पूर्वत्र पृथगधिकरणीयाद्य सूत्रोक्तो..
पुंस्त्वाधिकरणम्
तात्पर्यचन्द्रिका
अद्वैताभिमतव्याख्यानपरीक्षा
ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ ॥
पूर्वत्र पृथगधिकरणीयाद्य सूत्रोक्तो ‘‘बन्धान्मोक्षं तत एवाभिवांछे’’दित्युपदेश उपपादितः । इह तु तदीयसूत्रोक्तं तद्गुणसारत्वमुपपाद्यत इति सङ्गतिः । अत्र जीवस्यानन्दादिरूपत्वश्रुतिः किमनुपलब्धियुक्तयनुगृहीतयाऽनानन्दादिरूपत्वश्रुत्या बाधितोत नेति चिन्ता । (अत्र श्रुतिसमन्वयेनोक्तं ब्रह्मणः सर्वस्रष्टृत्वादिकं किमयुक्तं न वेति चिन्ता । तदर्थं श्रुतिरप्रमाणं नवेति । तदर्थं जीवस्यानन्दादिरूपत्वश्रुतिः किमनुपलब्धियुक्तयनुगृहीतयाऽनानन्दादि रूपत्वश्रुत्या बाधिता उतनेति ।) तदर्थं सतोऽप्यानन्दादेरज्ञानावरणादनुपलब्धिरयुक्तोत युक्तेति । तदर्थमावरणमज्ञानं किं ज्ञानाभाव एव किं वा ज्ञानाभावादिनिमित्तं भावान्तरमिति । भाष्योदाहृतायां ‘‘विज्ञानात्मे’’ति षट्प्रश्नोपनिषदि ‘‘स आनन्द’’ इति श्रुत्यन्तरे च जीवलिङ्गाभावात्पूर्वपक्षानुदय इति न शङ्क्यम् । आद्यश्रुतौ ‘‘प्राणा भूतानि सम्प्रतिष्ठन्ति यत्रे’’ति वाक्यशेषे द्वितीयश्रुतौ च ‘‘स परेणामुं लोकं नीयते स विमुच्यत’’ इति वाक्यशेषे जीवलिङ्गश्रवणादित्याह ॥ प्राणा भूतानीत्यादिना ॥ तस्यैवानुपपत्तेरिति ॥ ज्ञानाभाव एवाज्ञानमिति मते ॥ वैपरीत्यादिति । शरीरस्यानन्दाद्यनुभवरूपभोगायतनत्वेन भोगप्रतिबन्धकत्वायोगादित्यर्थः । भाष्ये असुराणामावरणाभावेनानन्दाद्यनुपलब्ध्यापादनमयुक्तम् । स्वरूपानन्दादेरभावादेवानुपलब्ध्युपपत्तेः । अनावरणस्यानुपलब्धिं प्रत्यप्रयोजकत्वाच्चेत्याशङ्क्य आनन्दाद्यनुपलब्धिर्नापाद्यते । किन्तु तत्प्रयोजिका सुखाद्युपलब्धिविरुद्धा स्वरूपदुःखाद्युपलब्धिरापाद्यत इत्याह ॥ दुःखाद्यनुभव एव भवेदिति ॥ भाष्ये मध्यममनुष्याणामानन्दोपलब्धितदभावावापादितौ । तत्रोपलब्ध्यभावापादनमयुक्तम् । आवरणाभावस्यानुपलब्धिं प्रत्यप्रयोजकत्वादित्याशङ्क्य सुखोपलब्धेरेवाभावो नापाद्यते । किन्तु केवलाया दुःखाद्यनुपलब्धिविशिष्टायाः सुखोपलब्धेरभावः । ततश्च सुखाद्यनुपलब्ध्यापादनेन दुःखाद्युपलब्धिरेवापादिता भवति । अतो न दोष इत्याह ॥ केवलतदुपलब्ध्याभाव इत्यादिना ॥
