अत्रोक्तं ब्रह्मणः सर्वस्रष्टृत्वं ..
चतुर्थः पादः
प्राणोत्पत्यधिकरणम्
तात्पर्यचन्द्रिका
इन्द्रियाणामुत्पत्तिमत्वसमर्थनम्
ॐ तथा प्राणाः ॐ ॥
अत्रोक्तं ब्रह्मणः सर्वस्रष्टृत्वं किं प्राणानादित्वश्रुतिविरुद्धं न वेति चिन्ता । तदर्थं किं प्राणानादित्वश्रुतिर्मुख्यार्थोत गौणीति । तदर्थमनादित्वश्रुति सहकारित्वेन स्मृत्युक्तानुपादानत्वं किं सर्वथा निरुपादनत्वं किं वा सूक्ष्मरूपेणेति । ‘‘प्रतिज्ञानुपरोधाच्चे’’ति सिद्धान्तसूत्रोक्ताया इदं सर्वमसृजते’’ तिसामान्यश्रुतेर्बाधाय पूर्वपक्षन्यायविवरणे स्पष्टार्थवद्विशेषश्रुतिविरोध इत्युक्तम् । तत्र सामान्यव्यवधानाभावरूपं स्पष्टार्थत्वं निरवकाशत्वरूपविशेषश्रुतित्वेऽपि हेतुरित्याह ॥ स्पष्टार्थायानिरवकाशत्वेनेति ॥ ‘‘एतस्माज्जायते प्राणो मनः सर्वैद्रियाणि चे’’ ति सिद्धान्तीयविशेषश्रुतिबाधार्थं भाष्योक्तां पूर्वपक्षयुक्तिमाह ॥ निरुपादानत्वादिति ॥ व्यतिरेकेणेति ॥ यद्यप्यन्वयदृष्टान्तो ब्रह्मास्ति । तथापि व्यतिरेकव्याप्तिं विना व्यभिचारशङ्काया अनिरासाद्भाष्योक्तस्मृत्यनुसारेण व्यतिरेक एवोक्तः ॥ विप्रतिपत्त्यभावेनेति ॥ तेजोऽत इत्यादौ तेजआदेर्ब्रह्मकार्यत्व इव प्रकृते तत्र विप्रतिपत्त्यभावेनेत्यर्थः ॥ प्रतिसृष्टिकालमिति ॥ यस्मिन् प्रलयकालेऽनुपचयस्तदा न समर्थानि यस्मिंस्तु सृष्टिकाले समर्थानि तदाऽस्त्वेवोपचय इत्यर्थः । इन्द्रियाणां भूतैरुपचये तैजसाहङ्कारकार्यत्वविरोध इत्यत आह ॥ अहङ्कारोत्पन्नेति ॥ उक्तयुक्तयापीति ॥ ‘‘युक्तियुक्ताया अप्यविशेषश्रुतेस्सकाशादुभय (विशेषश्रुतेस्सकाशादुभय)’’ श्रुतेः प्राबल्या’’दिति (इदं वाक्यं न्यायविवरणे मुद्रितपुस्तके नास्ति) न्यायविवरणोक्तरीत्या ‘‘स प्राणमसृजत स प्राणा’’नित्यादिसिद्धान्तीयविशेषश्रुतेः पूर्वपक्षीयविशेषश्रुतितःप्राबल्यार्थं पूर्वोक्ता सामान्यश्रुतिः स्मारितेति भावः ॥ छ ॥ प्राणोत्पत्त्यधिकरणम् ॥ १ ॥
प्रकाशिका
एतत्पादाभिधेयं पूर्वपादानन्तर्ये बीजादिकं च प्रागेव विवृतम् ॥ ॐ तथा प्राणाः ॐ ॥ ‘‘जगत्कारणे ब्रह्मणी’’त्यादिफलोक्तिपरटीकातात्पर्योक्तिपूर्वं विषयसंशयटीकां व्यनक्ति ॥ अत्रोक्तमिति ॥ अत्रेति ॥ चिन्तेत्यन्वयः । उक्तमित्यस्य जन्मादिसूत्रोक्तमित्यर्थः । एवमग्रेऽपि । आद्यसूत्रसूचितचिन्तामुक्त्वा द्वितीयसूत्रसूचितचिन्तामाह ॥ किं प्राणेति ॥ टीकाक्षरार्थमाह ॥ प्रतिज्ञेत्यादिना ॥ विशेषश्रुतिबाधार्थमिति ॥ एतेन टीकायां ‘‘उत्पत्तिश्रुतिरस्ती’’त्यस्य सामान्यश्रुतिश्चास्तीत्यर्थ उक्तो भवति ॥ भाष्योक्तस्मृत्यनुसारेणेति ॥ ‘‘उपादानकृता सृष्टिस्सर्वलोकेषु दृश्यत’’ इति स्मृतीत्यर्थः ॥ तैजसाहंकारेति ॥ ‘‘तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभव’’न्निति द्वितीयस्कन्धस्य पञ्चमाध्याये ‘‘अतिजाज्वल्यमानत्वात्तैजसानीन्द्रियाण्यपी’’त्यादितत्तात्पर्योक्तवाक्येषु च ‘‘तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागत’’ इत्यादितृतीयस्कन्धकापिलेयवाक्यादौ च तैजसाहंकारकार्यत्वश्रवणादिति भावः ॥ तामसेति ॥ तामसादपि भूतादेर्विकुर्वाणादभून्नभ’’ इत्यादिद्वितीयस्कन्धवाक्यात् ‘‘तामसात्तु विकुर्वाणाद्भगवद्वीर्यचोदितात् । शब्दमात्रमभूत्तस्मान्नभश्श्रोत्रं तु शब्दग’’मित्यादितृतीयस्कन्धोक्तेरिति भावः । प्रतिज्ञानुपरोधादिति तृतीयसूत्रसार्थक्यमाह ॥ युक्तियुक्ताया अपीत्यादिना ॥
चन्द्रिकाविवृतिः
ॐ तथा प्राणः ॐ ॥ सामान्यव्यवधानाभावरूपेति ॥ स इदं सर्वमसृजतेति सर्वत्त्वं सामान्यव्यवधानं कृत्त्वा तत्पूर्वकमिति यावत् । इन्द्रियाणामुत्पत्तिं प्रतिपादयति ॥ मनः सर्वेन्द्रियाणीति ॥ श्रुतिस्तु व्यवधानाभावेन स्पष्टमेवेन्द्रियाणामुत्पत्तिमिति स्पष्टमेवेत्युक्तम् ॥ समर्थानीति ॥ संसारापादन इति शेषः ॥ प्राबल्यार्थमिति ॥ अन्यथा पूर्वपक्षीयविशेष्यश्रुतेर्युक्तियुक्तत्त्वेन बाधो न स्यादेवेति भावः ॥ १ ॥