०१ जीवस्यनित्यत्वसमर्थनम्

‘‘बन्धान्मोक्षं तत एवाभिवांछे’’दिति

यावदधिकरणम्

तात्पर्यचन्द्रिका

जीवस्यनित्यत्वसमर्थनम्

ॐ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॐ ॥

‘‘बन्धान्मोक्षं तत एवाभिवांछे’’दिति पूर्वोक्तानादिबन्धानन्तमोक्षाक्षेपेण पूर्वपक्षोदयात्सङ्गतिः । अत्र जीवस्य नित्यत्वश्रुतिरुत्पत्तिमत्त्वयुक्तयनुगृहीतया जीवानित्यत्वश्रुत्या बाधितोत नेति चिन्ता । (अत्र श्रुतिसमन्वयेनोक्तं ब्रह्मणः सर्वस्रष्टृत्वादिकमयुक्तमुत नेति चिन्ता । तदर्थं किं श्रुतिरप्रमाणमुत नेति । तदर्थं जीवस्य नित्यत्वश्रुतिरुत्पत्तिमत्त्वयुक्तयनुगृहीतया अनित्यत्वश्रुत्या बाधितोत नेति) तदर्थं किमुपाधिनाशे प्रतिबिम्बभूतो जीवो नश्यत्युत नेति । तदर्थं जीवप्रतिबिम्बनोपाधिः किं विनाशी बाह्योपाधिरेवोताविनाशी स्वरूपोपाधिरेवेति । ज्ञोत इत्यत्र जीवोत्पत्त्यनुत्पत्तिश्रुत्योर्विरोधे शङ्किते उत्पत्तिश्रुतिरुपाधिविषया । अनुत्पत्तिश्रुतिः स्वरूपविषयेत्युक्तम् । इह तूपाध्युत्पत्तिस्वरूपानुत्पत्तिश्रुत्योरपि विरोधः । उपाध्युत्पत्तौ प्रतिबिम्बभूतजीवानुत्पत्त्ययोगादिति शङ्किते येन स्वरूपोपाधिना जीवः प्रतिबिम्बो न तस्योत्पत्तिः । यावदात्मभावित्वात् । यस्य तु बाह्योपाधेरुत्पत्तिर्न तेन जीवः प्रतिबिम्ब इत्युच्यत इत्यपुनरुक्तिः । ‘‘आत्मा नित्यः जीवो नित्यः’’ इति पादद्वयं भारते भिन्नस्थलस्थं वाक्यद्वयम् । ततो न भारते पुनरुक्तिरित्याह ॥ वचनद्वयाच्चेति ॥ यावदधिकरणम् ॥१५॥

प्रकाशिका

‘‘तस्यानादिकर्मसम्बन्धाद्ययुक्ते’’रित्यादिपूर्वपक्षोपसंहारटीकासूचिता- माह ॥ बन्धादिति ॥ पूर्वोक्तेति ॥ पूर्वभाष्योक्तश्रुत्युक्तेत्यर्थः । पूर्वोत्तरपक्षटीकासूचिताश्चिंता आह ॥ अत्र जीवस्येति ॥ नित्यत्वश्रुतिः ‘‘सोऽनादिना पुण्येन पापेन चानुबद्धः परेण निर्मुक्त आनंत्याय कल्पत’’ इति नित्यत्वश्रुतिः ॥ अनित्यत्वेति ॥ ‘‘अन्यत्राभावाच्चे’’त्यत्र भाष्योक्तया ‘‘ब्रह्मल्लयमभ्युपैतीति श्रुत्येत्यर्थः॥ पूर्वाधिकरणोक्तेति ॥ ‘‘अविनष्टा एवोत्पद्यन्त’’ इति ‘‘ज्ञोत एवे’’त्यत्रोक्तेत्यर्थः । नित्यत्वादीत्यादिपदेनानादिपुण्यपापसम्बन्धश्रुत्येत्यर्थः । भाष्यटीकाद्युक्तमधिकरणार्थं निष्कृष्य वदन् पूर्वेणापौनरुक्तयमाह ॥ ज्ञोत इत्यत्रेति ॥ टीकाक्षरार्थमाह ॥ आत्मा नित्य इति ॥

चन्द्रिकाविवृतिः

ॐ यावदात्मभावित्वात् ॐ ॥ यावदात्मेत्यस्य गतार्थतां परिहरति ॥ ज्ञोत इत्यत्रेत्यादिना ॥ इह तूपाध्युत्पत्तीति ॥ तथा च पूर्वाधिकरणाक्षेपेण प्रवृत्तिरिति न गतार्थतेति भावः ॥