समैवेति ॥ मध्यममनुष्याणां मिश्रत्वात्सुखस्य दुःखस्य चोपलब्धिः समैव स्यादित्यर्थः । एवं च सूत्रे सुराणां नित्यं सुखस्यैव असुराणां नित्यं दुःखस्यैव मनुष्याणां तद्वयोरुपलब्धिरापाद्यते । सूत्रेऽनुपलब्धिशब्देन ‘‘असुरा’’ इत्यादाविव प्रकृतसुखोपलब्धिविरुद्धदुःखोपलब्धेरेव विवक्षितत्वात् । अन्यतरशब्देन द्वयोरपि विवक्षितत्वादिति द्रष्टव्यम् ॥ एवं सुरा इति हृदयमिति ॥ श्रुतौ परमात्मशब्देनोत्तमजीवराशिर्वा ‘‘परमात्मे’’त्यस्यानन्तरं ‘‘एवं सुरा’’ इत्यध्याहारो वा विवक्षणीयः । नैवमसुरा इत्युत्तरवाक्येऽसुरजीवानां प्रतियोगित्वेनोक्तेः । भाष्योक्तस्मृतिसमाख्यानाच्चेति भावः ।
प्रकाशिका
‘‘अस्येति तद्गुणसारत्वं प्रकृतं परामृश्यत’’ इति टीकोक्तिसूचितामाह ॥ पूर्वत्रेति ॥ ‘‘पृथगुपदेशा’’दित्यधिकरणीयेत्यर्थः । पूर्वपक्षादिटीकासूचितचिन्ता आह ॥ अत्र जीवस्येति ॥ दुर्गमानि टीकावाक्यानि व्यनक्ति ॥ भाष्येति ॥ टीकोक्तार्थस्य भाष्यानुगुण्यं प्रदर्श्य सूत्राक्षरानुगुण्यं च प्रदर्शयति ॥ एवं च सूत्र इति ॥
चन्द्रिकाविवृतिः
॥ ॐ पुंस्त्वादिवत् ॐ ॥ पूर्वाधिकरणम् इदंचाधिकरणद्वयमपि पृथगधिकरणानन्तरसङ्गतमेकभावापन्नं पूर्वं पृथगधिकरणीयपूर्वसूत्राक्षेपसमाधानपरम् । इदं तु द्वितीयसूत्राक्षेपसमाधानपरमित्यनन्त-रसङ्गतिमभिप्रेत्याह ॥ पूर्वत्रेति ॥ तथा च पृथगधिकरणीयाद्यसूत्राक्षेपसमाधानानन्तरमेतद-धिकरणीयद्वितीयसूत्राक्षेपसमाधानमनेनाधिकरणेन क्रियत इति पूर्वाधिकरणानन्तरसङ्गतिरपि सूक्ता ॥ ज्ञानाभावादिनिमित्तं ज्ञानाभावादेर्निमित्तम् ॥ भावरूपाज्ञानपरत्वेऽनुपपत्तिमाशङ्क्याह ॥ ज्ञानभाव एवेति ॥ केवलोपब्ध्यभाव इत्यस्यैवार्थान्तरमाह ॥ एवं च सूत्र इत्यादिना ॥ भाष्योक्तस्मृतीति ॥ नित्यानन्दज्ञानबला इत्यादिका ॥
अन्ये तु
तात्पर्यचन्द्रिका
अन्ये तु उत्क्रान्तीत्यादिसूत्रनवकेन जीवस्याणुत्वे पूर्वपक्षिते ‘‘तद्गुणे’’त्यादिसूत्रचतुष्टयेन महत्त्वं सिद्धांत्यत इत्याहुः । तन्न । सूत्रकृता वैराग्यपादे ‘‘तदन्तरप्रतिपत्ता’’वित्यादिसूत्रैर्जीवे तत्तत्कर्मफलानुभवाय देहान्तरगतेः, ‘‘यथेतमनेवं चे’’त्यादिसूत्रैः सुकृतफलभोगाय धूमादिमार्गेण