०२ परमतपरीक्षा

अन्ये तु

परमतपरीक्षा

तात्पर्यचन्द्रिका

अन्ये तु ॥ भेदाभेदश्रुत्योर्विरोध इति पूर्वपक्षे भेदस्य प्रत्यक्षादिना प्राप्तत्वाच्छतेस्तत्रातात्पर्यात्स मिथ्या । अभेदस्य त्वप्राप्तत्वाच्छतेस्तत्र तात्पर्यात्स सत्य इति सिद्धान्त इत्यधिकरणतात्पर्यमित्याहुः । तन्न । मद्रीत्यांशानंशत्वश्रुत्योर्विरोधे प्राप्ते तदविरोधायानंशत्वश्रुतेर्गतिमुक्त्वांशत्वोक्तेरेव ‘‘अंशो नानाव्यपदेशा’’दिति सूत्राक्षरानुसारित्वात् । अन्यथांशपदस्थानेऽभिन्नपदं प्रयुज्येत । न ह्यंशत्वमेवाभिन्नत्वम् । नापि तव्द्याप्तम् । पटांशस्याप्येकस्य तन्तोः पटाद्भेददर्शनात् । किञ्च त्वन्मते सूत्रोक्तं जीवस्यांशत्वं न तावदारम्भकत्वम् । ब्रह्मणोऽनादित्वात् । नापि खण्डत्वम् । अच्छेद्यत्वात् । नापि समुदायित्वम् । (समुदाय्यनन्यत्वात्समुदायस्य व्यवहारदशायामपि जीवान्यब्रह्मायोगात् ।) एकैकस्य जीवस्य मुक्तावेकैकस्य कन्थाभागस्यापगमे कन्थाया इव ब्रह्मणो ह्रासप्रसङ्गात् । अनङ्गीकाराच्च । नापि भिन्नाभिन्नत्वम् । विरोधात् । ‘‘भेदाभेदौ न मुख्यत’’ इत्यादिस्मृतिविरोधाच्च । नाप्यवयवत्वम् । तन्तोः पटं प्रतीव निरवयवब्रह्मप्रत्यकल्पितस्य तस्यायोगात् । अत एव परेषां भाष्यम् ‘‘अंश इवांशः । न हि निरवयवस्य मुख्योंऽशः सम्भवती’’ति । नापि घटाकाशस्याकाशं प्रतीव कल्पितावयवत्वम् । प्रतिबिम्बपक्षे तदयोगात् । अवच्छेदपक्षस्य च विवरण एव निरासात् । आकाशांशः स्वाभाविक इत्यन्यत्रोक्तत्वात् । ‘‘आभास एव चे’’ त्युत्तरसूत्रेण ‘‘आभास एव चैष जीवः परस्य जलसूर्यकादिव’’ दिति त्वद्भाष्येण च विरोधाच्च । कल्पितपरत्वे ‘‘पादोऽस्य विश्वा भूतानी’’त्यादिश्रुतेः, ‘‘ममैवांश’’ इत्यादिस्मृतेः, ‘‘अंश’’इति सूत्रस्य चाप्रामाण्यापाताच्च । नाप्यत्यन्ताभिन्नत्वम् । ‘‘नानाव्यपदेशा’’ दितिसौत्रहेत्वयोगात् । तत्रांशशब्दास्वारस्याच्च । (प्रतिबिम्बवाद्युक्तश्रुत्यादिविरोधाच्च । पटाद्भिन्नेऽप्येकस्मिन् तन्तौ पटांशत्वदर्शनाच्च ।) नापि प्रतिबिम्बत्वम् । परपक्षे प्रतिबिम्बनासम्भवस्यान्यत्रोक्तत्वात् । तेनात्यन्तभेदस्यैव सिद्धेश्च । (यच्चोक्तमुभाभ्यां सूत्रे त्वंशत्वे नानाव्यपदेशोऽन्यथाव्यपदेशश्च समुच्चित्य हेतुरिति तन्न । ‘‘व्रीहिभिर्यजेते’’ त्यादौ तृतीययेव ‘‘नाना व्यपदेशा’’ दिति पञ्चम्या निरपेक्षस्य हेतुत्वप्रतीतेः । यच्चोक्तमुभाभ्याम् आद्यसूत्रे ‘‘अन्यथे’’ त्यनेन नानात्वादन्यथात्वं विवक्षितमिति तन्न । तथात्वे ‘‘अन्यथे’’ त्यनेनैव वा ‘‘दाशकितवादित्वमधीयत’’ इत्येतावतैव वा पूर्णत्वेनोभयवैयर्थ्यात् । यच्चोक्तं भेदश्रुतिः प्राप्तविषयेति तन्न । सौत्रेणापिशब्देनाभेदइव भेदेऽपि तात्पर्यप्रतीतेः । त्वदुक्तस्य नियम्यनियामकोपास्योपासकरूपेण नानाव्यपदेशस्याप्राप्तप्रतिबोधनत्वाच्च । न च तात्पर्यविषयेण सत्येन नियामकत्वादिनाक्षिप्तो भेदो मिथ्या । किञ्च प्रत्यक्षादिसिद्धो भेदो यदि सत्यो न तर्हि श्रुत्याप्यभेदसिद्धिः । यदि तु मिथ्या तर्हि न भेदश्रुतिरनुवादिनी । तदप्राप्तसत्यभेदप्रापकत्वोपपत्तेरित्युक्तं जिज्ञासासूत्रे ।) किञ्च जीवस्यांशत्वं किं शुद्धचिन्मात्रं प्रति किं वोपहितमीश्वरम् प्रति । नाद्यः । ‘‘परात्तु तच्छते’’रिति पूर्वोक्तस्येश्वरनियन्तृत्वस्य सिध्द्यर्थं जीवेश्वरयोरंशांशिसम्बन्ध उच्यत इति त्वयापि भाषितत्वेन प्रक्रमाननुगुणत्वात् । द्वितीयसूत्रोक्ते ‘‘पादोऽस्य विश्वा भूतानी’’ति मन्त्रवर्ण इदंशब्देन सहस्रशीर्षत्वादिविशिष्टप्रकृतेश्वरस्य तृतीयसूत्रो(क्तायां)क्ते ‘‘ममैवांश’’ इति (स्मृतौ ) स्मरणे चेश्वर प्रयुक्तास्मच्छब्देनेश्वरस्यैवोक्तेश्च । नान्त्यः । त्वन्मतेऽपि विरुद्धधर्मवतो र्जीवेशयोरभेदाभावेनाभेदव्यपदेशस्यायोगात् । त्वया ‘‘निरतिशयोपाधिसम्पन्नश्चेश्वरो, हीनोपाधिसम्पन्नाञ्जीवान् प्रशास्ती’’ति भाषितत्वेनेश्वरस्याप्युपहिततया महागृहाकाशंप्रत्यल्पगृहाकाशस्येवेश्वरं प्रति जीवस्यांशत्वायोगाच्च । न च मठाकाशः पुनर्घटेनेवेश्वरोपाधिनाऽवच्छिन्नमेव चैतन्यं पुनर्जीवोपाधिना चावच्छिद्यते । तथात्वे हि मुक्तस्य शुद्धब्रह्मत्वं न स्यात् । किञ्च न तावदविद्यान्तःकरणाद्युपाधिविशिष्टस्यांशत्वम् । तत्राभेदव्यपदेशायोगात् । नापि तदुपलक्षितस्य चिन्मात्रस्य । तत्र काल्पनिकभेदस्याप्यभावेन नानाव्यपदेशायोगात् । यच्चोक्तमुभाभ्याम् आद्यसूत्रेऽन्यथेत्यनेन नानात्वादन्यथात्वं विवक्षितमिति तन्न । तथात्वे चान्यथाचापीत्यनेनैव वा ‘‘दाशकितवादित्वमधीयत एक’’इत्यनेनैव वा पूर्णत्वेनेतरवैयर्थ्यात् । द्वितीयतृतीयसूत्रयोस्त्वनुपपत्तिरुक्ता ।

