यच्चोक्तमुभाभ्यां कर्ता
परमतव्याख्यानपरीक्षा
तात्पर्यचन्द्रिका
यच्चोक्तमुभाभ्यां कर्ता । ‘‘विज्ञानात्मा पुरुष’’ इत्यादेः कर्तृत्वप्रतिपादकस्य ‘‘यजेते’’त्यादिविधिनिषेधरूपस्य च शास्त्रस्यार्थवत्त्वात् । ‘‘स्वे शरीरे यथाकामं परिवर्तते’’ इति विहारोपदेशात् । ‘‘प्रागापन् गृहीत्वे’’त्युपादानात् । ‘‘विज्ञानं यज्ञं तनुत’’ इति क्रियायां कर्तृत्वेन व्यपदेशाच्च जीवः कर्ता । अत्र च विज्ञानशब्दस्य बुद्धिपरत्वे ‘‘तदेतेषां प्राणानां विज्ञानेने’’ति श्रुत्यन्तर इव कर्तृत्वविपरीतकरणत्वेन निर्देशः स्यादिति ‘‘कर्ते’’त्यादिसूत्रचतुष्टयार्थ इति । तन्न । आद्यसूत्रस्थशास्त्रशब्देनैव ‘‘यत्कर्म कुरुते तदभिसम्पद्यते । साधुकारी साधुर्भवती’’त्यादेरिव ‘‘यथाकाम’’मित्यादेरपि कर्तृत्वप्रतिपादकशास्त्रस्य ग्रहणसम्भवेन द्वितीयादिसूत्रत्रयवैयर्थ्यात् । बुद्धेः कर्तृत्ववादिनं प्रति श्रुत्यन्तरे करणत्वोक्तिविरोधस्यैव वक्तव्यत्वेन ‘‘विज्ञान’’मिति श्रुतौ बुद्ध्युक्तौ कर्तृत्वविपरीतकरणत्वोक्तिः स्यादित्यापादनस्यासङ्गतेश्च ।
यच्चोक्तं परैर् जीवः कर्ता चेन्नियमेन सुखी स्यादित्यादिशङ्कानिरासार्थं ‘‘उपलब्धी’’ति सूत्रमिति, तन्न । क्रियावेशमात्रस्य नियतसुखाप्रसञ्जकत्वात् । तत्प्रसञ्जकस्य च स्वातन्त्र्यस्याभावेऽपि साङ्ख्यानभिमतक्रियावेशानुरोधेन शङ्कानुदयात् । यच्चोक्तं करणशक्तियुक्ताया बुद्धेः कर्तृत्वे करणकारकशक्तिविपरीताकर्तृकारकशक्तिः स्यादिति ‘‘शक्ती’’ति सूत्रार्थ इति तन्न । (कारकशक्तिवाचिविभक्तिविपर्ययापादकेन ‘‘न चेन्निर्देशे’’त्यनेनास्यार्थिकपुनरुक्तेः) । साङ्ख्यमते बुद्धेः कर्तृत्वेऽपि तत्वांतरस्य मनसः करणत्व सम्भवेनेष्टापत्तेः ।
यच्चोक्तं जीवस्याकर्तृत्वे निदिध्यासनादिरूपसमाधेरप्यभावः स्यादिति ‘‘समाधी’’ति सूत्रार्थ इति तन्न । यागादिविधिशास्त्रस्येव समाधिविधिशास्त्रस्याप्याद्यसूत्रस्थशास्त्रशब्देनैव ग्रहण सम्भवेनास्य वैयर्थ्यात् । यदि च समाधिदशायां कर्तृभूतबुद्ध्यविवेककृतस्य कर्तृत्वस्यायोग इतीहाभिप्रायस्तर्हि सिद्धांत्यभिप्रेतस्यारोपितकर्तृत्वस्याप्ययोगः । किं च त्वन्मते ‘‘शक्तिविपर्यया’’दित्यस्य ‘‘समाध्यभावा’’दित्यस्य च प्रसङ्गरूपहेतुता कल्प्या । ‘‘यथे’’ति सूत्रस्याधिकरणान्तरत्वमप्ययुक्तम् । उक्तार्थे दृष्टान्तांतरमात्रार्पकेण