केचित्तु
विशिष्टाद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
केचित्तु ‘‘ज्ञोत’’ इत्यादि ‘‘नित्योपलब्धी’’त्यन्तानि चतुर्दशसूत्राण्येकमधिकरणम् । तत्र जीवस्य ज्ञातृत्वं स्वाभाविकम् । न तु तार्किकमत इवागन्तुकम् । नापि सौगतमत इव ज्ञानस्वभावत्वमिति ‘‘ज्ञोत’’ इति सूत्रार्थः । ‘‘उत्क्रान्ती’’ त्यादीनि तु तदुपयोगित्वेनाणुत्वं जीवस्य प्रतिपादयंति सिद्धान्तसूत्राण्येव । ज्ञातृस्वभावस्य जीवस्य सर्वगतत्वे हि सर्वं तत्सम्बन्धात्सदा ज्ञायेत । ‘‘स्वात्मने’’ति सूत्रस्य तु उत्क्रान्तिर्यद्यप्यचलतोऽपि देहस्वाम्यनिवृत्त्या युक्ता । उत्तरे गत्यागती तु स्वात्मनैव । न ह्यचलतो गत्यागती इत्यर्थः । ‘‘स्वशब्दे’’ति सूत्रस्य तु ‘‘एषोऽणुरात्मे’’ति साक्षादेवाणुत्ववाचिशब्दात् ‘‘वालाग्रशतभागस्येत्युन्मानाच्चाणुर्जीव इत्यर्थः । ‘‘व्यतिरेक’’ इति सूत्रस्य तु पृथ्वी गन्धवतीतिवत् ‘‘जानात्येवायं पुरुष’’ इति श्रुतौ ज्ञानात्मनोरेकस्मिन् पदे प्रकृतिप्रत्ययाभ्यां विशेषणविशेष्यत्वनिर्देशाद्भेद इत्यर्थः । ‘‘पृथ’’गिति सूत्रस्य तु ‘‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यत’’ इति श्रुतौ पदद्वयेन विशेषणविशेष्यत्वेन निर्देशाद्भेद इत्यर्थः । ‘‘तद्गुणे’’ त्यादिसूत्रयोस्तु आत्मनो ज्ञानगुणसारत्वाज्ज्ञानस्य यावदात्मभावित्वाच्च ज्ञातर्यात्मनि श्रुतिषु ज्ञानत्वव्यपदेश इत्यर्थः । ‘‘पुंस्त्वे’’ति सूत्रस्य तु सुप्त्यादौ सतोऽप्यनभिव्यक्तस्य ज्ञानस्य जागरणादावभिव्यक्तेर्यावदात्मभावित्वसिद्धिरित्यर्थ इत्याहुः ।
तन्न । ‘‘स्वरूपाण्येव जीवस्य विज्ञानघन एवे’’त्यादिश्रुत्या ‘‘ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थत’’ इत्यादि स्मृत्या च विरुद्धत्वेन ज्ञानस्वभावत्वनिरासायोगात् । ज्ञातृस्वभावस्यात्मनोऽणुत्वपक्षे तत्सम्बद्धस्य विभोराकाशेश्वरादेर्नित्यमप्रकाशवद्विभुत्वपक्षेऽपि तत्सम्बद्धस्याप्रकाशोपपत्त्याऽणुत्वस्य ज्ञातृस्वभावत्वेऽनुपयोगाच्च । आनन्दादेः स्वाभाविकत्वमनुक्त्वा ज्ञानस्यैव तदुक्तौ विशेषहेत्वभावाच्च । ‘‘स्वात्मने’’ति सूत्र उत्तरे इति प्रथमानिर्देशापत्तेश्च । मम तु षष्ठी उत्क्रान्तिसूत्रेऽवश्यविवक्षणीयस्य सकाशादित्यस्येहानुषक्तस्यान्वयाय । ‘‘स्वशब्दे’’ति सूत्रस्य त्वणुत्वसाधकत्व उत्क्रान्तिसूत्रानंतर्यापाताच्च । उन्मानशब्दस्य