प्रकाशिका

अन्ये त्विति ॥ सूत्रार्थमग्रे निरसिष्यन्नधिकरणप्रमेयं तावदनूद्य निराह ॥ भेदेति ॥ ‘‘जीवब्रह्मभेदाभेदश्रुतिसन्देह’’ इत्यादिकल्पतरूक्तेरिति भावः ॥ अभिन्नपदं प्रयुज्येतेति ॥ अभिन्नो नानाव्यपदेशादिति सूत्रणं स्यादित्यर्थः । नन्वंशत्वं भिन्नाभिन्नत्वम् । एकैकस्य तन्तोः पटाद्भेदाभेदवत्त्वेन भेददर्शनोपपत्तेरिति चेत्तर्हीहापि तत्रैव भेदाभेदौ समसत्ताकौ स्याताम् । न तु भेदोऽसत्यो भेदस्सत्य इति दोषः स्पष्टः । दोषान्तरं चाह ॥ किञ्चेति ॥ समुदायित्वमिति ॥ ब्रह्मसमुदायो जीवास्तु समुदायिन इति ब्रह्मांशत्वं जीवस्येत्यर्थः ॥ अनङ्गीकाराच्चेति ॥ प्रतिबिम्बत्वोपगमेन जीवानां ब्रह्मसमुदायित्वस्य मिथ्यावादिनाऽनङ्गीकाराच्चेत्यर्थः । ‘‘एकस्यैव ब्रह्मणोऽनाद्यनिर्वचनीयाविद्योपधानभेदादेकस्येव बिम्बस्य दर्पणाद्युपाधिभेदात्प्रतिबिम्बभेद’’ इति भामत्युक्तेः । ‘‘आभास एव चे’’ति सूत्रभाष्ये प्रतिबिम्बत्वोक्तेश्चेति भावः ॥ इत्यादिस्मृतीति ॥ भाष्योक्तस्मृतीत्यर्थः ॥ अन्यत्रेति ॥ ‘‘अतस्सर्वपदार्थानां भागास्संत्येव सर्वदा । सर्वदिक्ष्वभिसम्बन्धादविभागः पराणुते’’त्यादि वैशेषिकाधिकरणानुव्याख्यानसुधयोः ‘‘खेऽपि देशान्तरस्य स’’ इत्याद्युपाधिखण्डनतट्टीकादावुक्तत्वादित्यर्थः ॥ त्वद्भाष्येण चेति ॥ तत्र प्रतिबिम्बत्वोक्तया कल्पितावयवत्वादिरूपांशत्ववचनं विरुद्धमित्यर्थः ॥ सौत्रहेत्विति ॥ तस्य भेदव्यपदेशादिति त्वया भाषणादिति भावः ॥ तत्रेति ॥ अभेद इत्यर्थः । भिन्नाभिन्ने तंत्वादौ वाऽस्मदभिमतांशत्वादौ वा तस्य स्वारस्येन त्वत्पक्षे सूत्रेऽभिन्नपदमेव स्यादिति भावः । अन्यत्र न्यायामृते । तेन प्रतिबिम्बत्वेनेत्यर्थः । तथैव बिम्बप्रतिबिम्ब वादे द्वितीयपरिच्छेदे समर्थनादिति भावः ॥ इति त्वयेति ॥ ‘‘उपकार्योपकारकभावो जीवेश्वरयोरुक्तः । स च सम्बद्धयोरेव दृष्टो लोके । यथा स्वामिभृत्ययोर्यथाऽग्निविष्फुलिङ्गयो’’रित्यादिना भाष्ये कथितत्वेनेत्यर्थः । प्रक्रमे भाष्यादावेवमुक्त्वा सूत्रव्याख्याने जीवस्य चिन्मात्रांशत्वभाषणे प्रक्रमविरोध इति वा ‘‘परात्त्वि’’ति सूत्र ईश्वरस्यैव जीवकर्तृत्वनियंतृत्वोक्तया तद्घटनार्थं प्रवृत्तेऽस्मिन्नधिकरणे शुद्धांशत्वोक्तौ कथं प्रक्रांतेश्वरनियंतृत्वनिर्वाहकमिदं भवेदिति वार्थः । चिन्मात्रांशो जीव इति प्रतिज्ञार्थपक्षे ‘‘मन्त्रवर्णा’’दिति ‘‘स्मर्यत’’ इति सूत्रद्वये परभाष्योक्तश्रुतिस्मृत्यनानुगुण्यं चाह ॥ द्वितीयेति ॥ इदंशब्देन अस्येति षष्ठ्यन्तपदेन ॥ अस्मच्छब्देनेति ॥ ममेतिशब्देनेत्यर्थः । तत्रेदमादिशब्देन चिन्मात्रोक्तावप्रकृतपरत्वलाक्षणिकत्वयोरापात इति भावः ॥ विरुद्धेति ॥ अल्पज्ञत्वसर्वज्ञत्वादिविरुद्धधर्मवतोरित्यर्थः ॥ अभेदव्यपदेशायोगादिति ॥ त्वया हि नानाव्यपदेशादन्यथा चापि व्यपदेशादित्यन्वयमुपेत्य स विजिज्ञासितव्य इत्यादौ जीवेशयोर्ज्ञातृज्ञेयत्वादिना भेदव्यपदेशादन्यथा चाप्यनानात्वेनाप्यभेदेनापि व्यपदेशात् । तथा हि ‘‘दाशकितवादित्वमधीयत एक’’ इति भाषितत्वेन जीवो मायोपहितेश्वरांश इत्यभिप्रेते प्रतिज्ञार्थे ‘‘नानाव्यपदेशा’’दित्यस्य भेदव्यपदेशरूपहेतोर्योगेऽपि ‘‘अन्यथा चापी’’त्यंशोक्ताभेदव्यपदेश रूपहेतोरयोगादित्यर्थः ॥ इति भाषितत्वेनेति ॥ ‘‘अपि स्मर्यत’’ इति सूत्रे स्वामिभृत्ययोरत्यन्तभिन्नयोरीशित्रीशितव्यभावो दृष्ट इति शङ्कानिरासाय ‘‘निरतिशयोपाधिसम्पन्नश्चे’’त्यादिना भाष्ये जीवस्येश्वरप्रशास्यत्वाभावस्योक्ततया ‘‘जीवो ब्रह्मांश इव तत्तन्त्रतया न त्वंश इति तात्पर्यार्थ’’ इति भामत्युक्तदिशा तदधीनत्वरूपांशत्वस्येश्वरं प्रत्ययोगात् । न हि महागृहावच्छिन्नाकाशं प्रत्यल्पगृहावच्छिन्नमाकाशमंशो भवतीत्यर्थः । एवं ब्रह्मशब्दार्थविकल्पेन जीवस्य तदंशत्वं निरस्य जीवशब्दार्थविकल्पेनापि तस्यांशत्वं निराह ॥ किञ्चेति ॥ तत्राभेदेति ॥ नानाव्यपदेशादन्यथा चापीत्यनेनोक्तभेदाभेदव्यपदेशाभ्यां ह्यंशत्वावगमस्त्वयोक्त इत्यन्यथा चापीत्यंशोक्ताभेदव्यपदेशो हेतुर्न युज्यते । विशिष्टस्य जीवस्य शुद्धादीश्वराद्वाऽभेदाभावादित्यर्थः ।

एवं ब्रह्मांशो जीव इति प्रतिज्ञांशमन्यमते निरस्य मतांतरेऽग्रे निरसिष्यन् मतद्वयेऽपि हेत्वंशार्थमनूद्य निराह ॥ यच्चोक्तमिति ॥ ‘‘ज्ञातृज्ञेयत्वसृज्यस्रष्टृत्वनियम्यनियामकत्वादिनानात्वव्यपदेशादन्यथा चानानात्वेनाप्यभेदेनापि व्यपदेशादित्यर्थो विवक्षित’’ इत्युक्तमित्यर्थः ॥ अन्यथापीत्यनेनैव वेति ॥ नानाव्यपदेशादन्यथापीति वा नानाव्यपदेशाद्दाशकितवादित्वमप्यधीयत एक इति वा पूर्णत्वेनेतरवैयर्थ्यादन्यथा चापीत्यस्य विवरणपरतयैव दाशेत्याद्यंस्य परभाष्ये प्रतीतेः । ननु ‘‘अन्यथा चे’’त्यनेन ‘‘तत्त्वमसी’’त्याद्यभेदव्यपदेशोऽभिमतः । ‘‘अपि दाशकितवादित्व’’मित्यनेन तु सर्वजीवाभेदः । अत एव रामानुजभाष्ये ‘‘अपि दाशकितवादित्वमधीयत एके । ब्रह्मदाशा ब्रह्मकितवा इत्याद्याथर्वणिकाब्रह्मदाशकितवादित्वमप्यधीयते । ततश्च सर्वजीवव्यापित्वेनाभेदो व्यपदिश्यत इत्यर्थ’’ इत्युक्तम् । सुधायामप्येव मेव सूत्रार्थोऽनूदित इत्यतो दाशकितवादित्वमित्यनेनैव वेत्युक्तम् । यद्वा जीवो ब्रह्मांश इत्यस्य यदि ब्रह्माभिन्न इत्यर्थस्तदाऽभेदव्यपदेशमात्रस्यैवोपयोगेन तन्मात्रोक्तयैवांशत्वसिद्धेर्नानाव्यपदेशादन्यथा चापीत्येतत्सर्वं व्यर्थमित्यर्थः । न चांश इत्यस्य भिन्नाभिन्न इत्यर्थः । विरोधात् । भेदस्य परमते मिथ्यात्वेन तस्यावक्तव्यतयाऽभेदस्यैव वक्तव्यत्वात् । मतान्तरे च भिन्नाभिन्नत्वानभ्युपगमात् । जीवविशिष्टब्रह्माख्यवस्त्वेकदेशत्वरूपांशत्वस्याभेदोपदेशमात्रेण हेतुनोपपत्तेरिति भावः । उक्तेति ॥ द्वितीयसूत्रेत्यादिनेति भावः । नन्वीश्वरं प्रत्येवांशत्वम् । अतो नोक्तानुपपत्तिरिति चेन्न । तत्पक्षस्य‘‘नान्त्य’’ इत्यादिना दूषितत्वादिति भावः । अयं च दोषः परमते । मतान्तरे तु सूत्रद्वयोपात्त श्रुतिस्मृतिस्थेदंशब्दास्मच्छब्दयोर्जीवाविशिष्टकेवलभगवत्परामर्शितया विशिष्टब्रह्मैकदेशत्वरूपांशत्वस्य जीवे भावेऽपि केवलब्रह्मैकदेशत्वाभावात् । ‘‘पादोस्य विश्वा भूतानि । ममैवांश’’ इति च निर्देशानुपपत्तिरिति दोषो ध्येयः ।

