०३ विशिष्टाद्वैतमतपरीक्षा

केचित्तु

विशिष्टाद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

केचित्तु ईश्वरो जीवस्य चिच्छक्तिं प्रवृत्तिशक्तिं करणकलेवरादिसहकारिजातं च दत्वा प्रथमप्रवृत्तावुदास्ते । जीवस्तु स्वयमेव प्रवर्तते । तथा हि । विषयविशेषसन्निधिस्तावद्भोगादृष्टात् । तत्रेच्छादिश्च वासनाविशेषात् । वासनोन्मेषश्च तत्तद्देहारम्भकादृष्टाज्जन्मकाल एव सिद्ध इति नेशापेक्षा । एवं च प्रथमेच्छाप्रयत्नयोरभग्नस्वातन्त्र्यस्य जीवस्य विध्यादिविषयत्वं, पुण्यपापादिकर्तृत्वं, तत्फलभोक्तृत्वं च युक्तम् । द्वितीयेच्छादावीश्वरोऽनुमन्ता । प्रवृत्तप्रवर्तको ह्यनुमन्ता । तदा हेत्वंतरा सन्निधापितमपि विषयं बुद्धौ सन्निधापयति । अयमेव चौदासीन्यावस्थातोऽनुमन्तृत्वावस्थाया विशेषः । सा चानुमतिः प्रथमप्रवृत्तिफलप्रदानरूपेति नेश्वरस्य नैर्घृण्यादि । एवं विशेषोपकारं प्रथमत एव केषुचिदीश्वरः करोतीति तत्र प्रयोजकोऽपि भवति । अप्रवृत्तप्रवर्तको हि प्रयोजकः । ‘‘एष ह्येव साधुकर्म कारयती’’त्यादिश्रुतिस्तु द्वितीयादिप्रवृत्तावनुमन्तृत्वादिविषया । अन्यथा हि विधिनिषेधशास्त्रानर्थक्यं स्यात् । तदुक्तं ‘‘आदावीश्वरदत्तयैव पुरुषः स्वातन्त्र्यशक्त्या स्वयं तत्तज्ज्ञानचिकीर्षणप्रयतनान्युत्पादयन् वर्तते । तत्रोपेक्ष्य ततोऽनुमत्य विदधत्तन्निग्रहानुग्रहौ तत्तत्कर्मफलं प्रयच्छति ततः सर्वस्य पुंसो हरि’’रितीति । अत्र ब्रूमः । ‘‘एष ह्येवे’’त्यादिश्रुतिसङ्कोचेनेश्वरस्याद्य प्रवृत्तावौदासीन्यकल्पनं न तावत् ‘‘तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तम् । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपामी’’त्यादिवचनाविरोधाय । अत्र साधनानुसारि फलदानस्यैवोक्तयाऽऽद्यप्रवृत्तावौदासीन्यानुक्तेः । नापीश्वरस्य नैर्घृण्याद्यभावायौदासीन्यकल्पनम् । प्रथमप्रवृत्तावीश्वरस्य प्रयोजकत्वेऽपि तदभावस्य समर्थितत्वात् । अन्यथा महानिष्टान्निवर्तने शक्तस्याप्यौदासीन्येनानुमन्तृत्वेन च नैर्घृण्यादि दुर्वारम् । यदि च द्वितीयादिप्रवृत्तावनुमतिराद्यप्रवृत्तिफलदानरूपा तर्ह्याद्यप्रवृत्तिप्रयोजकतापि ‘‘नानादित्वा’’दित्युक्तरीत्याऽनादिपूर्वकर्मफलदानरूपास्तु । नापीश्वरस्य कर्मफलानन्वयाय तत्कल्पनम् । प्रयोजकत्वेऽपि विधिनिषेधातीतत्वादेव तदुपपत्तेः । अन्यथा शक्तस्याप्यौदासीन्येनानुमन्तृत्वेन च तदन्वयो दुर्वारः । एतेन यथा पित्रा पुत्रयोः सदसद्व्ययसाधारणे वित्तक्षेत्रादिके विभज्य दत्ते तत्र कस्यचित्सद्व्यये कस्यचिदसद्व्यये च तत्फलान्वयः पुत्रयोरेव । न तु पितुः । तद्वदिहापि । ईश्वरस्य सदसत्प्रवृत्तिसाधारणकारणभूतचिच्छक्तयादिमात्रदातृत्वाद्विशिष्य तत्प्रवृत्त्यादौ प्रागहेतुत्वादिति निरस्तम् । पितृवदीश्वरस्य भाविसदसत्प्रवृत्त्यज्ञानाभावात् । अननुमन्तृत्वाभावात् । आद्येच्छाप्रयत्नौ प्रत्यहेतुत्वाभावाच्च ।

नापि जीवस्य विध्यादिविषयत्वाय तत्कल्पनम् । द्वितीयादिप्रवृत्ताविव प्रथमप्रवृत्तावप्यस्वातन्त्र्येऽप्युक्तरीत्या तदुपपत्तेः । न हि चुल्लीसंमार्जने स्वातन्त्र्यमात्रेण काष्ठप्रक्षेपादावस्वतन्त्रोऽपि पाके विनियुज्यते । नापीश्वरेतरहेतुभिरेव प्रथमप्रवृत्तेरनुपपत्त्या तत्कल्पनम् । तत एव द्वितीयादिप्रवृत्तावपि तत्कल्पनापातात् । श्रुतिस्तूभयत्र समा । किं च यत्रेश्वर आदावेव प्रयोजकस्तत्र वैषम्यं दुर्वारम् । किं च प्रथमप्रवृत्तेरपि पूर्वकर्मफलत्वात्त्वन्मतेऽपीश्वरस्य सर्वकर्मफलदत्वात्कथं तत्रौदासीन्यम् । ननु च प्राचीनकर्मफलदानेच्छयेशस्तां करोति । न तु फलान्तरसाधनानुष्ठापनेच्छया । द्वितीयादिप्रवृत्तिं तु तदनुष्ठापनेच्छया । ततश्चाभिसन्धिभेदाददोष इति चेन्न । पूर्वापराधफलत्वेनैव चोरस्यातिपीडां कुर्वतस्तां च मृतिहेतुतया जानतो राजादेश्चोरमृत्यादावौदासीन्यादर्शनेन प्राचीनकर्मफलत्वेनाद्यप्रवृत्तिं कुर्वतस्तां चानर्थहेतुतया जानत ईश्वरस्य तत्रौदासीन्यायोगात् । घटप्रकाशनार्थं दीपमुपाददानस्य तु पुंसो दैवात्तेन पटे प्रकाशिते तत्रौदासीन्यं युक्तम् । तेन दीपेन नियमेन पटः प्रकाशयिष्यत इति ज्ञानाभावात् । तथा ज्ञाने तु तत्रापि नौदासीन्यम् । तस्मात्तत्तत्स्वभावाद्यनुसारित्वादेवेश्वरस्य न वैषम्यादीति भाष्योक्तमेव युक्तमिति ॥ छ ॥ कर्तृत्वाधिकरणम् ॥ १७ ॥