यथाशब्देन, चशब्देन च पूर्वशेषत्वप्रतीतेः । कल्पितत्वे स्फटिक लौहित्यस्यैव दृष्टान्तयितव्यत्वेन तक्षकर्तृत्वस्य तदयोगाच्च । न हि कार्योत्पादने सहकार्यपेक्षामात्रेण कर्तृकरणादेः कर्त्रादित्वं कल्पितं भवति । यदि च तक्ष्ण इव जीवस्य शक्तेः स्वाभाविकत्वेऽपि कार्यनिष्पादकत्वं सहकार्यधीनत्वादागन्तुकमिति विवक्षा तदेष्टापत्तिः ।
किं च कर्तृत्वस्य ‘‘तन्मनो कुरुते’’त्यादौ मनसः कृतिकर्मत्वश्रवणात् तथा ‘‘मन उदक्रामत् । मीलित इवाश्नन् पिबन्नास्तैवे’’त्यादौ मनस उत्क्रमणेऽप्यात्मनः कर्तृत्वश्रुतेः । तथा ‘‘एतं प्राणमयमात्मानमुपसङ्क्रम्य । एतं मनोमयमात्मानमुपसंक्रम्य । इमाल्लोकान् कामान्नीकामरूप्यनुसञ्चरन्नि’’त्यादौ त्वद्रीत्या प्राणमयादित्यागेऽपि सञ्चरणकर्तृत्वश्रवणात् तथा ‘‘स यदा मनसा मनस्यति । यन्मनसा न मनुते । यच्चक्षुषा न पश्यति । मनसा वा अग्रे सङ्कल्पयति । अथ वाचाव्याहरती’’त्यादिश्रुतौ ‘‘शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नर’’ इत्यादिस्मृतौ च मनसः करणत्वोक्तेस् तथा मनसोऽन्तःकरणत्वप्रसिद्धेः । तथा सुप्तौ त्वद्रीत्या बुद्धेरभावेऽप्युच्छ्वासादिकर्तृतायाः प्रत्यक्षेण ‘‘सुप्तो भूर्भूरित्येव प्रश्वसितीत्यादिश्रुत्या च सिद्धेः । तथा विहारेतिसूत्रीयभाष्योदाहृतया ‘‘परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते । स तत्र पर्येति जक्षन् क्रीडन्रममाण’’ इत्यादिश्रुत्या स्वरूपाविर्भावरूपपरममुक्तावपि कर्तृत्वोक्तेर्न मनसः कर्तृकोटिता । (किं च विशिष्टस्य कर्तृत्वे मोक्षसाधनविधिरयुक्तः स्यात् । कर्तुरिष्टसाधनत्वस्य विधिबोध्यत्वात् । न चाहं करोमीति प्रत्यक्षेण तथा ‘‘शास्त्रफलं प्रयोक्तु’’रिति न्यायानुगृहीतेन मोक्षसाधनविषया कृतिर्मोक्षसमानाधिकरणा । तत्साधन विषयकृतित्वात् । संमतवदित्यनुमानेन तथा ‘‘कर्ता विज्ञानात्मा पुरुषः । तत्कर्म कुरुते तदभिसम्पद्यत’’ इत्यादिश्रुतिभिस् तथा मोक्षसमानाधिकरणविधिनिषेधाद्यतिक्रमजन्यपापादिलेपयोग्यं चेतनत्वेन शासनयोग्यं च जीवमधिकृत्य कर्तव्यनिषिद्धार्पकविधिनिषेधशास्त्रवैयर्थ्यान्यथानुपपत्त्या च सिद्ध आत्मनः कर्तृत्वे बाधकमस्ति । येन तन्मिथ्या स्यात् । ‘‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण’’ इति श्रुतिस्त्वात्मनो भोक्तृत्वे देहादेरिव मनसः