ग्राहिकेति पक्ष इत्यप्यर्थमुपेत्य प्राचीनपक्षेप्ययं दोषो बोध्यः । तद्वद्विशेष्य-कत्वग्रहे तदभाववद्विशेष्यकत्वरूपाप्रामाण्यग्रहासम्भवेनोक्तविवक्षया तद्वारणादिति भावः ॥
ननु तदभाववति तत्प्रकारकत्वरूपाप्रमाण्यग्राहिकापि तद्वद्विशेष्यकत्व-ग्राहिकैव । तत्प्रकारकत्ववित्तिवेद्यत्वात् तद्वद्विशेष्यकत्वस्य । तद्वद्विशेष्य-कत्वाभाने तत्प्रकारकत्वग्रहणायोगादिति चेत् तर्हि अप्रामाण्याग्राहकत्वरूप-विशेषणदानेऽपि तव घटत्वप्रकारकं ज्ञानमिति शब्दजन्यज्ञानेनाप्रामाण्या-ग्राहकेण त्वदुक्तदिशाप्रकारवित्तिवेद्यतया तद्वद्विशेष्यकत्वग्राहिणापिप्रमाण्याग्रहणाद्बाधापत्तेः । यदि चात्र तद्वत्त्वेन विशेष्यस्याभानान्न बाधः । तर्हि अप्रामाण्यग्राहकसामग्र्यामपि तत्तुल्यम् । अत एव पूर्वं दलद्वयकृत्यं व्यक्तीकृतम् ॥
यदत्रोक्तं नरहरिणा ‘‘अप्रामाण्याग्राहकेत्यत्र नञ्व्यत्यासेनाप्रामाण्या-भावग्राहकेत्यर्थे प्रामाण्यग्राहकेति पर्यवसानात् प्रामाण्यग्राहकयावज्ज्ञान-ग्राहकग्राह्यत्वं विधिकोट्यर्थ’’ इति तदपि ‘‘यावती प्रामाण्यविषयिका सामग्री तद्ग्राह्यत्वं स्वतस्त्वमित्युक्तं स्यात्’’ इति ग्रन्थकृदुक्त्यैव सिद्धसाधनादिदोषेण निरस्तं भवति । न च ग्राह्यपदेन स्वातन्त्र्येण ग्राह्यमित्यभिमतत्वाद्या-वदित्युक्त्यैव सिद्धसाधनत्वदोषाभावः, तथात्वेन अनुव्यवसायविषयत्वस्य न्यायमतेऽभावदिति वाच्यम् । नञो अप्रामाण्याभावार्थकत्वे पूर्वपदेन समासायोगात्, नञ्द्वयवैयर्थ्यात्, तत्पदवैयर्थ्याच्चेति ध्ययेम् । तदेतदाह ॥ अप्रामाण्याग्राहकत्वविशेषणवैयर्थ्यमिति ॥
श्रीलक्ष्मीनाथतीर्थटीका
उक्तदोषपरिहारकं पक्षान्तरं शङ्कते ॥ नन्विति ॥ ग्राह्यप्रामाण्या-श्रयेति ॥ ग्राह्यप्रमाण्याश्रये१ यद्घट इत्यादिज्ञानं तस्मिन्योयं प्रकारः घटत्वादिः स एव प्रकारः यस्य तस्यभावस् तयेत्यर्थः ॥ तत्प्रकार-वदिति ॥ प्रामाण्याश्रयज्ञानप्रकारवदित्यर्थः । तद्विषयकत्त्वं ज्ञानविषय-कत्त्वमित्यर्थः । तथा च घटज्ञानं गुण इति शब्दजन्यं ज्ञानं सामान्य-प्रत्यासत्तिजन्यं ज्ञानं प्रमेयमिति च ज्ञानं ग्राह्यप्रामाण्याश्रयज्ञानप्रकार१तया तत्प्रकारवद्विशेष्यतया च न घटज्ञानादिस्वरूपं गृह्णाति । किन्तु गुणत्वप्रमेयत्वादिप्रकारकतयैवेति च न पूर्वोक्तदोषः । इदं ज्ञानं घटत्व-प्रकारकं घटत्ववद्विशेष्यकमित्याकारकमेव ज्ञानं ग्राह्यप्रामाण्याश्रय-ज्ञानप्रकारप्रकारकतया तत्प्रकारवद्विशेष्यतया व्यवसायविषयकं नान्यविषयक-मित्याशयो बोध्यः । विशेषणद्वयस्य प्रयोजनं स्वयमेवाह ॥ अत्र चेति ॥ क्रमेणेति ॥ तव घटविशेष्यकं ज्ञानं वृत्तमिति ज्ञानज्ञानस्य ज्ञानप्रकार २प्रकारतया ज्ञानविषयकत्त्वाभावात् तव घटत्वप्रकारकं ज्ञानमिति शब्दजन्यस्य ज्ञानज्ञानस्य ज्ञानप्रकारवद्विशेष्यकतया ज्ञानग्राहकत्त्वाभावाच्च शङ्काद्वयं निरस्तमित्यर्थः ।
दूषयति ॥ उच्यते इति ॥ ज्ञानग्राहकपदेनैवं विवक्षायां ज्ञानग्राहकस्य प्रामाण्यविषयकत्त्वमेवोक्तम् इत्याह ॥ त्वदुक्तमिति ॥ तत्र हेतुमाह ॥ स्वप्रकारवदिति ॥ ज्ञानप्रकारवद्विशेषविषयकत्त्वमेव ज्ञानस्य प्रामाण्य-रूपमित्यर्थः । अस्त्वित्यत आह ॥ तथा चेति ॥ प्रामाण्यग्राहक-सामग्रीग्राह्यत्वं प्रामाण्यस्य स्वतस्त्वमित्युक्तं स्यादित्यर्थः । तावतापि किमित्यत आह ॥ तथा चेति ॥ प्रामाण्यग्राहकसामग्री अनुव्यवसायादि-रूपा तया ग्राह्यत्वं प्रामाण्यस्य स्वतस्त्वमित्युक्तं स्यादित्यर्थः । प्रामाण्य-ग्रहस्य नैय्यायिकेनानङ्गीकारान्न सिद्धसाधनमित्यतः सिद्धसाधनं व्यनक्ति ॥ न हीति ॥ प्रामाण्यग्राहकसामग्य्रां सामग्रीत्वमेव प्रविष्टं न त्वनु-व्यवसायादित्वं नाप्यनुमितित्वमिति भावः । अनुव्यवसायत्वादिना सामग्री विवक्षिता इति वदन्तं मूर्खं प्रत्याह ॥ अस्मिन्निति ॥ तत्प्रकारप्रकार-कत्वादिपक्षे इत्यर्थः ॥ पक्षे इति ॥ इदं ज्ञानं प्रमाणमित्यप्रामाण्यग्राहक-सामग्य्रा उक्तरूपेण ज्ञानग्राहकत्त्वाभावादिति भावः । नत्वविषयज्ञानग्राहक-सामग्रीग्राह्यत्वमेव विवक्षितम् ॥