प्रकाशिका

केचित्त्विति ॥ तन्मते ‘‘परात्त्वि’’ति योगद्वयमधिकरणान्तरम् । तत्राद्यसूत्रव्याख्या न विरुद्धा । जीवस्य पराधीनकर्तृत्वे दोषपरिहाराय ‘‘कृतप्रयत्नापेक्षस्तु विहितप्रतिषेधावैयर्थ्यादिभ्य’’ इति सूत्रम् । सर्वासु क्रियासु जीवकृतं प्रयत्नमुद्योगमपेक्ष्यांतर्यामी तदनुमतिदानेन प्रवर्तयति । विहितप्रतिषेधावैयर्थ्यनिग्रहानुग्रहादिहेतुभ्य इत्यस्यार्थ उक्तः । तद्भाष्यटीकायामुक्तं तत्तात्पर्यं व्यनक्ति ॥ ईश्वर इति ॥ ‘‘भोगादृष्टोपनीतार्थस्वभावाद्वासनान्वितात् । इच्छादेर्मनसोत्पत्तौ युक्तोदासीनता विभो’’रिति सङ्ग्रहतत्प्रपञ्चने श्रुतप्रकाशोक्ते हृदि कृत्वाऽऽह ॥ विषयेति ॥ इच्छाद्वारा हीश्वरो जीवान् प्रेरयति ॥ इच्छा च जीवस्य विषयसन्निधापनेनोत्पाद्या । तच्चादृष्टादिनैव सिद्धमितीश्वरस्य तत्र न कृत्यमित्यर्थः । इच्छाप्रयत्नरूपद्वितीयादिप्रवृत्तावेवमस्तु । किमीश्वरेणेत्यतश्श्रुतप्रकाशोक्ते ‘‘सन्निधापकवैधुर्येऽप्यर्थं बुद्धिस्थतां नयन् । प्रयोजकोऽनुमन्ता च भवतीशस्तदा तदा । पूर्वप्रवृत्तेश्च फलमनुमत्यादिकं भवे’’दिति सङ्ग्रहतत्प्रपञ्चने हृदि कृत्वाऽऽह ॥ द्वितीयेच्छादाविति ॥ एवं विशेषोपकारमिति ॥ हेत्वंतरासन्निधापितविषयस्य बुद्धौ सन्निधापनरूपं विशेषोपकारमित्यर्थः । करणकलेवरादिदानरूपप्रकारश्चेतनानां सर्वकार्यसाधारणः । तत्र विषयसन्निध्यादेरदृष्टादिनैव सिद्धतयेश्वरस्य तत्रौदासीन्येऽपीह द्वितीयेच्छादौ हेत्वंतरासन्निधापितविषयसन्निधापनरूपविशेषोपकारकर्तृत्वात्प्रयोजकत्वं तस्येत्यर्थः ॥ अप्रवृत्तेति ॥ विषयसन्निधापनेन तस्येच्छाप्रयत्नयोरीश्वरेणोत्पादनादिति भावः । आद्येच्छाप्रयत्नरूपाद्यप्रवृत्तावीश्वरस्यौदासीन्ये सर्वकर्तृत्वश्रुतिः कथमित्यत आह ॥ एष हीति ॥ सङ्कोचे हेतुमाह ॥ अन्यथेति ॥ आद्यप्रवृत्तावपि जीवस्यास्वातन्त्र्ये तत्रापीश्वरस्यैवेच्छादिकर्तृत्व इत्यर्थः ॥ तत्रोपेक्ष्येति ॥ आद्यप्रवृत्तावुदासीनो भूत्वा ततो ऽनन्तरम् । द्वितीयादि प्रवृत्तावित्यर्थः । वैषम्यनये त्वशुभशुभप्रवृत्त्योर्यथाक्रममुपेक्षानुमत्यर्थकत्वमुपेत्य संमतिरुक्ता ॥ इत्यादिवचनाविरोधायेति ॥ तद्भाष्ये स्वोक्तार्थसंमतित्वेन ‘‘तेषा’’मिति ‘‘तानह’’मिति च वाक्यद्वयस्यानुग्रहनिग्रहोक्तिपरस्योदाहृतत्वादिति भावः ॥ समर्थितत्वादिति ॥ ‘‘वैषम्यनैर्घृण्येने’’त्यधिकरण इति भावः ॥ अनुमंतृत्वेन चेति ॥ द्वितीयादिप्रवृत्तिप्रेरकत्वे प्रवृत्तप्रवर्तकत्वरूपानुमन्तृत्वेन चेत्यर्थः । ‘‘एतदुक्तं भवती’’त्यादिना श्रुतप्रकाशोक्तमनूद्य निराह ॥ एतेनेति ॥ अननुमन्तृत्वेति ॥ आदावसत्कार्ये प्रवृत्तं तथैव द्वितीयप्रवृत्तौ प्रेरयतीति प्रवृत्तप्रवर्तकत्वप्राप्तेरिति भावः ॥ ओतुत्वाभावाच्चेति ॥ चिच्छक्तयादि दानरूपसाधारणोपकारमुखेन प्राथमिकेच्छादावपि कारणत्वात् । अन्यथा सर्वकारणत्वभङ्गापत्तेः ।