सहकारित्वमाह । न तु मनसो भोक्तृकोटिताम् ।) ‘‘अहंकारविमूढात्मा कर्ताहमिति मन्यत’’ इति स्मृतिरपि जीवस्य स्वातन्त्र्यनिषेधपरा । ‘‘तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यती’’त्यादितद्वाक्यात् । ‘‘ध्यायतीव लेलायतीवे’’त्यादिश्रुताविवशब्दोऽप्यस्वातन्त्र्यात् । (कृत्याश्रयत्वे चाज्ञानाश्रयत्वमिव न द्रव्यांतरापत्तिरूपविकारापादकम् ।
न च जीवकर्तृत्वस्य प्रत्यक्षप्राप्तत्वादपुरुषार्थत्वाच्च न तत्र श्रुतेस्तात्पर्यमिति युक्तम् । ईश्वरकर्तृत्वस्याप्राप्तत्वेन तच्छतेस्तत्परत्वस्य दुर्वारत्वात् । कर्तृत्वस्याहं करोमीति विशिष्टात्मनि प्राप्तावपि शुद्धेऽप्राप्त्या श्रुतेस्तत्परत्वोपपत्तेश्च । अन्यथा सत्यज्ञानादिवाक्यमपि सन् घटोऽहमस्मीत्यादिप्रत्यक्षप्राप्तविशिष्टात्मसत्यतानुवादि स्यात् । किं च यत्र प्रमाणेन निषेद्धुमनुवादस्तत्रानुवाद्यस्य सत्त्वाभावेऽपि यत्रान्यद्विधातुं सस् तत्र तस्य सत्त्वमेव । अन्यथानुवाद्यस्यासत्त्वे आश्रयासिद्धौ धर्मधर्मिसंसर्गरूपानुमितिविषय इवानुवाद्यविधेयसंसर्गरूपवाक्यार्थो बाधितः स्यात् । न हि ‘‘रूप्यं दक्षिणा न सुरां पिबे’’दित्यादिशास्त्रेष्वारोपितरूप्यादेर्धीः । कर्तृत्वस्य क्लेशसम्बन्धे चाशक्यविषयत्वं तन्त्रम् । लीलादिकरणेन क्लेशादृष्टेः । लीलादेरुत्सवादेर्विहितकर्मणश्चाकरणेनैव तद्दृष्टेश्च । ‘‘यदा वै करोत्यथ निस्तिष्ठति । नाकृत्वा निस्तिष्ठति । कृत्वेव निस्तिष्ठति । नासुखं लब्ध्वा करोति । सुखमेव लब्ध्वा करोती’’त्यादिश्रुतेश्च । ‘‘न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्’’ इत्यादिस्मृतेश्च । अन्यथा सुखज्ञानयोरपि क्लेशाविनाभावादात्मा तद्रूपो न स्यात् । यथा च सुप्तौ क्लेशाभावेऽपि ज्ञानादि तथा कृतिरपीत्युक्तम्) ।
किञ्च ‘‘कर्ते’’ति पूर्वाधिकरणे बुद्धेरेव कर्तृत्वमात्मनस्तु तदविवेकादारोपितमिति साङ्ख्यमतनिषेधेनात्मनः कर्तृत्वं समर्थ्येह ‘‘यथा च तक्षे’’त्यधिकरणे पुनर्बुद्धिगतमेवारोप्यत इति सिद्धान्तोक्तौ पूर्वाधिकरणपूर्वपक्ष एवेह सिद्धान्तः स्यादिति महदिदं व्याख्यानकौशलम् । साङ्ख्याभिमताख्यातिनिरासस्त्विदं रूप्यमिति प्रसिद्धस्थले तन्निरासं विना न सिध्यतीति तत्रैव निरस्यम् । न त्विह । किं च त्वन्मते जीवेऽणुत्वोत्क्रांत्यादिकं यथा बुद्ध्युपाधिकं मिथ्या