गतेः, ‘‘संयमने त्वनुभूये’’त्यादिसूत्रैर्दुष्कृतफलभोगाय संयमनीमार्गेण गतेर् अर्चिरादिपादे मोक्षायार्चिरादिमार्गेण गतेश्च तत्तदधिकरणोदाहृतानेकश्रुतिस्मृतितात्पर्यनिर्णायकन्यायैः सिद्धान्तितत्वेनोत्क्रांत्यादिसूत्राणां पूर्वपक्षत्वोक्तेरतिसाहसत्वात् । न हि बुद्धिः कर्मफलभोगेन संसरति न वा मुच्यते । किं चोत्क्रांत्यादिसूत्राणां ‘‘अणुर्ह्येष आत्मा सोऽस्माच्छरीरादुत्क्रम्य यथा व्याप्य शरीराणि हरिचन्दनविप्लुषः’’ । इत्यादिभाष्योदाहृतश्रुतिस्मृत्यनुगुणानां वक्ष्यमाणन्यायोपबृंहितानां शङ्कालिङ्गरहितानामुत्तरसूत्रेष्वनुक्तपरिहाराणां च कथं शङ्कासूत्रत्वम् । कथं च ‘‘नाणुरतच्छतेरिति चे’’दिति शङ्कालिङ्गसहितसूत्रोक्तस्योक्तश्रुत्यादिविरुद्धस्य च महत्त्वस्य सिद्धान्तत्वम् । न ह्यत्रोत्तरसूत्रेषु परिहार उक्तः । किं तु त्वयैव सूत्रव्याख्याव्याजेन सूत्राणि दूषितानि ।
दृश्यते हि जैमिनिसूत्रेषु ‘‘शास्त्रदृष्टविरोधाच्च । अन्यानर्थक्या’’दित्यादिसूत्रैरर्थवादाप्रामाण्ये पूर्वपक्षिते ‘‘दूरभूयस्त्वात् । आकालिकेप्सा । सर्वत्वमाधिकारिक’’मित्यादिसूत्रैर्दृष्टविरोधशास्त्रविरोधान्यानर्थक्यादीनां क्रमेण परिहारः । तथा ‘‘तदर्थशास्त्रात् । अर्थविप्रतिषेधा’’दित्यादिसूत्रैर्मन्त्राप्रामाण्ये पूर्वपक्षिते ‘‘गुणार्थेन पुनः श्रुतिः । परिसङ्ख्या । अर्थवादो वे’’ति त्रिभिस्सूत्रैस्तदर्थशास्त्रवैयर्थ्यस्य त्रेधा परिहारः । ‘‘गुणादविप्रतिषेध’’ इत्यादिना अर्थविप्रतिषेधस्य च परिहारः ।
तथा व्याकरणेऽपि ‘‘लुपि युक्तवद्य्वक्तिवचने’’ इत्यादिना मतान्तरमुक्त्वा ‘‘तदशिष्यं संज्ञाप्रमाणत्वा’’दित्यादिना परिहारः । तथा गौतमसूत्रेषु ‘‘तदप्रामाण्यमनृतव्याघातपुनरुक्तिदोषेभ्य’’ इत्यादिसूत्रैर्वेदाप्रामाण्ये पूर्वपक्षिते ‘‘न कर्मकर्तृसाधनवैगुण्यात् । अभ्युपेतकालभेदे दोषवचनात् । अनुवादोपपत्तेश्चे’’त्यादिसिद्धान्तसूत्रैः क्रमेण दोषत्रयपरिहारः ।
प्रकाशिका