वालाग्रशतभागशतभागत्वे योगरूढ््योरभावाच्च । ‘‘व्यतिरेक’’ इति सूत्रस्य जीवाणुत्वे योगिनोऽनेकशरीरस्थित्ययोग इति दृढतरबाधकपरिहारार्थताया एवौचित्येन भेददृष्टान्तांतरपरत्वायोगाच्च । रूपादेरपि दृष्टान्तत्वसम्भवेन विशिष्य गन्धग्रहणायोगाच्च । भेदमात्रपरत्वे ‘‘व्यतिरेक’’ इति सूत्रेणैव वा ‘‘पृथ’’गिति सूत्रेणैव वा ‘‘विज्ञानं त्वेव विजिज्ञासितव्यम् । अथाऽत आत्मादेश’’ इति वाक्यद्वयरूपस्येवैकपदरूपस्य पदद्वयरूपस्य च भेदोपदेशस्य ग्रहणसम्भवेन सूत्रद्वयवैयर्थ्याच्च । अघटं भूतलमित्यादौ विशेषणविशेष्यभावेऽपि त्वत्पक्षे भेदाभावाच्च । गन्धादेः कस्तूर्यादिसारत्वेऽपि यावद्द्रव्यभावित्वेऽपि तत्र गन्धादिशब्दस्य मुख्यत्वाभावाच्च । एतावन्तं कालं सुखमहमस्वाप्समिति परामर्शदर्शनेन सुप्त्यादौ जागरण इवात्मादिज्ञानस्याभिव्यक्तत्वेनेन्द्रियाणां घटादिविषयसम्बन्धस्य च तदा स्वरूपेणैवाभावेनानभिव्यक्तयुक्तययोगाच्च ॥
प्रकाशिका
केचित्त्विति ॥ अत्रापि चतुर्दशसूत्राणीत्येव पाठस्साधुर्न तु त्रयोदशेति । तन्मते युक्तेश्चेत्यस्याभावेऽप्यवशिष्टानां भावात् । ‘‘नात्माश्रुते’’रिति पूर्वनये जीवस्यवियदादि वदुत्पत्तिर्नेत्युक्तम् । इह तु जीवस्वरूपं निरूप्यते । आत्मा सुगतकपिलाभिमतचिन्मात्रमुत कणादाभिमतपाषाणकल्पो चित्स्वभाव एवागन्तुकचैतन्यगुण इति संशये ‘‘यो विज्ञाने तिष्ठ’’न्नित्यादिश्रुतेर्ज्ञानस्वभाव एवेति वा विभोरात्मनो ज्ञानरूपत्वे सर्वदा सर्वोपलम्भप्रसङ्गादिना कणादाभिमतरूप एव वेति प्राप्ते ज्ञः सर्वदा ज्ञातृस्वभाव एवात्मा । न ज्ञानमात्रम् । नापि जडस्वभावः । कुतः । ‘‘जानात्येवायं पुरुष’’ इत्यादिश्रुतेरेवेति सूत्रार्थ इत्यर्थः ॥ तदुपयोगित्वेनेति ॥ आत्मनो ज्ञातृत्वे स्वाभाविके सति तस्य सर्वगतस्य सर्वदा सर्वत्रोपलब्धिप्रसङ्गादित्याशङ्कानिरासाय स्वाभाविकज्ञातृत्वोपयोगितयेत्यर्थः । प्रतिपादयन्तीति शत्रंतम् । तदुपयोगित्वेनेत्येतद्व्यनक्ति ॥ ज्ञातृस्वभावस्येति ॥ अचलतः क्रियारहितस्य ॥ स्वात्मनैवेति ॥ चोऽवधारण इति भावः । अयमर्थः परमतेऽप्यविशिष्टः । ‘‘नाणु’’रिति सूत्रव्याख्यानं मतद्वयेऽपि सिद्धान्त्यर्थाविरोधीति त्यक्त्वा ‘‘स्वशब्दोन्मानाभ्यां चे’’ति सूत्रार्थमन्वाह ॥ स्वशब्देतीति ॥ इत्यर्थ इति ॥ अयमपि परमतेऽविशिष्टः । ‘‘अविरोधश्चन्दनव’’दित्यादिसूत्रत्रयव्याख्यानविरुद्धेति त्यक्त्वा ‘‘व्यतिरेको गन्धव’’दित्यस्यार्थमनुवदति ॥ व्यतिरेक इतीति ॥ भेद इति ॥ न तु ज्ञानस्वरूपमात्मेत्यर्थः ॥ विशेषणविशेष्यत्वेनेति ॥ ज्ञानात्मनोरित्यनुकर्षः । ज्ञानगुणसारत्वाज् ज्ञानाख्यगुणप्रधानत्वात् । ज्ञानत्वव्यपदेशः विज्ञानं यज्ञं तनुत इत्यादावित्यर्थः । प्राज्ञवद् यथाऽऽनन्दगुणप्रधानत्वादानन्दो ब्रह्मेत्युच्यते प्राज्ञस्तद्वदिति । ज्ञानस्य यावदात्मभावित्वाज्ज्ञानात्मत्वव्यपदेशदोषो नास्ति । चकारात्स्वप्रकाशत्वादिव्यपदेशदोषो नेत्यर्थः । तद्दर्शनाद् यावद्द्रव्यभाविगोत्वादिना गवादिशब्दव्यपदेशदर्शनादित्यर्थः ॥ स्वरूपाण्येवेति ॥ ‘‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येवे’’ति भाष्योक्तश्रुतिः । तदुपयोगित्वेनेत्युक्तं निराह ॥ ज्ञात्रिति ॥ प्रथमेति ॥ अयं दोषः परमतेऽपि समः । उत्क्रान्तिसूत्रानन्तर्येत्यादिदोषोऽपि समः ॥ शतभागशतभागत्व इति ॥ ‘‘वालाग्रशतभागस्य शतधा कल्पितस्य चे’’त्युक्तेः शतभागस्य शतभागत्व इत्यर्थः ॥ भेदेति ॥ ज्ञानात्मनोर्भेदमात्रपरत्व इत्यर्थः ॥ इति वाक्यद्वयरूपस्येवेति ॥ ज्ञानात्मनोर्भेद उक्तवाक्यद्वयरूपस्य भेदोपदेशस्य प्रमाणत्वेऽपि तस्योपसङ्ग्रहायैकपदरूपपदद्वयरूपयोर्भेदोपदेशयोरुपसङ्ग्रहाय सूत्रद्वयमिव तृतीयमपि सूत्रं कर्तव्यम् । यद्येतयोरेव सूत्रयोरन्यतरेणैव सूत्रेण वाक्यद्वयरूपभेदोपदेशस्यापि सम्भवान्न पृथक् सूत्रान्तरमपेक्षितं तर्ह्येतयोरन्यतरेणैव सूत्रेणैकपदरूपपदद्वयरूपयोरपि भेदोपदेशयोरुपसङ्ग्रहसम्भवेनान्यतरसूत्रानर्थक्यमित्यर्थः ॥ त्वत्पक्ष इति ॥ अधिकरण व्यतिरेकेणाभावानभ्युपगमादिति भावः । ‘‘तद्गुणसारत्वात्, यावदात्मभावित्वाच्चे’’ति सूत्रद्वयार्थं प्रागुक्तं प्रत्याह ॥ गन्धादेरिति ॥ एवमेव श्रुतिष्वात्मनो ज्ञानत्वव्यपदेशोऽमुख्यस्स्यादिति भावः । ‘‘पुंस्त्वादिव’’दिति सूत्रार्थं प्रत्याह ॥ एतावन्तमिति ॥ आत्मादिज्ञानस्य आत्मकालसुखादिज्ञानस्येत्यर्थः ॥ अभावेनेति ॥ विषयेन्द्रियसम्बन्धाभावादनभिव्यक्तिरिति योक्तिस्तस्या अयोगाच्चेत्यर्थः ॥ छ ॥ पुंस्त्वाधिकरणम् ॥ १६ ॥
चन्द्रिकाविवृतिः