तथा कर्तृत्वमपि । एवं चोत्क्रांत्यधिकरणेऽणुत्वादेः पूर्वपक्षत्वं ‘‘कर्ते’’त्यधिकरणे तु कर्तृत्वस्य सिद्धान्तत्वमिति विभागः किं कृतः । यथोत्क्रांत्यधिकरणे ‘‘उत्क्रान्ती’’त्यादिसूत्राष्टकेन पूर्वपक्षयित्वा ‘‘तद्गुणसारत्वादित्यनेन सिद्धान्तितमेवं ‘‘कर्ते’’त्यधिकरणेऽपि सूत्रसप्तकेन पूर्वपक्षयित्वा ‘‘यथा च तक्षे’’त्यनेन सिद्धान्तितमिति कस्मान्न भाष्यते । ‘‘परात्त्वि’’त्यधिकरणमप्ययुक्तम् । जीवेंऽतःकरणसन्निधानादारोपितस्याविद्यककर्तृत्वस्य रूप्यादेरिवेश्वरानपेक्षत्वात् । यच्चोक्तं ‘‘कृतप्रयत्नापेक्ष’’ इत्यस्य जीवकृतो यः प्रयत्नो धर्माधर्मलक्षणस्तदपेक्ष ईश्वर इत्यर्थ इति । तन्न । कृतशब्देनैव धर्माधर्मरूपकर्मोक्तिसम्भवेन प्रयत्नशब्दवैयर्थ्यात् । धर्मादेरप्रयत्नरूपत्वाच्च । ‘‘पूर्वकर्मप्रयत्नं चे’’त्यादि भाष्योदाहृतस्मृतिविरोधाच्चेति ।
प्रकाशिका
सूत्रार्थानप्यनूद्य निराह ॥ यच्चोक्तमुभाभ्यामिति ॥ यद्यप्यत्र सूत्राणां क्रमसङ्ख्ये अस्मन्मते परमतेऽप्यविशिष्टे । मतान्तरे तु नैवम् । ‘‘विहारोपदेशात् । उपादाना’’दित्यनयोरुपादानाद्विहारोपदेशाच्चेत्येकयोगत्वक्रमव्यत्यासयोरुपगमात् । तथापि सूत्राणामर्थस्य मतद्वयेऽप्यनतिभेदेनोभाभ्यामित्युक्तम् । ‘‘द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष इत्यादे’’रित्येतत्परभाष्योक्तम् । ‘‘यजेते’’त्यादि तु भाष्यद्वयेऽप्युक्तम् । ‘‘शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वा’’दिति जैमिनिसूत्रोक्तदिशा फलभोक्तुरेव कर्तृत्वाद्भोक्तुर्जीवस्याकर्तृत्वे ‘‘यजेत स्वर्गकाम’’ इत्यादिशास्त्रमनर्थकं भवेदिति भावः । अर्थवत्त्वादित्यादिहेतूनां जीवः कर्तेति साध्येनान्वयः ॥ विहारेति ॥ विहारस्संचारक्रिया । तत्र स्वातन्त्र्यं नाकर्तुस्सम्भवतीति कर्तृत्वसिद्धिरिति भावः ॥ प्राणानिति ॥ प्राणानिन्द्रियाणि गृहीत्वा यथाक्रमं स्वे स्वे शरीरे परिवर्तत इतीन्द्रियोपादाने स्वातन्त्र्यप्रतीतेस्तस्य चाकर्तुरयोगात्कर्तृत्वसिद्धिरिति भावः । ‘‘व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्यय’’ इत्येतदर्थमाह ॥ विज्ञानमिति ॥ न चेदित्यादिसूत्रशेषार्थमाह ॥ अत्र चेति ॥ ‘‘विज्ञानं यज्ञ’’मिति श्रुतावित्यर्थः ॥ सूत्रचतुष्टयेति ॥ स्वपरमतानुरोधेनेदम् । मतान्तरे तु सूत्रत्रयार्थ इति योज्यम् ॥ इत्यादेरिवेति ॥ अन्यथा तदर्थमपि सूत्रान्तरं स्यात् । वाक्यभेदेन सूत्रभेदे शास्त्रापर्यवसानं च स्यादिति भावः ॥ सूत्रत्रयवैयर्थ्यादिति ॥ एतच्चोपलक्षणम् । विहारादिसूत्रयोः ‘‘प्राणान् गृहीत्वा स्वे शरीर’’ इत्यादिवाक्यविषयत्वे श्रुत्यनुरोधेनोपादानाद्विहारोपदेशादित्येव रामानुजमतवत्सूत्रणं स्यादिति परमते दोषः । मतान्तरे तु एवं सूत्रक्रमैकयोगत्वे असांप्रदायिके । उपादानेन विहारोपदेशादिति सूत्रणं स्यादिति दोष इत्यपि ध्येयम् ॥ परैरिति ॥ मतान्तरे तु जीवस्याकर्तृत्वे दोषोक्तिपरमिदं सूत्रम् । जीवस्य विभुत्व उपलब्धिनियमो न स्यादित्युपलब्ध्यनियमः ‘‘नित्योपलब्धी’’ति सूत्रे प्रागुक्तः । तथा चोपलब्धिवदात्मनोऽकर्तृत्वे प्रकृतेश्च कर्तृत्वे तस्यास्सर्वसाधारणत्वात् सर्वकर्माणि सर्वेषां भोगाय स्युरित्यनियमस्स्यादित्यर्थोक्तेरिति भावः ॥ इत्यादीति ॥ ‘‘दुःखी न स्यादिति शङ्काऽऽदिपदार्थः । इष्टानिष्टोपलब्धिवद्देशकालादिवशादनियमेन हिताहितकारित्वोपपत्तिरिति सूत्रार्थः । शङ्काया एवानुदयेन तन्निरासाय सूत्रणं व्यर्थमिति भावेन किं कर्तृत्वमात्रेस्वतन्त्र कर्तृत्वे वेयमाशङ्केति विकल्पौ क्रमेण निराह ॥ क्रियेति ॥ मतान्तरे तु अनियमस्स्यादिति प्रसङ्गरूपत्वाध्याहारयोः कल्पनादिति दोषो ध्येयः ॥
यच्चेति ॥ परैरित्यस्ति । मतान्तरे तु आत्मनोऽकर्तृत्वे भोक्तृत्वशक्तेर्विपर्ययो हानिस्स्यात् । कर्तुरेव भोक्तृत्वादित्यर्थवर्णनात् ॥ मनस इति ॥ यदत्रोक्तं भामत्यां ‘‘करणान्तरकल्पनायां नामि्न विवाद’’ इति तन्न । बुद्धेर्जीवान्यत्वेन जीवकर्तृत्वाप्राप्तेः । ननु च बुद्धिर्मनोवृत्तिविशेष एवेति चेन्न । ‘‘मनसस्तु परा बुद्धि’’रित्यादौ मनो बुद्धिपुरुषाणां तत्वान्तरत्वप्रतीतेः । अत एव ‘‘तत्वान्तरे’’त्युक्तम् । मतान्तरेतु भोक्तृत्वहानिरित्येव सूत्राणं स्यादिति दोष प्रसङ्गरूपत्वकल्पनादोषश्चध्येयः । समाध्यभावाच्चेति सूत्रं सूत्रार्थं निराह ॥ यच्चोक्तमिति ॥ परैरित्यन्वेति । मतान्तरे तु बुद्धेः कर्तृत्व उपासनाविधावपि तस्या एव कर्तृत्वापत्तेस्समाधेश्च प्रकृतेरन्योऽस्मीत्येवंरूपत्वात्तादृशसमाधेः प्रकृतावभावात्तदन्यो जीवः कर्तेत्यर्थः । अवैयर्थ्यमाशङ्क्य निराह ॥ यदि चेति ॥ अयोग इति ॥ बुद्ध्यविवेककृतकर्तृत्वस्य मुक्तिहेतुसमाधावनुपयोगादिति भावः ॥ आरोपितेति ॥ तथा च मन्मत इव स्वाभाविकमेव कर्तृत्वमुपेयमिति भावः । मतान्तरे तु पूर्वत्र जीवस्याकर्तृत्वे दोष उक्तः । इह तु बुद्धेः कर्तृत्व इत्यस्य सूत्रस्योपलब्धिसूत्रानन्तर्यं स्यादिति दोषो ध्येयः । सूत्रार्थं च निराह ॥ कल्पितत्व इति ॥ तथा लोके तक्षावास्यादिकरणसम्पन्नः कर्ता भवति । स एव विमुक्तवास्यादिकरणो निर्व्यापारस्सुखी भवति । एवमात्मान्तःकरणादिसंयुक्तः कर्ता दुःखी भवति । मुक्तौ तद्वियुक्तः सुखी भवतीति न कर्तृत्वं स्वाभाविकम् । येन तस्यानिवृत्त्यापत्त्या मोक्षो न स्यादिति सूत्रार्थ उक्तः । स न युक्तः । यथा च स्फटिकलौहित्यमुभयथेत्येव सूत्रणापत्तेरित्यर्थः । कर्तृत्वश्रुतेरित्यादिपञ्चम्यंतानां न मनसः कर्तृकोटितेत्यनेनान्वयः । स्वातन्त्र्यनिषेधपरत्वे ज्ञापकमाह ॥ तत्रैवं सतीति ॥ केवलात्मानं परमात्मानधीनमात्मानमित्यर्थः । तद्वाक्याद् गीतावाक्यादित्यर्थः । परभाष्योक्तश्रुतिरपि न कर्तृत्वस्यास्वाभाविकत्वे मानमित्याह ॥ ध्यायतीवेति ॥ ननु भ्रम एव नास्तीति साङ्ख्यमतं निरसितुमात्मनि बुद्धिगतकर्तृत्वारोपोऽत्र साध्यत इत्यत आह ॥ साङ्ख्येति ॥ तत्रैवेति ॥ इदं रूप्यमित्यादिस्थल एव । न त्वध्यात्मनिष्ठकर्तृत्वादिविषय इत्यर्थः । तद् औपाधिकमपि कर्तृत्वम् । परादेव । ‘‘एष ह्येव साधुकर्म कारयती’’ति श्रुतेरिति परोक्तं प्रमेयं निराह ॥ जीव इति ॥
चन्द्रिकाविवृतिः
द्वितीयं दूषयति ॥ बुद्धेरिति ॥ श्रुत्यन्तरे विरोधस्येति ॥ तदेतेषां प्राणानां विज्ञानेनेति पूर्वोदाहृतश्रुत्यन्तरेत्यर्थः ॥ कर्तृत्त्वं क्रियावेशमात्रं वा स्वातन्त्र्यं वेति विकल्प्याद्यं दूषयति ॥ क्रियावेशमात्रस्येति ॥ तादृशकर्तृत्त्वस्य कदाचिद् दुःखं प्रत्यपि प्रयोजकत्त्वादिति भावः ॥ द्वितीयं प्रत्याह ॥ स्वातन्त्र्यस्याभावेऽपीति ॥ शङ्कानुदयान्नियतसुखी स्यादिति शङ्कानुदयात् । स्वातन्त्र्याक्षणकर्तृत्त्वस्य कर्तेत्यादावप्रतिपादनादिति भावः । न च वाच्यं क्रियावेशघटितं कर्तृत्त्वं स्वातन्त्र्याभावे वक्तुमेव न शक्यते इति । स्वातन्त्र्याभावेऽपि क्रियावेशाक्षणकर्तृत्त्वे विरोधाभावात् । न च क्रियावेशाक्षणकर्तृत्त्वस्य सांख्येनाप्यङ्गीकृतत्त्वात् कथं मया तं प्रति तदेव सिद्धान्तनीयमिति वाच्यम् ॥ तादृशस्यापि कर्तृत्त्वस्य सांख्येनाङ्गीकृतमिति पदस्वारस्यमूह्यम् ॥ कर्तृकारकशक्तिः स्यादिति ॥ न च बुद्धेः कर्तृत्त्ववादिनं बुद्धौ तत्कर्तृशक्तयापादनमिष्टमेवेति वाच्यम् ॥ तथा सति कारणभावप्रसङ्गात् ॥ एकस्य कर्तृकरणत्वयोर्विरोधात् ॥ तथा च करणहीना कापि क्रिया न स्यादिति भावः ॥ अत एव वक्ष्यति सिद्धान्ततत्त्वान्तरस्य मन इति द्रष्टव्यम् (?) ॥ समाधिदशायां तत्त्वनिश्चयदशायाम् ॥ तर्हि तत्त्वनिश्चयसत्त्वे ॥ ननु तदा कर्तृत्त्वमपि विकल्पितमेव तत्क्षणे स्याद्युपाधिसापेक्षत्त्वात्तस्येत्यत आह ॥ न हि कार्योत्पादान इति ॥ करणपदं प्रतिबन्दीसूचनाय ॥ ननु मनोव्यतिरिक्तस्थोऽशनपानादौ आत्मनः कर्तृत्त्वं मन उपाधिकम् । मनः प्रति कर्तृत्त्वं त्वाविद्यकमात्मन्यस्त्वित्याशङ्क्य द्वितीयं वाक्यमुदाहरति ॥ तथा मन इति ॥ ननु संसारदशायां प्रतीतं कर्तृत्त्वं यत्किंचिदुपाधिकृतत्त्वात्कल्पितमेव भविष्यतीत्याशङ्क्यानन्तरकालीनं कर्तृत्त्वं दर्शयति ॥ तथा एतमिति ॥ त्वद्रीत्येति ॥ मायिमते मनोमयादीनां कोशत्त्वादिति भावः ॥ नन्वहंकारविमूढात्मेति स्मृतौ अहंकारोपाधिकमेव कर्तृत्त्वं जीवस्य न स्वतः कर्तृत्त्वमस्तीत्युक्तमित्यत आह ॥ अहंकारेति ॥ केवां स्वतन्त्रम् ॥ ननु ध्यायति वेत्यादाविवशब्दाद्वस्तुतः जीवकर्तृत्त्वमेव नास्तीत्यवगम्यत इत्यत आह ॥ ध्यायतीवेति ॥ ननु मुक्तयनन्तरमपि जीवस्य कथं कर्तृता । क्रियावेशरूपायाः कर्तृताया दुःखापवादकत्त्वात् । अतः स तत्र पर्येतीत्यादिवाक्यानां न स्वार्थे तात्पर्यमित्यत आह ॥ विस्तरस्त्विति ॥ सुखेनैव कर्तृत्त्वाङ्गीकारादिति भावः ॥ न्यायामृते स्फुटम् ॥ पूर्वाधिकरणपूर्वपक्ष एव एतदधिकरणसिद्धान्तो जात इत्याह ॥ किं च कर्तेति ॥ ननु मया अहं कर्तेति प्रतीतेरनिर्वचनीयख्यातित्त्वमङ्गीकृत्यात्मनि शुक्तौ रजतमिवानिर्वचनीय-कर्तृत्त्वमुत्पद्यत इत्यङ्गीक्रियते । सांख्येन तु अहमिति ग्रहणं कर्तेति कर्तृत्त्वं मनः स्मरणमित्यङ्गीकारात् ॥ आत्मनि कादृशमपि कर्तृत्त्वं नाङ्गीक्रियते अतो न युक्तं तन्निराकरणम् इत्यत आह ॥ साङ्ख्याभिमतेति ॥ एवं चेति ॥ उभयोरपि बुध्युपाधिकत्त्वे मिथ्यात्त्वाविशेष इत्यर्थः ॥
ननु कर्त्ता शास्त्रार्थवत्त्वादिति सूत्रेण कर्तृत्त्वस्योक्तत्त्वात्तथाख्यानमस्माभिः कृतमित्यत आह ॥ यथोत्क्रान्त्यधिकरण इति ॥ स्मृतिविरोधाच्चेति ॥ कर्ममात्रं गृहीत्त्वा प्रयत्नस्य परित्यागादिति शेषः ॥