अनन्तकल्याणगुणैकराशिमशेषदोषोज्झितमप्रमेयम्
॥ श्रीः ॥
श्री व्यासतीर्थयतिविरचितं
प्रथमपरिच्छेदः
मङ्गलाचारणम्
तर्कताण्डवम्
अनन्तकल्याणगुणैकराशिमशेषदोषोज्झितमप्रमेयम् ।
मुमुक्षुभिस्सेव्यमनन्तसौख्यप्रदं रमेशंप्रणमामि नित्यम्
॥ १ ॥
श्रीशपादाम्बुजासक्तः करुणापूरशीतलः ।
मध्वाख्यो मरुदंशो मे सन्तापान् हन्तु सन्ततम् ॥ २ ॥
आनन्दतीर्थोपदिष्टो निधिर्नारायणाह्वयः ।
प्रदर्शितो येन सम्यग् जयतीर्थं तमाश्रये ॥ ३ ॥
श्रीमदानन्दतीर्थार्यस्वामिनः कमलापतेः ।
प्रीतये क्रियते व्यासयतिना तर्कताण्डवम् ॥ ४ ॥
श्रीराघवेन्द्रयतिविरचितः
न्यायदीपः
विश्वोत्पत्तिस्थितिध्वंसकारणं रमणं श्रियः ।
प्रणम्य पूर्णबोधादीन् व्याकुर्वे तर्कताण्डवम् ॥
गुरुपादकृताऽप्यस्ति व्याख्या साऽत्यन्तविस्तरा ।
व्याख्येयं मन्दबोधाय क्रियतेऽशेषगोचरा ॥
ग्रन्थादौ विशिष्टेष्टदेवतानतिरूपं मङ्गलमाचरति ॥ अनन्तेति ॥ सत्त्वादिषु गुणत्वप्रसिद्धेर् दुःखादीनां गुणत्वेन परैः परिगणनाच्च तद्व्युदासाया-नन्दज्ञानबलद्युतिप्रभृतिशुभधर्मलाभाय कल्याणगुणेत्युक्तिः । तार्किकरीत्या गुणगुणिनोर्भेदभ्रमनिरासाय गुणैकराशिमित्युक्तिः । ‘‘अष्टावेवेश्वरे गुणा’’ इति धीनिरासायानन्तेति । ‘‘दोषैकदृक् पुरोभागी’’ इत्यमरे ‘‘ह्लादैकमयीं’’ इत्यादिकाव्यप्रकाशादौप्रयोगदर्शनात् सङ्ख्यार्थकस्यैवैकशब्दस्य ‘‘पूर्वकालैक’’ इति पूर्वनिपतो न केवलार्थस्येति तत्वनिर्णयटीकाद्युक्त्या गुणैकराशिमित्यस्य साधुत्वं ध्येयम् । उक्तरूपगुणानां मुख्यराशिमिति वा भेदशून्यराशिमिति वाऽर्थः ।
गुणवद्दोषो नाशङ्क्य इत्याह ॥ अशेषेति ॥ चिन्तासन्तापादिदोषहीन-मित्यर्थः । ननु गुणविशिष्टस्य मायाशबलत्वात्कथं दोषोज्झितत्वमित्यतो नेदं मायाशबलमिति भावेनोक्तम् अप्रमेयम्, देशतोऽपरिच्छिन्नमिति । शबलं तु परिच्छिन्नमित्यभ्युपेतत्वादिति भावः । तत्र हेतुर्नित्यमिति । अनिवर्त्यम् । शबलं तु मिथ्यात्वान्निवर्त्यमित्यर्थः । एवं देशकालगुणानन्त्य-रूपब्रह्मशब्दार्थस्यात्रोक्त्या रमेश एव ब्रह्मशब्दार्थ इति सूचितम् । अत एव मुमुक्षुभिः सेव्यम्, न तु मन्दोपास्यमित्यर्थः । किं फलम् ? अनन्त-सौख्यप्रदम्, अविनाशिसुखप्रदमित्यर्थः । स्वार्थे ष्यञ् । अत्र न्यायचिन्तापरे ग्रन्थे ब्रह्मतन्त्राध्यायचतुष्टयोक्तगुणवैशिष्ट्योक्तिः,
‘‘प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः ।
मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम्’’
इत्युक्त्या ब्रह्मतन्त्रोक्तप्रमेयनिर्णयोपयुक्तप्रमाणन्यायचिन्तापरत्वा-त्तद्विषयादिनैवास्य विषयादिमत्तेति सूचनार्था । एवं च न्यायपञ्चाध्यायानुरोधेन कुसुमाञ्जलौ पञ्चपरिच्छेदकृतिवद् ब्रह्मतन्त्रानुरोधेन परिच्छेदचतुष्टये कार्येऽपिप्रमाणत्रित्वद्योतनाय परिच्छेदत्रयकृतिरिति ॥ १ ॥