बाह्यान्तःकरणव्याप्तितच्छक्तयाधानधारणैः ।

साधारणोपकारे स्यादिच्छादेः कारणं परः ॥

इति श्रुतप्रकाशोक्तेरिति भावः ॥ द्वितीयप्रवृत्तिप्रेरणरूपस्यानुमन्तृत्वस्याद्यप्रवृत्तिफलदान रूपत्वादनुमन्तृत्वं न नैर्घृण्यादिदोषावहमित्यतो दोषान्तरमेतदुक्तमहेतुत्वाभावाच्चेति ॥ उक्तरीत्येति ॥ अन्वयव्यतिरेकाभ्यामीशाधीनाया एव तस्या विध्यादिविषयत्वे तन्त्रत्वादित्युक्तरीत्येत्यर्थः । ‘‘अंशे स्वातन्त्र्याज्जीवस्य विधिनिषेधविषयत्व’’मिति श्रुतप्रकाशोक्तमेव प्रत्युतानुपपन्नमित्याह ॥ न हीति ॥ तथा च प्रथमेच्छाप्रयत्नयोरंशे स्वतन्त्रस्याप्यंशान्तरे पराधीनस्य विध्यादिविषयत्वं करणकलेवरादिपरिकरलाभस्य पराधीनत्वेन तदंशे तस्यास्वातन्त्र्यादिति भावः ॥ तत्कल्पनापातादिति ॥ ईश्वरस्यौदासीन्यकल्पनापातादित्यर्थः । नन्वेतदाशङ्क्य श्रुतप्रकाशे ‘‘अन्तःप्रविष्टश्शास्ता जनानामिति श्रुतिबलादेवमभ्युपगम्यत’’ इत्युक्तमित्यत आह ॥ श्रुतिस्त्विति ॥ उभयत्र प्रथमप्रवृत्तौ द्वितीयादिप्रवृत्तौ चेत्यर्थः । ‘‘एवं विशेषोपकारं प्रथमत एवे’’त्यादिनोक्तं निराह ॥ किञ्च यत्रेति ॥ द्वितीयादिप्रवृत्तावित्यर्थः । ननु द्वितीयादि प्रवृत्तिप्रेरणस्य प्रथमप्रवृत्तिफलदानरूपत्वान्न वैषम्यादीति चेन्न । अनिष्टप्रवृत्तिनिवारणशक्तस्य तथैव प्रेरणे वैषम्याद्यनिवारणादिति भावः । श्रुतप्रकाशोक्तं समाधिमाशङ्क्य निराह ॥ ननु चेति ॥ इति ॥ भाष्योक्तमिति ॥ ‘‘पूर्वकर्मप्रयत्नं च संस्कारं चाप्यपेक्ष्य तु । ईश्वरः कारयेत्सर्व’’मित्यादि भाष्योक्तस्मृतितात्पर्यार्थानुवादोऽयम् ॥

चन्द्रिकाविवृतिः

प्रवृत्तिशक्तिमिच्छाप्रयत्नशक्तिम् ॥ प्रथमप्रवृत्ताविति ॥ आद्यदिने कदलीफलादौ प्रवृत्तिर्जीवस्य स्वत एव । द्वितीयादिदिने प्रवृत्तिस्तु अनुमन्तृभगवदधीनेति ॥ एवं घटार्थमाद्यप्रवृत्तिर् ज्ञानेच्छाप्रयत्नशरीरस्यंदपर्यन्ताः स्वत एव अनन्तरप्रवृत्तावीश्वरो अनुमत इत्यादि तद्भाष्यादवगन्तव्यम् ॥ वासनाविशेषात् संस्कारविशेषात् ॥ वासनोन्मेषः संस्कारोद्बोधः ॥ आद्यप्रवृत्तौ जीवस्य स्वातन्त्र्याङ्गीकारस्य फामाह ॥ एवं च प्रथमेति ॥ प्रवृत्तेति ॥ यः पूर्वं प्रवृत्तस्तत्प्रवर्तक इत्यर्थः ॥ ननु द्वितीयादिप्रवृत्तावपीश्वरस्य कर्तृत्त्वाद्वैषम्यनैर्घृण्ये स्यातामित्यत आह ॥ सा चानुमितिरिति ॥ केषाञ्चिदाद्यप्रवृत्तावीश्वरस्य स्वातन्त्र्यमस्तीत्याह ॥ एवं विशेषोपकारमिति ॥ अन्यथा हीति ॥ सर्वप्रवृत्तावीश्वरस्य स्वातन्त्र्याभ्युपगमे इत्यर्थः ॥ आद्यप्रवृत्तौ भगवत औदासीन्यकल्पने परोक्तसम्भावकान्यनूद्य दूषयति ॥ न तावदित्यादिना ॥ न तु पितुरिति ॥ कलौ कर्तैव लिप्यत इति वचनादिति भावः ॥ ईश्वरस्यापि पितृवैलक्षण्याद्वैषम्यादि-कमेवेत्याह ॥ ईश्वरस्येत्यादिहेतुत्रयेण ॥ ननु जीवस्य द्वितीयादिप्रवृत्तौ स्वातन्त्र्याभावेऽपि प्रथमप्रवृत्तौ स्वातन्त्र्येण कार्ये विनियुक्तो भवत्वित्यत आह ॥ न हि चुल्लीति ॥ तत एव ईश्वरेतरहेतुभिरेव ॥ ननु द्वितीयादिप्रवृत्तावीश्वरस्य स्वातन्त्र्यानङ्गीकारे एष ह्येव साधुकर्म करोतीत्यादि ईश्वरस्य सर्वकर्तृत्त्वप्रतिपादकश्रुतिविरोध इत्यत आह ॥ श्रुतिस्त्विति ॥ उभयत्र प्रथमप्रवृत्तौ द्वितीयादिप्रवृत्तौ चेत्यर्थः ॥ तां प्रथमप्रवृत्तिम् । तस्याः पूर्वकर्मफलत्त्वादिति भावः ॥