अन्ये त्विति ॥ सूत्रनवकेनेति पाठस्साधुः । सूत्राष्टकेनेति क्वाचित्कः पाठो लेखकदोषमूलः । तथा हि ‘‘एषोऽणुरात्मा चेतसा वेदितव्यः । स यदाऽस्माच्छरीरादुत्क्रामती’’त्यादावुत्क्रान्तिगत्यागतीनां श्रवणाज्जीवोऽणुः । स्वात्मना सम्बद्धयोर्मरणादुत्तरयोर्गमनागमनयोः ‘‘चन्द्रमसमेव ते सर्वे गच्छन्ती’’त्यादिवाक्योक्त्योर्व्याप्ते जीवेऽनुपपत्तेर्मध्यमपरिमाणत्वेऽनित्यत्वप्रसङ्गादणुर्जीवः । ‘‘नाणुरतच्छतेरिति चेन्नेतराधिकारात्’’ । ‘‘स वा एष महानज आत्मे’’त्यनणुत्वश्रुतेर्जीवोऽणुर्नेति चेन्न । इतरस्य ब्रह्मणो वेदान्तेषु प्राधान्ये नाधिक्रियमाणत्वान्महत्त्वश्रुतेस्तद्विषयत्वोपपत्तेः । ‘‘स्वशब्दोन्मानाभ्यां च’’ । ‘‘एषोऽणुरात्मा चेतसा वेदितव्य’’ इति साक्षादणुत्ववाचिशब्दात्,
वालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवस्स विज्ञेयस्स चानंत्याय कल्पते ।
आराग्रमात्रो ह्यपरोऽपि दृष्ट’’ इत्युन्मानत्वाच्च जीवोऽणुः । नन्वणुत्वे कथं सर्वाङ्गीणतापोपलब्धिरित्यत उत्तरं ‘‘अविरोधश्चन्दनवत्’’ । एकदेशस्य चन्दनस्य सर्वाङ्गीणाह्लादजनकत्ववदणोरपि सर्वाङ्गीणकार्यकरत्वोपपत्तेः । ‘‘अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि’’ । दृष्टान्तदार्ष्टान्तिकयोरेकदेशावस्थानस्य प्रत्यक्षत्वाप्रत्यक्षत्वाभ्यामवस्थितेर्वैशेष्याद्वैषम्यान्न दृष्टान्तबलेनाणोर्जीवस्य व्यापिकार्यकरत्वनिर्णयश्शक्य इति चेन्न । ‘‘हृदि ह्येष आत्मे’’ति श्रुतेः । तथात्वस्य जीवेऽप्युपगमात् । ‘‘गुणाद्वा लोकवत्’’ । प्रदीपालोकवदणोरपि जीवस्य चिद्गुणेन देहव्याप्तिर्युक्ता । ‘‘व्यतिरेको गन्धवत्’’ ॥ द्रव्यगुणस्य गन्धस्येव चिद्गुणस्यापि द्रव्यव्यतिरेकेण वृत्तिर्युक्ता । ‘‘तथा च दर्शयती’’त्यंशस्तु नास्त्येव । ‘‘पृथगुपदेशात्’’ । ‘‘प्रज्ञया शरीरं समारुह्ये’’ति चात्मप्रज्ञयोः कर्तृकरणभावेन पृथगुपदेशात् । तस्मादणुरात्मेति पूर्वपक्षित इत्यर्थः ॥ तद्गुणेत्यादीति ॥ तस्याबुद्धेर्ये गुणा इच्छादयस्तत्सारत्वात्तत्प्रधानकत्वादात्मनस्तद्व्यपदेशस्तद्गुणाणुत्वव्यपदेशः । यथा प्राज्ञस्य परमात्मन उपाधिगुणप्रधानत्वादणीयस्त्वादिव्यपदेशस्तद्वत् । एवं तर्हि बुद्धिसंयोगनाशे संसारित्वं च न स्यादित्यत उत्तरं ‘‘यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्’’ बुद्धेर्यावदात्मभावित्वान्नोक्तदोषः । ‘‘स समानस्सन्नुभौ लोकावनुसञ्चरती’’ति नित्यसम्बन्धदर्शनात् । सुप्त्यादौ बुद्धिलयोपगमात्कथं नित्यसम्बन्ध इत्यत उत्तरं ‘‘पुंस्त्वादिव’’दिति । बाल्ये सतः पुंस्त्वादेर्यौवनेऽभिव्यक्तिरिव सुप्त्यादौ शक्तिरूपेण विद्यमानाया बुद्धेः प्रबोधादाविवाभिव्यक्तियोगात् । अन्यथैवं भूतबुद्धिलक्षणान्तःकरणानभ्युपगमे नित्यं विषयाणामुपलब्धिरनुपलब्धिर्वा स्यात् । विषयेन्द्रियात्मनां नित्यं समवधानात् । अन्यस्यापेक्षणीयस्याभावात् । अन्यतरस्यात्मन इन्द्रियस्य वा नियमश्शक्तिप्रतिबन्धो वा वक्तव्यस्स्यादिति सिद्धान्त इत्याहुरित्यर्थः ॥ अर्चिरादिपाद इति ॥ चतुर्थस्य तृतीयपादे । सूत्राणामप्यर्थस्तन्मतेऽप्यविशिष्ट इति भावः । तत्र सर्वत्रापि गत्यादेर्बुद्धिविषयत्वमाशङ्क्य निराह ॥ न हीति ॥ वक्ष्यमाणेति ॥ परोक्तदूषणोद्धारप्रस्तावे वक्ष्यमाणेत्यर्थः ॥ शङ्कालिङ्गेति ॥ चेदित्यादि लिङ्गेत्यर्थः । अनुक्तपरिहाराणामिति बहुव्रीहिः ॥ कथं चेति ॥ पूर्वपक्षिणैव श्रुत्यादिविरोधोक्तया खण्डितत्वादिति भावः । अनुक्तपरिहाराणामित्येतदसिद्धम् । सिद्धान्तसूत्रभाष्ये सर्वस्यापि पूर्ववाद्युक्तस्य परिहारोक्तेरित्यत आह ॥ न ह्यत्रेति ॥
पूर्वपक्षसूत्रेषूक्तस्य सिद्धान्तसूत्रेषु परिहारेण भाव्यमिति कुत इत्यत आह ॥ दृश्यते हीति ॥ आद्यस्य द्वितीयपादेऽर्थबाधादधिकरणे षडि्भस्सूत्रैः पूर्वपक्षो द्वादशभिस्सिद्धान्तः । तत्र सिद्धान्तपरिहारसूत्रक्रमानुरोधेन शास्त्रविरोधात् । दृष्टविरोधात् । शास्त्रदृष्टविरोधादिति विभागावृत्तिभ्यां शाबरभाष्ये ‘‘शास्त्रदृष्टविरोधाच्चे’’ति सूत्रं व्याख्यातम् ।
अत्र ‘‘स्तेनं मनोऽनृतवादिनी वागि’’त्यस्य चौर्यादिविधौ तात्पर्ये ‘‘न चौर्यं कुर्या’’दिति शास्त्रविरोधादप्रामाण्यमिति शङ्कायां ‘‘रूपात्प्राया’’दित्यनेन स्तेनवद्रूपं मनस इति प्रायेणानृतवादित्वं वागिन्द्रियस्यास्तीति गौणार्थत्वमेव तद्वाक्यस्य । न तु विधौ तात्पर्यमिति परिहारः । ‘‘धूम एवाग्नेर्दिवा ददृशे नार्चि’’रित्यादि वाक्यस्य प्रत्यक्षविरोधादप्रामाण्यमिति शङ्कायाः ‘‘दूरभूयस्त्वा’’दिति सूत्रेण दूर एव दिवा धूमो भूयान् दृश्यते नार्चिरिति गौणार्थत्वेन परिहारः । ‘‘को हि तद्वेद यद्यमुष्मिल्लोकेऽस्ति वा न वे’’त्यस्य पारत्रिकफलाज्ञानादिप्रतिपादकस्य ‘‘ज्योतिष्टोमेन स्वर्गकामो यजेते’’त्यादिशास्त्रदृष्टविरोधाच्छास्त्रोपदेशविरोधादप्रामाण्यमित्यस्य ‘‘आकालिकेप्से’’ति सूत्रेण धूमाकुललोचनानामृत्विगादीनां तात्कालिकफलप्राप्तीच्छयेदं वचनं धूमनिर्गतिमार्गकरणार्थं गौणार्थमिति परिहार उक्तः । अत्र दृष्टविरोधशास्त्रविरोधयोरेव परिहारसूत्रे उक्ते । आदिपदेन ‘‘रूपात्प्राया’’दित्याद्यपि ग्राह्यम् । तथा ‘‘अन्यानर्थक्या’’दिति सूत्रेण ‘‘पूर्णाहुत्या सर्वान् कामानाप्नोती’’त्यादौ पूर्णाहुतिनामककर्मणैव सर्वकामावाप्तावन्यकर्मानर्थक्यमिति शङ्कायाः ‘‘सर्वत्वमाधिकारिक’’मित्यनेनाधिकृतसर्वापेक्षं तद्वचनम् । न त्वसङ्कुचितसर्वमिति परिहार उक्तः । तथा तत्रैव मन्त्राधिकरणे ‘‘तदर्थशास्त्रात् । वाक्यनियमात् । बुद्धशास्त्रात् । अचेतनेऽर्थबन्धनात् । अर्थप्रतिषेधा’’दित्यादिभिरष्टभिस्सूत्रैः पूर्वपक्षे ‘‘अविशिष्टस्तु वाक्यार्थः । गुणार्थे न पुनश्श्रुतिः । परिसङ्ख्या । अर्थवादो वा’’ इत्यादिभिरनेकैस्सूत्रैः सिद्धान्तः कृतः । तत्र ‘‘इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्त’’ इति मन्त्रार्थप्रतिपादकशास्त्रान् मन्त्रानर्थक्यशङ्कायाः ‘‘परिसङ्ख्ये’’त्यनेन परिहारः । अश्वरशनादानवचनं गर्दभरशनापरिवर्जनरूपे परिसङ्ख्येति मन्त्रार्थवशादेव मन्त्राणामभ्यादानशेषत्वे प्राप्तेऽपि ‘‘चतुर्भिरभ्रिमादत्त’’ इति मन्त्रार्थप्रतिपादकशास्त्रान् मन्त्रानर्थक्यशङ्कायां ‘‘गुणार्थे न पुनश्श्रुति’’रित्यनेन मन्त्राणां चतुष्ट्वसङ्ख्यारूपगुणविध्यर्थं पुनश्श्रवणमिति परिहार उक्तः । तथा ‘‘उरुप्रथस्वोरुते यज्ञपतिः प्रथता’’मिति मन्त्रलिङ्गादेव मन्त्रस्य पुरोडाशप्रथनशेषत्वावगतिसम्भवे ‘‘उरुप्रथस्वेति पुरोडाशं प्रथयती’’ति मन्त्रार्थप्रत्यायकशास्त्रं व्यर्थमापद्यत इति मन्त्रार्थबोधकशास्त्रसद्भावान् मन्त्रानर्थक्यमिति ‘‘तदर्थशास्त्रा’’दिति सूत्रेण शङ्कायां ‘‘अर्थवादो वे’’ति सूत्रेण परिहार उच्यते । प्रथयतीति प्रथनमेव विधीयते । तत्र रूपादेव प्राप्तो मन्त्र उरुप्रथस्वेत्यनूद्यते । स चानुवादोऽर्थवादः प्रशंसा । ईदृशं प्रथनं प्रशस्तम् । यदेवं रूपेण मन्त्रेण क्रियमाणं यजमानस्य प्रजापशुविस्तृप्तिं विधत्त इति ।