देवतानतिसमनन्तरं भाष्यकर्तॄनर्थयते ॥ श्रीशेति ॥ अत्राद्येन विशेषणेन सौरभ्यस्य द्वितीयेन शैत्यस्य अंश इति मान्द्यस्य वायुगुणस्योक्ति-र्ज्ञेया । टीकाकर्तॄन् नमति ॥ आनन्देति ॥ फलोक्तिपूर्वं चिकीर्षितंप्रतिजानीते ॥ श्रीमदिति ॥ २-४ ॥
श्रीलक्ष्मीनाथतीर्थकृत
तर्कताण्डवटीका
व्यासतीर्थयतीन्द्रेण पूजितं पुरुषोत्तमम् ।
श्रीकृष्णमाश्रये नित्यं सर्वाभीष्टफलप्रदम् ॥ १ ॥
पूर्णबोधान्गुरून्वन्दे योगपूर्ण …….. (तृटितमस्ति)
गुरुप्रसादो बलवानिति वेदविनिर्णयः ॥ २ ॥
जयतीर्थाख्यतरणिं जगदीशप्रदीपकम् ।
सेवे सेवकभक्तस्य चाज्ञानतिमिरापहम् ॥ ३ ॥
व्यासतीर्थार्यमहिमा वर्णितुं केन शक्यते ।
येन वैष्णवसिद्धान्तो विख्यातस्तमहं भजे ॥ ४ ॥
यदनुग्रहमात्रेण विदुषामग्रणीर्भवेत् ।
तं यादवेन्द्रमनिशं मम विद्यागुरुं भजे ॥ ५ ॥
शब्दे तर्के च वेदान्ते भाट्टे प्राभाकरे तथा ।
रामचन्द्रगुरोस्तुल्यः कोनु वा वर्तते भुवि ॥ ६ ॥
लक्ष्मीवल्लभयोगीन्द्रं लक्षणार्यमहं भजे ।
वचसा मनसा नित्यं गुरुराजशिखामणिम् ॥ ७ ॥
व्यासतीर्थार्यवरदस्वामिनः कमलापतिः ।
प्रीतये क्रियते तर्कताण्डवस्य प्रकाशनम् ॥ ८ ॥
तर्कताण्डवविख्यातो ग्रन्थोयं तर्कवादिनाम् ।
कर्कशो हृदयस्यार्थो व्यज्यते विदुषां मुदे ॥ ९ ॥
क्व तर्कताण्डवं चाहं क्वचाल्पमतिमान्भुवि ।
यते च तस्य टीकार्थं व्यासतीर्थकृपावशात् ॥ १० ॥
भाष्यानुभाष्यादिग्रन्थेषु तट्टीकासुधादिग्रन्थेषु अल्पमतीनामन्यथाप्रतीत्या प्राप्तं विरोधं परिहर्तुं तर्कताण्डवाख्यं ग्रन्थं कर्तुकामा व्यासतीर्थार्या अविगीतशिष्टाचारपरम्पराप्राप्तमिष्टदेवताप्रणामरूपं मङ्गलमादावाचरन्ति ॥ अनन्तेति ॥ रमेशं प्रणमामीति योजना । उत्तमपुरुषप्रयोगादहमिति लभ्यते । नमनस्य भक्तिपूर्वकत्वं प्रेत्युपसर्गेणद्योतयति । भक्तिपूर्वकनमनस्यैव सकलपुरुषार्थसाधनत्वादिति भावः ।
रमायाः सकलविद्याभिमानिदेवतात्वेपि जगन्मातृत्वेपि पतिपारतन्त्र्येणैव तद्वन्दनं कार्यमिति द्योतयितुमाह ॥ रमेशमिति ॥ आरभमाणस्य तर्कताण्डवस्य१ प्रकरणत्वद्योतनाय तदारम्भोपयुक्तमङ्गलाचरणे तत्प्रतिपाद्य-गुणवत्वेन रमेशं विशिनष्टि ॥ अनन्तेति ॥ सत्वादीनां शब्दरसादीनां दुःखादीनां च गुणत्वप्रसिद्धेस् तद्व्युदासाय कल्याणेत्युक्तम् ।
अनन्ता अपरिमिताः प्रत्येकं पूर्णाः कल्याणगुणास् तेषां राशिः समुदायः । गुणस्वरूपमिति यावत् । गुणविजातीय२जनकर्मादिव्यावृत्त्यर्थम् एकेत्युक्तम् । स च एकशब्दः केवलार्थोत्र विवक्षितः । तेन परनिपातो युक्तः । ततश्च केवलसद्गुणस्वरूप इति फलितोर्थः । कल्याणगुणास्तेषा-मेकराशिः । गुणैकस्वरूपः । तमित्यर्थः । अनेन परमात्मनस्तद्गुणानां च भेदं वदन्तो नैय्यायिकादयो निरस्ता भवन्ति । यद्यपि पूर्वकालैकसवजग-त्पुराणनवकेवलाः समानाधिकरणेन इत्यनेन एकशब्दस्य पूर्वनिपातो वक्तव्य-स्तथापि दोषैकदृक्पुरोभागी आल्हादमयीत्यादिप्रयोगदर्शनात्सङ्ख्यार्थस्यैक-शब्दस्य पूर्वनिपातेपि केवलार्थस्यैकशब्दस्य न पूर्वनिपातः ।