चन्द्रिकाविवृतिः

श्रुतिविरोधपरिहारत्त्वाविशेषाद्भवदुक्तश्रुतिविरोधपरिहार एव कर्त्तव्य इत्यत्र किं नियामकमित्यत आह ॥ सूत्राक्षरानुसारित्त्वादिति ॥ अन्यथाऽभिन्नत्त्वस्याभिप्रेतत्त्वे । किमिदं जीवस्य ब्रह्मांशत्त्वं तदारम्भकत्त्वं वा खण्डत्त्वं वा समुदायित्त्वं वा ब्रह्मणा भिन्नाभिन्नत्वं वा ब्रह्मप्रत्यवयवत्वं वा तेनात्यन्ताभिन्नत्त्वं वा तत्प्रतिबिम्बत्त्वं वेति सप्तधा विकल्प्य क्रमेणैकैकं क्वचिदवान्तरविकल्पपूर्वकं दूषयति ॥ किं च त्वन्मते सूत्रोक्तमित्यादिना ॥ अत एवानङ्गीकारादेव ॥ अनङ्गीकारे बीजमाह ॥ विरोधादिति ॥ विरोधात् त्वयापि सूत्रकारेण च जीवस्याभासत्त्वमात्रमङ्गीकृतं न त्ववयवत्त्वमिति भावः ॥ सौत्रहेत्त्वयोगादिति ॥ अभेदेऽसम्बन्धव्यपदेशानुपपत्तेरिति भावः ॥ तत्र अभिन्ने ॥ अन्यत्र न्यायामृते ॥ स्वमतदार्ढ्येनाह ॥ तेनेति ॥ प्रक्रमाननुगुणत्वादिति ॥ ईश्वरस्य नियंतृत्त्वसाधनमुपक्रम्य तं प्रति प्रतिबिम्बत्त्वमेव जीवस्य वक्तव्यं न तु शुद्धचिन्मात्रं प्रतीश्वरस्य तदुपहितचिदेवेति भावः ॥ महागृहावच्छिन्नाकाशं प्रत्यल्पगृहाव-च्छिन्नाकाशस्य यथा नाशत्त्वम् एवं व्यापकोपाध्यवच्छिन्नेश्वरं प्रत्यल्पोपाध्यवच्छिन्नस्य जीवस्य नेश्वरांशत्त्वम् । तथात्त्वे अन्तगृहोपाधिनाशेन तदवच्छिन्नस्याकाशस्य महागृहावच्छिन्नेनैकाभाव-वदल्पोपाध्यवच्छिन्नजीवस्याल्पोपाधिनाशे ईश्वरेणैकाभावः स्यात् । न हीश्वरेणैकाभावो मुक्तिरित्यभिप्रेत्य ईश्वरांशत्त्वं जीवस्य निराकरोति ॥ निरतिशयोपाधीति ॥ नानात्त्वादन्यथात्त्वमिति ॥ तथा चान्यथाव्यपदेशो ऽभेदव्यपदेश एवेत्यर्थः ॥ इतरवैय्यर्थ्यादन्यतरवैय्यर्थ्यात् ॥