त्रयोदशसूत्राणां त्विति ॥ (चतुर्दशसूत्राणीत्येव पाठः साधुः । न तु त्रयोदशेति, चन्द्रिकाप्रकाशे) अत्रापि सूत्रसंख्याविषये वैषम्यादि परभाष्यवि•ेकनेन परिहरणीयमिति गौरवभीत्यादिनेह नोच्यते ॥ आगन्तुकं मनसा ज्ञानं तदैव ज्ञानत्त्वमिति नाङ्गीक्रियते किन्तु रामानुजैर् आत्मा ज्ञानभिन्न एव परं तु नित्यज्ञानाश्रयः । अतो ज्ञातृत्वं स्वाभाविकमे-वेत्यङ्गीक्रियत इति रहस्यम् ॥ तदुपयोगित्त्वेन ज्ञातृत्त्वोपयोगित्त्वेन ॥ यदि ज्ञातृत्त्वं स्वभाववत्त्वे सति विभु च स्यात् ॥ सर्वदा सर्वज्ञानी स्यात्सर्वसम्बन्धात् ॥ अतो ज्ञातृत्त्वं स्वभाव इति परित्याज्यमिति प्राप्ते आत्माऽणुरेव न विभुरतो न ज्ञातृत्त्वमस्वभावः । असम्बन्धादेव ज्ञानोपपत्तेरित्युपयोगाद् द्रष्टव्यः ॥ देहस्वाम्यानिवृत्येति ॥ देहेऽतोऽचातोऽपि देहाद् देहस्वाम्यनिवृत्तिमात्रेणैव उत्क्रान्तिरिति प्रयुज्यते । यथा पूर्वं ग्रामस्वामिनः पुरुषस्य तद्ग्रामस्वाम्यनिवृत्तेरत्र ग्रामे वसत्येव तस्मिन्पुरुषेऽयं ग्राम उत्क्रान्त इति व्यवहार इति भावः ॥ स्वात्मनैव जीवेनैव वक्तव्येति शेषः ॥ एकस्मिन्पदे जानातीत्येकस्मिन्नेव पदे ॥ पदद्वयेन विज्ञातुर्विज्ञातेरिति पदद्वयेन ॥ तत्सम्बद्धस्याप्रकाशेति ॥ नित्यात्मसम्बन्धिनां घटादीनामज्ञानोपपत्तावित्यर्थः ॥ अनुपयोगाच्चेति ॥ तथा च त्वन्मते उत्क्रान्तीत्यादिसूत्राणां वैय्यर्थ्यमिति भावः ॥ औचित्येनेति ॥ त्वयापि जीवाणुत्ववादिना इदं बाधकं परिहर्त्तव्यमेवेति भावः ॥ विज्ञानं त्विति ॥ विज्ञातृ विज्ञास्यस्वरूपभेदः । पूर्वत्रात्मादेश इत्यनेनादेशशब्दस्य ज्ञानवाचित्त्वा-दात्मज्ञानयोर् विषयविषयिभावेन भेदः । एवं च यथाऽभिन्नभिन्नप्रकारेण भेदोपपादकवाक्यद्वयस्यापि ग्रहणं पृथगिति सूत्र एवाङ्गीक्रियते तथैव प्रकृतेऽपि पृथगिति सूत्रेण व्यतिरेक इति सूत्रेण वा पदद्वयैक पदस्थविशेषणविशेष्यभावग्रहणोपपत्तौ अन्यतरसूत्रं व्यर्थमेवेति भावः ॥ अघटं भूतामिति ॥ रामानुजानां मते प्राभाकरमत इव अधिकरणातिरिक्ताभावो नास्तीति भावः । मुख्यत्त्वाभावाच्चेति ॥ तथा च यावदात्मभावीत्यादिनोक्तहेतोर्गन्धे व्यभिचार इति भावः ॥ यद्यपि द्रव्येऽपि गन्धशब्दस्य बहुवचनां तस्य वृत्तिरभिधानसिद्धेति नापादनमुचितं तथापि गुणापेक्षया तत्र द्रव्येऽमुख्यवृत्तिरेवाभिधानं तु प्रयोगमात्रानुसारीति भावः ॥ ज्ञानस्याभिव्यक्तिः किमात्मादिज्ञानादिज्ञानस्याभिव्यक्तिर् वा उत घटादिज्ञानस्येति विकल्प्याद्यं निराह ॥ एतावन्तं कालमिति ॥ द्वितीयं निराह ॥ इन्द्रियाणामिति ॥ घटादिज्ञानमेव तदा स्वरूपतो नास्तीति सत इत्येतदयुक्तमिति भावः ॥ १ ॥