तथा ‘‘अदितिर्द्यौरदितिरंतरिक्ष’’मित्यादावदितिदेवताया द्व्यन्तरिक्षाद्यात्मकत्वरूपा र्थस्य विप्रतिषेधान् मन्त्राप्रामाण्यशङ्कायां ‘‘अर्थविप्रतिषेधा’’दित्यनेन कृतायां ‘‘गुणादविप्रतिषेधस्स्या’’दित्यनेन सूत्रेण गुणवादेन स्तुत्यर्थेनाविप्रतिषेधोऽविरोधस्स्यादिति परिहार उक्तः ॥
तथा व्याकरणेऽपीति ॥ आद्यस्य द्वितीये पादे ‘‘लुपि युक्तवद्व्यक्तिवचने विशेषणानां चाजाते’’रिति सूत्रद्वयेन मतान्तरमुक्त्वेत्यर्थः । तत्राद्यस्यायमर्थः । ‘‘जनपदे लु’’बित्यादिना लुप्संज्ञया लुप्तस्यार्थो लुप्शब्देनोच्यते । तस्मिल्लुपि लुप्संज्ञया लुप्तस्यार्थे युक्तवत् प्रकृतिवत् । प्रत्ययार्थयुक्तत्वात्प्रकृतेः प्रकृताविव व्यक्तिवचने लिङ्गसङ्ख्ये भवत इति । यथा पञ्चालानां क्षत्रियाणां निवासो जनपदः पञ्चाला इति । न तु पञ्चालो जनपद इत्येकवचनम् । द्वितीयस्य तु लुबर्थविशेषणानामपि प्रकृतिवदेव लिङ्गसङ्ख्ये भवतः । जातौ तु नेति । यथा पञ्चालानां निवासो रमणीयो जनपदः पञ्चाला रमणीया इति । जातौ तु पञ्चाला जनपद इत्येवेति ॥ तदशिष्यमिति ॥ तत् प्रकृतिवल्लिङ्गसङ्ख्याविधानम् । अशिष्यं न कार्यम् । कुतः । संज्ञाप्रमाणत्वात् संज्ञारूपशब्दानां स्वार्थप्रत्यायकत्वादित्यर्थः । ये संज्ञाशब्दास्ते स्वाभिधेयगतलिङ्गसङ्ख्यापेक्षया भिन्नलिङ्गसङ्ख्या अपि स्वार्थस्य प्रतिपादका भवन्तीत्यर्थः । तथा च पञ्चालाः कुरव इत्यादिशब्दा अपि जनपदस्य संज्ञाशब्दा एवेति ‘‘आपो दारा’’ इत्यादिवच्छब्दस्वाभाव्यादेव स्वार्थं प्रतिपादयिष्यंतीति तदर्थं न यतितव्यमिति भावः । गौतमसूत्रेषु न्यायसूत्रेषु । तदप्रामाण्यं वेदाप्रामाण्यम् । कुतः । अनृतादिदोषेभ्यः । ‘‘पुत्रकामः पुत्रेष्ट्या यजेते’’ति वाक्योक्तफलस्य पुत्रेष्टौ कृतायामपि पुत्रजन्मनोऽनुपलम्भात् । ‘‘उदिते होतव्यमनुदिते होतव्य’’मित्यादौ व्याघातः । ‘‘कुवित्सोमस्यापा’’मित्यादौ पुनरुक्तिः । ‘‘शरण्वेवे’’त्यादौ निरर्थकत्वम् । ‘‘अग्निर्हिमस्य भेषज’’मित्यादौ ज्ञातज्ञापकत्वमित्येवंरूपदोषेभ्य इत्यर्थः । आद्यस्य परिहारः कर्मेति ॥ कर्मवैगुण्यात्कर्तृवैगुण्यात्साधनवैगुण्यादित्यर्थः । व्याघातस्य परिहारोऽभ्युपेतेति ॥ तत्तदधिकार्यभ्युपेतकालभेदे कालव्यत्यासे । ‘‘प्रातः प्रातरनृतं ते वदन्ति पुरोदयाच्च जुह्वति येऽग्निहोत्र’’मिति दोषवचनात्तत्तदधिकार्यादिभेदेन व्याघातादित्यर्थः । पुनरुक्तेः परिहारोऽनुवादोपपत्तेश्चेति ॥ गुणादिविधानान् न व्यर्थमिति भावः ।