एवं प्रथमाध्यायार्थमुक्त्वा द्वितीयाध्यायार्थवत्त्वेनापि रमेशं विशिनषि्ट ॥ अशेषेति ॥ जरामरणपारतन्त्र्यादिसमस्तदोषरहितमित्यर्थः । तृतीयाध्यायार्थवत्त्वेनापि विशिनष्टि ॥ मुमुक्षुभिः सेव्यमिति ॥ यद्वा सगुणस्य मायाशबलितत्त्वेन कथमशेषदोषोज्झितत्त्वमित्यत आह ॥ मुमुक्षुभिः सेव्यमिति ॥ चतुर्थाध्यायार्थवत्त्वेनापि विशिनष्टि ॥ अनन्तसौख्यप्रदमिति ॥ नाशरहितस्वरूपानान्दप्रदमित्यर्थः । मुक्तानामिति शेषः । उक्तं च–
अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।
आनन्ददश्च मुक्तानां स एवैको जनार्दनः ॥
इति । उक्तविशेषणेषु सम्भावकमाह ॥ अप्रमेयमिति ॥ साकल्येन सकलवेदाद्यगोचरमित्यर्थः । अनन्तकल्याणगुणान्तर्गतजगत्कर्तृत्त्वा- न्यथानुपपत्तिलब्धविग्रहवत्त्वाद् विग्रहस्य च१ नाशविनाभावाद् अनित्यत्तवं देहहानिर्दुःखप्राप्तिरपूर्णता इत्यत आह ॥ नित्यमिति ॥
अनित्यत्त्वं देहहानिर्दुःखप्राप्तिरपूर्णता ।
नाशश्चतुर्विधो ज्ञेयस् तदभावो हरेस्स्मृतः ॥
इत्यादिप्रमाणोक्तचतुर्विधनाशरहितम् । अथवा नित्यं सर्वदा अनन्त-सौख्यप्रदमिति योजनीयम् । अनेन कालान्तरे रुद्रादेर् मोक्षदत्वं निराकृतं भवति ॥ १ ॥
यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
इति वचनाद्देवताप्रणामानन्तरं गुरून्प्रार्थयते ॥
श्रीशेति ॥ श्रीशः रमेशः । तस्य पादौ अम्बुजे इति तयोर् आसक्तः निरतिशयभक्तियुक्तः । करुणाख्यपूरेण शीतलः । मध्व इत्याख्या नाम यस्य सः । मरुदंशः मरुतः वायोस् तृतीयांशः । सन्तापान् । सन्ततं निरन्तरम् । नाशयत्वित्यर्थः ॥ २ ॥
ग्रन्थकरणे स्वप्रकाश्यग्रन्थकर्तृटीकाकारस्याश्रयणमावश्यकमिति मनसि निधाय तस्यातीव माहात्म्यं प्रकटयन्नाह ॥ आनन्देति ॥ नारायणाख्य-निधिः सर्वपुरुषार्थसाधनभूत आनन्दतीर्थोपदिष्टो ऽस्तीत्येवोपदिष्टः । येन जयतीर्थाख्येन सम्यक्प्रदर्शितः । तं जयतीर्थम् आश्रये ग्रन्थकरणसमये तदीयप्रसादो मे भवत्वितु भावः ॥ ३ ॥
वेदव्यासेन क्रियमाणे वैष्णवमतोद्धारे आचार्याणां प्रथमाङ्गत्वं जयतीर्था-चार्याणां द्वितीयाङ्गत्वमिति द्योतयितुं द्वयोरेव वन्दनं कृत्वा प्रयोजनमनुद्दिश्य न मन्दोपि प्रवर्तते इति न्यायात्कीदृशप्रयोजनायेदं ग्रन्थकरणमित्यपेक्षायां परमप्रयोजनं संज्ञया वदन्स्वनामपूर्वकं चिकीर्षितं प्रतिजानीये ॥ श्रीमदानन्देति ॥ अनेनादावानन्दतीर्थस्य प्रीत्यर्थम् अनन्तरं रमायाः प्रीत्यर्थम् अनन्तरं सर्वोत्तमस्य श्रीकृष्णस्य प्रीत्यर्थं तर्कताण्डवाख्यग्रन्थः क्रियते । तेषां प्रीतिः परमपुरुषार्थप्राप्तय इति भावः । तर्कताण्डवमित्यने-नावान्तरप्रयोजनं सूचितम् । तर्केन नर्तनं क्रियत इत्यनेन तार्किकमतदूषण-स्यावान्तरप्रयोजनत्वलाभात् । अनेनैवानन्दतीर्थानां प्रीतिः परमप्रयोजन-मित्येतत्प्राच्युक्तमुपपादितं भवति । यद्वा तर्के ब्रह्मतर्कादिरूपे तदुक्त-प्रमेयविषये इति यावत् । ताण्डवं नर्तनं क्रियते । तदीयप्रमेयसाधाना-हितोल्लासादिनेति भावः ॥ ४ ॥