चन्द्रिकाविवृतिः
सूत्राष्टकेनेति ॥ “सूत्रनवकेनेति पाठः साधुः । सूत्राष्टकेनेति क्वाचित्कः पाठः लेखकदोषमूल” इति चन्द्रिकाप्रकाशे) केवाम् अत्र यद्यप्यवस्थितिवैशेष्यादि-त्यादिसूत्रेण सह सूत्रनवकमस्ति । अष्टकत्त्वं च एतद्भाष्यगत्या आलोचनेनोपपादनीयमिति नास्माभिरुप-पाद्यते । ननु तेषामधिकरणानां न जीवगतौ तात्पर्यमित्यत आह ॥ तत्तदधिकरणोदाहृतेति ॥ अतिसाहसत्वादिति ॥ जीवस्य गत्यादिकं वदतः सूत्रकारस्याणुत्त्वमभिप्रेतमेव । तद्विरुद्धं वदतस्तवैवातिसाहसमिति भावः ॥ ननु यत् कर्मफाभोगार्थं गमनं, यच्च मुक्तयर्थम् अर्चिरादिमार्गेण गमनं तदुभयमपि बुद्धिगतमेव न जीवगतम् । येन जीवाणुत्त्वविनाभूतगत्यादिन्यायोपबृंहितानामित्यर्थः ॥ ननु चेदित्यादिशङ्काािङ्गाभावेऽप्युत्तरसूत्रैः परिहारकथनान्यथानुपपत्या पूर्वसूत्राणां पूर्वपक्षसूत्रत्वं ज्ञायत इत्यत आह ॥ उत्तरसूत्रेष्वनुक्तपरिहाराणामिति ॥ शङ्कांशेनोक्तं महत्त्वं सिद्धान्तः । सिद्धान्तांशेन प्रतिपादितमणुत्त्वं पूर्वपक्ष इति अतीव विरुद्धमित्यभिप्रेत्याह ॥ कथं च नाणुरिति ॥ ननु कथं परिहारो नोक्तः सूत्रकारेण । अनेकैः सूत्रैः पूर्वपक्षे कृते मया परिहारस्य मदीयभाष्ये प्रदर्शितत्वादित्यत आह ॥ किं तु त्वयैवेति ॥ नन्वहमस्मि सूत्रव्याख्याता । तथा च कथं मया सूत्राणि दूषितानीत्युच्यत इत्यत उक्तम् ॥ सूत्रव्याख्यानव्याजेनेति ॥ व्याख्यानं व्याजमात्रम् । वस्तुतस्तु सूत्राणीमानि दूषणीयानीत्येव तवाशय इत्याशयः ॥
ननु चेदित्यादिशङ्काािङ्गाभावेऽपि जैमिनिव्याकरणगौतमसूत्राणां केषांचित्पूर्वपक्षसूत्रत्वं दुष्टमेवेत्याशङ्क्य तत्रोत्तरसूत्रैरेव परिहारकथनलिङ्गेन पूर्वपक्षसूत्रत्त्वाध्यवसायो युक्तः । न ह्यत्र सूत्रैरेव महत्त्वं सिद्धान्त्यत इति वैषम्यमस्तीति दर्शयितुमाह ॥ दृश्यते हीत्यादिना ॥ अत्र एतेषां सूत्राणामर्थास्तद्भाष्यादेवावगन्तुं शक्या इति गौरवभयान्नेह लिख्यन्ते ॥